०५ वर्णोत्पत्तिनिरासः

नचोच्चारणकाल एव ..

वर्णोत्पत्तिनिरासः

मूलम्

  • नचोच्चारणकाल एव वर्णानामुत्पत्तिरिति वाच्यम् ; तदेवेदं वचनमिति प्रत्यभिज्ञाविरोधात् ।

तत्त्वमञ्जरी

ननु प्रत्युच्चारणं वर्णानामुत्पत्तिदर्शनात् तत्क्रमात्मकस्य वेदस्य कथमनुत्पत्तिरित्यत आह - न चोच्चारणेति ॥ यन्मया पुराऽधीतं ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति तदेवेदं वचनमिति प्रत्यभिज्ञाविरोधात् ।

टीका

ननु तथाऽपि नापौरुषेयत्वं वेदस्योपपद्यते, तस्य वर्णसमुदायरूपत्वात्, वर्णानां चोच्चा-रणेनोत्पद्यमानत्वात् । न चोत्पत्तिमतां समुदायिनां समुदायो नोत्पत्तिमानिति युज्यते । नच वाच्यं प्रागुच्चारणादनुपलब्धा वर्णा उच्चारणे सत्युपलब्धाः पुनर्नोपलभ्यन्त इत्येवानुभवसिद्धम्, नतु तेषामुत्पत्तिर्विनाशो वा । नचोपलब्ध्यनुपलब्धिमात्रेणोत्पत्त्याद्यध्यवसायो युक्तः । तथा सत्युपलभ्याऽनुपलब्धानां घटादीनां तदैवोत्पत्त्यादिप्रसङ्गादिति । वर्णास्तावन्न घटादिवदन्यत आगत्यान्यत्र गता अमूर्तत्वात् । तदपि गुणत्वात् । द्रव्यत्वेऽपि सर्वगतत्वात् । अणुत्वेऽ-तीन्द्रियत्वापत्तेः । मध्यमपरिमाणत्वे नित्यत्वविरोधात् । नापि केनचित् प्रागावृतत्वादनुपलब्धा आवरणापगतावुपलभ्य पुनस्तदुपनिपातान्नोपलभ्यन्ते । आवरकानुपलम्भाद्, अमूर्तत्वेनाऽ-वरणानुपपत्तेश्च । नचेन्द्रियदोषादनुपलब्धिः । वर्णान्तरोपलब्धेः । नच श्रोतुरनवधानम् । अवधानेऽप्यनुपलम्भात् । नचातीन्द्रियाः । उच्चारणेऽप्यनुपलब्धिप्रसङ्गात् । नच सहकार्यभावः । अन्वयव्यतिरेकवतस्तस्यानुपलम्भात् । उच्चारणं सहकारीति चेन्न । नकिञ्चित् (अकिञ्चित्) कुर्वतः सहकारित्वानुपपत्तेः । नच व्यञ्जकम् । भिन्नदेशत्वात् । उच्चारणं हि वक्तृवक्त्रे वर्तते वर्णास्तु श्रोतृश्रोत्रदेशे प्रतीयन्ते । नहि विभिन्नदेशयोर्घटालोकयोर्व्यङ्ग्यव्यञ्जकभावोऽस्ति । तस्मादा-गमनाद्यनुपपत्तौ उच्चारणानन्तरोपलब्धिर्वर्णानां तदुत्पाद्यत्वेनैवोपपद्यते । अन्यथा कुलाल-व्यापारानन्तरमुपलभ्यमानो घटोऽपि तदनुत्पाद्य आपद्येत । तदेवं समुदायिनां वर्णानां पुरुषव्यापारोत्पाद्यानां वीचीतरङ्गन्यायेन श्रोत्रदेशे वर्णान्तरजनकत्वं, तेषां चोपलब्धिरित्येवं तत्समुदायरूपस्य वेदस्यापि पौरुषेयत्वमेव युक्तमित्यत आह- नचोच्चारणेति ॥ सामीपिकाधिकरणे सप्तमी । उच्चारणकालानन्तरमेवेत्यर्थः । उच्चारणस्य काल उच्चारणकालः, आनन्तर्यलक्षणः सम्बन्धः षष्ठ्यर्थ इति वा । तदनन्तरमेव विनाशश्चेत्यपि द्रष्टव्यम् । कुतो न वाच्यमित्यतो व्यञ्जकभावाभावाभ्यामेवोपलम्भानुपलम्भौ, उच्चारणन्तु व्यञ्जकजनकत्वेनोपयुज्यते, व्यञ्जकाश्च ध्वनयः, ते च नाभसा इत्यादिकं वक्तुम्, अस्याश्च कल्पनाया वर्णानामनादिनित्यत्वव्यवस्थितावेव सम्भवात् तत्साधकमुत्पत्त्याद्यङ्गीकारे च बाधकं प्रमाणं हेतुत्वेनाऽह- तदेवेदमिति ॥ उच्यतेऽभि-धीयते अर्थोऽनेनेति वर्णोऽत्र वचनशब्देन गृह्यते । पूर्वं गकारं श्रुतवतः पुनस्तच्छब्दश्रवणे स एवायं गकार इति तावत् प्रत्यभिज्ञा जायते । सा च श्रुतश्रूयमाणगकाराभेदं गोचरयन्त्युच्चारणजन्यत्वं विरुणद्धि । नहि प्राक्तनस्येदानीन्तनेनोत्पत्तिर्युज्यते । एवं पूर्वं पूर्वतरमित्यनादिनित्यतैव वर्णानां प्रत्यभिज्ञया सिद्ध्यति ।

