११ वेदाप्रामाण्याभावनिश्चयसमर्थनम्

अपौरुषेयत्वाद्वेदस्य

वेदाप्रामाण्याभावनिश्चयसमर्थनम् ।

मूलम्

***- अपौरुषेयत्वाद् वेदस्य । ***

तत्त्वमञ्जरी

पुरुषकृतत्वे ह्यज्ञानमूलत्वादिना प्रामाण्याभावशङ्का स्यात् । वेदस्य त्वपौरुषेयत्वात् सा न स्यात् । अत्रायमाशयः - वेदोऽप्रमाणं न भवितुमर्हति; अपौरुषेयवाक्यत्वात् । यदप्रमाणं तन्नापौरुषेयवाक्यं, यथोन्मत्तवाक्यमिति ।

टीका

अस्त्वेवं तर्हि हेतूनां सन्दिग्धासिद्धत्वादिना वेदाप्रामाण्यानिश्चयः । तथाऽपि तत्सन्देहोऽ-स्त्येव, वैगुण्यादिनिमित्तत्वादेरनिश्चितत्वात् । तथाच भवतोऽभिमतसिद्धये वेदपुराण-वचनोदाहरणमयुक्तमित्यत आह- अपौरुषेयत्वादिति ॥ वचनानामिति प्रकृतत्वेऽपि वेदस्येति पुनर्वचनम्, पुराणवचनस्यापि प्रकृतत्वात् तस्यापि पक्षीकारे भागासिद्धिप्रसङ्गात् तत्परित्यागेन तावदत्र वेदस्यैव पक्षीकरणज्ञापनार्थम् ।

इदमुक्तं भवति । करणानामप्रामाण्यं खल्वबोधकत्वं विपरीतबोधकत्वं वा । तत्र शब्दस्या-बोधकत्वं द्वेधा सम्भवति, पदाभिमतानां निरभिधेयत्वेन साभिधेयत्वेऽप्यन्वयाभावेन चेति । विपरीतबोधकत्वं तु विपरीतान्वयेन । तदिदं स्वतन्त्रवक्तृपुरुषदोषाधीनं नतु स्वभाव इति अप्रामाण्यस्य परतस्त्वं व्युत्पादयन्तो वक्ष्यामः । पुरुषो ह्यज्ञानाद् विपरीतज्ञानात् प्रमादाद् अपटुकरणत्वाद्वा निरभिधेयान् निरन्वयान् वा शब्दान् प्रयुङ्क्ते । प्रमादात् करणापटुत्वाद् विपरीतज्ञानाद् विप्रलम्भकत्वाद्वा विपरीतान्वयान् । तदभावश्च द्वेधा सम्भवति, अपौरुषेयत्वेन वा वक्तुराप्तत्वेन वा, विवक्षितार्थतत्त्वज्ञानादेराप्तिशब्दार्थत्वात् । तत्र वेदस्यापौरुषेयत्वेन पुरुषदोषनिबन्धनदोषाभावात्, कारणाभावे च कार्यस्य शङ्कितुमशक्यत्वाद् अप्रामाण्याभावो निश्चीयते ।

वेदो नाप्रमाणम्, अप्रामाण्यकारणदोषशून्यत्वात् प्रत्यक्षादिवत् । शब्ददोषाश्च पुरुषदोषाधीनास् तदन्वयव्यतिरेकानुविधायित्वात् । यद् यदन्वयव्यतिरेकानुविधायि, तत् तदधीनम् । यथा पटस्तन्त्वधीनः । वेदो न पुरुषदोषनिबन्धनदोषवान्, पुरुषाप्रणीतत्वात् । यद् येनाप्रणीतं वाक्यम्, न तत् तद्दोषप्रयुक्तदोषवत् । यथा यज्ञदत्ताप्रणीतं वाक्यं न यज्ञदत्तदोषप्रयुक्तदोषवद् इति । विपक्षे त्वकारणकार्योत्पत्तिप्रसङ्गः ।

तथाचानृतत्वादयः प्रागप्रामाण्याभावानिश्चयात् सन्दिग्धासिद्धाः । निश्चिते त्वप्रामाण्याभावे निश्चितासिद्धा एव भवन्ति । एवमप्रामाण्याभावे निश्चितेऽपि प्रामाण्यनिश्चयः कुत इति चेत् । अपौरुषेयत्वेन तन्निबन्धनाबोधकत्वविपरीतबोधकत्वशून्यत्वादिति ब्रूमः । वेदोऽप्रमाणम् आप्ताप्रणीतवाक्यत्वात्, उन्मत्तवाक्यवद् इति चेन्न । वाक्यत्वावच्छिन्ने साध्येऽनाप्तप्रणीतत्वस्य, केवले वा अप्रामाण्यकारणदोषवत्त्वस्योपाधित्वात् । वेदे चोपाधिद्वयाभावस्योक्तत्वात् । वाक्यप्रामाण्यस्य वक्तुराप्तिमूलत्वेन तदभावेऽकारणकार्योत्पत्तिः स्याद् इति तु प्रामाण्यस्य स्वतस्त्वप्रतिपादनेन निराकरिष्यते । आप्तोक्तत्वेन अप्रामाण्याभावप्रामाण्ययोर्निश्चयः किं न क्रियत इति चेत् । यथा न शक्यते तथा वक्ष्यते । महाजनपरिगृहीतत्वात् प्रामाण्यादिनिश्चयोऽस्तु किमनेनापौरुषेयत्वक्लेशेनेति चेत् । किं महच्छब्देन सङ्ख्याप्रकर्षोऽभिधीयते पूज्यता वा । नाऽद्यः । जनानामियत्तापरिज्ञानस्याशक्यत्वेन सन्दिग्धासिद्धत्वात् । देशादिविशेषे बौद्धादीनां महाजनपरिगृहीतत्वेनानैकान्त्याच्च । न द्वितीयः । वेदपरिग्रहवतां पूज्यत्वस्य परैरनङ्गीकृतत्वात् । स्वशास्त्रपरिगृहीतॄणां तस्याङ्गीकृतत्वाच्चेति ॥

भावबोधः

(र.टि.)

ननु ‘अपौरुषेयत्वाद्वेदस्य’ इत्यत्र प्रामाण्यहेतुत्वेनोक्तमपौरुषेयत्वम्, अनियतानुपूर्वीकत्वाभावो वा, नियतानुपूर्वीकत्वभावो वा । नाऽद्यः । गगनादौ व्यभिचारात् । न द्वितीयः । साक्ष्यादिरूपसकलप्रमाणरूप-सपक्षव्यावृत्तत्वेनासाधारण्यात्, इत्याद्यनुपपत्तिपरिहाराय ‘नित्यत्वात् पुरुषोद्भवैः । वर्जितं सर्वदोषैश्च कथं नो मानतां व्रजेत्’ इत्याद्यनुव्याख्यानानुसारेणाप्रामाण्याभावसाधकानुमानपरत्वेन तद्वाक्यं योजयति- अपौरुषेय-त्वेनेति ॥ नन्वनुकूलतर्केण हेतोः साध्यव्याप्यत्वनिश्चयात्, पक्ष एव साध्यव्यापकत्वभङ्ग इत्यत आह- वाक्य-प्रामाण्यस्येति ॥

