१२ इतिहासादिप्रामाण्यसमर्थनम्

‘इतिहासपुराणः पञ्चमो वेदानां वेदः’ इति तद्गृहीतत्वाच्च

इतिहासादिप्रामाण्यसमर्थनम् ।

मूलम्

- ‘इतिहासपुराणः पञ्चमो वेदानां वेदः’ इति तद्गृहीतत्वाच्च ॥

तत्त्वमञ्जरी

तद्गृहीतत्वात् तेन वेदेनैव साधितप्रामाण्येन वेदसमत्वेनैव परिगृहीतत्वात् स्मृति-वचनानामपि नाप्रामाण्यम् । एवं सप्रतिसाधनं तदनुमानम् । तस्य हेतुरप्यसिद्धः । न हि प्रमाणान्त-रायोग्यार्थत्वमीश्वरवादिवेदस्य । क्षित्यादिकं सकर्तृकम्, कार्यत्वात्, घटवदित्यनुमानयोग्यार्थ-त्वात् ।

टीका

अस्त्वेवं वेदस्यापौरुषेयत्वेनाप्रामाण्यकारणदोषाभावादप्रामाण्याभावनिश्चयः प्रामाण्य-निश्चयश्च । तत एव फलविसंवादादेरवश्यं वैगुण्यादिनिमित्तत्वस्य कल्पनीयत्वेन परोक्तहेतूना-मसिद्धत्वनिश्चयोऽपि । पुराणवाक्यस्य तु कथम्? नहि तदप्यपौरुषेयतयाऽङ्गीक्रियते । तथात्वे पूर्ववाक्ये वेदस्येति नोच्येतेत्यत आह- इतिहासेति ॥ इतिहासश्च पुराणं चेति द्वन्द्वैकवद्भावः । नपुंसकत्वं तु नाऽश्रितम् । पुराणशब्दस्य विशेष्यलिङ्गत्वाद्ग्रन्थविशेषणत्वेन पुंलिङ्गत्वमेवाऽश्रि-तम् । इतिहासपुराणो वेदो, वेदानाम् ऋगादीनां, पञ्चमः पञ्चत्वसङ्ख्यापूर(को)णो वेद इति । तेन अप्रामाण्यशङ्काशून्येन प्रमाणतया निश्चितेन वेदेन वेदसमानतया गृहीतत्वात् पुराणवचनस्या-प्यप्रामाण्याभावादिनिश्चयाद् युक्तं तदुदाहरणमिति । अत्र यद्यपि सामान्येनोक्तम्, तथाऽपि प्रमाणान्तरबलाद् वेदानुकूलयोरेवेतिहासपुराणयोर्ग्रहणमिति ज्ञातव्यम् । ननु आप्तोक्तत्वेनैव पुराणस्याप्रामाण्याभावादिनिश्चयः किं न क्रियत इति चेन्न । आप्तिनिश्चयस्याप्यन्ततो वेदानुसरण-मन्तरेणाशक्यत्वात् । एतेन वेदादिभिर्विष्णोर्निर्दोषत्वादिसिद्धिरपि समाहिता ।

इति वेदादेः प्रामाण्यसमर्थनम् ।

भावबोधः

नन्वितिहासपुराणलक्षणे ग्रन्थे वेदत्वेन प्राथमिको वेत्यादिरूपेण कतमत्वशङ्काभावात् किमर्थं तस्य वेदानां मध्ये पञ्चमवेदत्वविधानमित्यत आह- इतिहासपुराणो वेद इति ॥ नैवमर्थो वाक्यस्य । किन्तु ‘पञ्चभिर्वेदैः’ इत्यादौ ऋगादिवेदानां पञ्च(म)त्वसङ्ख्योक्ता । तत्र ऋगादयश्चत्वारो वेदाः सुप्रसिद्धा अपर-स्त्वेकस्तत्सङ्ख्यापूरको न च दृश्यते इत्याशङ्क्य परिहारार्थमितिहासपुराणलक्षणग्रन्थस्य ऋगादीनां सम्बन्धिना-मुक्तसङ्ख्यापूरकवेदत्वमेव वाक्यार्थ इत्यर्थः । अनेन वेदशब्दस्याऽऽवृत्तिः, तत्र प्राथमिकस्य ग्रन्थपरत्वं चोक्तं भवति । आवृत्तिसूचनार्थमेव पूर्वं ‘ग्रन्थविशेषणत्वेन’ इत्युक्त्वा इदानी वेद इत्युक्तम् ।

