१४ चार्वाकस्याशास्त्रित्वसमर्थनम्

यस्य तौ नाभिमतौ नासौ समयी समयप्रयोजनाभावात्

चार्वाकस्याशास्त्रित्वसमर्थनम्

मूलम्

  • यस्य तौ नाभिमतौ नासौ समयी समयप्रयोजनाभावात् ॥

तत्त्वमञ्जरी

यस्य लोकायतिकस्य तौ धर्माधर्मौ नाभिमतौ नासौ समयी । प्रत्यक्षेणानवगतमप्यर्थं समाययति अवगमयतीति हि समयः । अत्र तु तादृशसमयप्रयोजनाभावात् ।

टीका

येषां वैशेषिकादीनां बौद्धादीनां चातीन्द्रियं धर्मादिकं वस्त्वभिमतं तान् प्रत्यापाद्यताम-पौरुषेयवाक्याभ्युपगमः । यस्य तु लोकायतस्य धर्माद्यभिमानो नास्ति न तं प्रत्यापादनं युक्तम् । तस्य स्वाभिमतप्रमेयस्य प्रत्यक्षेणैव सिद्धेरतीन्द्रियस्यानङ्गीकृतत्वेनाऽपादकाभावात् । तथाच लोकायतं प्रति नासम्भावनापरिहारोऽस्तीत्याशङ्क्य, तेनापि धर्माद्यभ्युपगमं कारयित्वा तत्साधकापौरुषेयवाक्यमङ्गीकारयिष्यामीत्याशयवानाह - यस्येति ॥

ननु ‘कर्तृकरणयोस्तृतीया’ इति प्राप्तां तृतीयां बाधित्वा ‘कर्तृकर्मणोः कृति’ इति प्राप्तायाः षष्ठ्याः ‘न लोकाव्ययनिष्ठा’ इति पुनः प्रतिषेधे तृतीयया भवितव्यं देवदत्तेन भुक्तमिति यथा, यस्येति तु कथम् ? उच्यते । अभिमताविति ‘मतिबुद्धिपूजार्थेभ्यश्च’ इति वर्तमाने क्तः । ‘क्तस्य च वर्तमाने’ इति प्रतिषेधबाधकत्वेन षष्ठीविधानात् सैवात्र युक्ता देवदत्तस्येष्टमिति यथा इति ।

तौ धर्माधर्मौ । अतीन्द्रियोपलक्षणं चैतत् । नासौ समयी स्यादिति शेषः ।

धर्मादिकमनङ्गीकारिणोऽशास्त्रित्वापत्तिः कुत इत्यत आह- समयेति ॥ प्रयुज्यते प्रेर्यते प्रणेता प्रणयने, श्रोता च श्रवणे येन तत् प्रयोजनं, विषयः साध्यं च । समयस्य लोकायतशास्त्रस्य विषयाद्यभावप्रसङ्गादित्यर्थः ।

एतदुक्तं भवति । न तावल्लोकायतशास्त्रस्य ऐन्द्रियको विषयः, प्रत्यक्षत एव तत्सिद्धौ शास्त्रानपेक्षणात् । फलमपि न दृष्टमर्थादिकं तस्यान्यतो लभ्यत्वाद्, अनेन सम्बन्धाभावाच्च । ततो धर्मादिकमतीन्द्रियं विषयत्वेन, स्वर्गादिकं फलत्वेनाङ्गीकार्यम् । तदपि चेन्नाङ्गीक्रियते तदा शास्त्रस्य निर्विषयत्वेन निष्फलत्वेन च काकदन्तपरीक्षाग्रन्थवद् अशास्त्रत्वमापद्येत । वक्तृश्रोत्रोरभिमत-मनन्यसाध्यं फलमधिकृत्य तद्धेतुभूतं प्रमाणान्तराप्राप्तमर्थं प्रतिपादयतां वाक्यानां समूहो हि शास्त्रमित्युच्यते यथा चरकादि । एवं चाशास्त्रत्वापत्तौ तस्याशास्त्रित्वं प्रसज्येत । नच तस्य तदिष्टमिति सर्वथा तेन विषयादिसिद्ध्यर्थं धर्मादिकमङ्गीकार्यमिति ॥