भावदीपः

॥ सन्देहोऽस्त्येवेति ॥ अप्रामाण्यसन्देहो वेदादिष्वस्त्येवेत्यर्थः ॥ वैगुण्यादिनिमित्तत्वादे-रिति ॥ आपातत एवायं व्याघात इत्यादेरनिश्चयादित्यादिपदार्थः ॥ भागासिद्धीति ॥ अपौरुषेयत्वादित्यत्र नाप्रामाण्यमित्यनुषङ्गात्तत्र च वेदवचनानि नाप्रमाणानीति वाच्यत्वादिति भावः । उत्तरवाक्ये पुराणादेरपि पक्षीकारात्तावदत्रेत्युक्तम् । अपौरुषेयत्वादित्युक्तिमात्रेण कथमुक्तशङ्कानिरासेनाप्रामाण्याभावनिश्चय इत्यत आह- इदमुक्तं भवतीति ॥ निरभिधेयत्वेनेति ॥ कचटतपानां जबगडदत्वादित्यादाविति भावः ॥ अन्वया-भावेनेति ॥ कुण्डमजाजिनं दश दाडिमानि षडपूपा इत्यादाविति भावः ॥ विपरीतान्वयेनेति ॥ श्वेतो धावतीत्यादौ श्वा इतो गच्छतीत्यर्थके वाक्ये श्वेतः कुष्ठः शोधयतीत्यन्वयेनेति वा, गिरिर्भुक्तमग्निमान् देवदत्तेने-त्यादाविति वा, अयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामित्यादावन्याभिप्रायेऽन्यान्वयेनेति वाऽर्थः ॥ वक्ष्याम भावदीपः

इति ॥ ‘दुष्टबुद्धीनामेवाप्रामाण्यशङ्केति परतोऽप्रामाण्यम्’ इति वाक्यव्याख्याऽवसर इति भावः । विपरीतान्वयानिति ॥ शब्दान् प्रयुङ्क्त इत्यनुषङ्गः ॥ तत्त्वज्ञानादेरिति ॥ पटुकरणत्वाप्रमादत्वा-विप्रलम्भकत्वानामादिपदेन ग्रहणम् । अपौरुषेयत्वादिति हेतुर्न साक्षादप्रामाण्याभावे हेतुः, अपि तु तत्साधक-हेतुसाधनद्वारा परम्परयेति भावेन साक्षाद्धेतुं स्वयमाह- अप्रामाण्यकारणेति ॥ दोषशून्यत्वमात्रोक्ता-वप्रयोजकताशङ्का स्यादिति कारणान्तविशेषणोक्तिः । कुठारादियत्किञ्चित्कारणदोषशून्यस्यापि दुष्टेन्द्रियादे-रप्रामाण्यात् तत्राव्यभिचारायाप्रामाण्येत्युक्तिः । दोषपदं स्पष्टार्थत्वाय स्वरूपकथनं वा । वेदोऽप्रामाण्य-कारणहीनो निरभिधेयपदत्वानन्वितपदत्वविपरीतान्वितपदत्वप्रयुक्ताबोधकत्वविपरीतबोधकत्वरूपदोषशून्य-त्वादिति प्रयोगान्तराभिप्रायं वा । दोषो ह्यप्रामाण्ये कारणमित्यस्य दुष्टबुद्धीनामेवेत्यादावग्रे स्पश्व्त्वाद्धेतोरसिद्धि-निरासाय तत्साधकमनुमानमग्रे विवक्षुरादौ साध्यविशेषणसाधकमनुमानमाह- शब्ददोषाश्चेति ॥ यद्वा प्राक् पुरुषदोषनिबन्धनदोषाभावादिति दोषाणां पुरुषदोषायत्तत्वं यदुक्तं तत्साधयितुमाह- शब्ददोषाश्चेति ॥ प्रत्यक्षादिदोषाणामदृष्टादिकारणान्तरायत्तत्वात् शब्ददोषा इत्युक्तम् । प्रागुक्तहेतोरसिद्धिवारकं प्रयोगमिदानीमाह- वेद इति ॥ दुष्टेन्द्रिये व्यभिचारनिरासायाप्रयोजकत्वनिरासाय च साध्ये विशेषणोक्तिः । आद्यन्तहेत्वोर-प्रयोजकत्वनिरासायानुग्राहकतर्कमाह- विपक्ष इति ॥ हेतुसत्त्वेऽपि साध्याभाव इत्यर्थः ।

एतावता प्रागुक्तहेतूनां का गतिरुक्तेत्यत आह- तथा चेति ॥ इममेव हेतुं परम्परया प्रामाण्यसाधनेऽप्याह- अपौरुषेयत्वेनेति ॥ तन्निबन्धनेति ॥ अज्ञानविपरीतज्ञानादिप्रागुक्तपुरुषदोषनिबन्धना ये निरभिधेय-पदत्वादयस्तन्निबन्धनाबोधकत्वादिशून्यत्वादित्यर्थः । तत्कुत इत्यतोऽपौरुषेयत्वेनेत्युक्तम्- इति ब्रूम इति ॥ हितैषिपित्रादिवाक्यमत्र दृष्टान्त इति भावः । तत्राऽप्तोक्तत्वेनोक्तहेतुर्ध्येयः । प्रतिपक्षमुक्तानुमानस्याऽशङ्कते- वेदोऽप्रमाणमिति ॥ आप्तवाक्येऽव्यभिचाराय विशेषणम् । गगनादौ भ्रान्तिजनकत्वरूपाप्रामाण्याभावेन तत्राव्यभिचाराय विशेष्यम् ॥ वाक्यत्वावच्छिन्न इति ॥ उपाधिर्द्विविधः । शुद्धसाध्यव्यापकः, अवच्छिन्न-साध्यव्यापकश्चेति । द्वितीयोऽपि द्वेधा । पक्षधर्मावच्छिन्नसाध्यव्यापकः, साधनावच्छिन्नसाध्यव्यापकश्चेति । प्रकृते चानाप्तप्रणीतत्वोपाधेः प्रत्यक्षभ्रमादौ शुद्धसाध्याव्यापकत्वेऽपि वाक्यत्वरूपपक्षधर्मावच्छिन्नसाध्यं प्रत्युन्मत्तवाक्ये व्यापकत्वाद्भवत्ययमुपाधिः । वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वादित्यत्र द्रव्यत्वावच्छिन्नसाध्य-व्यापकोद्भूतरूपवत्त्ववदिति भावः ॥ केवले वेति ॥ साध्य इत्यनुषङ्गः । प्रत्यक्षाभासादौ साध्यव्यापकोऽ-प्रामाण्यकारणदोषवत्त्वरूपोपाधिरिति भावः । साधनाव्यापकत्वमुपाधिद्वयस्याऽह- वेदे चेति ॥ उक्तत्वा-दिति ॥ शब्ददोषाश्चेत्यादिना वेदस्यापौरुषेयत्वेनेत्यादिना वा न यज्ञदत्तदोषप्रयुक्तदोषवदित्यन्तेनेति भावः। स्वतस्त्वेति ॥ प्रामाण्यं तु स्वत एवेत्येतद्व्याख्यावसर इति भावः । न्यायमतरीतिमाश्रित्य शङ्कते- आप्तेति ॥ वेदस्येति योज्यम् ॥ वक्ष्यत इति ॥ ‘न च पौरुषेयेण वाक्येन’ इत्यादिवाक्यव्याख्यानावसर इति योज्यम् । कुसुमाञ्जल्युक्तमाशङ्कते- महाजनेति ॥ प्रामाण्यादीत्यादिपदेनाप्रामाण्याभावनिश्चयसङ्ग्रहः ॥ इयत्तेति ॥ भावदीपः

वेदाप्रामाण्यवाद्यपेक्षया तत्प्रामाण्यवादिनो बहव इति परिज्ञानस्येत्यर्थः ॥ बौद्धादीनामिति ॥ बौद्धसाङ्ख्यशैवादिग्रन्थानामित्यर्थः । तत्र प्रामाण्यरूपसाध्याभावादनैकान्त्यमित्यर्थः ॥ परैरिति ॥ अप्रामाण्य-वादिभिः । तथा चासिद्धिरिति भावः । अनैकान्त्यं चाऽह- स्वशास्त्रेति ॥ तस्येति ॥ पूज्यत्वस्येत्यर्थः ।

वाक्यार्थदीपिका

(श्री.टि.)