भावदीपः

॥ अस्त्विति ॥ एतच्च प्रामाण्यनिश्चयश्चेत्यत्रासिद्धत्वनिश्चयोऽपीत्यत्र चान्वेति- द्वन्द्वेति ॥ ‘सर्वो द्वन्द्वो विभाषयैकवद्भवति’ इत्युक्तेरिति भावः । ननु द्वन्द्वैकवद्भावे ‘स नपुंसकम्’ इति नपुंसकेन भाव्यमित्यत आह- नपुंसकमिति ॥ विशेष्यलिङ्गत्वादिति ॥ पुराणशब्दस्य पुरातनशब्दपर्यायत्वात् ‘पुराणः पुरातनो ग्रन्थः’ इति द्वन्द्वात् प्रागपि पुंलिङ्गत्वात्तदेव समासेऽप्याश्रितमित्यर्थः । एतेन पुराणपदस्य प्रागपि नपुंसकत्वाद् द्वन्द्वे पुंलिङ्गप्राप्तेरभावात् कथं पुंलिङ्गतेति निरस्तम् । प्रागपि पुंलिङ्गत्वादिति । वेदशब्दस्याऽवृत्तिमुपेत्य वाक्यं योजयति- इतिहासेति ॥ ‘तस्य पूरणे डट्’, ‘नान्तादसङ्ख्यादेर्मट्’ इति पूरणार्थे मट्प्रत्ययविधानादाह- पञ्च-त्वेति ॥ नन्वेवं वेदविरुद्धेतिहासादेरपि प्रामाण्याद्यापत्तिरित्यत आह- अत्रेति ॥ इतिहासपुराण इति श्रुतावि-त्यर्थः ॥ प्रमाणान्तरेति ॥ प्रागुदाहृतप्रमाणान्तरेत्यर्थः । एवमेव वेदादिभिर्निर्दोषत्वादिसिद्धिरपि परास्ता वेदितव्येति प्रागुक्तं निराह- एतेनेति ॥ अप्रामाण्याभावप्रामाण्ययोः समर्थनेनेत्यर्थः ।

वाक्यार्थदीपिका

(श्री.टि.)