भावदीपः

शङ्कते- येषामिति ॥ स्वाभिमतेति ॥ धर्माद्यभावरूपप्रमेयस्येत्यर्थः ॥ आपादकेति ॥ अपौरुषेय-वाक्याङ्गीकारापादकस्यातीन्द्रियस्याभावादित्यर्थः । यस्य तौ नाभिमतावित्यत्र येनेति भाव्यमिति शङ्कते- ननु कर्त्रिति ॥ कर्तरि करणे च तृतीया स्यादिति सूत्रार्थः । देवदत्तेन कुठारेण छिद्यते काष्ठमिति । यस्येति यच्छब्दोक्तस्य कर्तृत्वादस्ति तृतीयाप्राप्तिरिति भावः । नन्वभिमतशब्दस्य क्तप्रत्ययान्तत्वात् क्तप्रत्ययस्य ‘कृदतिङ्’ इति कृत्सञ्ज्ञकत्वेन तद्योगे ‘कर्तृकर्मणोः कृति’ इति सूत्रेण कृद्योगे कर्तरि कर्मणि च षष्ठी स्यादिति तृतीयाबाधकत्वेन षष्ठ्युक्तेः कथं तृतीयया भाव्यमिति शङ्केत्यत आह- इति प्राप्तामिति ॥ बाधित्वेति ॥ विशेषसूत्रत्वादिति भावः । ‘न लोकाव्ययनिष्ठाखलर्थतृनाम्’ इति सूत्रे ल उ उक अव्यय निष्ठा खलर्थ तृन् इत्येतेषां योगे षष्ठी नेति (रा.टि.)निषेधादत्र क्तप्रत्ययस्य ‘क्तक्तवतू निष्ठा’ इति निष्ठासञ्ज्ञकत्वात्तद्योगे षष्ठीनिषेधे ‘कर्तृकरणयोः’ इति तृतीयया भाव्यमित्यर्थः ॥ वर्तमाने क्त इति ॥ ‘ञीतः क्तः’ इति पूर्वस्मादनुवृत्तेरिति भावः ॥ प्रतिषेध-बाधकत्वेनेति ॥ षष्ठीप्रतिषेधबाधकत्वेनेत्यर्थः । विषयप्रयोजनयोर्लाभाय यौगिकमेतत्पदमित्युपेत्य योगमाह- प्रयुज्यत इति ॥ तस्यैवार्थः प्रेर्यत इति । प्रसङ्गहेतुरयमित्युपेत्याऽह- विषयाद्यभावप्रसङ्गादिति ॥ धर्मादेर-तीन्द्रियस्यानभिमतत्वेऽपि शास्त्रस्य कुतो निर्विषयत्वादीत्यतोऽभिप्रायमाह- एतदुक्तमिति ॥ अन्यतः कृषि-वाणिज्यराजसेवादित इत्यर्थः । अनेन शास्त्रेणार्थादेः ॥ चरकादीति ॥ चरकेति सुश्रुतेति वैद्यग्रन्थविशेषः । अप्रसक्तप्रतिषेधमाशङ्क्य प्रसक्तिमाह- न चेत्यादिना ॥

वाक्यार्थदीपिका

(श्री.टि)

