२० आर्हतोक्तसार्वज्ञसिद्धिप्रकारनिरासः

टीका

आर्हतोक्तसार्वज्ञसिद्धिप्रकारनिरासः

टीका

आर्हतास्त्वाहुः । कश्चिदात्मा सकलपदार्थसाक्षात्कारी तद्ग्रहणस्वभावत्वे सति प्रक्षीण-प्रतिबन्धकत्वात् । यदेवं तदेवं यथाऽपगततिमिरादिप्रतिबन्धं लोचनविज्ञानं रूपसाक्षात्कारीति । तदसत् । सकलपदार्थसाक्षात्कारित्वस्यान्यत्रादृष्टत्वेनाप्रसिद्धविशेषणत्वात् । तद्ग्रहणस्वभावत्वं च किं विवक्षितस्यैवाऽत्मनोऽङ्गीक्रियते सर्वेषां वा । नाऽद्यः । अन्यत्रादृष्टत्वेन आत्मत्वात्तत्रापि तदभावसाधनसौलभ्यात् । न द्वितीयः । अस्मदादौ तत्स्वभावत्वस्य प्रमाणादृष्टत्वात् । व्याप्तिज्ञानं सर्वविषयं सर्वात्मनां स्वभावो दृश्यत इति चेन्न । परोक्षसामान्यज्ञानस्वभावत्वेनाऽपरोक्ष-विशेषज्ञानसाधनस्याऽतिप्रसङ्गित्वात्, अन्यत्र रूपसाक्षात्कारस्वभावेऽपि लोचनविज्ञाने रस-साक्षात्कारित्वस्याऽदृष्टत्वात्, तत्स्वभावत्वस्याऽसिद्धत्वादेव प्रतिबन्धककल्पनानुपपत्तेस्तत्प्रक्षय-स्याप्यनुपपत्तिरेव । नहि तेजसोऽन्यत्र दाहप्रतिबन्धकत्वं दृष्टम् ।

किञ्च अन्यत्रादृष्टस्याऽऽवरणप्रक्षयस्य विवक्षितेऽप्यात्मनि कुतस्सिद्धिः । आवरणत्वादेवेति चेन्न । कस्यचित्तिमिरादेर्यावदाव्रियमाणभावित्वात् । कमनीयकान्तास्पर्शादावपि रागाद्यनुदयात् प्रक्षीणप्रतिबन्धकत्वसिद्धिरिति चेन्न । रागाद्यभावस्याप्यन्यत्राऽदृष्टस्य कल्पकाभावात् । बाह्यविक्रियाऽभावेन तदभावानुमानमिति चेन्न । जगद्वशीकरणार्थं धैर्येण स्थगनसम्भवात् । अन्यत्र दृश्वन्ते च सकलपदार्थसाक्षात्कारित्वं तत्स्वभावत्वं चादृष्टमेव । यद् यद्ग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धकं तत्तत्साक्षात्कारीति व्याप्तिरिति चेन्न । तथाऽपि विज्ञानस्य साक्षात्कारत्वेन साक्षात्कारित्वाभावात् । किञ्च सकलपदार्थसाक्षात्कारित्वस्य अन्यत्रादृष्टस्यात्रापि आत्म-त्वादेवाभावः किं न साध्यत इति ।

भावबोधः

॥ तद्ग्रहणस्वभावत्वं चेति ॥ इतः परं यथोचितविशेष्ययोगेन ‘अन्यत्रादृष्टस्य’ इत्येतावत एव व्याख्यानानीति द्रष्टव्यम् ।