परोक्तहेतूनाम् अप्रामाण्यसाधकानामनृतत्वादिहेतूनाम् । असिद्धत्वनिश्चयोऽप्यस्त्वित्यनुवर्तते । नन्वितिहासश्च पुराणं चेतिहासपुराणे इति द्विवचनं स्यादित्यत आह- द्वन्द्वैकवद्भाव इति ॥ ‘सर्वो द्वन्द्वो विभाषयैकवद्भवति’ इति वचनादिति भावः । ननु तर्हि ‘स नपुंसकम्’ यस्यैकवद्भावः स नपुंसकं स्यादित्येकवद्भावे नपुंसकत्वविधानादितिहासपुराणमिति स्यादित्यत आह- नपुंसकत्वं त्विति ॥ ‘सर्वे विधयश्छन्दसि विकल्प्यन्ते’ इति वचनादिति भावः । नपुंसकत्वं नाऽश्रितमित्येव न भवति । प्रत्युत पुराणशब्दस्य विशेष्यलिङ्गत्वाद्विशेष्यभूत-वेदशब्दोक्तग्रन्थविशेषणत्वेन पुंलिङ्गत्वमेवाऽश्रितमित्याह- पुराणशब्दस्येति ॥ अत्र वेदशब्दस्याऽवृत्तिः । तत्र प्राथमिकस्य ग्रन्थपरत्वमङ्गीकृत्य व्याचष्टे- इतिहासपुराणो वेद इति ॥ इतिहासपुराणाख्यो ग्रन्थ (श्री.टि.) इत्यर्थः । अत एव पूर्वं ग्रन्थविशेषणत्वेनेत्युक्तम्- पञ्चत्वसङ्ख्यापूरण इति ॥ ‘तस्य पूरणे डट्’ इति सूत्रेण पूरणार्थे डट्प्रत्ययविधानात् पञ्चमशब्दस्यापि डट्प्रत्ययान्तस्य पूरणार्थत्वादित्थं व्याख्यातमित्यव-गन्तव्यम् । तथा च ‘अनुक्तं पञ्चभिर्वेदैर्न वस्त्वस्ति कुतश्चन’ इत्यादौ ऋगादिवेदानां पञ्चत्वसङ्ख्योक्ता । तत्र ऋगादयश्चत्वारो वेदाः प्रसिद्धाः । अपरस्त्वेको वेदस्तेषां पञ्चत्वसङ्ख्यापूरको न दृश्यते; स क इति शङ्काया-मितिहासपुराणलक्षणग्रन्थस्य ऋगादीनां पञ्चत्वसङ्ख्यापूरकवेदत्वमेव विधीयत इति भावः । तद्गृहीतत्वादित्यत्र मध्यमपदलोपी समास इत्याशयेन वेदसमानतयेत्युक्तम् ।

नन्वत्र पुराणशब्दस्य सामान्यशब्दत्वात् तेन शैवपुराणादीनामपि ग्रहणे तेषामपि प्रामाण्यमुक्तं स्यात् । तथा चापसिद्धान्त इत्यत आह- अत्र यद्यपीति ॥ सामान्येनेति ॥ इतिहासपुराण इति सामान्येनोक्तमित्यर्थः ॥ प्रमाणान्तरबलादिति ॥

‘अविरुद्धं तु यत्त्वस्य प्रमाणं तच्च नान्यथा ।

एतद्विरुद्धं यत्तु स्यान्न तन्मानं कथञ्चन ॥’

इत्यादि प्रमाणान्तरबलादित्यर्थः ॥ किं न क्रियत इति ॥ तथा च वेदवाक्येन किमर्थमप्रामाण्याभावादिनिश्चयः पुराणस्य क्रियत इत्यर्थः ॥ आप्तीति ॥ पुराणकर्तुर्व्यासस्येति शेषः । अतः ‘तद्धेतोरेवास्तु तद्धेतुत्वं किं तेन’ इति न्यायेन वेदेनैव तन्निश्चयः कृत इति भावः ॥ एतेनेति ॥ अपौरुषेयत्वेन वेदानां, वेदेन तत्समानतया गृहीतत्वेन पुराणानां चाप्रामाण्याभावात् तैर्विष्णोर्निर्दोषत्वादिसिद्धिर्या तृतीयपरिच्छेदे द्वितीयपरिच्छेदे च क्रियमाणा साऽपि समाहितेत्यर्थः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

