नच लौकिकवाक्यवत् सकर्तृकत्वम् ..
वेदपौरुषेयत्वप्रमाणनिरासः
मूलम्
- नच लौकिकवाक्यवत् सकर्तृकत्वम् । तस्याकर्तृकत्वप्रसिद्ध्यभावात् ।
तत्त्वमञ्जरी
विमतं वेदवाक्यं सकर्तृकं वाक्यत्वाद् लौकिकवाक्यवदिति च न वक्तव्यमित्याह - न च लौकिकवाक्यवदिति ॥ तत्र चोपाधिदोषमाह - तस्येति ॥ अकर्तृकत्वप्रसिद्ध्यभावस्तु स्यादेवोपाधिः । सकर्तृकत्वलक्षणसाध्यव्यापकत्वात् । वाक्यत्वलक्षणसाधनस्याव्यापकत्वात् । अनेन चात्र प्रत्यनुमानं सूचितम् । तथा हि - वेदवाक्यमकर्तृकम्; अकर्तृकत्वप्रसिद्धिमत्त्वात्, ईश्वरवदिति । न च हेत्वसिद्धिराशङ्कनीया । अहरहर्व्यवह्रियमाणत्वे सति अस्मर्यमाणकर्तृक-स्याकर्तृकत्वप्रसिद्धिमत्त्वसम्भवात् ।
टीका
एवं वेदस्याकर्तृकत्वेऽनुमानमभिधाय तत्स्थेम्नेऽनुकूलतर्कोऽप्यभिहितः । तत्र शङ्कते । असिद्धं वेदस्याप्रमितकर्तृकत्वम् । वेदः सकर्तृको वाक्यत्वाल्लौकिकवाक्यवदित्याद्यनुमानेन वेदकर्तुः प्रमितत्वादिति । तत्राऽह- नच लौकिकेति ॥ वेदस्य वाक्यत्वादिहेतुनाऽनुमेयमिति शेषः । कुत इत्यत आह- तस्येति ॥ तस्य लौकिकवाक्यस्य । सकर्तृकत्वमिति वर्तते । पक्षीकृतस्य तु अकर्तृकत्वप्रसिद्धिमत्त्वादकर्तृकत्वमस्त्विति वाक्यशेषः ।
इदमुक्तं भवति । वाक्यत्वादौ समानेऽपि लौकिकवाक्यस्यावेदवाक्यत्वात् सकर्तृकत्वमस्तु । अस्य तु वेदत्वादकर्तृकत्वं भवत्वित्याशङ्कायां बाधकाभावेनाप्रयोजकत्वान्नैवमनुमातव्यमिति । नच साध्यदृष्टान्तयोर्धर्मविकल्पेन प्रत्यवस्थानाद्विकल्पसमाख्यं जात्युत्तरमेतदिति शङ्कनीयम् । तथा सति कुत्राप्यनुकूलतर्कस्य विपक्षे बाधकस्य चावक्तव्यत्वात्तर्कव्युत्पादनस्य वैयर्थ्यापत्तेः । किन्तु साध्ये वा दृष्टान्ते वा साध्यदृष्टान्तयोर्वा धर्मविकल्पात् कस्यचिद्धर्मस्य किञ्चिद्धर्मव्यभिचार-दर्शनात् साधनस्यापि साध्यव्यभिचारप्रतिपादनं विकल्पसमा जातिः ।
भावबोधः