भावदीपः

कश्चिदात्मेति पक्षः । सकलेत्यादि साध्यम् । तदित्यादिर्हेतुः । सकलपदार्थपरामर्शस्तच्छब्दः । प्रतिबन्धकवत्यव्यभिचाराय विशेष्यम् । तादृशे उक्तस्वभावहीनेऽव्यभिचाराय सत्यन्तम् । सामान्यव्याप्तिमुपे-त्याऽह- यदेवमिति ॥ आत्मत्वादिति ॥ आत्मत्वहेतुना आत्मान्तरदृष्टान्तेन । तत्रापि विमतात्मनीत्यर्थः। प्रमाणादृष्टत्वहेतुरसिद्ध इति शङ्कते- व्याप्तिज्ञानमिति ॥ शब्दोऽभिधेयः प्रमेयत्वाद् यदेवमित्यादिरूपं सर्वविषयं व्याप्तिज्ञानं सर्वात्मनां स्वभावो दृश्यत इत्यर्थः ॥ अतिप्रसङ्गित्वादिति ॥ कुड्यादिव्यवहितघटादिपरोक्ष-सामान्यज्ञानेन तत्साक्षात्कारसाधनप्रसङ्गादित्यर्थः । अन्यत्रादृष्टस्येत्यादिवाक्यमार्हतानुमानस्य प्रतिज्ञाभाग-निरासपरतया व्याख्याय हेतुभागनिरसनपरतया व्याचश्व्े- अन्यत्र रूपसाक्षात्कारस्वभावेऽपीति ॥ बहुव्रीहि-रयम् ॥ अदृष्टत्वादिति ॥ तथा च सकलपदार्थग्रहणस्वभावत्वमसिद्धमिति योज्यम् । विशेषणासिद्ध्यैव विशेष्यमप्यसिद्धमित्याह- तत्स्वभावत्वस्येति ॥ तत्स्वभावत्वासिद्धौ तत्प्रतिबन्धककल्पना कुतो न युक्तेत्यत आह- न हीति ॥ दाहकत्वस्वभावस्य तेजसोऽन्यत्र जलादौ, तत्स्वभावहीन इत्यर्थः ॥ कस्य-चिदिति ॥ तत्राऽवरणत्वहेतुरनैकान्तिक इति भावः । सर्वज्ञत्वस्येत्युपलक्षणमित्युपेत्याऽह- रागाद्यभाव-स्येति ॥ बाह्यविक्रियेति ॥ धातुविसर्गादिरूपेत्यर्थः । दृश्वन्तमपि साध्यसाधनहीनतया निराह- अन्यत्रेति ॥ सामान्यव्याप्तिपक्षे नायं दोष इत्याशङ्कते- यद्यद्ग्रहणेति ॥ प्रतिपक्षं चाऽह- किञ्च सकलेति ॥ अत्रापीति ॥ आर्हताचार्यत्वेनाभिमतात्मनीत्यर्थः । इतिशब्द आर्हतनिराससमाप्तौ ।

वाक्यार्थदीपिका

(श्री.टि.)

॥ तद्ग्रहणस्वभावत्वे सतीति ॥ सकलपदार्थग्रहणस्वभावत्वे सतीत्यर्थः । एतावता प्रबन्धेन ‘अन्यत्रादृष्टस्य सर्वज्ञत्वस्य कल्पनम्’ इत्येतावद्वाक्यमनेकप्रकारेण व्याख्यायातः परं तद्ग्रहणस्वभावत्वं चेत्यादिना ‘अन्यत्रादृष्टस्य कल्पनम्’ इत्येतावत एवांशस्य यथोचितविशेष्याध्याहारेण व्याख्यानानि क्रियन्त इत्यवगन्त-व्यम् । विशेषणासिद्धिं वक्तुमाह- तद्ग्रहणस्वभावत्वं चेति ॥ विवक्षितस्येति ॥ पक्षीभूतस्य कस्यचिदेवेत्यर्थः। सर्वेषां वेति ॥ पक्षत्वेन सर्वेऽपि विवक्षिता एवेत्यर्थः ॥ अन्यत्रेति ॥ तथा चान्यत्रादृष्टस्येत्यनन्तरं तत्स्वभावत्व-स्येति शेष इत्युक्तं भवति ॥ आत्मत्वादिति ॥ कश्चिदात्मा न सकलपदार्थसाक्षात्कारस्वभाववान् भवति आत्मत्वात् । अस्मदादिवदित्यनुमानेनेत्यर्थः ॥ अस्मदादाविति ॥ तथा च विशेषणस्य भागासिद्धिरिति भावः ॥ तत्स्वभावत्वस्येति ॥ सकलपदार्थग्रहणस्वभावत्वस्येत्यर्थः । भागासिद्धिपरिहारं शङ्कते- व्याप्ति-ज्ञानमिति ॥ यत्प्रमेयं तदभिधेयमिति व्याप्तिजन्यं ज्ञानमित्यर्थः ॥ परोक्षेति ॥ परोक्षं यत्सामान्यज्ञानं व्याप्ति-ज्ञानं तत्स्वभावत्वेनेत्यर्थः ॥ अपरोक्षेति ॥ अपरोक्षं यद्विशेषज्ञानं सकलपदार्थसाक्षात्कारित्वं तत्साधनस्येत्यर्थः। अतिप्रसङ्गित्वादिति ॥ अन्यस्वभावेनान्यस्वभावसाधने चक्षुषो रूपग्रहणस्वभावत्वेन गन्धादिग्रहणस्वभाव-स्यापि साधनापात इति भावः ।