॥ तत्सन्देह इति ॥ अनृतत्वादिनाऽप्रामाण्यात् फलविसंवादः, उत वैगुण्यादिनिमित्तक इति फलविसंवादसन्देहेनाप्रामाण्यसन्देहोऽस्त्येवेत्यर्थः । ननु न फलविसंवादसन्देहो द्वितीयकोटेरेव निश्चितत्वादिति चेत्तत्राऽह- वैगुण्यादीति ॥ निमित्तत्वादेर्निमित्तकत्वादेः, फलविसंवादस्येति शेषः ॥ तस्यापीति ॥ वचनानामिति प्रयुज्याप्रामाण्याभावसाधनाय पुराणस्यापि पक्षीकार इत्यर्थः ॥ भागासिद्धीति ॥ अपौरुषेयत्व-हेतोस्तत्राभावादिति भावः ॥ तावदिति ॥ पुराणस्याप्रामाण्याभावमुत्तरत्र ‘इतिहासपुराणः पञ्चमः’ इत्यादिना प्रकारान्तरेण साधयिष्याम इत्याशयेनेत्यर्थः । पदानां निरभिधेयत्वेनेत्युच्यमाने ‘अर्थवदधातुरप्रत्ययः’ इत्यर्थवत एव प्रातिपादिकत्वोक्तेः प्रातिपदिकोपर्येव ‘ङ्याप्प्रातिपदिकात्’ इत्यधिकृत्य स्वादिप्रत्ययविधानात् स्वादिप्रत्ययान्तानामेव ‘सुप्तिङन्तं पदम्’ इति पदत्वविधानात् पदत्वोक्त्याऽर्थवत्त्वप्राप्तेर् निरभिधेयत्वोक्तौ व्याघातः स्यादतः पदाभिमतानामित्युक्तम् । पदत्वेन पराभिमतानां कचटतपानां जबगडदत्वादित्यादीनामि-त्यर्थः ॥ अन्वयाभावेनेति ॥ कुण्डमजाजिनं दश दाडिमानि षडपूपा इत्यादावित्यर्थः ॥ विपरीतान्वये-नेति ॥ गिरिर्भुक्तमग्निमान् देवदत्तेन, ‘अम्बरमम्बुनि पत्रमरातिः पीतमहीशगणस्य ददाह । यस्य वधूस्तनयं गृहमब्जा पातु स वः शिवलोचनवह्निः’ इत्यादावित्यर्थः । तदिदं पदाभिमतानां निरभिधेयत्वादि ॥ स्वतन्त्र-वक्त्रिति ॥ सजातीयोच्चारणमनपेक्ष्योच्चारयिता पुरुषः स्वतन्त्रवक्तेत्यर्थः ॥ न तु स्वभाव इति ॥ विपरीत-बोधकत्वादिरूपाप्रामाण्यस्य स्वभावत्वे ज्ञानजनकजन्यत्वप्राप्त्याऽप्रामाण्यस्य स्वतस्त्वापत्तिरिति भावः । अस्तु स्वतस्त्वं को दोष इत्यत आह- अप्रामाण्यस्येति ॥ वक्ष्याम इति ॥ ‘अप्रामाण्यस्य च परतस्त्वानङ्गीकारे’ इत्यत्रेत्यर्थः । पदाभिमतानां निरभिधेयत्वादिकं यत्तत् पुरुषदोषाधीनमित्येतदुपपादयति- पुरुषो हीति । तदभाव इति ॥ शब्दस्याबोधकत्वविपरीतबोधकत्वरूपाप्रामाण्याभाव इत्यर्थः । वक्तुराप्तत्वनिश्चयेन कथं तदभावनिश्चय इत्यत आह- विवक्षितार्थेति ॥ आदिपदेन करणपाटवाविप्रलिप्सयोर्ग्रहणम् । विवक्षितार्थतत्त्वज्ञानोक्त्या अज्ञानविपरीतज्ञानप्रमादानां निरासः । करणपाटवोक्त्याऽपटुकरणत्वस्य, अविप्रलिप्सोक्त्या विप्रलम्भकत्वस्य निरास इति ज्ञातव्यम् ।

अपौरुषेयत्वेन कथमप्रामाण्याभावनिश्चय इत्यत आह- तत्र वेदस्येति ॥ कारणाभावे दोषरूपकारणा-भावे । कार्यस्य अप्रामाण्यस्य । अप्रामाण्यकारणदोषशून्यत्वहेतोः स्वरूपासिद्धिपरिहाराय वक्ष्यमाणे, ‘वेदो न पुरुषदोषनिबन्धनदोषवान् पुरुषाप्रणीतत्वात्’ इत्यनुमानेऽप्रयोजकताशङ्कामादौ परिहरति- शब्ददोषा-श्चेति ॥ नन्वस्त्वप्रामाण्यकारणदोषशून्यत्वम्, अप्रामाण्यमेवास्त्वित्यप्रयोजकत्वशङ्कायां बाधकमाह - विपक्षे त्विति ॥ नन्वनेनाप्रामाण्यसाधकानृतत्वादिहेतूनां को दोष उक्त इत्यत आह- तथा चेति ॥ प्रागप्रामाण्या-(श्री.टि.) भावनिश्चयादिति ॥ साध्यभूतं यदप्रामाण्यं तदभावनिश्चयाभावदशायामित्यर्थः ॥ सन्दिग्धा-सिद्धा इति ॥ किमत्र सर्वथा प्रमाणान्तरविरोधादेव फलादर्शनमुत वैगुण्यादिनिमित्तकमिति सन्देहापरि-हारादित्युक्तरीत्या सन्दिग्धासिद्धा इत्यर्थः ॥ निश्चिते त्विति ॥ अपौरुषेयत्वेनेत्यर्थः ।

