०१ प्रामाण्यस्वतस्त्वसमर्थनम्

प्रामाण्यं च स्वत एव ..

प्रामाण्यस्वतस्त्वसमर्थनम्

मूलम्

***- प्रामाण्यं च स्वत एव । अन्यथाऽनवस्थानात् । ***

तत्त्वमञ्जरी

ननु वेदस्यापौरुषेयत्वे प्रामाण्यनिश्चयो न स्यात् । पौरुषेयत्वे तु तदाप्तिमूलत्वेन सम्भवतीत्यत आह - प्रामाण्यं चेति ॥ अन्यथा, प्रमाणस्य परतःप्रामाण्याङ्गीकारे तस्यापि परतस्तस्यापि परत इत्यनवस्था स्यात् ।

टीका

यदुक्तं वाक्यत्वाद्यनुमानं विपक्षे बाधकाभावादप्रयोजकमिति । तदसत् । तथाहि । संवादेन खलु प्रमाणानां प्रामाण्यमनुमातव्यम् । संवादश्च सजातीयेन विजातीयेन वा भवति । तत्र वेदस्य न तावत्सजातीयसंवादोऽस्ति । ‘सदागमैकविज्ञेयम्’ इति तद्विषयस्य प्रमाणान्तरागोचरत्वा-भ्युपगमात् । नाप्यर्थक्रियासामर्थ्यादिकं विजातीयमस्ति । मोक्षादेः प्रत्यक्षाद्यवेद्यत्वात् । तथाचाऽप्तोक्तत्वेनैव तत्प्रामाण्यमनुमातव्यम् । प्रमाणजन्यत्वेनैव तज्जन्यज्ञानप्रामाण्यमपि । तथाचाऽह कणादः ‘तद्वचनादाम्नायप्रामाण्यम्’ इति । अक्षपादोऽपि ‘तत्प्रामाण्यमाप्तप्रामाण्यात्’ इति । ततश्च वेदस्याकर्तृकत्वे प्रामाण्यासिद्धिप्रसङ्गस्य बाधकस्य विद्यमानत्वात् कथमप्रयोजकत्वं वाक्यत्वाद्यनुमानस्य । अत एवाकर्तृकत्वाद्यनुमानमपि प्रतिकूलतर्कपराहतम् । उपाधेरपि साध्यव्यापकताभङ्गः सिद्ध्यति । यथोक्तम्-

‘अनुकूलेन तर्केण सनाथे सति साधने ।

साध्यव्यापकताभङ्गात्पक्षे नोपाधिसम्भवः ॥’ इति ।

तत्राऽह- प्रामाण्यं चेति ॥ सर्वेषामपि ज्ञानानां यथार्थत्वलक्षणं प्रामाण्यं स्वत एव ज्ञान-ग्राहकेणैव गृह्यत इति शेषः ।

एतदुक्तं भवति । भवेदेवं यदि ज्ञानं मनसाऽवसेयं तदीयं याथार्थ्यमुक्तविधया संवादेनानुमेय-मिति परतः प्रामाण्यग्रहणं स्यात् । न चैवम् । किं नाम, ज्ञानं साक्षिप्रत्यक्षवेद्यम् । तच्च वक्ष्यते । तत्प्रामाण्यमपि साक्षिप्रत्यक्षवेद्यमेव । इन्द्रियलिङ्गशब्दानां तु यथार्थज्ञानसाधनत्वलक्षणं प्रामाण्य-मन्वयव्यतिरेका(क समधिगम्यं)वसेयम् । तथाच कुत्रापि प्रामाण्यग्रहणे नाऽप्तोक्तत्वादेरुपयोग इति ।

ज्ञानग्राहकमात्रेणैव तत्प्रामाण्यग्रहणमित्येतत् कुत इत्यत आह- अन्यथेति ॥ प्रामाण्यं तावदवश्यं केनचित्प्रमाणेन ज्ञातव्यम् । अन्यथा तदभावप्रसङ्गात् । नच ज्ञानग्राहकातिरिक्तेन तद्ग्रहणं सम्भवति । तत्प्रामाण्यस्याप्यन्येन ग्रहणाङ्गीकारेऽनवस्थानात् । तस्य स्वतस्त्वे प्रथमस्यैव तथात्वाङ्गीकारोपपत्तेः । अतः परिशेषात् स्वतस्त्वसिद्धिः ।

तथा च प्रयोगः । ज्ञानगतं याथार्थ्यं तद्ग्राहकेणैव ग्राह्यम् । ग्राहकान्तरानुपपत्तौ सत्यां गृह्यमाण-त्वात् । यद्यतोऽन्येनानुपपद्यमानग्रहणं गृह्यते तत्तेनैव ग्राह्यम् । यथा चक्षुषोऽन्येनानुपपद्यमान-साक्षात्कारं साक्षात्क्रियमाणं रूपं चक्षुषैव साक्षात्क्रियत इति । नच विशेषणासिद्धिः । ग्राहकान्तर-स्यानवस्थाप्रसङ्गेन निरस्तत्वात् । नच साक्षिवेद्यत्वेऽप्यनवस्थाप्रसङ्गः समान एवेति वाच्यम् । साक्षी स्वयंप्रकाशः स्वात्मानं स्वप्रामाण्यं च गोचरयतीत्यङ्गीकारात् । ज्ञानस्यैव तथाभावोऽभ्युप-गम्यतामिति चेत्, अन्तःकरणवृत्तेर्ज्ञानस्य जडत्वेन स्वयम्प्रकाशत्वायोगादिति ।

ननु प्रामाण्यं परतो ज्ञायतेऽनभ्यासदशायां सांशयिकत्वादप्रामाण्यवत् । अप्रामाण्यं हि ज्ञानग्राहकातिरिक्तेन विसंवादादिना लिङ्गेनानुमेयमित्यतो वाऽह- अन्यथेति ॥ अनवस्थालक्षण-प्रतिकूलतर्कपराहतमनुमानमित्यर्थः ।