ननु यत्प्रमेयं तदभिधेयमिति सर्वविषयकव्याप्तिज्ञानस्यास्मन्मते साक्षिरूपत्वेनापरोक्षत्वस्य ‘सर्वं सामान्यतो यस्मात् साक्षिणैवानुभूयते’ इत्युक्तत्वेन कथं परोक्षत्वमुच्यत इति चेत् । सत्यम् । पररीत्येदमुक्तमित्यदोषः । परोक्षेत्यस्य लौकिकप्रत्यासत्त्यजन्येत्यर्थः । साक्षिणस्त्वलौकिकत्वादेवमुक्तमित्यप्याहुः ।

विशेषणासिद्ध्युपजीवनेन प्राप्तां विशेष्यासिद्धिमप्याह- अन्यत्र रूपसाक्षात्कारस्वभावेऽपीत्यादिना ॥ रससाक्षात्कारित्वस्य अतत्स्वभावत्वस्येत्यर्थः । आदौ तत्स्वभावत्वस्यासिद्धत्वादित्यादि योज्यम् । तद्ग्रहण-स्वभावत्वरूपविशेषणस्य पक्षेऽसिद्धत्वादेवेत्यर्थः । तदुपपादनायोक्तं मूलेऽन्यत्रादृष्टस्येति । तस्यार्थमाह- अन्यत्र रूपेत्यादि ॥ तथा च सकलपदार्थग्रहणस्वभावत्वस्यान्यत्र कुत्राप्यदृष्टत्वात् पक्षेऽपि तद्ग्रहणस्वभावत्व-मसिद्धमित्यर्थः ॥ प्रतिबन्धकेति ॥ अयं भावः । सति पुष्कलकारणे यस्मिन् सति यन्न भवति तत्तत्र प्रतिबन्धकं, प्रकृते च पुष्कलकारणमेव नास्ति । पदार्थग्रहणस्वभावरूपयोग्यताया अपि कारणमध्ये प्रविष्टत्वात् तस्याश्चोक्त-(श्री.टि.) रीत्याऽभावादेव प्रतिबन्धककल्पनाया अनुपपत्तेस्तत्प्रक्षयस्याप्यनुपपत्तिरेव । सत एव हि प्रध्वंसो वाच्यः । तथा च विशेष्यासिद्धिरिति । ननु पुष्कलकारणमध्ये कुतस्तत्स्वभावरूपयोग्यतायाः प्रवेशः । तथा च तत्स्वभावस्यासिद्धत्वेऽपि प्रतिबन्धकं कुतो न कल्पनीयम् । येन तत्प्रक्षयस्याप्यनुपपत्तिस्स्यादित्यत आह- न हीति ॥ अन्यत्र जलादौ । यथा जलादीनां कुतो न दाह इति पृष्टे मण्यादिप्रतिबन्धकसद्भावादिति केनचिदुक्ते दाहजनकत्वयोग्यताया एव तत्राभावेन प्रतिबन्धककल्पना न युज्यते, योग्यताया अपि पुष्कलकारणमध्ये प्रवेशादिति परीक्षकैस्समाधीयते तद्वदित्यर्थः ।