नन्वनियतावयववादिनाऽपि दृष्टान्तसाध्यधर्मोक्तिमात्रस्य व्याप्त्यादिस्मारकत्वं नाङ्गीकृतमित्यतः कथं ‘न च लौकिकवाक्यवत्सकर्तृकत्वम्’ इति(त्यादि)परार्थानुमानानुवाद इत्याशङ्क्यापेक्षितं पूरयति- वेदस्येत्यादिना ॥ ‘लौकिकवाक्ये व्यवस्थापनम्’ इति पदद्वयाध्याहारेण तस्येति सकर्तृकत्वपरामर्शकं प्रती-यते । तन्निवृत्त्यर्थं दृष्टान्तपरामर्शकतया व्याचश्व्े- तस्य लौकिकवाक्यस्येति ॥ अस्मिन् पक्षे एकस्यैव पदस्यानुवृत्तिः । तस्मिन् पक्षे तु पदद्वयाध्याहार इति हृदयम् । नन्वप्रयोजकत्वशङ्कायां दृष्टान्ते साध्यधर्मं प्रति प्रयोजकत्वेनोक्तधर्मस्य पक्षेऽभावेन तत्र साध्याभावव्यवस्थापनं कार्यम् । तावानर्थः कथमनेन प्रतीयत इत्यत आह- पक्षीकृतस्य त्विति ॥ वाक्यार्थपर्यालोचनायां (दृष्टान्ते साध्यधर्मप्रयोजकत्वे) सोपाधिकत्वमेव स्पश्व्ं प्रतीयते, नाप्रयोजकत्वमित्यत आह- इदमुक्तं भवतीति ॥
भावदीपः
॥ अनुकूलतर्कोऽपीति ॥ विपक्षे गौरवरूपो वा धर्माद्यसिद्धिरूपो वा अपौरुषेयवाक्याङ्गीकारपक्षे लाघवरूपो वेत्यर्थः ॥ अभिहित इति ॥ अप्रसिद्धौ च कर्तुरित्यादिनेति भावः । तावतोक्तवाक्यत्वानुमानस्य किं दूषणमुक्तमित्यत आह- इदमुक्तमिति ॥ केनचिदुक्तलक्षणरीत्याऽस्य जात्युत्तरत्वमाशङ्कते- न च साध्य-दृष्टान्तयोरिति ॥ वेदत्वं पक्षे, दृष्टान्ते चावेदत्वमिति परस्परप्रतिद्वन्द्विधर्मकल्पनरूपेण वा वेदत्वरूपधर्म-भावाभावरूपधर्मविकल्पेन वा दूषणाभिधानमित्यर्थः ॥ जात्युत्तरमेतदितीति ॥ अतोऽत्र शङ्किताप्रयोजकत्व-निरासायानुकूलतर्कादिर्वाक्यत्वहेतोर्न वक्तव्य एवेति भावः ॥ तथा सतीति ॥ उक्ताप्रयोजकत्वस्य जात्युत्तरत्वे सतीत्यर्थः । धूमवत्त्वाद्यनुमानेऽप्यपर्वतीयधूमवत्त्वादस्तु महानसोऽग्निमान्, अत्र तु पक्षे पर्वतीयधूमवत्त्वान्मास्तु पर्वतोऽग्निमानित्यादिचोद्यस्य जात्युत्तरत्वेनानुकूलतर्कादेरवक्तव्यत्वापत्त्या विपक्षे कार्यकारणभावभङ्गादिरूप-तर्कोक्तेर्वैयर्थ्यं स्याद् अतो नेदं विकल्पसमलक्षणं किन्त्वन्यदेवेत्याह- किन्तु साध्य इत्यादिना ॥ धर्म-विकल्पादिति ॥ साध्ये केनचिद्धर्मेण सह भावाभावरूपविकल्पाद् दृष्टान्ते कस्यचिद्धर्मस्य भावाभावरूप-विकल्पात्साध्यदृष्टान्तयोर्वा धर्मविकल्पान्निमित्तादित्यर्थः । शब्दोऽनित्यः कार्यत्वाद्घटवदित्युक्ते कृतकत्वरूपो धर्मः साध्यं व्यभिचरेत्, मूर्तत्वामूर्तत्वयोरन्योन्यं व्यभिचारदर्शनादित्येवंरूपा विकल्पसमा जातिः । न ह्येवं प्रकृत इति भावः ।
वाक्यार्थदीपिका
(श्री.टि.)