ननु इतिहासपुराण इत्यत्र न तावदव्ययीभावसमासः । अव्ययाभावात् । उत्तरपदार्थस्याप्राधान्य-प्रसङ्गाच्च । नापीतिहाससहितं पुराणमिति तत्पुरुषः । तत्पुरुषस्योत्तरपदार्थप्रधानत्वेनेतिहासस्याप्राधान्य-प्रसङ्गात् । नापि द्विगुः । सङ्ख्यापूर्वकत्वाभावात् । नापि कर्मधारयः । इतिहासपुराणयोर्भिन्नत्वेन तत्प्रतिपाद्य-पदार्थाभेदस्य तत्र बाधितत्वात् । नापीतिहासश्च पुराणं च यस्मिन्निति बहुव्रीहिः । तथा सतीतिहासपुराणयोः पञ्चमवेदत्वाभावप्रसङ्गात् । तादृशान्यपदार्थाभावेनासम्भवदुक्तिकत्वाच्च । नापि समाहारद्वन्द्वः । तथा सति समाहारस्यैकत्वादेकवचनं क्लीबता चेति क्लीबत्वप्रसक्त्या पुंलिङ्गानुपपत्तिप्रसङ्गात् । नापीतिहासश्च पुराणं चेति इतरेतरयोगः । तथा सति धवखदिरावितिवद् द्विवचनप्रसक्त्या एकवचनानुपपत्तिप्रसङ्गात् । तस्मादत्र कः समास इत्याशङ्क्य इतरेतरद्वन्द्व एवात्र समासः । इतिहासपुराणयोर्वर्णरूपशब्दरूपतया, तद्द्रव्यत्वपक्षे ‘जातिरप्राणि-नाम्’ इत्यनेनैकवद्भावविधानाद्, गुणत्वपक्षे च ‘सर्वो द्वन्द्वो विभाषयैकवद्भवति’ इति तद्विधानाद् द्विवचना-प्रसक्त्या नैकवचनानुपपत्तिप्रसङ्ग इत्याशयेनाऽह- द्वन्द्वैकवद्भाव इति ॥ नन्वेवमपि ‘स नपुंसकम्’ इत्येकवद्भावप्रयुक्तनपुंसकत्वेनेतिहासपुराणमिति प्रसक्त्या इतिहासपुराण इति पुंलिङ्गानुपपत्तिरित्यतः ‘सर्वे (पां.टि.) विधयश्छन्दसि विकल्प्यन्ते’ इत्यभियुक्तोक्त्या तत्प्रयुक्तक्लीबत्ववैकल्पिकत्वान्न पुंलिङ्गानुपपत्ति-रित्याशयेनाह- नपुंसकत्वं त्विति ॥ नन्वेकवद्भावप्रयुक्तनपुंसकत्वाप्रसङ्गेऽपि ‘परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः’ इति द्वन्द्वतत्पुरुषयोः परवल्लिङ्गविधानात् पुराणशब्दलिङ्गस्य नपुंसकस्यैव प्रसक्त्या पुंलिङ्गानुपपत्तिस्तदवस्थैवेत्यतो नियतलिङ्गानां विशेषणानां विशेष्यनिघ्नत्वाभावेऽप्यनियतलिङ्गानां विशेषणानां विशेष्यनिघ्नत्वेन तल्लिङ्गत्व-नियमात्, ल्युडन्तपुराणशब्दस्यानियतलिङ्गत्वेन विशेष्यभूतग्रन्थलिङ्गपुंलिङ्गवत्त्वस्याऽवश्यकत्वात् ‘पुराणप्रतन-प्रत्नपुरातनचिरन्तनाः’ इति विशेष्यनिघ्नत्वस्मरणाच्च न तदनुपपत्तिरित्याह- पुराणशब्दस्येति ॥

लघुप्रभा

(व्या.टि.)