भावबोधः

तदैवोत्पत्त्यादिप्रसङ्गादिति ॥ न च वाच्यमिति पूर्वेणान्वयः । ननु परेणोच्चारणस्य वर्णकारण-त्वाङ्गीकारात् कथमुच्चारणकाले वर्णानामुत्पत्तिरित्युक्तमित्यतो व्याचश्व्े- सामीपिकाधिकरण इति ॥

भावदीपः

तथाऽपीति ॥ वेदस्यापौरुषेयत्वे प्रामाण्यहानेरभावेऽपीत्यर्थः ॥ उत्पद्यमानत्वादिति ॥ वर्णाना-मुत्पद्यमानत्वात् तत्समुदायरूपस्य वेदस्यापौरुषेयत्वं न सम्भवतीत्यभ्युपेत्योक्तम् । वस्तुतस्तु वर्णानामुत्पत्ति-विनाशवत्त्वेऽपि नियतानुपूर्वीकत्वरूपानादिनित्यत्वलक्षणापौरुषेयत्वस्य सम्भवात् । ‘वस्तुतत्वविचारकं प्रति तु वर्णानां कूटस्थनित्यत्वमुपपादितम्’ इति सुधोक्तेः, ‘अभ्युपगम्य वा इदमुक्तम्’ इति तर्कताण्डवे चोक्तेः । नच वाच्यमित्यस्योत्पत्त्यादिप्रसङ्गादितीतिपदेनान्वयः ॥ विनाशो वेति ॥ अनुभवसिद्ध इत्यनुवर्त्यम् । कुतो न वाच्यमित्यत आह पूर्ववादी- वर्णास्तावदित्यादिना ॥ असिद्धो हेतुरित्यत आह- तदपि गुणत्वादिति ॥ ज्ञेयमिति योज्यम् । रूपादिवदिति भावः ॥ अतीन्द्रियत्वेति ॥ अणुद्रव्यस्य परमाण्वादेस्तथात्वदर्शनादिति भावः ॥ नित्यत्वविरोधादिति ॥ घटादेरिवेति भावः । कुतो नापीत्यतो हेतुमाह- आवरकेति ॥ अमूर्तत्वे-नेति ॥ द्रव्यस्यामूर्तस्य परिमितपरिमाणाभावात् तादृशस्यैव घटादेरावरणदर्शनादिति भावः ॥ अतीन्द्रिया इति ॥ वर्णा इत्यनुषङ्गः । नकिञ्चिदिति नसमासः । किमप्यकुर्वत इत्यर्थः ॥ व्यञ्जकमिति ॥ उच्चारणमित्यनुषङ्गः ॥ तस्मादिति ॥ उच्चारणस्य व्यञ्जकत्वायोगादित्यर्थः ॥ तदेवमिति ॥ तत् तस्मान् नित्यत्वायोगाद् एवम् उक्तदिशा । पुरुषव्यापारोत्पाद्यानामित्यन्वयः । ननूत्पत्तिपक्षेऽपि भिन्नदेशत्वापरिहाराच्छ्रोतृश्रोत्रेणोपलब्धिः कथमित्यत आह- वीचीतरङ्गेति ॥ तटाकमध्ये पाषाणादिप्रक्षेपे सति चक्राकारतयाऽष्टदिक्सम्बन्धित्वेनोत्पन्न-तरङ्गपरम्परा तीरदेशं यथा प्राप्नोति तथैव वक्तुर्वक्त्रदेशोत्पन्नशब्दाच्छब्दान्तरं, तस्मादप्यन्यः शब्द इत्येवं श्रोत्रदेशे वर्णान्तरजनकत्वमित्यर्थः । स्त्रीरूपोऽणुतरङ्गो वीचीत्युच्यते । स्थूलः पुंतरङ्गस्तरङ्ग उच्यत इति ध्येयम् ॥ सामी-पिकाधिकरण इति ॥ द्वितीयाध्यायतृतीयपादे ‘सप्तम्यधिकरणे च’ इति सूत्रेणाधिकरणे सप्तमी भवति । चकाराद्दूरान्तिकार्थेभ्यश्च भवतीत्यधिकरणे सप्तमी विहिता । अधिकरणं च ‘आधारोऽधिकरणम्’ इति सूत्रेणोक्ताऽधारः । स चाऽधारश्चतुर्धा । औपश्लेषिकः सामीपिको विषयो व्याप्तिश्चेति । स्थाल्यां पचति, नद्यामास्ते, तर्के कुशलः, सर्वस्मिन् स्थितः, इत्युक्तत्वादिह नद्यामास्त इत्यत्रेव सामिपिकाधिकरणे सप्तमीत्युक्तम् ॥ आनन्तर्यलक्षणस्सम्बन्ध इति ॥ ‘षष्ठी स्थाने योगा’ इति सूत्रभाष्ये ‘एकशतं षष्ठ्यर्थाः’ इत्युक्तेरयमपि तन्मध्ये कश्चिदर्थ इति भावः ॥ नाभसा इति ॥ नभस्सम्बन्धिनः ॥ इत्यादिकं वक्तुमिति ॥ ‘अत आकाशगुणे शब्दे व्यज्यमाना वर्णाः’ इत्यादिना वक्तुमित्यर्थः ॥ पूर्वं पूर्वतरमिति ॥ गकारं स एवायमिति गोचरयन्ती प्रत्यभिज्ञा श्रुतश्रूयमाणगकाराभेदं गमयतीत्येवमनादिनित्यतैवेत्यर्थः।

वाक्यार्थदीपिका

(श्री.टि.)