॥ निश्चितासिद्धा एवेति ॥ फलविसंवादस्य वैगुण्यादिनिमित्तत्वनिश्चयादित्यर्थः । अपौरुषेयत्वेनेत्यनन्तरं साधितादिति शेषः ॥ तन्निबन्धनेति ॥ तच्छब्देनापौरुषेयत्वेनेत्यत्र प्रकृतपुरुषपरामर्शः । स च तद्दोषोपलक्षकः। तथा चापौरुषेयत्वेन हेतुना साधितं यत्पुरुषदोषनिबन्धनाबोधकत्वविपरीतबोधकत्वशून्यत्वं तस्माद्धेतोरित्यर्थः। अन्ये तु तन्निबन्धनेत्यत्र तच्छब्देन सन्निहितमपौरुषेयत्वं ग्राह्यम् । न च तन्निबन्धनेत्यनेनैवापौरुषेयत्वस्य हेतुताया लब्धत्वादपौरुषेयत्वेनेत्येतद्व्यर्थमिति वाच्यम् । अपौरुषेयत्वेनेति तृतीययोक्तकारणत्वस्यैव तन्निबन्धनेत्यादिना साध्यसाधनभावमुखेन प्रदर्शनादित्याहुः । अयमिहानुमानप्रवृत्तिप्रकारः । वेदः प्रमाणम्, अबोधकत्वविपरीत-बोधकत्वशून्यत्वात् प्रत्यक्षादिवत् । न चासिद्धो हेतुः । वेदोऽबोधकत्वविपरीतबोधकत्वशून्यस् तत्प्रयोजक-दोषशून्यत्वात् प्रत्यक्षादिवत् । न च तत्प्रयोजकदोषवत्त्वमेवास्तीत्यसिद्धिरिति वाच्यम् । वेदोऽबोधकत्वविपरीत-बोधकत्वप्रयोजकदोषशून्यः, अपौरुषेयत्वादिन्द्रियादिवत् । न चाप्रयोजकत्वम् । वाक्यदोषाणां पुरुषदोष-निबन्धनत्वाद् वेदे च पुरुषस्यैवाभावादिति । सत्प्रतिपक्षमाशङ्कते- वेदोऽप्रमाणमिति ॥ ननु नानाप्त-प्रणीतत्वमुपाधिर्दुश्व्ेन्द्रियेऽप्रामाण्ये सत्यप्यनाप्तप्रणीतत्वाभावेन साध्याव्यापकत्वादित्याङ्क्य वाक्यत्व-रूपसाधनधर्मावच्छिन्नसाध्यव्यापकोऽयमुपाधिरित्याशयेनोक्तम्- वाक्यत्वावच्छिन्ने साध्य इति ॥ शुद्धसाध्य-व्यापकमप्युपाधिमाह- केवले वेति ॥ साध्य इत्यनुवर्तते । ननूपाधिद्वयस्यापि पक्षे सत्त्वात् साधनव्यापकत्व-मित्यत आह- वेदे चेति ॥ अपौरुषेयत्वेनोपाधिद्वयाभावस्य साधितत्वादिति भावः । किञ्चास्त्वाप्ताप्रणीतत्वम्, अप्रामाण्यं मास्त्वित्यप्रयोजकता । ननु यद्यप्रामाण्यं न स्यात्, प्रामाण्यमेव स्यादिति यावत्, तर्ह्याप्ताप्रणीतत्व-मेव न स्यात्, आप्तप्रणीतत्वमेव स्यादिति यावत् । तथा च वाक्यप्रामाण्यस्याप्तोक्तत्वगुणजन्यत्वेन तदभावेऽपि प्रामाण्याङ्गीकारेऽकारणकार्योत्पत्तिः स्यादित्येवं हेतूच्छित्तिरूपानुकूलतर्कसद्भावान्नाप्रयोजकता । तत एवोपाध्योः पक्ष एव साध्यव्यापकताभङ्गः सिद्ध्यति । ‘अनुकूलेन तर्केण सनाथे सति साधने । साध्यव्यापकताभङ्गात् पक्षे नोपाधिसम्भवः ॥’ इति वचनादिति चेत् तत्राऽह- वाक्यप्रामाण्यस्येति ॥ निराकरिष्यत इति ॥ आप्ति-मूलकत्वाभावेऽपि यादृच्छिकसंवादिवाक्ये प्रामाण्यस्य दृश्व्त्वेन व्यभिचारान्न तस्य तत्र कारणत्वमिति निराकरिष्यत इत्यर्थः । तार्किकोक्तरीत्या वेदप्रामाण्यनिश्चयप्रकारमाशङ्क्य निराकरोति- आप्तोक्तत्वेनेत्यादिना । निश्चय इति ॥ वेदस्येति शेषः । अपौरुषेयत्वहेतुना कस्मात्क्रियत इत्यर्थः । वक्ष्यत इति ॥ वेदस्य सकर्तृकत्व-निराकरणेनेत्यर्थः ॥ सङ्ख्याप्रकर्ष इति ॥ शतसहस्रादिरूपबहुत्वसङ्ख्येत्यर्थः । तथा च महाजनपरिगृहीत-त्वादित्यस्य सहस्रसङ्ख्याकजनपरिगृहीतत्वादित्यर्थो द्रष्टव्यः ॥ पूज्यता वेति ॥ मह पूजायामिति धातोरि-त्यर्थः ॥ इयत्तेति ॥ वेदपरिगृहीतारो जनाः शतसङ्ख्याका एव सहस्रसङ्ख्याका एवेत्येवं मर्यादापरिज्ञान-(श्री.टि.) स्याशक्यत्वादित्यर्थः । देशादिविशेषे कीकटदेशविशेषे बुद्धगयादौ ॥ बौद्धादीनामिति ॥ बुद्ध-निर्मितं शास्त्रं बौद्धं तदादीनामित्यर्थः ॥ महाजनेति ॥ सङ्ख्याप्रकर्षवत्तद्देशस्थजनैरित्यर्थः ॥ परैरिति ॥ वेदः प्रमाणं पूज्यजनपरिगृहीतत्वादित्येवं वेदाप्रामाण्यवादिनं बौद्धं प्रत्यनुमानं कार्यम् । तेन वेदपरिग्रहवतां पूज्यत्वस्यानङ्गीकृतत्वादन्यतरासिद्धिः स्यादित्यर्थः । एवमन्यतरासिद्धेनापि हेतुना चेद्वेदप्रामाण्यं साध्यते तर्ह्याभाससमानयोगक्षेमत्वमित्याशयेनाऽह- स्वशास्त्रेति ॥ तस्य पूज्यत्वस्य । तथा च बौद्धशास्त्रं प्रमाणं महाजनपरिगृहीतत्वादिति बौद्धेनापि स्वशास्त्रप्रामाण्यं सुखेन साधयितुं शक्यम् । तत्र त्वया वाच्यं बौद्धशास्त्रपरिगृहीतॄणां पूज्यत्वं मया नाङ्गीकृतमित्यन्यतरासिद्धिरिति । तत्तवापि समानमिति भावः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

॥ अनिश्चितत्वादिति ॥ तस्याप्रामाण्याभावनिश्चयनिमित्तकत्वेन,असति तस्मिन्नसम्भवादिति भावः ॥ अयुक्तमिति ॥ शङ्किताप्रामाण्यस्याभिमतसिद्ध्यनङ्गत्वादिति भावः । ननु अप्रामाण्यस्यैव तावदपरिज्ञानात्, कथञ्चित् तत्परिज्ञानेऽपि अपौरुषेयत्वेन साक्षादप्रामाण्याभावसाधनस्याप्रयोजकत्वेना-युक्तत्वात्, परम्परया तत्साधनाभिप्राये चाप्रामाण्यदोषयोः कार्यकारणभावस्यासिद्धत्वेन दोषाभावेनाप्रामाण्या-भावसाधनायोगात्, अप्रामाण्यस्य परतस्त्वेन तत्सिद्ध्यभिप्राये च तत्कारणनिरभिधेयत्वादिदोषाणामन्यप्रयुक्त-त्वाभावेन स्वाभाविकतया तदभावस्यासिद्धत्वात्, स्वतन्त्रवक्तृपुरुषगताज्ञानादिदोषाधीनत्वेन तेषामस्वाभा-विकत्वाभिप्राये च तत्प्रयुक्तदोषाणामेव तत्र सत्त्वेन तदभावस्यासिद्धत्वात्, अपौरुषेयत्वेन पुरुषदोषनिबन्धन-दोषाभावसाधनस्य चाप्रयोजकत्वेन, अपौरुषेयत्वशून्ये पुराणादौ पुरुषदोषनिबन्धनदोषाभावासिद्धिप्रसङ्गेन चायुक्तत्वात्, नापौरुषेयत्वेन वेदाप्रामाण्याभावसिद्धिरित्येताः शङ्काः क्रमेण परिहरन्नपौरुषेयत्वेनाप्रामाण्या-भावसिद्धिमुपदर्शयति- इदमुक्तं भवतीति ॥ एवमुपयुक्तमभिधाय सिद्धान्यनुमानानि दर्शयति- वेदो नाप्रमाणमित्यादिना ॥