भावबोधः

॥ संवादश्च सजातीयेन विजातीयेन वा भवतीति ॥ सजातीयसंवादो नाम साक्षात्स्वविषय-विषयकप्रमाणान्तरव्यवस्थापितविषयत्वम् । विजातीयसंवादो नाम स्वविषयघटितस्वगतप्रामाण्यग्राहकप्रमाण-व्यवस्थापितविषयत्वमिति द्रष्टव्यम् । ननु वेदस्याऽप्तोक्तत्वाभावेऽपि यथार्थज्ञानजनकत्वलक्षणं प्रामाण्यं यथार्थज्ञानान्वयव्यतिरेकाभ्यामनुमातुं शक्यत इति (कथम्) न वेदप्रामाण्यसिद्धिस् तत्सकर्तृकत्वमाक्षिपतीत्यत आह- प्रमाणजन्यत्वेनैवेति ॥ स्यादेतदेवम्, यदि वेदजन्यज्ञानप्रामाण्यस्य प्रमाणभूतवेदजन्यत्वं विनाऽन्यतः सिद्धिः स्यात् । न चैवम् । प्रमाणभूतवेदजन्यत्वेनैव तत्सिद्धेः । तथा च तदन्वयव्यतिरेकाभ्यां वेदप्रामाण्यानु-मानेऽन्योन्याश्रयः स्यादित्यर्थः ॥ साक्षिप्रत्यक्षवेद्यमेवेति ॥ तथा च नान्योन्याश्रय इ(त्यर्थः)ति भावः । अंशे बाधनिवारणार्थं प्रामाण्यं विशिनश्व्-ि ज्ञानगतमिति ॥ ज्ञानग्राहकेणैव ग्राह्यमिति ॥ पद्धत्युक्तरीत्या ज्ञानज्ञापकातिरिक्तज्ञापकानपेक्षत्वं यदि स्वतस्त्वं तदा एवकारोऽन्ययोगव्यवच्छेदपरः । तेनात्रापि ज्ञानग्राहकाति-रिक्ताग्राह्यत्वं पर्यवस्यति । अत्र च ग्राहकपदं संशयविरोध्यलौकिकप्रत्यासत्त्यजन्यप्रत्यक्षपरम् । तदतिरिक्ता-ग्राह्यत्वं तु नियमेन तदतिरिक्तग्राह्यत्वाभावः । एतेनानुमित्यादिवेद्यत्वेऽपि प्रामाण्यस्य नानुपपत्तिः । अत्र यद्यप्येवकारं विना उक्तप्रत्यक्षग्राह्यत्वसाधनेनैव स्वतस्त्वसिद्धिः । तथाऽपि परमतनिषेधार्थं विशिष्टसाध्यकर-णम् । तद्धि त(था)दा भवति, यदि यद्रूपं परतस्त्वे साध्यतावच्छेदकं तद्रूपावच्छिन्नाभावः साध्यते (ध्येत) । परेण तु (तूत्तरत्र) ‘लौकिकप्रत्यक्षातिरिक्तनियतग्राहकग्राह्यत्वं परतस्त्वम्’ इत्युक्तम् । अत एवोक्तं पद्धतौ ‘ज्ञानज्ञापकातिरिक्तप्रमाणापेक्षत्वं ज्ञप्तौ परतस्त्वम्’ इति । अन्यथा स्वतस्त्वनिरुक्तौ तदभावस्य परतस्त्वरूपत्वे पृथक् परतस्त्वनिर्वचनायोगः । अत्रापि ‘प्रामाण्यं स्वतः’ इत्यंशलब्धप्रामाण्यस्वतस्त्वे हेतुविशेष(णसिद्ध्यर्थ)-णासिद्धिनिरासार्थत्वेन ‘अन्यथाऽनवस्थानात्’ इति वाक्यं व्याख्याय एवशब्दसूचितपरतस्त्वनिषेधसाधकत्वेन तद्वाक्यं व्याख्यातम् । स्वमते तु प्रामाण्ये स्वतस्त्वं संशयविरोध्यलौकिकप्रत्यासत्त्यजन्यप्रत्यक्षवेद्यत्वम् । अत्रेश्वरप्रत्यक्षवेद्यत्वेन सिद्धसाधनं स्यादिति प्रत्यक्षे संशयविरोधीति विशेषणम् । योगिज्ञानादिना तन्मा भूदित्य-लौकिकप्रत्यासत्त्यजन्येति विशेषणम् । अनुमित्यादिना तद्वारणाय प्रत्यक्षपदम् । एतादृशं च प्रत्यक्षं स्वमते साक्षिरूपं परमते त्वनुव्यवसायादिरूपमित्यन्यदेतत् । यदि तु ग्रन्थान्तररीत्या ज्ञानग्राहकेण गृह्यत एवेति स्वतस्त्वनिर्वचनं तदा एवकारो भिन्नक्रमः सन् यावदर्थको बोद्धव्यः । ज्ञानग्राहकञ्चोभयसिद्ध-प्रामाण्यग्राहकभिन्नत्वेन विवक्षितम् । तेन दोषाभावे सति ज्ञानप्रत्यक्षवेद्यत्वं स्वतस्त्वं पर्यवस्यतीति दिक् ।

भावदीपः

॥ सजातीयेन विजातीयेन वेति ॥ साक्षात्स्वविषयं प्रमाणान्तरं सजातीयम् । तदन्यन्मानं विजातीयं ज्ञेयम् ॥ अर्थक्रियेति ॥ फलनिष्पादनशक्तत्वमर्थक्रियासामर्थ्यम् । फलवत्प्रवृत्तिजनकत्वादृष्ट-करणकत्वादिरादिपदार्थः ॥ प्रत्यक्षाद्यवेद्यत्वादिति ॥ आगमैकवेद्यत्वात्तस्य । तथा च तज्जननशक्तिर्दुर्ज्ञेयेति भावः ॥ प्रामाण्यमपीति ॥ अनुमातव्यमित्यनुषङ्गः ॥ तद्वचनादिति ॥ ईश्वरवचनादित्यर्थः ॥ ततश्चेति ॥ आप्तोक्तत्वेनैव वेदप्रामाण्यस्यानुमातव्यत्वे सतीत्यर्थः ॥ अत एवेति ॥ अपौरुषेयत्वे प्रामाण्यासिद्धि-प्रसङ्गादेवेत्यर्थः ॥ अकर्तृकत्वाद्यनुमानमपीति ॥ अप्रमितकर्तृकत्वाविच्छिन्नपरम्परत्वनियतैकप्रकारकत्वा-प्रणीतत्वाद्यनुमानमपीत्यर्थः ॥ उपाधेरिति ॥ अकर्तृकत्वप्रसिद्ध्यभावरूपोपाधेरपीत्यर्थः । अत एवेत्यनुषङ्गः। कथमित्यतस्तार्किकोक्तमाह- यथोक्तमिति ॥ साध्यव्यापकताभङ्गात्पक्ष इति ॥ अनुकूलतर्कसनाथसाधनेन पक्षे साध्यनिश्चये सति तत्रोपाधेस्साध्य-व्यापकत्वाभावादिति भावः । करणप्रामाण्यस्य धर्मिग्राहकग्राह्यत्वरूप-स्वतस्त्वाभावादाह- सर्वेषामपि ज्ञानानामिति ॥ यथार्थत्वेति ॥ साक्षाद्यथावस्थितज्ञेयविषयीकारित्व-रूपमित्यर्थः । तावता कथमुक्तशङ्कापरिहार इत्यत आह- एतदुक्तमिति ॥ भवेदेवमिति ॥ अपौरुषेयत्वे वेदस्य प्रामाण्यासिद्धिप्रसङ्गरूपो दोषो भवेदित्यर्थः ॥ वक्ष्यत इति ॥ बुद्धिदोषेति वाक्यव्याख्यावसरे ‘अयमभिसन्धिः’ इत्यादिग्रन्थेनेति वा ‘ज्ञानाज्ञानसुखदुःखात्मभेदादिविषयस्यानुभवस्य’ इति मूलकृतैव परिच्छेदान्ते वा वक्ष्यत इत्यर्थः ॥ अन्वयेति ॥ प्रमान्वयव्यतिरेकेति वा अपवादाभावे केवलज्ञानान्वयव्यति-रेकावसेयमित्यर्थः ॥ परिशेषादिति ॥ अवश्यग्राह्यत्वस्य परतः स्वतो वेति सम्भावितकोटिद्वयमध्येऽनवस्था-दोषेण परतोऽसम्भवे ज्ञानग्राहकमात्रग्राह्यत्वरूपस्वतस्त्वे पर्यवसानेन परिशेषप्रमाणात् स्वतस्त्वसिद्धिरित्यर्थः। तथा चेति ॥ अनुकूलतर्कादौ सतीत्यर्थः । अप्रामाण्येऽनैकान्त्यनिरासाय ग्राहकान्तरानुपपत्तौ सत्यामित्युक्तिः। अनुपपद्यमानग्रहणमिति बहुव्रीहिः । एवमग्रेऽपि ज्ञेयम् । ग्रहणमित्यत्र साक्षात्कारमित्यत्र च सदिति शेषः । ज्ञानस्यैवेति ॥ वृत्तिरूपज्ञानस्यैवेत्यर्थः ॥ परत इति ॥ ज्ञानग्राहकादन्येनेत्यर्थः ॥ अनभ्यासेति ॥ परिचित्यभाववेलायां दूरे जलादिज्ञाने सतीदं ज्ञानं प्रमाणं न वेति संशयविषयत्वादित्यर्थः । अभ्यासदशापन्न-ज्ञानप्रामाण्येऽसिद्धिनिरासाय विशेषणम् । दृष्टान्ते साध्यानुगतिं व्यनक्ति- अप्रामाण्यं हीति ॥ विसंवादि-नेति ॥ दुष्टकरणजन्यत्वादिरादिपदार्थः ।

वाक्यार्थदीपिका

(श्री.टि.)