वर्णानित्यत्ववादी वैशेषिकादिः शङ्कते- नन्विति ॥ ननु समुदायिनां वर्णानामुत्पद्यमानत्वेऽपि तत्समुदायरूपस्य वेदस्य नोत्पत्तिरिति चेत्तत्राऽह- नचेति ॥ न हीत्यर्थः । उच्चारणेनोत्पत्तिर्नास्तीति सिद्धान्ती शङ्कते- नच वाच्यमिति ॥ ननूपलब्ध्यनुपलब्धिभ्यामेवोत्पत्तिविनाशौ साध्यावित्याशङ्क्य निषेधति- नचेति ॥ उपलभ्येति ॥ आदावुपलब्धिविषयो भूत्वेत्यर्थः ॥ तदैवेति ॥ उपलब्ध्यादिसमय एवेत्यर्थः ॥ प्रसङ्गा-दिति ॥ न च वाच्यमित्यन्वयः । कुतो न वाच्यमिति चेदुच्यते । प्रागुच्चारणादनुपलब्धा वर्णा उच्चारणे सत्युपलब्धाः पुनर्नोपलभ्यन्त इत्येतावदेवानुभवसिद्धमित्युक्तं यत्तत्सत्यमेव । तथाऽप्युच्चारणानन्तरोपलब्धिर्वर्णानां तदुत्पाद्यत्वेनैवोपपद्यते नान्यथेति वक्तुं प्रसक्तप्रतिषेधं तावत्करोति- वर्णास्तावदित्यादिना ॥ उच्चारणानन्तरम् अन्यतो देशान्तरादागत्योच्चारणोपरमे सति अन्यत्र देशान्तरं प्रति गता इत्यर्थः ॥ अमूर्तत्वादिति ॥ अमूर्तानां गमनाऽगमनादिक्रियाया अयोगादित्यर्थः । स्वरूपासिद्धिपरिहारायाऽह- तदपीति ॥ अमूर्तत्वमपीत्यर्थः । वर्णा अमूर्ता गुणत्वात् । मूर्तत्वं हि इयत्ताऽवच्छिन्नपरिमाणयोगित्वं वक्तव्यम् । तच्च न सम्भवति, गुणे गुणानङ्गीकारादिति भावः । ननु वर्णानां द्रव्यत्वाङ्गीकाराद्गुणत्वं स्वरूपासिद्धमिति चेत्तत्र पृच्छामः । द्रव्यत्वे किं गगनादिवत्सर्वगतत्वमङ्गीक्रियते परमाणुवदणुपरिमाणवत्त्वं वा घटादिवन्मध्यमपरिमाणवत्त्वं वा । आद्ये सर्वगतत्वाद्गमनागमनादिक्रियाऽनुपपत्तिस्तदवस्थेत्याशयेनाऽह- द्रव्यत्वेऽपीति ॥ सर्वगतत्वान्नान्यत आगत्या-न्यत्र गता इति सम्बन्धः । न द्वितीय इत्याह- अणुत्व इति ॥ वर्णानां श्रोत्रेन्द्रियग्राह्यत्वस्यानुभवसिद्धत्वेन तद्विरोध इति भावः । नापि तृतीय इत्याह- मध्यमपरिमाणत्व इति ॥ भवदङ्गीकृतं नित्यत्वं विरुध्येतेत्यर्थः । अन्यथा घटादेरपि नित्यत्वं स्यादिति भावः ॥ प्रागिति ॥ उच्चारणात् प्रागित्यर्थः ॥ अमूर्तत्वेनेति ॥ भवन्मते वर्णानां व्याप्तद्रव्यत्वाद्गगनादिवदावरणानुपपत्तिरित्यर्थः ॥ इन्द्रियदोषादिति ॥ श्रोत्रेन्द्रियदोषादित्यर्थः । तथा चेन्द्रियदोषस्यैवाऽवरकत्वमिति भावः । वर्णान्तरेति ॥ श्रोत्रेन्द्रियस्यैव दुष्टत्वे वर्णमात्रं नोपलभ्येत । न हीदमनुभूयते । (ककारानुपलम्भेऽपि गकारोपलब्धेरनुभूयमानत्वात् ।) एकवर्णानुपलम्भेऽपि वर्णान्तरानुभवस्य सर्वजनसिद्धत्वात् । तथा च य एको वर्णो नोपलभ्यते तत्राऽवरकमिन्द्रियदोषातिरिक्तं नास्तीत्यर्थः ।

