२४ वेदापौरुषेयत्वसमर्थनम्

अपौरुषेयवाक्याङ्गीकारे न किञ्चित्कल्प्यम्

वेदापौरुषेयत्वसमर्थनम्

मूलम्

  • अपौरुषेयवाक्याङ्गीकारे न किञ्चित्कल्प्यम्

टीका

ननु प्रसिद्धानि बौद्धादिवाक्यानि परित्यज्य धर्मादिप्रतिपादकं किञ्चिद् बपौरुषेयं वाक्यं कल्प्यमिति साम्यमेवेत्यत आह- अपौरुषेयेति ॥ पौरुषेयवाक्येन धर्मादिनिश्चयमिच्छता यथा बहुतरं सार्वज्ञादि कल्प्यं तथाऽपौरुषेयवाक्याङ्गीकारे न किञ्चिद् बहुतरं कल्प्यम् । किन्त्वपौरु-षेयवाक्यमेकमेव । तथाच धर्मादिनिश्चयस्यावश्यमङ्गीकार्यत्वे बहुकल्पनापक्षपरित्यागेनाल्प-कल्पनापक्षाऽश्रयणमेव ज्यायः । यथाऽहुः- ‘यत्राल्पीयांसो दोषाः स पक्षः’ इति । तथाऽपि दुष्टस्य कथमङ्गीकार इति चेत् किं कार्यं गत्यन्तराभावात् । अयं च परेषामेव । यथा नास्माकं दोषस्तथाऽ-नुपदमेव वक्ष्यते । एवं सर्वसमयिभिरपौरुषेयवाक्यस्यावश्यमङ्गीकार्यत्वाद् ‘वेदोऽपौरुषेयः’ इति वाक्यं नासम्भावितार्थमिति सिद्धम् ।

भावदीपः

॥ तथाऽपीति ॥ धर्मादिनिश्चयार्थं प्रमाणस्योपेयत्वेऽपीत्यर्थः ॥ दुष्टस्येति ॥ अल्पदोषेणापि युक्तस्येत्यर्थः ॥ वक्ष्यत इति ॥ उत्तरवाक्य इति भावः ।

वाक्यार्थदीपिका

(श्री.टि.)

॥ स पक्ष इति ॥ ग्राह्य इति शेषः ॥ दुष्टस्येति ॥ अल्पकल्पनयाऽपि दुष्टस्येत्यर्थः ॥ गत्य-न्तरेति ॥ धर्मादिनिश्चय इति शेषः । अयं कल्पनागौरवरूपः । परेषाम् अपौरुषेयवाक्यानङ्गीकारिणाम् ॥ यथेति ॥ अल्पकल्पनादोषोऽपि यथाऽस्माकं नास्ति तथेत्यर्थः ॥ वक्ष्यत इति ॥ ‘अपौरुषेयत्वं च’ इत्यादिनाऽनुपदमेवेत्यर्थः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

अङ्गीकृत्यैव चापौरुषेयवाक्यस्य कल्प्यत्वमिदमुक्तम् । वस्तुतस्तु स्वपक्षेऽपौरुषेयवाक्यकल्पना-दोषोऽपि नेत्याह- अनुपदमेव वक्ष्यत इति ॥ ‘वेदकर्तुरप्रसिद्धेः’ इत्यादिना प्रामाणिकत्वोपपादनेनेति शेषः ।

लघुप्रभा

(व्या.टि.)

कल्पनासाम्यं शङ्कते- नन्विति । किञ्चिदिति ॥ ‘यच्च किञ्चित्’ इत्यत्रेव ‘यत्किञ्चित्प्राचीन-मग्नीषोमीयात्’ इत्यत्रेव च बहुतरार्थकत्वं मत्वा किञ्चिदित्येतद् बहुतरमिति व्याख्यातम् । सर्वज्ञत्वादिकं वा बहुतरम्, अन्यद्वा बहुतरं किमपि न कल्प्यमिति किमपीत्यर्थकं किञ्चित्पदम् । बहुतरं तु प्रकृतमिति वाऽभिप्रायः। ज्याय इति ॥ प्रशस्ततरमित्यर्थः । ‘प्रशस्यस्य श्रः’,‘ज्य च’ इति ज्यादेशे ‘ज्यादादीयसः’ इति प्रत्ययादेराकारादेश इति भावः ॥ अयं चेति ॥ दुष्टपक्षाङ्गीकारः ॥ अनुपदमेवेति ॥ वेदकर्तुरित्यत्रेत्यर्थः । धर्मादिसिद्ध्यन्यथा-नुपपत्तिं निगमयति- एवमिति ॥ परमप्रकृतमुपसंहरति- नासम्भावितमिति ॥