॥ संवादश्च सजातीयेन विजातीयेन वेति ॥ साक्षात्स्वविषयविषयकमानान्तरसंवादो हि सजातीयसंवादः । स्वशब्देनेदं जलमिति ज्ञानं, तद्विषयो जलं, तद्विषयकं यन्मानान्तरम् इदं जलमिति ज्ञानान्तरं, तत्संवादस्सजातीयसंवादः । स्वनिष्ठप्रामाण्यव्यवस्थापनद्वारा स्वविषयविषयकमानान्तरसंवादो विजातीय-संवादः । स्वशब्देनेदं जलमिति ज्ञानम् । तन्निष्ठं यत्प्रामाण्यं यथावस्थितार्थज्ञेयविषयीकारित्वरूपं तद्व्यवस्थापन-(श्री.टि.) द्वारा, इदं जलमिति ज्ञानविषयभूतं जलविषयकं यन्मानान्तरम्, इदं जलमिति ज्ञानं प्रमाणं समर्थ-प्रवृत्तिजनकत्वादित्यनुमानरूपं तत्संवादो हि विजातीयसंवादः । इदमनुमानं यथावस्थितार्थज्ञेयविषयीकारित्वरूप-प्रामाण्यविषयीकरणद्वारा जलसत्तावगाहि । उक्तरूपप्रामाण्यस्यार्थसत्ताघटितत्वादिति द्रष्टव्यम् ॥ तद्विषय-स्येति ॥ वेदप्रतिपाद्यस्येश्वरादेरित्यर्थः ॥ अर्थक्रियासामर्थ्येति ॥ समर्थप्रवृत्तिजनकत्वमित्यर्थः । मोक्षादे-रिति ॥ मोक्षस्वर्गादिरूपार्थक्रियाया इत्यर्थः । प्रमाणजन्यत्वेनैवेति ॥ वेदप्रामाण्यस्याऽप्तोक्तत्वेनैवानुमेयत्वाद् वेदस्याकर्तृकत्व आप्तोक्तत्वगुणाभावेन तत्प्रामाण्यासिद्धौ प्रमाणजन्यत्वाभावेन वेदजन्यज्ञानप्रामाण्यमपि न सिद्ध्येत् । न चान्यत एव तत्सिद्धिरिति वाच्यम् । प्रमाणजन्यत्वेनैव तस्यानुमेयतया तदतिरिक्तोपायान्तरा-भावादित्यर्थः । अत एव सिद्धान्ते ज्ञानग्राहकग्राह्यत्वोक्त्योपायान्तरं वक्ष्यत इति द्रष्टव्यम् ।

भावबोधे तु ‘‘ननु वेदस्याऽप्तोक्तत्वाभावेऽपि यथार्थज्ञानजनकत्वलक्षणं प्रामाण्यं यथार्थज्ञानान्वय-व्यतिरेकाभ्यामनुमातुं शक्यत इति न वेदप्रामाण्यसिद्धिस्तत्सकर्तृकत्वमाक्षिपतीत्यत आह- प्रमाणजन्यत्वेनै-वेति ॥ स्यादेतदेवं यदि वेदजन्यज्ञानप्रामाण्यस्य प्रमाणभूतवेदजन्यत्वं विनाऽन्यतस्सिद्धिः स्यात् । न चैवं, प्रमाणभूतवेदजन्यत्वेनैव तत्सिद्धेः । तथा च तदन्वयव्यतिरेकाभ्यां वेदप्रामाण्यानुमानेऽन्योन्याश्रयः स्यादित्यर्थः’ इति व्याख्यातम् ।

॥ तद्वचनादिति ॥ ईश्वरवचनत्वादित्यर्थः । तेनेश्वरेण प्रणयनादिति वा ॥ तत्प्रामाण्यमिति ॥ आप्तस्ये-श्वरस्य प्रामाण्यात् प्रमाश्रयतया प्रमाणभूतेनाऽप्तेनोक्तत्वादिति यावत्, तस्य वेदस्य प्रामाण्यं सिद्धमित्यर्थः । अत एवेति ॥ सकर्तृकत्वानुमानेऽप्रयोजकत्वाभावादेवेत्यर्थः ॥ प्रतिकूलतर्केति ॥ सकर्तृकत्वानुमानेऽ-प्रयोजकत्वशङ्कापरिहारकबाधकतर्कस्यैवाकर्तृकत्वानुमाने प्रतिकूलतर्कत्वादित्यर्थः ॥ उपाधेरपीति ॥ अनुकूल-तर्केण पक्षीभूते वेदे सकर्तृकत्वस्यैव सिद्धत्वेनाकर्तृकत्वप्रसिद्ध्यभावरूपोपाधेः पक्ष एव व्यभिचारात्साध्य-व्यापकताभङ्गः सिद्ध्यतीत्यर्थः । नन्वनुकूलतर्कसिद्धसकर्तृकत्वोपेते पक्षीभूते वेदे कथमेतदुपाध्यभावसिद्धिः । अकर्तृकत्वप्रसिद्ध्यभावाभावेऽकर्तृकत्वप्रसिद्धिमत्त्वस्यैव प्राप्त्या विरोधादिति चेन्न । अकर्तृकत्वप्रसिद्धि-मत्त्वस्यानुपलभ्यमानप्रत्यक्षादिप्रमाणमूलकत्वरूपत्वेन व्याख्यातत्वात् । अस्य च सकर्तृकत्वेऽप्युपपत्तेः । ईश्वरप्रत्यक्षस्य प्रमाणत्वाभावादित्यवगन्तव्यम् । १मानसं मनः ॥ तच्चेति ॥ ज्ञानस्य साक्षिवेद्यत्वमित्यर्थः ॥ अन्वयेति ॥ सति निर्दुष्टेन्द्रियादौ यथार्थं ज्ञानमुत्पद्यतेऽन्यथा तु नेत्यन्वयव्यतिरेकगम्यमित्यर्थः ॥ कुत्रा-पीति ॥ ज्ञाने करणे वेत्यर्थः ।