नन्विन्द्रियदोषातिरिक्तं वर्णान्तरानुपलम्भे श्रोतुरनवधानं विषयान्तरमनःसञ्चाररूपो मनोव्यासङ्ग एव निमित्तमित्याशङ्क्य निषेधति- नचेति ॥ अवधानेऽपि मनोव्यासङ्गाभावेऽपि ॥ अनुपलम्भादिति ॥ एक-वर्णोपलब्धिकाले वर्णान्तरस्येत्यर्थः ॥ अतीन्द्रिया इति ॥ उच्चारणात् प्रागतीन्द्रियत्वान्नोपलभ्यन्त इत्यर्थः । (श्री.टि.) उच्चारणेऽपीति ॥ न ह्यतीन्द्रियं कदाऽप्यैन्द्रियकं भवितुं युक्तमिति भावः ॥ सहकार्यभाव इति ॥ कारणमिति शेषः । उच्चारणात्प्राक् सहकार्यभावान्नोपलभ्यन्त इति भावः । तस्य सहकारिणः । अकिञ्चित्कुर्वत इति ॥ यद्धि कार्योत्पत्तौ किञ्चिदुपकारि तदेव हि सहकारीत्युच्यत इति भावः । नन्वकिञ्चित्कुर्वत उच्चारणस्य सहकारित्वानुपपत्तेरिति यदुक्तं तन्न । उच्चारणस्य वर्णव्यञ्जकतया उपकारित्वादकिञ्चित्करत्वाभावात् सहकारित्वोपपत्तिरित्याशङ्क्य निषेधति- न च व्यञ्जकमिति ॥ भिन्नदेशत्वादिति ॥ समानदेशयोरेव हि व्यङ्ग्यव्यञ्जकभावो दृष्ट इति भावः । भिन्नदेशत्वमेवोपपादयति- उच्चारणं हीति ॥ अन्यथेति ॥ प्रकारान्त-रानुपपत्तावुपलब्धिस्तदुत्पाद्यत्वेनैवोपपद्यत इत्यनङ्गीकार इत्यर्थः ॥ पुरुषव्यापारेति ॥ ताल्वोष्ठपुटव्यापार-जन्योच्चारणेत्यर्थः ॥ वीचीतरङ्गन्यायेनेति ॥ तरङ्गन्यायेनेत्यर्थः । यथा हि स्तिमितजलोपेतवाप्यां मध्ये पाषाणप्रक्षेपे कृते सति मण्डलाकार एकस्तरङ्गो जायते, तस्माच्च तरङ्गात्पुनस्तरङ्गान्तरं जायते , एवं क्रमेणान्तिमो मण्डलाकारस्तरङ्गस्तीरसम्बद्धो भवति । एतन्न्यायेन शब्दाच्छब्दान्तरोत्पत्तिक्रमेणोत्पन्नोऽन्तिमो वर्णात्मकः शब्द एक एव सर्वपुरुषश्रोत्रसम्बद्धो भवति । अस्मिन्पक्षे य एव शब्दस्त्वया श्रुतः स एव मयाऽपीति प्रत्यभिज्ञा प्रमैव । कदम्बमुकुलन्यायपक्षे तु दशदिक्षु दशमुकुलवद्दशदिक्षु दशशब्दसन्तानानि प्रत्येकं जायन्ते । तत्र दशदिक्षु जातेषु शब्दसन्तानेषु जातोऽन्तिमः शब्दस्तत्तद्दिगवस्थितैः पुरुषैः श्रूयते । अस्मिंश्च पक्षे य एव शब्दस्त्वया श्रुतः स एव मयाऽपीति प्रत्यभिज्ञा भ्रमरूपा इति वीचीतरङ्गन्यायकदम्बमुकुलन्याययोर्विशेषो द्रश्व्व्यः । तेषां श्रोत्रदेशोत्पन्नानां वर्णान्तराणाम् ।

ननु परेणोच्चारणस्य वर्णकारणत्वाङ्गीकारात्कथमुच्चारणकाले वर्णानामुत्पत्तिरिति समानकालत्वमुच्यत इत्यत आह- सामीपिकाधिकरण इति ॥ सामीप्यमेव सामीपिकं तद्रूपेऽधिकरण इत्यर्थः । वैयाकरणानां मते लक्षणावृत्त्यभावेन गङ्गायां घोषो, वटे गाव इत्यादौ सामीप्यरूपाधिरणे सप्तमीत्युक्त्वा गङ्गासमीपे घोषो, वट-समीपे गाव इति ‘आधारोऽधिकरणम्’ इति सूत्रव्याख्यानसमये सामीप्यादिरूपेणाऽधारश्चतुर्धेत्युक्तत्वात् । एवं च प्रकृते उच्चारणकाल इत्यस्य उच्चारणकालसमीप इत्यर्थः । उच्चारणकालसामीप्यं च अनन्तरकालस्यास्तीति भावेनाऽह- उच्चारणकालानन्तरमेवेत्यर्थ इति ॥ उच्चारणकाल इति सप्तम्या आनन्तर्यं लभ्यत इति व्याख्या-येदानीमुच्चारणकाल इत्यत्र षष्ठीविग्रहबलादेवानन्तर्यं लभ्यत इति भावेन व्याचश्व्े- उच्चारणस्य काल इति ॥ द्रष्टव्यमिति ॥ उच्चारणोपरमानन्तरमित्यर्थः ॥ नाभसा इति ॥ ते च ध्वनयो भूताकाशगुणा इत्यर्थः । तथा च भूताकाशमेव श्रोत्रं तद्गुण एव ध्वनिः, अतस्तत्प्रदेशवर्ती ध्वनिस्तदवच्छिन्नमेव वर्णं व्यञ्जयतीति न व्यङ्ग्य-व्यञ्जकयोर्भिन्नदेशत्वमिति भावः । इत्यादि इत्यादिपदेन वर्णानां कदाचिदेवोपलब्धिर्न सर्वेषां सर्ववर्णोपलब्धि-रित्यादिकं ग्राह्यम् ॥ वक्तुमिति ॥ ‘अत आकाशगुणे शब्दे’ इत्यादिनेति शेषः ॥ हेतुत्वेनेति ॥ उच्चारणकाले वर्णानामुत्पत्तिरिति न च वाच्यमित्यत्र हेतुत्वेनेत्यर्थः ॥ तच्छब्देति ॥ स चासौ शब्दश्चेति तच्छब्दो गकार-रूपशब्देत्यर्थः । कथं विरुणद्धीत्यत आह- न हीति ॥ प्राक्तनस्य गकारस्य । इदानीन्तनेनोच्चारणेन ॥ एवं (श्री.टि.) पूर्वं पूर्वतरमिति ॥ पूर्वकाले तत्पूर्वकाले चेत्यर्थः । स एवायं गकार इति प्रत्यभिज्ञा सर्वेषां जायत इति शेषः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