नन्वपौरुषेयत्वेनोक्तरीत्या वेदस्याप्रामाण्याभावनिश्चयेऽपि सदागमैकविज्ञेयमिति तद्विषयस्य प्रमाणान्त-रागोचरत्वेन सजातीयसंवादस्य, मोक्षादेः प्रत्यक्षाद्यवेद्यत्वेनार्थक्रियासामर्थ्यादिरूपविजातीयसंवादस्य चाभावेन वेदगतयथार्थज्ञानसाधनत्वरूपप्रामाण्यस्य संवादेनानुमातुमशक्यत्वेन आप्तोक्तत्वेनैवानुमातव्यत्वात्, अपौरु-षेयत्वे च वेदस्याप्तोक्तत्वासम्भवेन तेनापि प्रामाण्यानुमानासम्भवात्, नाऽनिश्चितप्रामाण्यस्य वेदस्य विवक्षितार्थसाधनतयोपन्यासो युक्त इत्याशयेन शङ्कते- एवमप्रामाण्याभाव इत्यादिना ॥ एतच्छङ्कापरि-हारायापि मूले ‘अपौरुषेयत्वाद्वेदस्य’ इत्युक्तम् इत्यभिप्रेत्य, अपौरुषेयत्वेन प्रामाण्यसिद्धिप्रकारं दर्शयति- अपौरुषेयत्वेनेति ॥ अत्र वेदस्यापौरुषेयत्वेनाप्रामाण्यकारण-स्वतन्त्रवक्तृपुरुषगताज्ञानादिदोषनिबन्धन-निरभिधेयत्वादिदोषशून्यत्वादिनिश्चयात्, निरभिधेयत्वादि-प्रयुक्ताबोधकत्वविपरीतबोधकत्वरूपाप्रामाण्या-भावे निश्चिते, वेदगतयथार्थज्ञानसाधनत्वरूपप्रामाण्यस्य तदीयज्ञानसाधनत्वग्राहकान्वयव्यतिरेकमात्रसमधि-गम्यत्वेन, वेदजन्यज्ञानगतयाथार्थ्यरूपप्रामाण्यस्य च तज्ज्ञानग्राहकसाक्षिमात्रग्राह्यत्वेन स्वत एतन्निश्चय इति (पां.टि.) परिहारोऽभिमतः । न त्वपौरुषेयत्वादियुक्त्या प्रामाण्यनिश्चय इति । तथा सति ‘बुद्धिदोषनिरास-मात्रकारणत्वाद्युक्तीनाम्’ इत्युत्तरग्रन्थव्याख्यानरूपेण, ‘ततः प्राचीनो युक्त्युपन्यासः साक्षिणः प्रामाण्यग्रहण-प्रतिबन्धकबुद्धिदोषनिरासार्थमेव कृतो, न तु प्रामाण्यज्ञापनार्थमिति न पूर्वोत्तरग्रन्थविरोधः’ इत्युत्तरग्रन्थेन, एतच्छङ्कानिरासकैतद्ग्रन्थसमानार्थकेन ‘ज्ञानजनकस्य सतोऽप्रामाण्ये निरस्ते स्वत एवेति ब्रूमः’ इति सुधाग्रन्थेन च विरोधापातादिति द्रष्टव्यम् ।

स्वत एव प्रामाण्यनिश्चय इत्युक्तमाशयमजानानोऽपौरुषेयत्वादियुक्त्या प्रामाण्यनिश्चयः पूर्वत्रोक्त इति मन्वानः शङ्कते- वेदो न प्रमाणमिति ॥ दुष्टेन्द्रियादौ साध्याव्यापकत्वपरिहारायोक्तम्- वाक्यत्वावच्छिन्न इति ॥ साधनव्यापकत्वं परिहरति- वेदे चेति ॥ ननु वाक्यगतयथार्थज्ञानसाधनत्वरूपप्रामाण्यस्य वाक्यजन्य-ज्ञानगतयाथार्थ्यरूपप्रामाण्यस्य च वक्तुराप्तिमूलकत्वाद् वेदस्य चापौरुषेयत्वेनाप्तिमूलकवाक्यत्वाभावात् तदभावेऽपि प्रामाण्योत्पत्त्यङ्गीकारेऽकारणकार्योत्पत्तिप्रसङ्गाद् वेदस्य तज्जन्यज्ञानस्य च उक्तरूपप्रामाण्योत्पत्तिरेव कथं स्यादित्याशङ्क्य प्रामाण्यस्योत्पत्तौ स्वतस्त्वस्योत्तरत्रोपपादयिष्यमाणत्वेन, वेदगतयथार्थज्ञानजनकत्वरूप-प्रामाण्यस्य आप्तोक्तत्वरूपगुणनिरपेक्षज्ञानजननशक्त्युत्पादकत्वेनैव, तज्जन्यज्ञानगतयाथार्थ्यरूपप्रामाण्यस्य चाऽप्तोक्तत्वगुणानपेक्षत्वेन ज्ञानोत्पादकवाक्येनैवोत्पत्तिसम्भवान् नापौरुषेयत्वपक्षे तदनुत्पत्तिप्रसङ्गोऽ-पीत्याशयेनाऽह- वाक्यप्रामाण्यस्येति ॥ स्वतस्त्वप्रतिपादनेनेति ॥ ‘तत् प्रामाण्यं च स्वत एव सिद्धम्’ इत्यादिनोत्पत्तौ स्वतस्त्वप्रतिपादनेनेत्यर्थः ।