वक्ष्यमाणानुमाने विशेष्यासिद्धिं परिहरति- प्रामाण्यमिति ॥ तदभावेति ॥ वस्तुसिद्धेर्ज्ञानाधीनत्वादिति भावः । वक्ष्यमाणप्रयोगे विशेषणासिद्धिं परिहरति- न चेति ॥ अतिरिक्तेन अनुमानादिना । ननु कियद्दूरं (श्री.टि.) गत्वा तत्प्रामाण्यस्य स्वतस्त्वमङ्गीक्रियत इति नानवस्थेत्यत आह- तस्येति ॥ अनुपपद्यमानग्रहणं सत् । ज्ञानस्यैवेति ॥ त्रिपुटीप्रत्यक्षवादिनः प्राभाकरस्य मते आत्मांशः स्वात्मांशो वेद्यांशश्चेत्यंशत्रयं ज्ञाने प्रतीयते । इदमहं जानामीति हि तन्मते ज्ञानाकारः । तथा च ज्ञानस्यैव स्वप्रकाशत्वमङ्गीकृत्य तथाभावः स्वात्मगोचरत्वं स्वप्रामाण्यगोचरत्वं च कस्मान्नाभ्युपगम्यते । किं साक्षिणस्तदभ्युपगमेनेत्यर्थः ॥ जडत्वे-नेति ॥ एतावन्तं कालं सुखमहमस्वाप्समित्यौत्तरिकानुस्मृतिसिद्धात्मादिविषयकसौषुप्तिकानुभवस्ताव-दस्ति । स च न तावन्मनआदीन्द्रियैर्भवितुं युक्तः । तेषामुपरतत्वात् । तस्मात्साक्षिरूप एवेति साक्षिरूप-चैतन्यज्ञानस्य स्वप्रकाशत्वसाधिका युक्तिरस्ति । सेयं युक्तिरन्तःकरणवृत्तिरूपे जडे ज्ञाने न प्रवर्तत इत्यर्थः । ‘अप्रकाशस्वरूपत्वाज्जडे ज्ञानं न मन्यते’ इत्युक्तेः । एतद्युक्त्यभावसूचनार्थमेव जडत्वेनेत्युक्तमिति ज्ञात-व्यम् ॥ सांशयिकत्वादिति ॥ स्वतस्त्वे ज्ञानग्राहकेणैव प्रामाण्यस्यापि गृहीतत्वात्संशयो न स्याद्, अतस्तदन्यथाऽनुपपत्त्या परतस्त्वमित्याशयः । अभ्यासदशापन्नज्ञानप्रामाण्ये सांशयिकत्वाभावेनासिद्धिवारणार्थम् अनभ्यासदशायामित्युक्तम् । व्यभिचारवारकविशेषणवद्, असिद्धिवारकविशेषणस्याप्यसिद्धिपरिहारद्वारा व्याप्तिग्रहोपयुक्तत्वस्य ‘चक्षुस्तैजसं रूपादिषु पञ्चसु मध्ये रूपस्यैवाभिव्यञ्जकत्वात्’ इत्यत्र दर्शनाददोषः । तत्र हि रूपत्वस्यापि व्यञ्जकत्वेनासिद्धिपरिहाराय रूपादिषु पञ्चसु मध्य इत्युक्तमस्तीति द्रष्टव्यम् । यद्वा पक्षविशेषणमेतत् । अनभ्यासदशापन्नज्ञानप्रामाण्यं पक्ष इति भावः । दृष्टान्ते साध्यमुपपादयति- अप्रामाण्य-मिति ॥ अनवस्थेति ॥ प्रामाण्यस्यानुमेयत्वे प्रामाण्यानुमितिप्रामाण्यमपि पुनरनुमित्यन्तरेण ग्राह्यम् । एवं तत्प्रामाण्यमपीत्येवं फलमुखी । एवं प्रामाण्यस्यानुमेयत्वे लिङ्गव्याप्त्यादिज्ञानप्रामाण्यनिश्चयार्थं लिङ्गान्तरं तज्ज्ञानप्रामाण्यनिश्चयश्च स्वीकार्यः । एवं तत्र तत्रापीति कारणमुखीत्यनवस्थाद्वयलक्षणप्रतितर्कपराहतमित्यर्थः।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

॥ संवादश्च सजातीयेन विजातीयेन वा भवतीति ॥ तत्र वेदसमानविषयकत्वे सति वेदप्रामाण्य-ग्राहकत्वं संवादस्य सजातीयत्वम् । वेदसमानार्थकत्वाभावे सति वेदप्रामाण्यग्राहकत्वं विजातीयत्वमिति विवेकः। अभ्युपगमादिति ॥ वेदसमानार्थकत्वे सति वेदप्रामाण्यग्राहकत्वस्यैव सजातीयसंवादतया प्रकृते वेदसमान-विषयकप्रमाणान्तराभावेनोक्तरूपसंवादानुपपत्तेरित्यर्थः ॥ नापीति ॥ अर्थक्रियासामर्थ्यस्य वेदसमानार्थ-कत्वाभावे सति वेदप्रामाण्यग्राहकत्वाद्विजातीयत्वमिति भावः ॥ प्रत्यक्षाद्यवेद्यत्वादिति ॥ तथा च मोक्षादि-रूपार्थक्रियासामर्थ्यरूपलिङ्गस्यासिद्धत्वान्न तेन प्रामाण्यानुमानं सम्भवतीति भावः । ननु प्रमाजनकत्वेनापि वेदस्य प्रामाण्यानुमानसम्भवाद् आप्तोक्तत्वेनैव प्रामाण्यस्यानुमेयत्वमित्यत्रानुकूलतर्काभावस्तदवस्थ इत्यतः, तथा सति प्रमाणजन्यत्वेन ज्ञानप्रामाण्यस्य ज्ञानप्रामाण्येन च करणप्रामाण्यस्यानुमेयत्वेन वेदप्रामाण्यस्य तज्जन्यज्ञानप्रामाण्यस्य चान्योन्यसिद्ध्यधीनसिद्धिकत्वेनान्योन्याश्रयापत्त्या प्रमाजनकत्वेन तत्प्रामाण्यानुमाना-सम्भवेनाऽप्तोक्तत्वेनैव तस्यानुमेयत्वेन नानुकूलतर्काभाव इत्याशयेनाऽह- प्रमाणजन्यत्वेनैवेति ॥ वेद-प्रामाण्यस्याऽप्तोक्तत्वेनैवानुमेयत्वं युक्त्योपपाद्याभियुक्तसम्मत्याऽपि द्रढयति- तथा चाऽहेति ॥ यद्यपि तदिति (पां.टि.) सन्निहितत्वाद्धर्मस्य परामर्शः । तथा च तस्य धर्मस्य वचनात् प्रतिपादनाद् आम्नायस्य वेदस्य प्रामाण्यम् । यत्प्रामाणिकार्थप्रतिपादकं वाक्यं तत्प्रमाणमेवेति नियमात्, इत्यर्थकत्वादस्य सूत्रस्य प्रामाण्यज्ञानस्य गुणजन्यत्वासिद्धेर्नास्य विवक्षितार्थसाधकत्वम् । तथाऽपि ग्रन्थेऽनुपक्रान्तस्यापि वेदस्य ‘तदप्रामाण्यमनृत-व्याघातपुनरुक्तदोषेभ्यः’ इति गौतमीयसूत्रे यथा प्रसिद्ध्या सिद्धत्वात्तदिति परामर्शः, तथेहानुपक्रान्त-स्यापीश्वरस्य प्रसिद्ध्या सिद्धत्वात्तदिति परामर्शः । ततश्च तद्वचनात् तेनेश्वरेण वचनात् प्रणयनाद् आम्नायस्य वेदस्य प्रामाण्यमित्येतत्सूत्रस्य परकीययोजनाश्रयणेन विवक्षितार्थसाधकत्वादस्योदाहरण-मिति । यद्यपि च ‘मन्त्राऽयुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात्’ इति समग्रसूत्रस्योदाहर्तव्यत्वात्समग्रसूत्रमनुदाहृत्य तदेकदेशमात्रोदाहरणमयुक्तम् । तथाऽप्येकदेशस्यैव विवक्षितार्थप्रतिपादकत्वेन प्रकृतोपयोगित्वात्तन्मात्रमेवोदा-हृतम् । तस्यादृष्टार्थस्य वेदस्य प्रामाण्यम् आप्तप्रामाण्याद् आप्तोक्तत्वात् । अदृष्टार्थं वेदवाक्यं प्रमाणम् आप्तोक्तत्वात् । दृष्टार्थमन्त्राऽयुर्वेदवाक्यवदित्युदाहृतसूत्रार्थः । वाक्यत्वाद्यनुमानस्येत्यत्राऽदिपदेन ‘वेदाः सर्वज्ञ-प्रणीता वेदत्वात्’ इति प्रागुक्तव्यतिरेक्यनुमानपरिग्रहः ॥ उपाधेरिति ॥ अनुकूलेन तर्केण हेतोः साध्य-व्याप्यत्वनिर्णयेनोपाधेः साध्यव्याप्यहेत्वव्यापकतया पक्ष एव साध्यव्यापकताभङ्गः सिद्ध्यतीत्यर्थः । सम्मतिग्रन्थे पक्षे साध्यव्यापकताभङ्गादिति सम्बन्धः ।