॥ न चोत्पत्तिमतामिति ॥ न चोत्पत्तिमतामपि समुदायिनां समुदायस्यानुत्पत्तिमत्त्वं भवि-ष्यति । अन्यथा उत्पत्तिमतां प्रवाहिणां प्रवाहस्याप्युत्पत्तिमत्त्वप्रसङ्गेन तद् अनादित्वभङ्गापातादिति वाच्यम् । तत्र प्रवाहमध्यपतितैकप्रवाहव्यक्तिसद्भावदशायामपि प्रवाहसत्त्वव्यवहारवत् प्रकृते समुदायमध्यपतितैकसमुदायि-व्यक्तिसद्भावदशायां समुदायस्यासत्त्वेन तत्रेवात्र वैवक्षिकस्यानादित्वस्यासम्भवेन वैषम्यादित्याशयात् । ननु शब्दो द्रव्यं साक्षात्सम्बद्धेन्द्रियग्राह्यत्वात् सङ्ख्यावत्त्वाच्च घटवत् । श्रोत्रं नित्यद्रव्यग्राहकं निरवयवेन्द्रियत्वान्मनो-वदित्याद्यनुमानैर्वर्णानां द्रव्यत्वस्थितेर्गुणत्वमसिद्धमित्यत आह- द्रव्यत्वेऽपीति ॥ अमूर्तत्वमिति सम्बन्धः ॥ अमूर्तत्वेनेति ॥ अङ्गुल्यादेः करणसम्बन्धितयाऽऽवरणत्वेन, आव्रियमाणसूर्याद्यपेक्षयानधिकपरिमाणस्य तदावरणत्वसम्भवेऽपि विषयसम्बन्ध्यावरणस्याऽव्रियमाणापेक्षयाऽधिकपरिमाणस्यैव तदावरणातायाः सर्वत्र दृष्टत्वेन, प्रकृते चाऽवरकत्वेन पराभिमतस्य वस्तुनो विषयसम्बन्ध्यावरणत्वेनाऽव्रियमाणवर्णापेक्षयाऽधिक-परिमाणताया वक्तव्यत्वात् । तस्याश्च वर्णानां सर्वगतत्वेनासम्भवात् । अनधिकपरिमाणया विषयसम्बन्धि-न्याऽविद्यया सर्वगतस्य ब्रह्मणोऽनावरणवदनधिकपरिमाणेनाऽवरकेण सर्वगतवर्णानामावरणानुपपत्तेरि-त्यर्थः । नन्वङ्गुल्यादिवत् करणसम्बन्धिनो दोषस्यैव वर्णाऽवरणत्वाभ्युपगमान्नोक्तानुपपत्तिरित्याशङ्क्य निषेधति- नचेन्द्रियेति ॥ न च सहकार्यभाव इति ॥ स च सहकारी, किम् उच्चारणातिरिक्तोऽभिमतः, उच्चारणमेव वेति विकल्पद्वयं मनसि निधायाऽद्यमनुपलम्भबाधेन दूषयति- अन्वयेति ॥ द्वितीयं शङ्कते- उच्चारणमिति ॥ सहकारित्वव्यापकस्य किञ्चित्कुर्वत्त्वस्योच्चारणेऽसत्त्वान्न तद्व्याप्यं सहकारित्वं तस्य सम्भवतीत्याशयेन दूषयति- अकिञ्चिदिति ॥ न चेति ॥ तथा चाऽलोकादिवद्विषयसंस्कारकत्वादुच्चारणस्य, न तत्र व्यापकीभूतस्य किञ्चित्कुर्वत्त्वस्य निवृत्तिरिति न सहकारित्वानुपपत्तिरिति भावः ॥ वीचीतरङ्गन्यायेनेति ॥ यथा वीची प्रथमोत्पन्ना वीच्यन्तरमारभते तच्च वीच्यन्तरं तरङ्गान्तरम्, तथा शब्दोऽप्याद्यः सर्वतो दिक्षु सजातीयशब्दान्तर-मारभते तदपि शब्दान्तरमिति वीचीतरङ्गन्यायेनेत्यर्थः । कदम्बगोलकन्यायेनानेकशब्दारम्भपक्षे भिन्नदिगव-स्थितयोः ‘य एव शब्दस्त्वया श्रुतः स एव मयाऽपि’ इति प्रत्यभिज्ञानुपपत्तिः । बाधकाभावाच्च न तज्जातीयविषयत्वकल्पना युक्तेत्याशयेनात्र वीचीतरङ्गन्यायस्यैवानुसरणं कृतमिति ध्येयम् ।