विशेष्यासिद्धिं प्रकारान्तरेणोपपादयति- किञ्चेति ॥ आवरणेति ॥ प्रतिबन्धकेत्यर्थः । एवमुत्तरत्रापि । आवरणत्वादेवेति ॥ विवक्षितात्मसम्बन्ध्यावरणं प्रक्षीयते । आवरणत्वात् । यदावरणं तत्प्रक्षीयते इति व्याप्तेरित्यर्थः ॥ कस्यचिदिति ॥ गिरिदरीविवरवर्तिन इत्यर्थः । तिमिरादेः प्रतिबन्धकस्य । तथा च तत्र व्यभिचार इति भावः । ननु विवक्षित आत्मा प्रक्षीणप्रतिबन्धको भवितुमर्हति । कमनीयकान्तास्पर्शादौ सत्यप्यनुत्पन्नरागादिमत्त्वादित्यनुमीयत इत्याशङ्कते- कमनीयेति ॥ रागाद्यभावस्येति ॥ कमनीयकान्ता-स्पर्शादावपीत्यनुवर्तते ॥ कल्पकाभावादिति ॥ तथा चासिद्धिरिति भावः । ननु नासिद्धिः । विवक्षित आत्मा कमनीयकान्तास्पर्शादावपि रागाद्यभाववान् बाह्यविक्रियाशून्यत्वादित्यनुमानेन तत्सिद्धिसम्भवादित्याशङ्कते- बाह्येति ॥ धैर्येणेति ॥ उत्पन्नस्यापि रागादेर्धैर्येण धारकप्रयत्नेन स्थगनसम्भवात् । स्थगनं स्तम्भनम्, अप्रकटीकरणमिति यावत्, तत्सम्भवादित्यर्थः । किमर्थमित्यत उक्तम्- जगदिति ॥ तथा च बाह्यविक्रिया-शून्यत्वमुक्तसाध्यं विना धैर्यप्रयुक्तस्थगनेनान्यथासिद्धमिति न रागाद्यभावसाधकमिति भावः । कश्चिदात्मा सकलपदार्थसाक्षात्कारी तद्ग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धकत्वादित्यनुमाने विशेषव्याप्तिविवक्षायां दृष्टान्ते लोचनविज्ञाने साध्यवैकल्यं साधनवैकल्यं चेत्याह- अन्यत्र दृष्टान्त इति ॥ नन्वथापि सामान्यव्याप्तौ लोचनविज्ञानं दृष्टान्तो भविष्यतीत्याशङ्कते- यद्यद्ग्रहणेति ॥ तथाऽपि साध्यवैकल्यमेवेत्याह- तथाऽपीति ॥ ननु लोचनविज्ञानशब्देन विज्ञायतेऽनेनेति व्युत्पत्त्या लोचनरूपं ज्ञानकारणमेव विवक्षितम् । अतस्तस्य साक्षात्कारित्वं युक्तमिति न साध्यवैकल्यमित्यस्वरसादाह- किञ्चेति ॥ तथा च कश्चिदात्मा सकलपदार्थ-साक्षात्कारी न भवति आत्मत्वादस्मदादिवदिति सत्प्रतिपक्षत्वमिति भावः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