ननु किमिदं प्रमाणानां प्रामाण्यस्य स्वतस्त्वमित्यतः फलकरणभेदेन प्रामाण्यस्य द्वैविध्यात् फलतत्प्रामाण्य-स्वतस्त्वोपदर्शनेन तत्परतया वाक्यं व्याचश्व्े- सर्वेषामिति ॥ इन्द्रियलिङ्गशब्दजन्यानामित्यर्थः ॥ यथार्थत्व-लक्षणमिति ॥ यथार्थज्ञानत्वलक्षणमित्यर्थः ॥ ज्ञानग्राहकेणैव गृह्यत इति ॥ अत्र ज्ञानग्राहकशब्देन ग्राह्य-प्रामाण्याश्रयतत्तज्ज्ञानविषयकसाक्षिज्ञानस्य, गृह्यत इत्यनेन तद्विषयत्वस्य, एवकारेण कार्त्स्न्यपरेण तन्नैयत्यस्य, अवधारणपरेण प्रतिबन्धव्यवच्छेदस्य च लाभाद् ग्राह्यप्रामाण्यविरोध्युपस्थापकसामग््रयसमवहितग्राह्यप्रामाण्या-श्रयतत्तज्ज्ञानविषयकसाक्षिज्ञानविषयत्वनैयत्यमित्यर्थपर्यवसानान्न कश्चित्क्षुद्रोपद्रवः । ननु यदुकतमित्यादि-प्राचीनाप्रयोजकत्वशङ्काग्रन्थानुरोधेन करणप्रामाण्यस्वतस्त्वोपदर्शनपरतयैवैतद्ग्रन्थव्याख्यानमुचितम् । अन्यथोक्तशङ्काया अनिरासप्रसङ्गात् । तत्किमिति करणप्रामाण्यस्वतस्त्वपरत्वपरित्यागेन फलप्रामाण्यस्वतस्त्व-परत्वाश्रयणमित्यतः करणप्रामाण्यस्वतस्त्वव्युत्पादनेन करणप्रामाण्यस्वतस्त्वस्य ज्ञानप्रामाण्यस्य ज्ञान-ग्राहकातिरिक्तग्राह्यत्वेऽनुपपत्त्या तत्स्वतस्त्वाधीनत्वात्, ज्ञानप्रामाण्यस्वतस्त्वव्युत्पादनेन करणप्रामाण्य-स्वतस्त्वव्युत्पादने सौलभ्याद्युक्तं करणप्रामाण्यस्वतस्त्वपरत्वपरित्यागेन फलप्रामाण्यस्वतस्त्वपरत्वाश्रय-णमित्याशयेन करणप्रामाण्यस्वतस्त्वस्य फलप्रामाण्यस्वतस्त्वाधीनत्वमुपदर्शयन् यदुक्तमित्यादिशङ्कापरि-हाराय करणप्रामाण्यस्वतस्त्वसिद्धिमप्येतद्ग्रन्थाभिप्रायतया दर्शयितुमाह- एतदुक्तं भवतीति ॥ तच्च वक्ष्यत इति ॥ ‘ज्ञानं स्वरूपेणैव प्रवृत्तिहेतुः’ इत्यादिनेति शेषः ॥ अन्वयव्यतिरेकसमधिगम्यमिति ॥ ज्ञानसाधनत्व-ग्राहकान्वयव्यतिरेकसमधिगम्यमित्यर्थः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

वक्ष्यमाणपरिशेषानुमाने उपोद्घातसङ्गत्या विशेष्यासिद्धिमुद्धरति- प्रामाण्यं तावदिति ॥ विशेषणा-सिद्धिं परिहरति- न चेति ॥ तत्प्रामाण्यस्येति ॥ प्रामाण्यज्ञानस्यापि प्रामाण्यं संवादादिलिङ्गजन्यानुमिति-रूपेणान्येन ज्ञानेन ग्राह्यम् । एवं तत्प्रामाण्यमपीति फलमुखा । एवं प्रामाण्यस्यानुमेयत्वे लिङ्गव्याप्त्यादिज्ञान-प्रामाण्यानिश्चयेऽतिप्रसङ्गेन तन्निश्चयार्थं लिङ्गान्तरं तज्ज्ञानप्रामाण्यनिश्चयश्च स्वीकार्यः । एवं तत्रापीति करणमुखा चानवस्था स्यादित्यर्थः ॥ प्रथमस्यैवेति ॥ लाघवात्, प्रथमपरित्यागे कारणाभावाच्चेत्यर्थः ॥ ज्ञानगतं याथार्थ्य-मिति ॥ करणगतयाथार्थ्यस्य पक्षत्वभ्रमनिरासाय ज्ञानगतमिति विशेषणम् । साध्यार्थस्तु पूर्वमेवोक्तः । ज्ञानस्यैवेति ॥ लाघवादिति भावः ॥ अन्तःकरणवृत्तेरिति ॥ ननु जडत्वं न स्वप्रकाशत्वाभावे प्रयोजकम् । अन्यथा साक्षिणोऽपि चेतनत्वात्स्वप्रकाशत्वं न स्यादिति चेन्न । क्रियायाः कारकप्रयोज्यत्वस्य सकलवादि-सम्मतत्वेन प्रयोजकस्य च प्रयोज्यापेक्षया पूर्ववृत्तित्वनियमाज्ज्ञप्तिरूपवृत्तिक्रियायाः स्वकर्मकत्वे स्वापेक्षया स्वस्य पूर्वभावित्वरूपाऽत्माश्रयाऽऽपत्त्या स्वकर्मकप्रकाशत्वरूपस्वप्रकाशत्वमनुपपन्नमेव । जडत्वं चात्र जन्यत्व-रूपं ग्राह्यम् । साक्षिणस्त्वनादिनित्यत्वेनोत्पत्त्यर्थमन्यानपेक्षणादनादितः स्वविषयकत्वे न काऽप्यनुपपत्तिः । एतच्च ‘कर्मकर्तृव्यपदेशाच्च’ इत्येतत्सुधाग्रन्थे स्पष्टम् । केचित्तु जडत्वेऽपि स्वप्रकाशत्वं भवत्विति व्याहतत्वान्न शङ्कोदयः । जडत्वस्याप्रकाशत्वरूपत्वात् । अप्रकाशस्यापि स्वप्रकाशत्वमित्यस्य व्याहतत्वात् । न चैवं साध्या-वैशिष्ट्यम् । व्यवहारस्य साध्यत्वाङ्गीकारेण तदप्रसक्तेरित्याहुः । हेतौ चासिद्धिवारणायानभ्यासदशायामिति विशेषणम् । दृष्टान्ते साध्यवैकल्यं परिहरति- अप्रामाण्यं हीति ॥ प्रतिकूलतर्कपराहतमनुमानमितीति ॥ तथा चासमानबलत्वान्नैतदनुमानं प्रतिपक्ष इति भावः ।