ननु वर्णानामुच्चारणेनोत्पत्तिं वदतोच्चारणकालानन्तरकाले तदुत्पत्तेरङ्गीकारेणोच्चारणकाले तदुत्पत्तेरनङ्गी-कारान्न तत्प्रतिषेधो युक्त इत्यतो ‘नद्यामास्ते’ इत्यत्र नदीपदवाच्यप्रवाहे आसनासम्भवेऽपि तल्लक्षिततीरस्याऽ-श्रयतया गम्यमानत्वात् सामीपिकाधिकरणत्ववद् उच्चारणकालपदवाच्यस्योच्चारणकालस्य वर्णोत्पत्त्यधि-करणत्वाभावेऽपि तल्लक्ष्यस्योच्चारणकालानन्तरकालस्याऽश्रयतया गम्यमानत्वेन सामीपिकाधिकरणत्व-सम्भवान्नद्यामिति सप्तमीवदुच्चारणकाल इति सप्तम्या अपि सामीपिकाधिकरणसप्तमीत्वेन पराभिमतोच्चारण-(पां.टि.) कालानन्तरकाले वर्णोत्पत्तिनिषेधकत्वलाभान्नानुपपत्तिरित्याशयेनाऽह - सामीपिकेति ॥ ‘लक्ष्यार्थे यत्राऽश्रयत्वप्रतीतिस्तत्सामीपिकम्’ इत्यन्यत्र स्पश्व्म् । अस्मिन् पक्षे उच्चारणकालपदस्य तत्समीपकाले लक्षणाऽऽश्रयणीया भवतीत्यपरितोषात्पक्षान्तरमाह- उच्चारणस्येति ॥ आनन्तर्यलक्षणश्चेति ॥ ‘षष्ठी स्थानेयोगा’ इति सूत्रे ‘एकशतं षष्ठ्यर्थाः’ इति महाभाष्ये ‘ते च स्वस्वामिभावादयः षष्ठीदण्डके पठिताः’ इति कैयटे चोक्तत्वादिति भावः ॥ व्यञ्जकेति ॥ तथा चानादिनित्यत्वेऽपि न सर्वदोपलब्धिप्रसङ्ग इति भावः । ननु व्यञ्जकमपि किमुच्चारणमुतान्यत् । नाऽद्यः । तस्य भिन्नदेशत्वेन तदयोगात् । नान्त्यः । वर्णसमानदेशस्यान्य-स्याभावात् । भावे वा उच्चारणवैयर्थ्यापातादित्यत आह- उच्चारणन्त्विति ॥ ननूच्चारणजन्यस्य ध्वनेर्वर्णव्यञ्जकत्वे ध्वनिना व्यक्तस्य वर्णस्य सर्वदोपलब्धिः स्यादित्यतो ध्वनीनामाशुतरविनाशित्वेन व्यञ्जकाभावान्न सर्वदोपलब्धि-प्रसङ्ग इत्याशयेनाऽह- व्यञ्जकाश्च ध्वनय इति ॥ आशुतरविनाशिन इति शेषः । ननु ध्वनीनां वायुगुणत्वेन स्पर्शनेन्द्रियग्राह्यत्वान्न श्रोत्रग्राह्यवर्णव्यञ्जकत्वम् । समानेन्द्रियग्राह्ययोर्घटदीपयोर्व्यङ्ग्यव्यञ्जकभावदर्शनेन भिन्नेन्द्रियग्राह्ययोर्ध्वनिवर्णयोस्तदयोगादित्यतो न ध्वनीनां वायुगुणत्वम् । तथा सति बधिराणामपि स्पर्शनेन्द्रि-येण शब्दोपलम्भापत्त्या बधिराभावप्रसङ्गात् । किन्त्वाकाशगुणत्वमेव । ततश्चोभयोरपि श्रोत्रग्राह्यत्वाद्युक्तो व्यङ्ग्यव्यञ्जकभाव इत्याशयेनाह- ते चेति ॥ नन्वेवमपि श्रोत्रस्याऽकाशात्मकतया निरवयवत्वेन तद्गुणस्य ध्वनेः प्रदेशवृत्तित्वानुपपत्त्या सर्वगतत्वेन सर्वत्र वर्णव्यञ्जकत्वापत्त्या देवदत्तस्य वर्णोपलम्भकाले दूरस्थानां यज्ञदत्तादीनामपि तदुपलम्भः स्यादित्यतोऽव्याकृताकाशस्य स्वतो निरवयवत्वेऽपि श्रोत्रस्य भूताकाशात्म-कत्वेनाव्याकृताकाशात्मकत्वाभावाद् भूताकाशस्य च स्वत एव सावयवत्वेन तद्गुणस्य ध्वनेः प्रदेशवृत्तित्वसम्भवेन प्रदेशवर्तिना तेन प्रदेशावच्छिन्नवर्णस्यैवाभिव्यक्तेर्वक्तव्यत्वेन सर्वत्र वर्णानभिव्यक्तेर्देवदत्तस्य तदुपलम्भसमये न यज्ञदत्तादेस्तदुपलम्भप्रसङ्ग इत्याशयेन इत्यादीत्यादिपदम् । ननु तथाऽपि ध्वनिना एकवर्णव्यक्तौ सर्ववर्ण-व्यक्त्यापत्त्या तदा गकारस्येव सर्वेषामपि वर्णानामुपलम्भः स्यादित्यतः परमते वर्णोत्पादकतयाऽभिमतोच्चार-णानामिव तद्व्यञ्जकतयाऽभिमतानां ध्वनीनामपि मन्मते प्रतिवर्णनित्यत्वेन एकेनोच्चारणेनैकस्य वर्णस्येव एकेन ध्वनिनाऽप्येकस्यैव वर्णस्याभिव्यक्त्या तदुपलम्भसम्भवेऽपि सर्वेषामनभिव्यक्तत्वान्न तदोपलम्भप्रसङ्ग इत्या-शयेनाप्युक्तमादीति ॥ वक्तुमिति ॥ ‘अत आकाशगुणे शब्दे व्यज्यमाना वर्णादयः’ इत्यादिनेति शेषः । अनादिनित्यत्वस्थितावेवेति ॥ अन्यथाऽन्योन्याश्रयप्रसङ्गादिति भावः ।