यत्तु, ‘एवमप्रामाण्याभावे निश्चिते’ इति शङ्काग्रन्थस्य, अपौरुषेयत्वयुक्त्या वेदस्योक्तरीत्याऽप्रामाण्याभाव-निश्चयादप्रामाण्यतदभावकोटिकसंशयासम्भवेऽपि, तत्प्रामाण्यस्यानिश्चितत्वात् तत्संशयसामग्रीनिबन्धन-प्रामाण्यसंशयावश्यम्भावात्, शङ्कितप्रामाण्यस्य वेदस्य विवक्षितार्थसाधकत्वोपन्यासोऽनुपपन्न एवेत्यभिप्राय-कत्ववर्णनम्, तदसत् । एतच्छङ्काग्रन्थविवरणरूपसंवादादिरूपवेदप्रामाण्यनिश्चायकाभावप्रयुक्ततन्निश्चयाक्षेप-परटीकाकारीयोत्तरग्रन्थानुरोधेन, सामान्यधर्मप्रयुक्तप्रामाण्यसंशयस्य स्वतः परतः साधारणप्रामाण्यनिश्चय-मात्रनिवर्त्यत्वेन तत्परिहाराय सिद्धान्तीयस्वतःप्रामाण्यनिश्चयकथनपर्यन्तधावनानर्थक्यापत्त्या, तदनुरोधेन चैतच्छङ्काग्रन्थस्य निश्चायकाभावप्रयुक्ततन्निश्चयाक्षेपपरत्वस्यैव ग्रन्थकृत्सम्मततायाः सिद्धत्वेन, सामग्रीप्रयुक्त-तत्संशयापत्तिपरत्वस्य तदसम्मततया प्रामाण्यसंशयापत्तिपरतया एतद्योजनाया अयुक्तत्वात् । न च परिहार-ग्रन्थस्याप्यनुमानेन प्रामाण्यनिश्चयकथनमात्रपरत्वात् स्वतः प्रामाण्यनिश्चयपर्यन्तधावनमेवासिद्धमिति वाच्यम् । तस्यानुपदमेवोपपादयिष्यमाणत्वात् ।

यच्च ‘अपौरुषेयत्वाद्वेदस्य’ इत्यत्र प्रामाण्ये साधकत्वेनोक्तापौरुषेयत्वं नाऽनियतानुपूर्वीकत्वाभावो गगनादा-वनैकान्त्यात् । नापि नियतानुपूर्वीकत्वं साक्ष्यादिसकलसपक्षव्यावृत्तत्वेनासाधारण्यात्, इत्याद्यनुपपत्तिपरिहाराय (पां.टि.) ‘नित्यत्वात् पुरुषोद्भवैः । उज्झितं सर्वदोषैश्च कथं नो मानतां व्रजेत्’ इत्यनुव्याख्यानुसारेण प्रामाण्य-साधकानुमानप्रदर्शनपरत्वेन एतद्वाक्ययोजनापरत्ववर्णनमपौरुषेयत्वेनेत्यादिपरिहारग्रन्थस्य, तदप्यसत् । अपौरुषेयत्वनिरुक्तिनिवर्त्यतद्विकल्पानुपपत्तिशङ्कायास्तन्निरुक्तिसत्त्व एवोत्थापनीयत्वात् । प्रकृते चेह टीकायां वा त्वदुदाहृतानुव्याख्याने वा तद्व्याख्यानरूपसुधायां वा तस्याऽनिरुक्तत्वेन तन्निरुक्तिमात्रनिवर्त्यतद्विकल्पा-नुपपत्तिशङ्काया अनुत्थापनीयत्वात् । एतद्वाक्यस्य परम्परयाऽप्यपौरुषेयत्वस्य प्रामाण्यसाधकत्वाभिप्रायकताया अपि सम्भावितत्वेन साक्षात्साधकत्वमात्राभिप्रायकत्वासिद्ध्या तत्सिद्धिमूलकानैकान्त्यासाधारण्यरूपोक्त-विकल्पदोषानुपपत्तेश्च । अपौरुषेयत्वस्य साक्षात्प्रामाण्यसाधकत्वाभिप्राये इह टीकायाम् अपौरुषेयत्वादित्येव वक्तव्यत्वेन, तत्सिद्धतन्निबन्धनाबोधकत्वविपरीतबोधकत्वशून्यत्वरूपहेत्वन्तराभिधानानर्थक्यप्रसक्त्या तदनु-रोधेन परम्परासाधकत्वाभिप्रायकताया एव वक्तव्यत्वेन, अपौरुषेयत्वस्याप्रामाण्याभावसाधकत्वपक्ष इव प्रामाण्यसाधकत्वपक्षेऽपि पुरुषदोषनिबन्धनदोषवत्त्वाभावमात्रसाधकत्वस्थित्या तत्रोक्तविकल्पदोषयोरप्रस-राच्च । अत एव नियतानुपूर्वीकत्वम् अपौरुषेयत्वम्, असाधारण्यं च दशाविशेषे दोष इत्यपौरुषेयत्वनिरुक्ति-तत्पक्षदोषपरिहारयोर्हार्दत्ववर्णनमपि निरस्तम् । तथा सति नियतानुपूर्वीकत्वरूपापौरुषेयत्वेन साक्षादेव तत्प्रामाण्यसाधनसम्भवेन तत्सिद्धहेत्वन्तरानुसरणवैयर्थ्यापातात् । परम्परासाधनताया एव युक्तत्वेन त्वयाऽपि तस्या एवाङ्गीकर्तव्यत्वेन टीकोक्तापौरुषेयत्वशब्दार्थपरित्यागेन नियतानुपूर्वीकत्वरूपतन्निर्वचनादेर्हार्दत्व-वर्णनानर्थक्याच्च । अपौरुषेयत्वयुक्त्या तत्सिद्धतन्निबन्धनाबोधकत्वविपरीतबोधकत्वशून्यत्वयुक्त्या वा प्रामाण्य-निश्चयवर्णनस्य, स्वत एवेत्यादिव्याख्यानरूपसुधानुसारेण स्वतः प्रामाण्यनिश्चयकथनपरतया निर्णीतोदा-हृतानुव्याख्यानाननुसारित्वेन त्वदुक्तरीत्या प्रामाण्यस्यानुमानसिद्धतायास् तदनुसारित्ववर्णनस्यासम्भवदुक्ति-कत्वाच्च । एथद्ग्रन्थसमानार्थकैतच्छङ्कापरिहारक ‘ज्ञानकरणस्य सतोऽप्रामाण्ये निरस्ते स्वत एवेति ब्रूमः’ इति जिज्ञासाधिकरणीयसुधानुसारेण, ‘बुद्धिदोषनिरासमात्रकारणत्वाद्युक्तीनाम्’ इत्युत्तरग्रन्थव्याख्यानरूप ‘ततः प्राचीनः’ इत्यादिटीकाग्रन्थानुरोधेन च, अस्य ग्रन्थस्य स्वत एव प्रामाण्यग्रहकथनपरत्वावश्यम्भावेन तत्परतयैव योजनीयत्वेन, अनुमानेन तद्ग्रहपरत्ववर्णनस्योदाहृतग्रन्थविरुद्धत्वाच्च । वेदप्रामाण्योत्पत्त्याक्षेपस्य तत्स्वतस्त्वेन समाधानपर ‘वाक्यप्रामाण्यस्य’ इत्याद्यव्यवहितोत्तरग्रन्थानुरोधेन एवमित्यादिशङ्कासमाधानस्यापि प्रामाण्य-निश्चयाक्षेपस्वतस्त्वप्रयुक्ततत्समाधानपरतयैव योजनायाः श्लिष्टत्वेन प्रामाण्यसंशयापत्तिपरत्वेन शङ्काग्रन्थस्य आनुमानिकप्रामाण्यनिश्चयपरत्वेन परिहारग्रन्थस्य योजनायाष्टीकाकृदर्धजरतीयाश्रयणापादकत्वाच्चेति दिक् ।