लोकायतश्चार्वाकः ॥ आपादकाभावादिति ॥ आपादकं साधकम् । मां प्रत्यापादकस्य सम्पादकस्या-पौरुषेयवाक्याभ्युपगमसाधकस्य तन्मतेऽभावादित्यर्थः । तेनातीन्द्रियस्य वस्तुनोऽनङ्गीकृतत्वेन तत्सिद्ध्यन्यथा-नुपपत्त्याऽपौरुषेयवाक्यस्याङ्गीकारयितुमशक्यत्वादिति भावः । ननु ‘कर्तृकरणयोस्तृतीया’ तिङाद्यनुक्ते कर्तरि करणे च तृतीया स्यात्, रामेण बाणेन हतो वालीति । तिङाद्युक्तौ तु प्रतिषेधः, हरिः करोति । एवं कर्तरि तृतीयायां सत्यां येनाभिमताविति स्यान्न यस्येति । न च ‘कर्तृकर्मणोः कृति’ कृद्योगे कर्तरि कर्मणि च षष्ठी स्यात् । व्यासस्य कृतिः, भारतस्य श्रवणम् । एवं च प्रकृते ‘कृदतिङ्’ इति तिङ्वर्जप्रत्ययस्य कृत्त्वोक्तेः क्तप्रत्ययस्यापि कृत्त्वादभिमतशब्दस्यापि क्तप्रत्ययान्तत्वेन कृदन्तत्वात्तद्योगे यस्येति षष्ठी युक्तेति वाच्यम् । ‘न लोकाव्ययनिष्ठाखलर्थतृनाम्’ एषां योगे षष्ठी न स्यात् । विष्णुना हता दैत्याः । निष्ठोदाहरणमेतत् । एवं च प्रकृतेऽभिमतशब्दस्य क्तप्रत्ययान्तस्य ‘क्तक्तवतू निष्ठा’ इति निष्ठाप्रत्ययान्तत्वेन तद्योगे षष्ठ्या निषिद्धतया तदप्राप्तौ ‘अपवादस्यापवादे पुनरुत्सर्गस्यैव प्राप्तिः’ इति तृतीयैव स्यात् । देवदत्तेन भुक्तमितिवत् । अतो येन तौ नाभिमतावित्येव वक्तव्यं, यस्येति तु कथमित्याशङ्कते- नन्विति ॥ अतीतार्थकनिष्ठाक्तप्रत्यययोग एव न लोकेति षष्ठी निषिद्धा । न तु वर्तमानार्थकक्तप्रत्यययोगे । एवं च प्रकृते ‘मतिबुद्धिपूजार्थेभ्यश्च’ एतदर्थकेभ्यो धातुभ्यो वर्तमानेऽर्थे क्तप्रत्ययः स्यादिति मत्याद्यर्थकेभ्यो धातुभ्यः क्तप्रत्ययविधानात् । प्रकृते च मत्यर्थकादभि-पूर्वकान्मनित्यस्माद्धातोः क्तप्रत्यये कित्त्वादनुनासिकलोपे सत्यभिमतशब्दो निष्पन्नः । तथा च ‘क्तस्य च वर्तमाने’ वर्तमानार्थस्य क्तस्य योगे षष्ठी स्यात् । सतां मतो, राज्ञां मत इत्येवं ‘न लोक’ इति सूत्रविहितषष्ठी-प्रतिषेधबाधकत्वेन षष्ठीविधानात्सैवात्र युक्ता, देवदत्तस्येष्टमितिवत् । अतो यस्य तावित्युपपन्नमिति परिहरति- उच्यत इत्यादिना । प्रयुज्यत इत्यादि ॥ प्रणेता प्रणयने शास्त्रनिर्माणे येन प्रयुज्यते तत्प्रयोजनं विषयः । श्रोता च शास्त्रश्रवणे येन प्रयुज्यते तत्प्रयोजनं साध्यमित्युभयमपि प्रयोजनशब्देनोच्यत इत्यर्थः । एवं प्रयोजनशब्दं निरुच्येदानी प्रयोजनाभावादिति वाक्यार्थमाह- विषयादीति ॥ अन्यत इति ॥ धनधान्यादेः कुसीदकृष्यादितो लभ्यत्वादित्यर्थः ॥ सम्बन्धेति ॥ अन्यतो लभ्यत्वादेवानेन शास्त्रेण साध्यसाधनभावसम्बन्धो नास्तीत्यर्थः । कुतोऽशास्त्रत्वमापद्यत इत्यतः शास्त्रस्वरूपं दर्शयति- वक्तृश्रोत्रोरित्यादिना ॥ सिद्धार्थबोधकवाक्यसमूहस्य (श्री.टि) शास्त्रत्वपरिहाराय प्रमाणान्तरेत्याद्युक्तम् । तेनापूर्वतालाभः । काकदन्तपरीक्षाग्रन्थादिसाधारण्य-वारणायोक्तं वक्तृश्रोत्रोरित्यादि । फलस्यान्यसाध्यत्वे तेन सम्बन्धाभावप्रसङ्गादनन्यसाध्यमित्युक्तम् । तद्धेतुभूतमिति विषयफलयोः सम्बन्धोक्तिः । चरकं वैद्यशास्त्रम् । इष्टापत्तिं परिहरति- न चेति ॥ तस्य चार्वाकस्य तद् अशास्त्रित्वं नेष्टमित्यर्थः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