लघुप्रभा

(व्या.टि.)

ननु, वेद उत्पत्तिमान् उत्पत्तिमत्समुदायत्वात् पुलिनपुञ्जवदित्यनुमानमभिसन्धाय शङ्कते- नन्वि-त्यादिना ॥ अभिसंहिते विशेषणासिद्धिं वारयति- वर्णानां चेति ॥ हेतोरप्रयोजकतां वारयति- नचेति ॥ विपक्षे तन्नियतहेतूच्छित्तिर्बाधिकेति भावः । उच्चारणेनोत्पद्यमानत्वस्यासिद्धिं शङ्कते- नच वाच्यमिति ॥ उत्पत्तिर्विनाशो वेति ॥ अनेन विनाशिसमुदायत्वाद्विनाशित्वमप्यनुमेयमिति सूचितम् । अत्रोत्पत्तिमन्निरू-पितत्वविनाशिनिरूपितत्वयोः क्षणलवादिप्रवाहे व्यभिचारवारणाय विशेष्यम्, जीवसमुदाये तद्वारणाय (व्या.टि.) विशेषणमित्यवधेयम् । वस्तुतस्तु क्षणलवादिप्रवाहव्यावृत्तं धान्यराशिसाधारणं क्रमिकवर्णसमुदाये वेदे समुदायत्वं कथं निर्वाच्यमिति नैयायिकाः प्रष्टव्याः । तदनन्तरमुपलब्ध्यनुपलब्धी एव तदुत्पत्तिविनाशहेतू स्यातामित्यत आह- तथा सतीति ॥ घटादौ व्यभिचारान्नैतौ हेतू इति भावः । वर्णा उच्चारणेनोत्पद्यन्ते उच्चारणात् प्रागनुपलभ्यमानत्वे सत्युच्चारणानन्तरम् अनन्यथासिद्धोपलम्भात्, यद् यद्व्यापारात् प्रागनुपलभ्यमानत्वे सति यद्व्यापारानन्तरमुपलभ्यते तत् तद्व्यापारोत्पाद्यम्, यथा कुलालव्यापारजन्यो घटः । वर्णा विनाशिन उच्चारणोप-रमे सत्यनन्यथासिद्धानुपलम्भादिति च प्रयोगद्वयमभिधित्सुरादौ तावद्धेत्वोर्विशेषणासिद्धिं वारयति- वर्णा इत्यादिना ॥ उपलम्भानुपलम्भयोरन्यथासिद्धिर्यथायोगम् अन्यतो गत्यागतिभ्याम्, आवरणानावरणाभ्यां वा, इन्द्रियदोषभावाभावाभ्यां वा, अनवधानावधानाभ्यां वा, सहकारिभावाभावाभ्यां वा, व्यञ्जकभावाभावाभ्यां वा इति विकल्प्य क्रमेण दूषणान्याह- तावदित्यादिना ॥ हेत्वसिद्धिमाशङ्क्य साधयति- तदपीति ॥ गुणत्वा-दिति ॥ शब्दो गुणो बहिरिन्द्रियव्यवस्थाहेतुत्वाद्रूपादिवदित्यनुमानात् तत्सिद्धिरिति भावः । तथा च गुणस्य निष्क्रियत्वाद्गत्यनुपपत्तिरिति हृदयम् । शब्दो न गुणः श्रोत्रग्राह्यत्वाद् शब्दत्ववदिति, शब्दो द्रव्यं साक्षात्सम्बन्धे-नेन्द्रियग्राह्यत्वाद्घटवदिति चानुमिमानं मीमांसकं प्रत्यसिद्धिरित्यत आह- द्रव्यत्वेऽपीति ॥ द्रव्यत्वे परिमाणं नियतं, तस्य तल्लक्षणत्वात्, सर्वगतत्वं तु कुत इत्यतः परिशेषसिद्धं तदिति विवक्षुः प्रसक्तपरिमाणद्वयं क्रमेण निरस्यति- अणुत्व इत्यादिना ॥ नित्यत्वविरोधादिति ॥ तस्य तदभावव्याप्तत्वादिति भावः ।