नन्वार्हतोक्तानुमानेनैव तत्सार्वज्ञसिद्धेर्न तस्याप्रामाणिकत्वमित्याशयेन शङ्कते- आर्हतास्त्वि-ति ॥ एतदनुमाननिरासकतयाऽपि ‘अन्यत्रादृष्टस्य सर्वज्ञत्वस्य’ इति वाक्यमेव योजयति- तदसदिति ॥ ननु व्याप्तौ सत्यां न तद्दूषणमित्यत आह- तद्ग्रहणस्वभावत्वं चेति ॥ सर्वेषामिति ॥ सर्वेषामिति द्वितीयेऽपि सर्वग्रहणस्वभावत्वं किं विशेषतः, किं वा सामान्यत इति विकल्पद्वयं मनसि निधायाऽद्यं दूषयति- अस्मदादा-विति ॥ द्वितीयमाशङ्कते- व्याप्तिज्ञानमिति ॥ यत्प्रमेयं तदभिधेयमिति व्याप्तिज्ञानं सर्वपदार्थविषयकं सर्वात्मनां स्वभावो दृश्यत इत्यर्थः ॥ परोक्षेति ॥ यद्यप्यत्र सर्वसामान्यग्रहणस्वभावत्वेन तद्विशेषसाधनस्यातिप्रसङ्गत्वा-(पां.टि.) दित्येव वक्तुमुचितम् । तथाऽपि सर्वपरोक्षग्रहणस्वभावत्वेन तदपरोक्षज्ञानसाधनस्येवेति दृष्टान्ततया परोक्षेत्यादेरुपादानमिति द्रश्व्व्यम् । अतिप्रसङ्गमेवोपपादयति- अन्यत्रेति ॥ अस्यैव विवरणं ‘रूपसाक्षात्कार-स्वभावेऽपि लोचनविज्ञान’ इति । विशेषणासिद्धिमुक्त्वा तदुपजीवनेन विशेष्यासिद्धिमप्याह- तत्स्वभावत्व-स्यासिद्धत्वादेवेति ॥ ननु तद्ग्रहणस्वभावत्वासिद्धावपि प्रतिबन्धककल्पना कुतो न युक्तेत्यत आह- न हीति ॥ अन्यथा तेजोरूपे वह्न्यादाविव तदन्यस्मिन् घटादावपि दाहप्रतिबन्धककल्पना स्यादिति भावः । कस्यचिदिति ॥ तथा चावरणत्वहेतोस्तत्रैव व्यभिचारादिति भावः ॥ रागाद्यभावस्यापीति ॥ तथा चासिद्धि-रिति भावः ॥ स्थगनसम्भवादिति ॥ तथा चाप्रयोजकत्वमिति भावः । किञ्चात्र विशेष्यव्याप्तिः, उत सामान्य-व्याप्तिरिति विकल्प्य आद्ये दृष्टान्ते साध्यसाधनवैकल्यमित्याह- अन्यत्रेति ॥ द्वितीयं शङ्कते- यद्यदिति ॥ तावता साधनवैकल्यपरिहारेऽपि साध्यवैकल्यमपरिहार्यमेवेत्याशयेनाऽह- तथाऽपीति ॥ उक्तानुमाने सत्प्रतिपक्षमाह- किञ्चेति ॥

लघुप्रभा

(व्या.टि.)

‘सार्वज्ञं स्वाचार्यनिष्ठम्, अन्यत्र वृत्तौ बाधकोपेतत्वे सति धर्मत्वात्’ इति परिशेषं विवक्षोरार्हतस्य अनिर्धारितव्यक्तिविशेषं सार्वज्ञं साधयत् सामान्यतो दृष्टम् अनुवदति- कश्चिदित्यादिना ॥ साध्ये सकलेति विशेषणम् उद्देश्यसिद्धये । साक्षात्कारीति मत्वर्थीय इनिः । ताच्छीलिको णिनिर्वा । प्रतिबद्धे, अग्रहणस्वभावे, अतद्ग्रहणस्वभावे च व्यभिचारवारणाय हेतुपदानि । ननु नाशितेऽर्थे प्रक्षीणेति निर्देशोऽनुपपन्नः । किन्तु प्रक्षिते-त्येव । ‘निष्ठायामण्यदर्थे’ इति सूत्रे(ण) ण्यदर्थो भावकर्मणी, ततोऽन्यत्र निष्ठायां क्षियो दीर्घविधानात् । ‘क्षियो दीर्घात्’ इति च दीर्घात् परस्य तस्य नत्वविधानाच्चेति चेन्मैवम् । ‘क्षि क्षये’ इति भौवादिकस्य ‘गत्यर्थाकर्मक’ इति कर्तरि निष्ठायां क्षयतीति क्षीणम् । न तु क्षीयत इति । अतो न कोऽपि दोषः । अनेन आवरणत्वादिति पखिका(फक्किका) व्याख्यानावसरे प्रक्षीयत इति केनचित् प्रयुक्तं प्रत्युक्तम् । तन्निरासपरतयाऽपि मूलं योजयति- सकलेति ॥ अप्रसिद्धविशेषणत्वात् पक्षस्येति शेषः । हेत्वसिद्धिं विवक्षुरादौ विशेषणासिद्धिं तावदाह- तद्ग्रहणस्वभावत्वं चेति ॥ हेतुसिद्धिं शङ्कते- व्याप्तिज्ञानमिति ॥ प्रमेयाभिधेययोरिति शेषः । परोक्षेति ॥ आगमिकानुमानिकव्याप्तिज्ञानयोः परोक्षत्वात् । प्रात्यक्षिकस्यापि सामान्यप्रत्यासत्तिजन्यस्य सामान्यज्ञानत्वादिति भावः ॥ स्वभावत्वेनेति ॥ दृश्व्ेनेति शेषः ॥ अतिप्रसङ्गादिति ॥ भित्तिव्यवहित-पदार्थत्वप्रकारकज्ञानस्वभावत्वेन घटत्वेनापरोक्षज्ञानसाधनप्रसङ्गादित्यर्थः । सकलसाक्षात्कारस्वभावत्वस्य हेतुत्वे तदसिद्धिं मूलमारोहयति- अन्यत्रेति ॥ विशेषणासिद्ध्युपजीविकां विशेष्यासिद्धिमप्याह- तत्स्वभाव-स्येति ॥ कार्यानुकूलस्वभावशक्त्यभावादेव कार्याभावोपपत्तौ प्रतिबन्धककल्पना न युक्ता । कार्यानुकूल-किञ्चिद्विघातलक्षणत्वात्तस्येति भावः । कार्यानुकूलशक्त्यभावेऽपि प्रतिबन्धकं कल्प्यताम् इत्यत आह- न हीति ॥