॥ आपाद्यतामपौरुषेयवाक्याभ्युपगम इति ॥ धर्माद्यङ्गीकाररूपापादकसद्भावादिति भावः । न लोकाव्ययनिष्ठेति पुनः प्रतिषेध इति ॥ यद्यपि ‘तृजकाभ्यां कर्तरि’ इत्यत्र तृचः सानुबन्धकस्य निर्देशेन तृन्व्यावृत्त्यर्थेन ‘न लोक’ इति निषेधस्यानित्यत्वज्ञापनेन न तस्य प्रकृते प्रवृत्तिः सम्भवति । तथाऽपि तन्नित्यत्व-माश्रित्यायं ग्रन्थ इति द्रष्टव्यम् ॥ तृतीयया भवितव्यमिति ॥ ‘अपवादाभावे पुनरुत्सर्गस्य स्थितिः’ इति न्यायादिति भावः । उक्तमर्थं विपक्षे बाधकसूचनेनोपपादयति- देवदत्तेन भुक्तमिति यथेति ॥ प्रतिषेध-बाधकत्वेनेति ॥ ‘न लोकाव्यय’ इति प्रतिषेधबाधकत्वेनेत्यर्थः । उक्तमर्थं विपक्षे बाधकसूचनेन द्रढयति- देवदत्तस्येष्टमिति यथेति ॥ प्रयोजनं विषयः साध्यं चेति ॥ ‘अप्रयोजनं चेत्युपलक्षणम् । निर्विषयं चेत्यपि द्रश्व्व्यम्’ इति सुधाग्रन्थस्य प्रयोजनपदरूढ्याश्रयणेन प्रवृत्तत्वात् प्रयोजनपदयोगाश्रयणेन प्रवृत्तैतद्ग्रन्थस्य न तद्विरोध इति द्रष्टव्यम् ॥ शास्त्रानपेक्षणादिति ॥ ‘अप्राप्त एव हि शास्त्रमर्थवत्’ इति न्यायादिति भावः । शास्त्रमित्युच्यत इति ॥ अन्यथा काकदन्तपरीक्षाग्रन्थस्यापि शास्त्रत्वापत्तेरिति भावः । अङ्गीकार्यमितीत्यत्रत्यस्य इतिशब्दस्य इत्येतदुक्तं भवतीति पूर्वेण सम्बन्धः ।

लघुप्रभा

(व्या.टि.)