द्वितीयं दूषयितुमुपक्षिपति- नापीति ॥ अनुपलम्भादिति ॥ प्रत्यक्षादिप्रमाणैरिति शेषः । साधका-भावमुक्त्वा बाधकमप्याह- अमूर्तत्वेनेति ॥ अल्पस्य ततोऽधिकमावरणं यथा पटलादि । श्रुतं च ‘आत्तं वै भूयसा कनीयः’ इति । सर्वगतस्य ततोऽधिकपरिमाणाभावेनाऽवरणासम्भवः । तृतीयं पराह- नचेति ॥ अनुपलब्धिरिति ॥ उच्चारितस्योच्चारणोपरमे सतीति शेषः ॥ वर्णान्तरेति ॥ पूर्ववर्णानुपलम्भदशायामेवेति शेषः । प्रतिनियतप्रतिबन्धकप्रतिबध्यत्वे गौरवादिति भावः । तुरीयं निरस्यति- नच श्रोतुरिति ॥ अनुप-लम्भादिति ॥ श्रुतपूर्वस्येति शेषः ॥ अतीन्द्रिया इति ॥ अनुपलम्भमात्रान्यथासिद्धिवर्णनमिदम् ॥ उच्चा-रणेऽपीति ॥ स्वभावस्यानागन्तुकत्वेनानपायादित्यर्थः । पञ्चमं निराह- नच सहकारीति ॥ वर्णोपलम्भक-श्रोत्रस्येति शेषः ॥ अकिञ्चिदिति ॥ ताच्छीलिकणिनेरयोगादिति भावः । षष्ठं निराह- नच व्यञ्जकमिति ॥ वर्णानामिति शेषः । एतदुपपादयति- उच्चारणमिति ॥ हेतोरप्रयोजकत्वं परिहरति- नहीति ॥ तदेवमनन्यथा-सिद्धानन्तरोपलब्धिरुत्पाद्यत्वमेव गमयतीति निगमयति- तस्मादिति ॥ विपक्षे बाधकमाह- अन्यथेति ॥ एवमनन्यथासिद्धानन्तरोपलब्धिर्विनाशेनैवोपपद्यते । अन्यथा उपलभ्य मुद्गरप्रहारानन्तरमनुपलभ्यमानो घटादि-रप्यविनाश्यापद्येत इत्यपि संयोज्यम् । वीची अल्पतरङ्गः । नन्वन्यथाऽनुवादोऽयम् । न ह्युच्चारणसमये वर्णोत्पत्ति-स्तैरुक्ता । तैरुच्चारणजन्यत्वाभिधानात् । जन्यजनकयोः पौर्वापर्यावश्यम्भावादित्यत आह- सामीपिकेति ॥ औपश्लेषिकमभिव्यापकं वैषयिकं सामीपिकं चेति चतुर्विधाधिकरणे, वटे गावः सुशेरत इतिवत् सामीपिकमत्र (व्या.टि.) विवक्षितमित्यर्थः । न च गङ्गायां घोष इत्यादौ लक्षणोच्छेदाऽपत्तिः । अव्यवहितसामीपि-काधिकरणस्य सप्तमीवाच्यतया लक्षणाऽभावेऽपि व्यवहितसमीपे, औपश्लेषिकत्वविवक्षायां वा प्रकृतिलक्षणो-पपत्तेः । केचिदत्रापि प्रकृतेर्लक्षणेत्याहुः । आनन्तर्यं विभक्त्यर्थतया व्याख्याय समासार्थतयाऽपि व्याचश्व्े- उच्चारणस्येति ॥ उत्पत्तिरित्युपलक्षणमित्याह- तदनन्तरमेवेति ॥ उत्पत्त्यनन्तरकालमेवेत्यर्थः ॥ वक्तु-मिति ॥ ‘अत आकाशगुणे शब्दे’ इत्यादिनेति शेषः । यद्यपि वैशेषिकमते ये वर्णा उच्चारणोत्पाद्या न ते श्रोत्रेणोपलभ्यन्ते । ये च श्रोत्रदेशे श्रोत्रेणोपलभ्यन्ते न ते उच्चारणजन्या इति, वर्णा उच्चारणजन्या अनन्यथा-सिद्धोच्चारणानन्तरोपलब्धेरिति पराभिमतहेतुसाध्ययोर्वैयधिकरण्यम् । ‘श्रोत्रग्राह्यो गुणः शब्दः’ इति लक्षणासम्भवश्चेति दोषः स्फुरति । तथाऽपि स शिष्यैरेवोह्यतामिति नोक्तम् । वचनपदस्य वाक्यपर्यायता-भ्रमव्युदासाय व्याचश्व्े- उच्यत इति ॥ नन्वनया प्रत्यभिज्ञया श्रुतश्रूयमाणवर्णाभेदसिद्धावपि कथमनादिनित्यत्व-सिद्धिरित्यतस्तत्प्रकारं दर्शयति- एवमिति ॥ श्रुतगकारस्य पूर्वपूर्वतरकाले उत्तरोत्तरकालेऽपि प्रत्यभिज्ञया ज्ञायमानतयाऽनादिनित्यत्वसिद्धिरित्यर्थः ।