अनुकूलस्तर्कः कल्पनागौरवरूपः । लौकिकवाक्यं कालिदासादिवाक्यं कुमारसम्भवादि । पक्षहेत्वोरनुक्तेर्न्यूनतेत्यत आह- वेदस्येति ॥ समानेऽपीति ॥ पक्षदृष्टान्तयोरिति शेषः ॥ साध्येति ॥ (श्री.टि.)साध्यधर्मवत्त्वेन साधयितुं योग्यं साध्यं पक्ष इत्यर्थः । एवमुत्तरत्रापि साध्यशब्देन पक्षो ग्राह्यः । धर्मविकल्पेनेति ॥ वेदत्वावेदत्वरूपधर्मविकल्पेनेत्यर्थः । एतद् अप्रयोजकताशङ्कनम् ॥ तथा सतीति ॥ एतादृशाप्रयोजकताशङ्काया जात्युत्तरत्व इत्यर्थः ॥ कुत्रापीति ॥ धूमानुमानादावपीत्यर्थः । तथा हि । महानसस्यापर्वतत्वादस्तु वह्निमत्त्वम् अस्य च पर्वतत्वान्मास्त्वित्यप्रयोजकताशङ्कायां नेयमप्रयोजकताशङ्का, किं नाम विकल्पसमाख्यं जात्युत्तरमिति वक्तुं शक्यते । तथा चाप्रयोजकताशङ्कानिरासाय तत्रानुकूलतर्कव्युत्पादनं परीक्षकैः क्रियमाणं व्यर्थमेव स्यात् । कुतः सद्दूषणत्वे हि तत्परिहाराय यत्नः कर्तव्यः । एतादृशाप्रयोजकत्व-शङ्कनस्य जात्युत्तरत्वेनासद्दूषणतया तत्परिहारासम्भवात् । ‘असदुत्तरं जातिः’ इत्युक्तेरिति भावः ।
नन्वनुकूलतर्कस्यैव विपक्षबाधकतर्कत्वेन द्वयोः कथं पृथगुक्तिः । न च विशेषणविशेष्यभावेनोपपत्तिरिति वाच्यम् । चशब्दवैयर्थ्यापत्तेरिति चेत्, उच्यते । पक्षादिप्रविभागात्पूर्वं व्याप्त्यादिग्रहणदशायामप्रयोजकत्वप्राप्तौ तत्परिहाराय यस्तर्कः प्रवर्तते सोऽनुकूलतर्क इत्युच्यते । स च व्याप्तिनिश्चयैकफलकः । पक्षादिप्रविभागोत्तर-मप्रयोजकताशङ्कायां यस्तत्परिहाराय तर्कः प्रवर्तते स विपक्षबाधकस्तर्क इत्युच्यते । स च पक्षे विपक्षजिज्ञासा-विच्छेदफलक इति भेदमभिप्रेत्य ‘अनुकूलतर्कस्य विपक्षे बाधकस्य च’ इत्युक्तम् ।
इदं विकल्पसमजातिलक्षणं न चेत् किं तर्हि लक्षणमिति पृच्छति- किन्त्विति ॥ उत्तरमाह- साध्ये वेत्या-दि ॥ साध्यवत्तया साधयितुं योग्यं साध्यं पक्षः । तथा च साधनस्य साध्ये पक्षे दृष्टान्ते पक्षदृष्टान्तयोर्वा धर्म-विकल्पात् किञ्चिद्धर्मेण व्यभिचारदर्शनात्साध्यव्यभिचारप्रतिपादनम्, तथा कस्यचिद्धर्मस्य किञ्चिद्धर्मव्यभिचार-दर्शनात्साधनस्यापि साध्यव्यभिचारप्रतिपादनं विकल्पसमा जातिरित्यर्थः । तथा हि । साधनस्य धूमवत्त्वस्य पक्षेऽपर्वतत्वव्यभिचारदर्शनात्साध्येन वह्निनाऽपि व्यभिचारोऽस्त्विति प्रतिपादनम्, तथा