यच्च, अनुकूलतर्केण हेतोः साध्यव्याप्तत्वे निर्णीते साध्यव्याप्यहेत्वव्यापकत्वेनोपाधेः साध्याव्यापकत्वमित्या-शङ्कापरिहारकतया वाक्यप्रामाण्यस्येति ग्रन्थप्रवृत्त्युपवर्णनम् । तदसत् । एतद्ग्रन्थसमानार्थकोत्पत्तिप्रामाण्य-वादीयोत्तरटीकाकारीयस्पष्टग्रन्थानुरोधेन वेदापौरुषेयत्वप्रयुक्ततत्प्रामाण्योत्पत्त्याक्षेपशङ्कानिवर्तकतयैव योजनीय-त्वेन अन्यथैतदवतारस्यायुक्तत्वात्, त्वदुक्तरीत्या उपाधिसमर्थनपरतयैतद्ग्रन्थयोजनायां वेदप्रामाण्योत्प-(पां.टि.) त्तेरत्रानिरूपणप्रसङ्गेन प्रामाण्यज्ञप्तेरिवावश्यवक्तव्यतदुत्पत्तेरनुक्तिप्रसङ्गाच्च । न च प्रामाण्योत्पत्ति-समर्थनपरत्वेऽप्यस्य ग्रन्थस्योपाध्यसमर्थनप्रसङ्गदोषस्तु तुल्य इति वाच्यम् । तत्पक्षे साक्षादुपाध्यसमर्थनेऽ-प्यर्थतस्तत्समर्थनेन तदप्रसङ्गात् । न चैवम् उपाधिसमर्थनपरतया एतद्ग्रन्थयोजनापक्षेऽर्थतो गुणनिरपेक्षतया प्रामाण्योत्पत्तिनिरूपणसिद्ध्या न तदनिरूपणप्रसङ्ग इति वाच्यम् । प्रामाण्यज्ञप्तिनिरूपणवत् स्वप्रधानतयोत्पत्ति-निरूपणस्य साक्षात्सिद्धेर् गुणभूतोपाधिसमर्थनस्य चार्थतः सिद्धेरेव न्याय्यत्वेन, गुणभूतोपाधिसमर्थनस्य साक्षात्सिद्धेः प्रधानीभूतप्रामाण्योत्पत्तिनिरूपणस्यार्थतः सिद्धेरन्याय्यत्वेन तदयोगात् । उत्पत्तौ गुणानपेक्ष-त्वोपपादनेनैवोक्तशङ्कापरिहारस्य सिद्धत्वेनोत्पत्तौ ज्ञप्तौ च प्रामाण्यस्वतस्त्वस्य तत्रोपयोगादर्शनेनोत्पत्ति-स्वतस्त्वमात्रस्यैव परिहारग्रन्थार्थतया वर्णनीयत्वेनोत्पत्तिज्ञप्त्योः स्वतस्त्वस्य तदर्थतयाऽवर्णनीयत्वेनोत्पत्ति-ज्ञप्त्योरिति शेषवर्णनस्यानर्थकत्वाच्च ।

ननूपे(पा)यार्थिनस्तत्सिद्धावेव निर्बन्धो न तूपायविशेषेण तत्सिद्धावपि । तत्राप्युपायानेकत्वे लघोस्तस्या-नुसरणं गुरोः परित्याग इति सर्वसिद्धान्तः । तदिहापौरुषेयत्वेनेव आप्तोक्तत्वेनाप्यप्रामाण्याभावादि-सिद्धिसम्भवाद् बहुप्रयत्नानपेक्षत्वेन लघुत्वाच्चाप्रामाण्याभावादिसाधकतया तस्यैवोपादानं कर्तुमुचितम् । तत् किमिति तत्परित्यागेन बहुप्रयत्नसाध्यापौरुषेयत्वस्य तत्सिद्ध्यर्थतया ग्रन्थकारीयमनुसरणमित्याशयेन शङ्कते- आप्तोक्तत्वेनैवेति ॥ वक्ष्यत इति ॥ ‘अन्यत्रादृष्टस्य सर्वज्ञत्वस्य कल्पनम्’ इत्यादिनेति शेषः । महाजनपरि-गृहीतत्वादिति शङ्काया अपि पूर्ववदेवाभिप्रायः ॥ अनङ्गीकृतत्वादिति ॥ ततश्चासिद्धिरिति भावः ॥ अङ्गी-कृतत्वाच्चेति ॥ ततश्च बौद्धागमादावनैकान्त्यमिति भावः ।

लघुप्रभा

(व्या.टि.)

अनिश्चयमुपेत्य शङ्कते- अस्त्विति ॥ हेतूनाम् अनृतत्वादीनाम् । आदिपदेन सन्दिग्धबाधादि-परिग्रहः । विशेषादर्शनमुपपादयति- वैगुण्यादीति ॥ फलादर्शनादेरिति शेषः । किमतो यद्येवमित्यत आह- तथा चेति ॥ सिद्धये निश्चयाय ॥ अयुक्तमिति ॥ यथा निमित्तसन्देहाहितप्रामाण्यसन्देहस्तथाऽप्रामाण्य-सन्देहाहितार्थसन्देहस्यावर्जनीयत्वेन तन्निर्णयाय वचनोदाहरणमयुक्तमिति भावः । वचनानामिति प्रकृतानु-वृत्तिसम्भवे वेदस्येति पुनर्वचनानर्थक्यमाशङ्क्य हेतुभागासिद्धिवारणाय तदित्याह- पुनर्वचनमिति ॥ अपौरु-षेयत्वस्य कथमुक्ताप्रामाण्यशङ्कानिरासहेतुत्वमित्यतस्तदभिप्रायमाह- इदमुक्तं भवतीति ॥ ज्ञानाप्रामाण्यं वारयितुं करणानामिति । प्रकृतमनुसरति- तत्रेति ॥ तत्र करणेषु, शब्दस्य वाक्यस्य, अबोधकत्वमन्वया-बोधकत्वम् ॥ द्वेधेति ॥ अन्वयस्य सप्रतियोगिकत्वात् प्रतियोग्यभावेन स्वाभावेन च द्वेधेत्यर्थः ॥ पदाभि-मतानामिति ॥ हुम्फडादिशब्दानामित्यर्थः ॥ साभिधेयत्वेऽप्यन्वयाभावेन चेतीति ॥ केवलप्रातिपदिका-दीनामित्यर्थः । विपरीतेति ॥ अविद्यमानान्वयबोधौपयिकसमभिव्याहारेणेत्यर्थः ॥ स्वतन्त्रेति ॥ परानपेक्ष-वक्ता, कर्तेति यावत् । ‘स्वतन्त्रः कर्ता’ इति सूत्रात् ॥ न त्विति ॥ परानपेक्षस्यैव स्वभावत्वादित्यर्थः । शब्दस्याबोधकत्वहेतून् विपरीतबोधकत्वहेतूंश्च पुरुषदोषान् पृथङ् निर्दिशति- पुरुषो हीत्यादिना ॥ अज्ञानं (व्या.टि.) ज्ञानाभावः । विपरीतज्ञानं भ्रमः । प्रमादो अनवधानम् । इच्छाविषयीभूतवर्णानुकूलकण्ठताल्वा-द्यभिघातानुत्पादकालीनापरवर्णानुकूलकण्ठताल्वाद्यभिघातः करणापाटवम् । अन्यथाप्रतीतार्थस्याऽन्यथा प्रतिपिपादयिषा विप्रलम्भः ॥ एतदभाव इति ॥ पुरुषदोषनिबन्धनदोषाभाव इत्यर्थः । पुरुषदोषनिबन्धन-दोषाभावोऽजन्यत्वेन वा जनकस्य निर्दोषत्वेन वेत्याशयेनाऽह- द्वेधेति ॥ आप्तत्वे निर्दोषत्वं कथमित्यत आह- विवक्षितेति ॥ आदेरिति पटुकरणत्वादिग्रहः ॥ कारणेति ॥ अप्रामाण्यकारणेत्यर्थः । कार्यस्य अप्रामाण्यस्य ॥ शङ्कितुमिति ॥ व्याघातादिति भावः । ‘व्याघातावधिराशङ्का’ इत्युक्तेः ॥ अप्रामाण्याभाव इति ॥ ततश्च नाप्रामाण्यसंशय इति भावः ।