लघुप्रभा

(व्या.टि.)

वेदस्य यथार्थज्ञानसाधनत्वरूपं प्रामाण्यमाप्तोक्तत्वेनैवानुमातव्यम् । तज्जन्यज्ञानगतं याथार्थ्यरूपं तु (प्रामाण्यम्) प्रमाणजन्यत्वेनैवेति सकर्तृकत्वाभावे वेदे प्रामाण्यसिद्धिर्न स्यात् । तत्र प्रामाण्यसिद्ध्यभावे तज्जन्यज्ञानेऽपि तत्सिद्धिर्न स्यादिति वक्तुं संवादेन तत्सिद्धिं सम्भाव्य वेदे तदनुपपत्तिमाह- संवादेन खल्वित्यादिना ॥ निरूपकद्वैविध्येन संवादद्वैविध्यमाह- संवादश्चेति ॥ वेदे उभयाभावं दर्शयति- न तावत् सजातीयेति ॥ ननु सजातीयत्वं केन धर्मेण, प्रमाणत्वेन तद्विभाजकेन वा । नाऽद्यः । अर्थक्रियासामर्थ्यादेरपि प्रमाणत्वेन सजातीयत्वापत्तेः । न द्वितीयः । ब्रह्मसूत्रलक्षणागमस्य ‘युक्तिमूलतयेति सजातीयसंवादाभिधानम्’ इति सुधाविरोधादिति चेन्न । एकधर्मिकं मानान्तरं सजातीयम् । तेन संवादः, एकप्रकारकत्वम् । तथा च इदं जलमिति ज्ञानजनकेन्द्रियादेस्तादृशज्ञानजनकेन्द्रियेणानुमानादिना वा तुल्यप्रकारकत्वेन प्रामाण्यानुमितिः । तत्र द्रव्यत्वप्रकारकज्ञानजनकं तु मानान्तरं सजातीयं भवति । परं तु न संवादि, नापि विसंवादि । तत्रैवेदमर्थे धर्मिणि जलत्वाभावज्ञानजनकं तु सजातीयमपि विसंवादि । समानधर्मिकभिन्नं सविषयं निर्विषयं वा विजाती-यम् । तेन संवादो यथायथं प्रामाण्यानुमित्यौपयिकः सम्बन्धः । तथा फलनिष्पादनशक्तत्वरूपमर्थक्रियासामर्थ्यं विजातीयम् । तेन संवादश्च ज्ञाने तद्वद्विषयकत्वम् । ज्ञानजनके च तादृशज्ञानजनकत्वम् इत्यादि बोध्यम् । (व्या.टि.) अधिकं तु गुरुप्रभायाम् । तद्विषयस्य वेदबोध्यप्रकारस्य ब्रह्मधर्मिकमानान्तरस्य वेदबोध्यप्रकारकज्ञान-जनकत्वाभावेन सजातीयसंवादो नास्तीति भावः ॥ नापीति ॥ अर्थक्रियासामर्थ्यं फलनिष्पादनशक्तत्वम् । आदिपदेन फलवत्प्रवृत्तिजनकत्वादिकं ग्राह्यम् ॥ मोक्षादेरिति ॥ तथा च वेदजन्यज्ञानविषये मोक्षजननशक्तत्वस्य ज्ञाने वा, मोक्षवत्प्रवृत्तिजनकत्वस्य वेदे वा तादृशज्ञानकरणत्वस्यानिश्चितत्वेन न विजातीयसंवादेन प्रामाण्यानुमितिरिति भावः । संवादानुपपत्तौ च पर्यवसितमाह- तथा चेति ॥ तद्वचनादिति ॥ कणादसूत्रे भावप्रधानो निर्देशः । तच्छब्देन चेश्वरस्य परामर्शः । अक्षपादसूत्रे तत्पदेन वेदपरामर्शः । आप्तप्रामाण्यादिति कर्तरि ल्युट् । ‘यदसौ प्रमाणं तत्र चान्यत्र च’ इति महाभाष्यप्रयोगाद् बहुलग्रहणाद्वा साधुः । ‘तज्ज्ञानस्य वाक्यस्य वा प्रामाण्याद्विप्राः प्रमाणमित्युपचर्यते’ इति सुधारीत्यौपचारिको वा प्रमाणशब्दः ॥ ततश्चेति ॥ आप्तोक्तत्वेनैव वेदप्रामाण्यस्यानुमातव्यत्वे सतीत्यर्थः । वाक्यत्वादीत्यादिपदेन वेदत्वपरिग्रहः ॥ अकर्तृ-कत्वाद्यनुमानमिति ॥ तत्साधकमप्रमितकर्तृकत्वा(त्वसाधनम)नुमानमित्यर्थः । तर्केण साध्यव्यापकता-भङ्गेऽभियुक्तसम्मतिमाह- यथोक्तमिति ॥ सनाथे साध्यसाधनसमर्थे सतीत्यर्थः । तथा च पक्षे साध्यसिद्धौ तत्रैवोपाधेः साध्यव्यापकताभङ्गः । केचित्तु साध्यव्याप्यहेत्वव्यापकत्वात् साध्यव्यापकताभङ्ग इति व्याचख्युः । तन्न स्वरसम् । साध्यव्यापकोपाधिव्यभिचारात् साध्यव्यभिचारं चोदयतस्तस्य साध्यव्याप्यत्वासिद्धेः । तदर्थं पक्षे साध्यनिश्चयानुसरणं तु बकबन्धरीतिमनुसरतीति ।