साधनस्य धूमस्य दृष्टान्ते अमहानसत्वव्यभिचारदर्शनात् साध्यव्यभिचारप्रतिपादनम्, तथा साधनस्य धूमस्य पक्षदृश्वन्तयोरद्रव्यत्वेन व्यभिचारदर्शनात् साध्येनापि व्यभिचारप्रतिपादनम्, तथा कस्यचिद्धर्मस्य रूपस्य किञ्चिद्धर्मेण रसेन व्यभिचारदर्शनात्साधनस्यापि धूमस्य साध्यव्यभिचारापादनं विकल्पसमा जातिः । यथाऽऽहुः-
‘धर्मस्यैकस्य केनापि धर्मेण व्यभिचारतः ।
हेतोः साध्याभिचारोक्तेर्विकल्पसमजातिता’ इति ।
न ह्येतल्लक्षणं प्रकृतेऽस्ति, अतो नैतद्विकल्पसमाख्यं जात्युत्तरमित्याशयः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
॥ अनुकूलतर्क इति ॥ कल्पनागौरवापादनरूप इत्यर्थः ॥ अभिहित इति ॥ ‘अप्रसिद्धौ च कर्तुः’ इत्यनेन वाक्येनेति शेषः । किमनेन शङ्कितानुमानस्य दूषणमुक्तं भवतीत्यत आह- इदमुक्तं भवती-ति ॥ साध्यदृष्टान्तयोरित्यत्र साध्यशब्देन पक्षो ग्राह्यः ॥ धर्मविकल्पेनेति ॥ वेदत्वाऽवेदत्वरूपधर्मविकल्पे-नेत्यर्थः ।
लघुप्रभा
(व्या.टि.)
॥ तत्स्थेम्न इति ॥ तस्य स्थैर्यायेत्यर्थः । ‘प्रियस्थिर’ इत्यादिना स्थिरशब्दस्य स्थादेशः । तत इमनिचि रूपम् ॥ शङ्कत इति ॥ पौरुषेयत्ववादीति शेषः ॥ शेष इति ॥ ‘यत्रानवसरोऽन्यत्र’ इति वचनादिति भावः । मूलाभिसंहितदोषमुद्घाटयति- इदमुक्तं भवतीति ॥ धर्मविकल्पेन प्रत्यवस्थानं विकल्पसम इति मत्वा शङ्कते- न चेति ॥ अत्र साध्यशब्देन पक्षो निर्दिश्यते । तस्यापि साध्यवत्तया साध्यत्वात् । तथा सति असदुत्त-रत्वे । अनुकूलतर्कस्य व्यभिचाराद्यापादककानिष्टापत्तिरूप(तर्क)स्य व्याप्तिग्रहणौपयिकस्येत्यर्थः ॥ बाधक-स्येति ॥ पक्षे साध्याभावाद्यापादककानिष्टापत्तिरूपस्येत्यर्थः ॥ अवक्तव्यत्वादिति ॥ शङ्काया जात्युत्तरतया साधारणासामर्थ्यरूपव्याघातहततया उत्थानायोगेन तन्निरासाय तर्कस्यावक्तव्यत्वापातादित्यर्थः(ति भावः)। ‘व्याघातावधिराशङ्का’ इत्युक्तेरिति भावः ॥ साध्यव्यभिचारप्रतिपादनमिति ॥ यथोक्तं न्यायचन्द्रिका-याम् । ‘हेतोः साध्यव्यभिचारापादनं विकल्पसमः’ इति विकल्पसमप्रतिषेधं लक्षयित्वा तथैवोदाहृतम् । ‘शब्दोऽनित्यः कृतकत्वादित्यत्र पक्षे शब्दे कृतकत्वं विभागजत्वेन सह वर्तमानमपि सपक्षे घटे तद्व्यभिचारि । तथा सपक्षे साध्यसहचरितमपि पक्षे तद्व्यभिचारि किं न स्यादिति’ इति ।