चार्वाकः शङ्कते- येषामिति ॥ आपादकाभावादिति ॥ अतीन्द्रियाङ्गीकाररूपापादकाभावा-दित्यर्थः । असम्भावनापरिहारो वेदोऽपौरुषेय इत्यस्येति शेषः ॥ तेनापीति ॥ अनिच्छताऽपीत्यर्थः ॥ अभ्युप-गममिति ॥ तस्यैवापादकपदार्थत्वादित्यर्थः ॥ कारयित्वेति ॥ विपक्षे बाधकदण्डेनेति शेषः ॥ कर्तृकरण-योरिति ॥ यच्छब्दार्थस्यात्राभिमतिकर्तृत्वादित्यर्थः ॥ बाधित्वेति ॥ षष्ठ्याः कृद्योगलक्षणत्वेन विशेषविधि-त्वादिति भावः॥ न लोकाव्ययेति ॥ ‘अत्र लग्रहणं व्यर्थम् । तृन्निति प्रत्याहारग्रहणात्’ इति भाष्ये स्थितम् । तथाऽपि वार्तिकानुसारेण सूत्रग्रहणम् । अभिमतशब्दे क्तप्रत्ययस्य ‘क्तक्तवतू निष्ठा’ इति निष्ठासञ्ज्ञात्वात् तद्योगे षष्ठीप्रतिषेधः ॥ मतिबुद्धीति ॥ मतिरिच्छा बुद्धेः पृथग्ग्रहणात् । क्तस्य कित्त्वान् मनोतेरनुनासिकलोप इत्यर्थः । केचित्तु माङ् मान इत्यतो निष्ठायामातो लोपेन मतपदं निरवोचन् । तदज्ञान-विजृम्भितम् । तथा हि ‘आतो लोप इटि च’ इत्यत्र अजाद्योरिति क्ङिदिड्विशेषणत्वेन आलोपप्राप्त्यभावात् । तल्लोपे वा ‘न्त’ इति स्यात् । ‘द्यतिस्यतिमास्थामित्ति किति’ इतीत्वस्यावर्जनीयत्वेन मितमित्येव भाव्यत्वाच्च । ‘मतिबुद्धि’ इत्यत्र इच्छार्थस्य मनोतेरेव ग्रहणाच्च । अन्यथा (तेन) षष्ठीप्रतिप्रसवानुपपत्तेरित्यलम् । ननु सूत्रान्तरेण विधावपि तस्य निष्ठात्वानपायात् कथं प्रतिषेधबाध इत्यत आह- क्तस्य च वर्तमान इति ॥ वर्तमानार्थस्य क्तस्य योगे (व्या.टि.) षष्ठी स्यादित्यर्थः । केचित्तु अतीतार्थकनिष्ठायोग एव षष्ठी निषिद्धेति व्याख्यन् । तन्न । तथा सति भिन्नविषयत्वेनाबाधकत्वप्रसङ्गात् । तथा च प्रतिषेधबाधकत्वेनेति टीकाविरोधः ।

॥ कुत इति ॥ कुतो हेतोरित्यर्थः ॥ प्रयुज्यत इति ॥ करणे ल्युडिति भावः ॥ प्रयोजनं विषयः साध्यं चेति ॥ अनेन प्रयोजनश्च प्रयोजनं चेति विगृह्य ‘नपुंसकमनपुंसकेनैकवच्चान्यतरस्याम्’ इति नपुंसकैकशेषो बोध्यः । हेतुत्वभ्रान्तिं वारयति- अभावप्रसङ्गादिति ॥ धर्माद्यतीन्द्रियार्थरूपविषयविशेषाभावेन स्वर्गादिरूप-प्रयोजनाभावेन च कथं सामान्याभावापादनमित्यतः परिशेषाभिप्रायेणेदमित्याशयेन परिशेषं व्यनक्ति- एतदुक्तं भवतीति ॥ अनपेक्षणादिति ॥ ‘अप्राप्ते शास्त्रमर्थवत्’ इति न्यायादिति भावः । अनेन शास्त्रेण । सम्बन्धः कार्यकारणभावः ॥ परीक्षादीति ॥ १आदिपदेन प्रतीतार्थवाक्यपरिग्रहः । निर्विषयफलत्वेऽनुपादेयत्वमापाद-नीयम् । अशास्त्रत्वं तु कुत इत्यतः शास्त्रलक्षणस्य तद्घटितत्वादित्याशयेन शास्त्रलक्षणमाह- वक्तृश्रोत्रो-रिति ॥ तद्धेतुभूतमिति ॥ (महा)फलहेतुभूतमित्यर्थः । अनभिमतफलकेऽन्यसाध्यफलके चातिव्याप्तिवारणाय यथाक्रमं फलविशेषणमिति बोध्यम् । अभिमताहेतुभूतार्थके सिद्धार्थके चातिव्याप्तिनिरासाय यथाक्रममर्थ-विशेषणम् । चरकं वैद्यम् । आदिपदेन सुश्रुतम् । इष्टापत्तिं निराह- न चेति ॥