प्रतियोग्यप्रसिद्ध्या तत्प्रक्षयानुपपत्तिमभिधाय प्रमाणाभावेनापि तामाह- किञ्चेति ॥ प्रतिबन्धकं प्रक्षयति (व्या.टि.) आवरणत्वात्तिमिरवदित्यनुमानात्तत्सिद्धिं शङ्कते- आवरणत्वादेवेति ॥ एवेति हेत्वन्तरान्वेषणं वारयति- कस्यचिदिति ॥ नित्यनिरयस्येत्यर्थः । ‘तामिस्रश्चान्धतामिस्रौ द्वौ नित्यौ सम्प्रकीर्तितौ’ इति स्मृतेरिति भावः । युक्त्यन्तरं वक्ति- कमनीयेति ॥ कमेरनीयर् । सुन्दरीत्यर्थः । हेत्वसिद्ध्या दूषयति- रागाद्यभाव-स्येति ॥ लिङ्गे लिङ्गं वक्ति- बाह्यविक्रियेति ॥ रेतस्खलनादिरूपेत्यर्थः ॥ तदभावेति ॥ रागाद्यभावेत्यर्थः। स्थगनेति ॥ ‘ष्ठगे संवरणे’ इति भौवादिकः । ततो भावे ल्युट् । संवरणं गूहनम् । आच्छादनसम्भवादिति यावत् । ‘धूमेनाऽव्रियते वह्निः’ इत्यादिस्मृतेरिति भावः । प्रसुप्ततनुमध्यावस्थापन्नरागादीनां स्वरूपेण सत्त्वेऽपि बाह्यविक्रियाऽभावोपपत्तेरन्यथासिद्धिरनुमानस्येति भावः । परोक्तानुमानं दुश्व्ं मत्वा दृष्टान्तदोषेण दूषयति- अन्यत्रेति ॥ परः स्वाशयमुद्घाटयति- यद्यद्ग्रहणेति ॥ सामान्यव्याप्तेर्दृश्वन्ते ग्रहीतुं शक्यत्वान्न साध्य-साधनोभयवैकल्यं दोष इति भावः । णिनेः कर्तृप्रत्ययत्वेन भावे तदसम्भवेन मत्वर्थीयस्येनेर्वाऽसम्भवेन साध्यवैकल्यं दृढमित्याह- तथाऽपीति ॥ एतेन ‘साक्षात्कारिणी प्रमा सैवोच्यते’ इत्यादिरपशब्द इति सूचि-तम् । सत्प्रतिपक्षेणापि निराह- किञ्चेति ॥ इतिशब्दः समाप्तौ ।