फलगतस्य याथार्थ्यलक्षणस्य करणगतस्य तत्साधनत्वलक्षणस्य च प्रामाण्यस्य स्वतस्त्वं सिषाधयिषुरादौ तावज्ज्ञानप्रामाण्यस्य ज्ञप्तौ स्वतस्त्वं मूले प्रतिज्ञातमित्यभिप्रेत्य व्याचश्व्े- सर्वेषामपीति ॥ तत्र स्वपदस्याऽ-त्मीयपरत्वमुपेत्य स्वतस्त्वं निर्वक्ति- ज्ञानेति ॥ क्रियापदमुपस्करोति- गृह्यत इतीति ॥ ज्ञानग्राहकमात्रग्राह्यत्वं ज्ञप्तौ स्वतस्त्वमित्यर्थः । तदेतत् त्रेधा निरुक्तं तर्कताण्डवे । ‘ग्राह्यप्रामाण्यविरोध्युपस्थापकसामग््रयसमवहित-ग्राह्यप्रामाण्याश्रयतत्तज्ज्ञानग्राहकसाक्षिज्ञानविषयत्वनैयत्यं स्वतस्त्वम्, ग्राह्यप्रामाण्याश्रयतत्तज्ज्ञानग्राहक-साक्षिज्ञानविषयत्वयोग्यत्वं वा स्वतस्त्वम् । उभयसिद्धप्रामाण्याविषयकज्ञानभिन्नज्ञानविषयत्वनैयत्यं वा स्वतस्त्वम्’ इति । तत्त्रितयमपि सुधायामिवात्राप्यभिसंहितम् । तथाहि । अत्र ज्ञानग्राहकपदेन ग्राह्यप्रामाण्या-श्रयतत्तज्ज्ञानविषयकसाक्षिज्ञानं विवक्षितमिति स्पष्टमवगम्यते । यद्वक्ष्यति, ‘ज्ञानं साक्षिप्रत्यक्षवेद्यम्’ इत्युक्त्वा ‘तत्प्रामाण्यमपि साक्षिवेद्यमेव’ इति । गृह्यत इति कर्मलकारेण वेद्यमिति कृत्यप्रत्ययान्तेन च तद्विषयत्वम् । एवेत्यनेन ज्ञानग्राहकमात्रेणैवेत्यनुवादस्थमात्रशब्देन च कार्त्स्न्यपरेण तन्नियमः । अवधारणेन प्रतिबद्धव्यवच्छेदश्च विवक्षित इति । एवमर्हार्थकृत्यप्रत्ययान्तेन वेद्यशब्देनोक्तसाक्षिज्ञानविषयत्वयोग्यतेति । एवं ज्ञानग्राहकशब्देन साक्षितदितरसाधारणज्ञानं, मात्रशब्देनावधारणेन चोभयसिद्धप्रामाण्याविषयकव्यवच्छेदः । कार्त्स्न्यार्थेनाप्रति-बद्धसर्वानुव्यवसायग्रहश्च विवक्षित इति ज्ञायत इति ।

ननु कथमनेन प्रतिज्ञामात्रेणोक्तशङ्कानिवृत्तिरित्यतोऽभिसन्धिमुद्घाटयति- एतदुक्तं भवतीति ॥ वक्ष्यत (व्या.टि.) इति ॥ ‘ज्ञानाज्ञानसुखदुःखात्मभेदादिविषयस्यानुभवस्य’ इति मूल इति शेषः । करणगतस्य यथार्थज्ञानसाधनत्वरूपप्रामाण्यस्य ग्राह्यप्रामाण्यविरोध्युपस्थापकसामग्य्रासमवहितज्ञानजनकत्वग्राहक-मात्रग्राह्यत्वं ज्ञप्तौ स्वतस्त्वम् । तदप्यत्र प्रतिज्ञातमित्यभिप्रेत्य व्याचश्व्े- इन्द्रियेति ॥ प्रामाण्यमित्यतः परं स्वत इति शेषः । अवसेयमित्यतः परं यत इति च । तथा च ज्ञानकरणत्वग्राहकानुमानेनैव प्रमाकरणत्वग्रहात् स्वतस्त्वसिद्धिरित्यर्थः । न चैवं पद्धतिविरोधः । तत्र ‘करणप्रामाण्यज्ञप्तिस्तु परत एव । इन्द्रियलिङ्गशब्दानां यथायथमनुमानादिवेद्यत्वात् । यथार्थज्ञानजनकत्वस्यानुमानवेद्यत्वात्’ इत्युक्तेरिति वाच्यम् । अभिप्रायसद्भा-वात् । करणग्राहकमात्रग्राह्यत्वाभावाभिप्रायेण तत्प्रवृत्तेः । अत एव न्यायसुधायां तत्पक्षमुट्टङ्क्य ‘अथ वा ज्ञानजनकत्वं येन गृह्यते तत एव यथार्थज्ञानजनकत्वस्य तदीयस्य ग्राह्यत्वं स्वतस्त्वम्’ इति पक्षान्तरमुक्तम् । ननु तथाऽपि सूत्रभाष्यटीकाविरोधः । तत्र न विलक्षणत्वाधिकरणे स्वतश्च प्रामाण्यमिति वैलक्षण्यहेतुवर्णकान्तरे ‘वेदादिप्रामाण्यस्य संवादनिरपेक्षतज्ज्ञानादेव सिद्ध्यङ्गीकारात्’ इति करणप्रामाण्यस्यापि धर्मिग्राहकमात्रग्राह्यता-स्वीकारादिति चेत् । गूढभावसद्भावात् । तथा हि । नात्र करणग्राहकमात्रग्राह्यत्वं स्वतस्त्वं विवक्षितम् । किन्तु प्रामाण्यव्याप्यनिर्दोषत्वतदनुसारित्वादिग्राहकमात्रग्राह्यत्वं स्वतस्त्वमिति पक्षान्तरमुपेत्य प्रवृत्तम् । अत एव तत्रैव ‘न हि निर्दोषतदनुसारितत्तत्स्वरूपग्रहे पुनः प्रामाण्योपलब्धौ संवादसापेक्षताऽनुभूयते’ इति तदेव स्पष्टमिति न कश्चिदपि विरोधगन्ध इत्यलम् । उत्पत्तौ तु ज्ञानजननशक्त्यभिन्नप्रमाजननशक्तिमत्त्वम्, उभयोः सहजत्वं वा करणप्रामाण्यस्य स्वतस्त्वम् । निष्कृषति- तथा चेति ॥ कुत्रापि फले करणे चेत्यर्थः । आदिपदेन प्रमाणजन्यत्वग्रहः ।

निष्कृष्यानूद्य शङ्कते- ज्ञानेति ॥ परिशेषं वक्तुं सामान्यसिद्धिं दर्शयति- प्रामाण्यमिति ॥ प्रवर्तकज्ञान-प्रामाण्यमित्यर्थः । अवश्यमित्युक्ताऽवश्यकत्वं दर्शयति- अन्यथेति । तदभावेति ॥ प्रामाण्याभावेत्यर्थः । प्रमाणं विनाऽर्थसत्त्वानिश्चयादिति भावः । यद्वा प्रामाण्याध्यवसायाभावे निष्कम्पप्रवृत्त्यभावप्रसङ्गादित्यर्थः । ग्राहकान्तरानुपपत्तिं दर्शयति - न चेति ॥ ज्ञानग्राहकातिरिक्तेन संवादादिलिङ्गेनेत्यर्थः । फलमुखीमनवस्थां दर्शयति- तत्प्रामाण्यस्यापीति ॥ प्रामाण्यानुमितिप्रामाण्यस्यापीत्यर्थः । तस्य प्रामाण्यानुमितिप्रामाण्यस्य स्वतस्त्वे स्वाश्रयग्राहकग्राह्यत्वे । प्रथमस्य प्रवर्तकज्ञानप्रामाण्यस्य । करणमुखीमपि तां दर्शयति- तत्प्रामाण्य-स्यापीति ॥ लिङ्गान्तरज्ञानप्रामाण्यस्यापीत्यर्थः । अनेन लिङ्गान्तरेण । तस्य लिङ्गान्तरज्ञानप्रामाण्यस्य । परिशेषं दर्शयति- तथा चेति ॥ सामान्यतो व्याप्तिं दर्शयति- यद्यतोऽन्येनेति ॥ विशेषणेति ॥ सत्यन्त-विशेषणेत्यर्थः ॥ ज्ञानस्यैवेति ॥ ग्राह्यप्रामाण्याश्रयज्ञानस्यैवेत्यर्थः । तथाभावः स्वप्रकाशत्वम् ॥ अन्तः-करणवृत्तेरिति ॥ स्वरूपज्ञानव्यावृत्त्यर्थम् ।