अपौरुषेयत्वं यद्द्वाराऽप्रामाण्याभावसाधकं तदाह- वेदो नाप्रमाणमिति ॥ ननु वक्ष्यमाणपुरुषाप्रणीतत्व-हेतुना पुरुषदोषनिबन्धनदोषाभावसिद्धावपि नाप्रामाण्यकारणदोषशून्यत्वसिद्धिः । विशेषाभावेन सामान्याभाव-साधनेऽतिप्रसङ्गादित्यत आह- शब्ददोषाश्चेति ॥ पदार्थाबोधकत्वादय इत्यर्थः । शब्दे इतरदोषाणामप्रसक्तत्वेन शब्दगतदोषाणां चाभावस्य पुरुषाप्रणीतत्वेन सिद्धौ सामान्याभावसिद्धिर्भवतीति भावः ॥ तदन्वयव्यतिरे-केति ॥ तदन्वयव्यतिरेकप्रयोज्यान्वयव्यतिरेकप्रतियोगित्वादित्यर्थः । तथाऽपि प्रकृते किमित्यत आह- वेद इति ॥ दोषा निरभिधेयत्वादयः । यदनुवक्ष्यति तन्निबन्धनाबोधकत्वेत्यादि ॥ पुरुषाप्रणीतत्वादिति ॥ अत्र वाक्यत्वादिति विशेष्यं पूरणीयम् । उदाहरणे वाक्यपदश्रवणात् । श्रुतमात्रस्यैव हेतुत्वे हेतुतावच्छेदकरूपेण व्याप्तेर्गगनादौ दर्शयितुं शक्यत्वेन तदुज्झित्वा वाक्यविशेषनिदर्शनीकरणानुपपत्तेः । सामान्यव्याप्तिप्रदर्शनानुप-पत्तेश्च । यद्वा सामान्यतो व्याप्त्यवलम्बने वाक्येऽपि साध्यं दर्शयितुं शक्यमिति तथैवोदाहृत्य निदर्शितम् । अप्रयोजकत्वं निरस्यति- विपक्षे त्विति ॥ प्रसङ्गो बाधक इति शेषः । निगमयति- तथा चेति ॥ सन्दिग्धेति निश्चितेति च विशेषणे उपसङ्क्रान्तं ‘सविशेषणे हि’ इति न्यायात् । चैत्रः परमधार्मिक इत्यादाविव समभि-व्याहृतपदार्थतावच्छेदकेन वा पूर्वपदार्थस्य सन्दिग्धत्वस्य भानम् । भावे निष्ठामुपेत्य बहुव्रीहिर्वा ॥ अपौरुषेयत्वेन तन्निबन्धनेति ॥ तत्पदेन बुद्धिस्थपुरुषदोषपरामर्शः ॥ अबोधकत्वेत्यादि ॥ अस्य अबोधकत्वविपरीत-बोधकत्वशून्यत्वाद् हेतोः प्रामाण्यनिश्चय इति नार्थः । ‘बुद्धिदोषनिरासमात्रकारणत्वात्’ इति वक्ष्यमाणमूल-तट्टीकाभ्यां विरोधात् । ‘ज्ञानजनकस्य सतोऽप्रामाण्ये निरस्ते स्वत एवेति ब्रूमः’ इति सुधया च विरोधात् । यथार्थज्ञानजनकत्वरूपकरणप्रामाण्यस्य ज्ञानजनकत्वग्राहकमात्रग्राह्यत्वरूपपारिभाषिकस्वतस्त्वाङ्गीकार-विरोधाच्च । किन्तु, शून्यत्वात् शून्यत्वनिश्चयात् । प्रतिबन्धकाभावाज्ज्ञानजनकत्वग्राहकेणैव प्रामाण्यनिश्चय इति । प्रामाण्यमेवानुमितमिति मन्वानस्य त्वाप्ताप्रणीतत्वेन प्रतिपक्षाऽशङ्केति । यद्वा अबोधकत्वादिशून्यत्वेन प्रामाण्यनिश्चय इत्येवार्थः । टीकास्वारस्यात् । न चोत्तरग्रन्थविरोधः । तत्र ‘ततः प्राचीनो युक्त्युपन्यासः साक्षिणः प्रामाण्यग्रहणप्रतिबन्धकबुद्धिदोषनिरासार्थमेव कृतो न तु प्रामाण्यज्ञापनार्थमिति न पूर्वोत्तरग्रन्थविरोधः’ इति साक्षिग्राह्यस्य केवलप्रमाणप्रामाण्यस्यैव युक्त्यज्ञाप्यत्वोक्तेः । नापि सुधाविरोधः ‘ज्ञानजनकस्य सतोऽ-(व्या.टि.) प्रामाण्ये निरस्ते स्वत एवेति ब्रूमः’ इत्यस्य विपरीतबोधकत्वाभावे सति ज्ञानजनकत्वादेवेत्यर्थोप-पत्तेः । नाप्यपसिद्धान्तः । ‘करणप्रामाण्यं परत एव’ इत्यन्यत्र टीकोक्तेः । ग्राह्यप्रामाण्याश्रयग्राहक-ग्राह्यत्वरूपस्वारसिकस्वतस्त्वस्यायोगाच्च । ज्ञानजनकत्वग्राहकेणान्वयव्यतिरेकित्वानुमानेनेवानुमानान्तरेणापि निश्चयसम्भवाच्च । अपौरुषेयत्वहेतोः प्रतिपक्षं शङ्कते- वेद इति ॥ अवच्छिन्नानवच्छिन्नसाध्यव्यापकोपाधी मनसि निधायाऽद्यं तावदाह- वाक्यत्वावच्छिन्न इति ॥ द्वितीयमाह- केवल इति ॥ उक्तत्वादिति ॥ अपौरुषेयत्वादेवोपाधिद्वयाभावसिद्धेरित्यर्थः । उक्तहेतोस्तर्कपराहतिमाशङ्क्य पराचष्टे- वाक्यप्रामाण्य-स्येति ॥ आप्तिमूलत्वेनेति बहुव्रीहिः ॥ स्वतस्त्वेति ॥ उत्पत्ताविति शेषः । निराकरिष्यते ‘प्रामाण्यं च स्वत एव’ इत्यादावित्यर्थः । नैयायिकः शङ्कते- आप्तोक्तत्वेनेति ॥ १तदिति ॥ निश्चयीकरणमित्यर्थः । वक्ष्यते ‘न च पौरुषेयेण’ इति वक्ष्यमाणग्रन्थेनेत्यर्थः ॥ जनानामिति ॥ वैदिकानामिति शेषः ॥ इयत्तेति ॥ बाह्येभ्योऽधिकसङ्ख्येत्यर्थः । अधिकजनपरिग्रहसन्देहादिति यावत् ॥ बौद्धादीनामिति ॥ आगमानामिति शेषः ॥ महाजनेति ॥ वैदिकेभ्योऽधिकजनेत्यर्थः । परैर् बाह्यैः ।