तत एव प्रामाण्यनिश्चयादेव ॥ नोच्येतेति ॥ अपौरुषेयत्वहेतोर्भागासिद्ध्यभावादिति भावः । इतिहासश्चेति ॥ यद्यपि ‘अल्पाच्तरं पूर्वम्’ इति द्वन्द्वे पुराणशब्दः पूर्वं निपातनीयः । तथाऽपि ‘अजाद्यदन्तम् इति इतिहासशब्दस्य पूर्वनिपातो युक्तः ॥ द्वन्द्वैकवद्भाव इति ॥ ‘सर्वो द्वन्द्वो विभाषयैकवद्भवति’ इति एकवद्भावः । तेन नैकवचनानुपपत्तिरित्याशयः । तथाऽपि ‘स नपुंसकम्’ इति नपुंसकत्वं स्यादत आह- नपुंसकत्वं त्विति ॥ सर्वविधीनां छन्दसि वैकल्पिकत्वेन ‘स नपुंसकम्’ इति न प्रवृत्तमिति भावः । तथाऽपि पुराणशब्दस्य नियतनपुंसकत्वेन ‘परवल्लिङ्गम्’ इति नपुंसकत्वं स्यादित्यस्याप्येतदेवोत्तरम्- नपुंसकत्वं त्विति ॥ उक्तविधया परवल्लिङ्गमित्येतदपि न प्रवृत्तमित्यर्थः। व्यत्ययेन पुंस्त्वमप्याश्रितमित्यवधेयम् । समाधानान्तरमाह- पुराण-शब्दस्येति ॥ एतत्पक्षेऽप्युक्तविधया ‘स नपुंसकम्’ इति नाऽश्रितमिति ध्येयम् । परवल्लिङ्गमित्यनेन तु पुंलिङ्ग-मेव । ग्रन्थविशेषे रूढस्य लोकप्रसिद्धनियतनपुंसकत्वस्वारस्याय विधिद्वयानाश्रयणं व्यत्ययेन पुंस्त्वाश्रयणं च पूर्वसमाधाने । एतत्समाधाने तु व्यत्ययानाश्रयणपरवल्लिङ्गत्वस्वारस्याय ग्रन्थविशेषे रूढस्यापि विशेष्यनिघ्नत्वमेक-वद्भावप्रयुक्तनपुंसकत्वानाश्रयणं च स्वीकृतमित्यवधेयम् । द्वितीयसमाधाने विग्रहोऽपि पुंलिङ्गेन कर्तव्यः ।

केचित्तु परवल्लिङ्गमित्यनेन प्राप्तनपुंसकत्वपरिहाराय पुराणशब्दस्य विशेष्यवचनतयेति योजयित्वा ‘पुराण-प्रतनप्रत्नपुरातनचिरन्तनाः’ इति कोशानुसारेण पुरातनपर्यायस्य पुराणशब्दस्य विशेष्यनिघ्नत्वमित्येकवाक्यता-माहुः । तेषां नपुंसकेन विग्रहप्रदर्शनम्, इतिहासस्यापि पुरातनग्रन्थत्वेन पृथक्कथनं, भागवतादिग्रन्थविशेषोपस्थानं च कथमिति चिन्त्यम् । अधिकं तु गुरुप्रभायां द्रष्टव्यम् ।

विशेषणविशेष्यभावेनान्वयं दर्शयति - इतिहासपुराणो वेद इति ॥ इतिहासपुराणोभयात्मको ग्रन्थ इत्यर्थः । सङ्ख्यापूरक इति ॥ ‘तस्य पूरणे डट्’ इति पञ्चन्शब्दाड् डटि तस्य ‘नान्तादसङ्ख्यादेर्मट्’ इति मडागमे तस्याभत्वान्न टिलोपः । किन्तु ‘नलोपः प्रातिपदिकान्तस्य’ इति नलोप इति भावः । केषाञ्चिद्व्याख्याने तस्य पूरणे मडिति पाठः, तेषां लेखकस्य वा प्रमादात् । वेदेनेत्यन्तं तच्छब्दस्य व्याख्यानम् । वेदसमानतयेति तु गृहीतिप्रकारप्रदर्शनम् । तद्गृहीतत्वादित्यत्र मध्यमपदलोपी समास इत्याशयेन वेदसमानतयेत्युक्तमिति केचित् । तन्न । शाकपदस्य पार्थिवपदेनेव तेनेत्यस्य गृहीतपदेन सामर्थ्याभावात् । वेदसमानतयेत्यनेनासा-(व्या.टि.) मर्थ्याच्च । सामान्यनिर्देशजनितसदसत्साधारणप्रतीतिं वारयति- तथाऽपीति ॥ प्रमाणान्त-रेति ॥ ‘ये चानुयायिनः’ इति, ‘पुराणानि च यानीह’ इति च प्रमाणान्तरेत्यर्थः ॥ अशक्यत्वादिति ॥ अज्ञानविप्रलम्भयोः प्राप्तेरिति वक्ष्यमाणदिशेति भावः ॥ एतेनेति ॥ वेदादिप्रामाण्यसमर्थनेनेत्यर्थः