॥ जडत्वेनेति ॥ अत्रेयमाशङ्का । किं जडत्वं स्वप्रकाशत्वविरोधीति तत्त्वात्तदभावः, उतास्वप्रकाशत्व-व्याप्यमिति तत्त्वात्तत्त्वमिति । आद्ये किं विरोधः सहानवस्थाननियमलक्षण उत भावाभावलक्षण आहोस्विद् (व्या.टि.) वध्यघातकभावलक्षणः । नाऽद्यः । जडेऽप्यालोके स्वप्रकाशत्वदर्शनात् । न च स्वविषयत्वं स्वप्रकाशत्वम् । ‘स्वविषयप्रकाशत्वं स्वप्रकाशत्वमिति स्वमतेऽङ्गीकारात्’ इति टीकोक्तेः । जडे त्वालोकादौ प्रकाशान्तरानपेक्षत्वरूपस्वप्रकाशत्वसत्त्वेऽपीच्छादिवत् सविषयकपदार्थत्वाभावेन विषयविषयिभावगर्भ-स्वविषयत्वासम्भव इति वाच्यम् । अनुप्रमाणस्यापि साक्षात्स्वजन्यप्रमाविषयविषयकत्वस्यान्यत्र समर्थितत्वेन आप्त-वाक्यं शब्द इत्यादिशब्दे, सामान्यसाध(ध्यक)के विशेषे लिङ्गे, ज्ञानसामान्यविषयकानुमितिशाब्दादिरूपे मानसज्ञाने च जडे स्वविषयकत्वदर्शनेन तन्नियमाभावात् । न द्वितीयः । सत्त्वासत्त्वादिवत् परस्परविरह-रूपत्वाभावात् । जडेऽपि स्वप्रकाशत्वोपपादनेन परस्परविरहव्याप्यत्वस्याप्यभावाच्च । नापि तृतीयः । ‘नाजात एकोऽन्यं हन्ति नाप्यन्याधारः’ इति न्यायेन सहावस्थानस्यैव प्राप्त्या तेन तन्निषेधायोगात् । नान्त्यः । उक्तभङ्ग्या बहुस्थलेषु व्यभिचारदर्शनेन जडत्वस्यास्वप्रकाशत्वेन व्याप्त्यसिद्धेः । जडत्वेऽपि स्वप्रकाशत्वोपपत्त्या विपक्षे बाधकाभावादप्रयोजकत्वाच्चेति चेत् । अत्रेदं समाधीयते । जडत्वेन स्वप्रकाशत्वं व्यासेधता यज्जडत्वव्यावृत्तं तदिह विवक्षितम् । न स्वविषयत्वमात्रम् । तच्च स्वप्रमातृत्वम् । जडत्वस्याप्रमातृत्वरूपत्वात् । यथोक्तमन्यत्र ‘जडत्वं चाप्रमातृत्वमेव’ इति । तथा चाप्रमातृत्वेन स्वप्रमातृत्वाभावसाधनं युक्तम् । सामान्याभावस्य विशेषा-भावव्याप्यत्वेन तेन तत्साधनसौलभ्यात् । इत्थं च मनोवृत्तिर्न स्वप्रमात्री अप्रमातृत्वात्, यदेवं तदेवं यथा घट इति युक्तेरभिप्रेतत्वान् न काऽप्यनुपपत्तिरिति ।

वस्तुतस्तु प्रवर्तकज्ञानविषयकत्वं तत्प्रामाण्यविषयकत्वं च यादृशं साक्षिणस्तादृशं प्रवर्तकज्ञानस्य शङ्क-नीयम् । तच्च ज्ञात्रादिव्यवहारनिर्वाहकम् । विशिष्य स्वकर्मकापरोक्षत्वम् । एतच्च न क्वापि जडे सम्मतम् । अनु-प्रमाणस्य, गमनादेर्ग्रामादिविषयकत्ववत्, सविषयकत्वेऽपि तस्य ज्ञात्रादिव्यवहारनिर्वाहकत्वाभावात् । विशिष्य स्वगतविषयताभावाच्च । ज्ञानं गुण इत्यादिशाब्दानुमित्यादेः शक्यतावच्छेदकपक्षतावच्छेदकसाध्यतावच्छेदका-वच्छिन्नान्तःपातिततया सामान्यतः स्वगतपरोक्षविषयताकत्वेऽपि विशिष्य स्वकर्मकापरोक्षत्वाभावात् । एवं च मनोवृत्तेर्जडत्वेन हेतुना घटादिदृश्वन्तेनैतादृशस्वप्रकाशत्वाभावः साध्यते । न च चेतनत्वेन साक्षिणोऽप्येवं साध्येतेति वाच्यम् । दृश्वन्ताभावात् । सुप्तिकाले मनस उपरतत्वेन ‘एतावन्तं कालं सुखमहमस्वाप्सम्’ इत्यौत्तर-कालिकपरामर्शबलेन चेतनस्वरूपज्ञानस्य तत्स्वरूपप्रकाशत्वस्य तत्वप्रकाशिकायां समर्थितत्वाच्च । श्रुत्यादिक-मप्यत्रार्थानुकूलमाकरे द्रष्टव्यम् ।

केचित्तु जडत्वेन जन्यत्वेन स्वकर्मकत्वमनुपपन्नम् । कर्मकारकस्य कारणत्वेन स्वस्य स्वपूर्ववृत्तित्वे आत्मा-श्रयापत्तेरित्याहुः । तदस्वरसम् । भविष्यत इवाकारणत्वेऽपि कर्मकारकत्वोपपत्तेः । अपरे तु जडत्वमस्वप्रकाशत्व-रूपमिति व्याघातादेव जडस्य स्वप्रकाशत्वशङ्कानुदयः । व्यवहारस्य साध्यत्वेन साध्याविशिष्टता नास्तीत्याहुः। तदपि न चारु । स्वप्रकाशत्वे शङ्कितेऽस्वप्रकाशत्वव्यवहारसाधनस्यानुचितत्वात् । हेतोरसम्मतेश्च । अस्मदुक्त-परिष्कारानङ्गीकारे उक्तस्थले जडत्वस्याप्यव्याप्त्यापत्तेश्च । ज्ञानप्रामाण्यस्य ज्ञप्तौ परतस्त्वे परकीयानुमानं शङ्कते- नन्विति ॥ अनभ्यासदशायामिति पक्षविशेषणम् । अनभ्यासदशापन्नमित्यर्थः । तथैव ह्यनुवदिष्यति ‘अनभ्यास-दशापन्नज्ञानप्रामाण्यस्यापि’ इति ॥ सांशयिकत्वादिति ॥ संशयमापन्न इत्यर्थे ठगिति बोध्यम् । निदर्शने साध्यं निदर्शयति- अप्रामाण्यं हीति ॥ ज्ञानाप्रामाण्यमित्यर्थः ॥ अनवस्थेति ॥ उक्तानवस्थाद्वयेत्यर्थः ।