विशेषणानि यानीह कथितानि सदुक्तिभिः । साधयिष्यामि तान्येव क्रमात् सज्जनसंविदे ॥ २ ॥
ग्रन्थारम्भणीयत्वसमर्थनम्
मूलम्
विशेषणानि यानीह कथितानि सदुक्तिभिः ।
***साधयिष्यामि तान्येव क्रमात् सज्जनसंविदे ॥ २ ॥ ***
तत्त्वमञ्जरी
वस्तु निर्दिशति - विशेषणानीत्यादिना ॥ सदुक्तिभिः सदागमैः । निर्दोषोप-पत्त्युक्तिभिश्च । अत्र सज्जनसंविद इति सज्जनोऽधिकारी, मोक्षैकफला नारायणसंवित् प्रयोजनं चोच्यते । विषयस्तु नारायणमिति प्रथमत एव । सम्बन्धः संवेद्यसंवेदकादिलक्षणः ।
टीका
स्यादेतत् । प्रकरणमेवेदं नाऽरम्भणीयं विषयप्रयोजनसम्बन्धशून्यत्वात् । प्रतीतघट-स्वरूपप्रतिपादकवाक्यवत् काकदन्तपरीक्षाग्रन्थवच्च । स हि शास्त्रस्य विषयो भवति, योऽज्ञातः सन्दिग्धो विपर्यस्तो वा । अस्य च विषयत्वेन अभिमतो नारायणः सर्वसम्मत एव । नहि नारायणपदमनर्थकं कोऽप्यङ्गीकरोति । नाप्यस्य प्रकरणस्य प्रयोजनमस्ति, ऐहिकपारत्रिकयोः कृष्यादियागादिसाधनान्तरसाध्यत्वात्, एतेन सम्बन्धाभावाच्च । मोक्षस्यापि कर्मसाध्यत्वात्, एतत्सम्बन्धाभावाच्च, सकलैहिकपारत्रिकभोगपरित्यागात्मकस्य तस्य अपुरुषार्थत्वेन निरधि-कारिकत्वापत्तेश्चेत्यत आह- विशेषणानीति ॥ लक्षणत्वेन निर्दोषत्वम्, अशेषसद्गुणत्वम्, यथा कामधेनुप्रभृतीनां लोकविलक्षणत्वात् प्रासादोद्गिरणादिकं नासम्भवि, तथा भगवतोऽपीति दर्शनार्थं सर्वतोऽत्यन्तविलक्षणत्वम्, तत्र प्रमाणाकाङ्क्षायां वेदादिवेद्यत्वं, तस्य विरोधपरिहाराय दुरागमाद्यवेद्यत्वमिति यानि इह आद्यपद्ये नारायणस्य विशेषणानि कथितानि तान्येव इह ग्रन्थे साधयिष्यामि, तत्प्रसक्तं चान्यत् । न तु स्वरूपमात्रम् । एतद्विशेषणवति च नारायणे सन्त्येव अज्ञानसन्देहविप्रतिपत्तय इत्यनेन विषयो दर्शितः । प्रकरणस्य विषयेण सह प्रतिपाद्यप्रति-पादकत्वलक्षणः सम्बन्धश्चोक्तः । स तु न युक्तः । साधकप्रमाणाभावात् । न तावदनुमानादिना सदागमैकविज्ञेयत्वादिविशिष्टतया नारायणः साधयितुं शक्यते स्ववचनविरोधात् । नापि वेदादिभिः सदागमैः, तत्प्रामाण्यमनभ्युपगच्छतः सौगतार्हतादीन् प्रति तदुपन्यासायोगाद् इत्यत आह- सदुक्तिभिरिति ॥ सदागमैः । तत्प्रामाण्यं च साधयिष्यामीति भावः ।
अथवा सत्यो वेदाद्या उक्तयो ऽनुग्राहिका येषामनुमानादीनां तानि सदुक्तीनि तैरपि । सदागमैकविज्ञेयमिति च वेदादिविरुद्धानुमानाद्यवेद्यत्वमेवोक्तमिति हृदयम् । क्रमादिति मन्दानां मनस्समाधानायोक्तम् । अन्यथा कुत्र किं साधितमिति मन्दा व्याकुलाः स्युः । निर्देशक्रम एवात्र विवक्षितो न त्वाकाङ्क्षाक्रमः । संविदे इति प्रयोजनाभिधानम् । ननु न व्युत्पाद्यार्थसंविन्मात्रं प्रयोजनं सुखदुःखावाप्तिहान्योरन्यतरत्वाभावात्, काकदन्तपरीक्षाग्रन्थसाधारण्याच्चेत्यत उक्तम्- सज्ज-नेति ॥ सन्ति हि तथाविधाः पुरुषाः, येषां सुखावाप्त्यादिकमपि न प्रार्थ्यं, किन्तु परमेष्टस्य नारायणस्य संविदेव । तान् प्रति इदं साधनमुपपद्यते । नहि सर्वाधिकारिकं किमपि शास्त्रमस्ति । अथवा संविच्छब्देन तत्साध्यो मोक्ष उपलक्ष्यते । मोक्षस्य कर्मसाध्यत्वं निराकर्तुं, प्रकरणस्य प्रयोजनेन सम्बन्धमुपपादयितुं च लाक्षणिकप्रयोगः । एवं तर्हि निरधिकारिकत्वमित्यत उक्तम्- सज्ज-नेति ॥ ये खलु सात्त्विकप्रकृतयोऽधीतसाङ्गाम्नायाः, शमदमादिसम्पन्नाः, नित्यानित्यवस्तुविवेक-वन्तोऽखिलसांसारिकभोगेभ्यो विरक्ता मुमुक्षवो, भगवत्संविदेकसाध्यत्वान् मोक्षस्य, तामेवार्थ-यन्ते तेषां संविदे । तस्माद् विषयप्रयोजनसम्बन्धाधिकारिसम्पन्नत्वादारम्भणीयं प्रकरणमिति स्थितम् ।
भावबोधः
॥ प्रतीतघटेति ॥ यथाक्रममनयोर्विषयप्रयोजनाभावोदाहरणत्वं द्रष्टव्यम् । एतयोरेव सम्बन्धा-भावोदाहरणत्वान्न पृथक् वक्तव्यमिति भावः ॥ एतेनेति ॥ शास्त्रेणैहिकपारत्रिकयोः सम्बन्धाभावादित्यर्थः। ननु संविच्छब्देन मोक्षः कुत उपलक्षणीयः, सज्जनमुक्तय इत्येव किं नोच्यत इत्यत आह- मोक्षस्य कर्म-साध्यत्वमिति ॥ तथा च शक्यसम्बन्धान्वेषणे संविन्मोक्षयोर्जन्यजनकभावलाभेन मोक्षस्य कर्मसाध्यत्व-निराकरणं संविद्विषयप्रतिपादकस्यास्य प्रकरणस्य संवित्साध्यमुक्त्या सह परम्परया साध्यसाधनभाव-सम्बन्धोपपादनं च कृतं भवति । मुख्यप्रयोगे तदसिद्धेरिति भावः । पूर्वोक्तनिरधिकारित्वशङ्कापरिहारकत्वेन सज्जनपदमवतारयति- एवं तर्हीति ॥
भावदीपः
उत्तरपद्यस्य व्यर्थतामाशङ्क्य तन्निवर्तकतया तदवतारयति- स्यादेतदित्यादिना ॥ एतद् वक्ष्यमाणं चोद्यं स्यादित्यर्थः । तदाह-प्रकरणमेवेदमिति ॥ यद्वा एतद्मङ्गलाचरणरूपं वन्दनं प्रकरणस्यारभ्यत्वे स्यात् । तदेव अनारम्भणीयमित्यर्थः ॥ विषयेति ॥ विषयशून्यत्वात्, प्रयोजनशून्यत्वात्, विषयेण च प्रयोजनतया अभिमतेन चास्य प्रकरणस्य सम्बन्धशून्यत्वादित्यभिप्रेत्य, आद्यहेतुद्वये क्रमाद् दृष्टान्तावाह- प्रतीतेति ॥ विषयस्वरूपं वदन्नेव आद्यहेतोः पक्षधर्मतामाह- स हीत्यादिना अङ्गीकरोतीत्यन्तेन ॥ एतच्च ‘इह तान्येव विशेषणानि साधयिष्यामि’ इत्यस्य व्यावर्त्यं ज्ञेयम् । अज्ञातोऽनिश्चित इत्यर्थः । ज्ञात इति वा विभागः, सामान्यतो ज्ञातः, विशेषतः सन्दिग्धो विपर्यस्तो वा इत्यर्थः ॥ अस्य चेति ॥ प्रकरणस्येत्यर्थः ॥ सम्मत एवेति ॥ नारायणपदवाच्योऽर्थः कश्चिदस्तीति सर्वजनसम्मत एव । न कस्यापि तत्र संशयो विपर्ययो वाऽस्तीति भावेन सम्मतत्वं व्यनक्ति- न हीत्यादिना ॥ एतेन विषयेणास्य सम्बन्धाभावो व्युत्पादितो भवति । द्वितीयादिहेतोः पक्षधर्मतां व्यनक्ति-नापीत्यादिना । एतेनेति ॥ प्रकरणेनेत्यर्थः । ऐहिकपारत्रिकयोरित्यनुषङ्गः । मोक्षोऽस्तु प्रयोजनमित्यत आह- मोक्षस्यापीति ॥ ‘अपाम सोमममृता अभूम’ इत्यादेरिति भावः ॥ एतत्सम्बन्धे-ति ॥ प्रकरणेन मोक्षस्य सम्बन्धाभावाच्चेत्यर्थः । तदेतद् लाक्षणिकसंवित्पदकृत्यं बोध्यम् । न्यायमतरीत्या आह- सकलेति ॥ तस्येति ॥ मोक्षस्येत्यर्थः ॥ निरधिकारिकत्वेति ॥ तादृशमोक्षप्रयोजकस्यास्य प्रकरणस्येति योज्यम् । तदेतत् सज्जनपदव्यावर्त्यम् । उक्तसर्वशङ्कानिवर्तकतया आद्यपद्यं व्याचश्व्े- लक्षणत्वे-नेत्यादिना । विलक्षणत्वमिति ॥ समतीतेत्यादिनोक्तमिति योज्यम् । तत्रेति ॥ निर्दोषत्वादिलक्षणे सर्वतोऽत्यन्तविलक्षणत्वे चेत्यर्थः । आगमैकविज्ञेयमित्यस्यार्थो वेदादीति । सत्पदार्थस्तस्येत्यादि । इहेत्यनुवादः। आद्यपद्य इति व्याख्या । इहेत्यनुवृत्त्या अर्थान्तरं तस्याह- इह ग्रन्थ इति ॥ अन्यदिति ॥ वेदप्रामाण्य-तन्नित्यत्वतद्विभागाक्षप्राबल्यादिकमित्यर्थः ॥ अज्ञानेति ॥ यथावन्निश्चयाभाव इत्यर्थः ॥ इत्यनेनेति ॥ साधयिष्यामि तान्येवेत्यर्थः । सदुक्तिभिरित्यस्य व्यावर्त्यमाह- स तु न युक्त इति ॥ स इत्यस्योक्त-विशेषणविशिश्वे नारायणोऽस्य विषय इत्ययमर्थ इत्यर्थः ॥ स्ववचनेति ॥ आगमैकविज्ञेयत्वोक्ति-रूपस्ववचनविरोधात् । ‘न चानुमानात् तत्सिद्धिः’ इत्यादिवक्ष्यमाणस्ववचनविरोधाद्वेत्यर्थः । स्वतन्त्रत्वाद्यनु-मानानां श्रुतिपुराणोक्तानामग्रे्रऽभिधानादाह- अथ वेति ॥ स्ववचनविरोधं निराह- सदागमेति ॥ न त्वाकाङ्क्षाक्रम इति ॥ तथात्वे त्रयाणामपि परिच्छेदानां मध्येऽन्त्यस्य प्राथम्यं प्रथमस्यान्त्यताप्रसङ्ग इति भावः ॥ व्युत्पाद्यार्थेति ॥ उक्तविशेषणयुक्तनारायणरूपार्थसंविन्मात्रमि-त्यर्थः । तज्ज्ञानस्यापुमर्थत्वेऽपि विप्रतिपन्नोऽर्थोऽवश्यं व्युत्पाद्य एवेत्यत आह- काकदन्तेति ॥ तथात्वेऽनारम्भणीय एवायं ग्रन्थः स्यादिति भावः ॥ सन्ति हीति ॥ ‘एकान्तानां न कस्यचित् । अर्थे नारायणो देवः सर्वमन्यत् तदर्थकम्’ इति वचनादिति भावः । सर्वाधिकारिकत्वलाभायाऽह- अथ वेति ॥ सम्बन्धमिति ॥ प्रकरणजन्यसंवित्साध्यत्वरूपसम्बन्ध-मित्यर्थः ॥ एवं तर्हीति ॥ ऐहिकामुष्मिकभोगहीनमोक्षफलकत्व इत्यर्थः । निरधिकारिकत्वं प्रकरणस्येत्यनु-षङ्गः । सांसारिकेभ्यो भोगेभ्यो विरक्ता मुमुक्षव इत्युक्त्या मोक्षस्य परमपुमर्थत्वं सूचितम् ॥ तेषां संविद इति ॥ स्वतोऽपुमर्थत्वेऽपि परमपुमर्थमोक्षहेतुत्वात् पुमर्थ एव संविदिति भावः । एतेन सात्त्विकप्रकृतित्वाद्युक्त-विशेषणविशिष्टा अत्र ग्रन्थेऽधिकारिण इत्युक्तं भवति ।
वाक्यार्थदीपिका
(श्री.टि.)
॥ प्रकरणमेवेदमिति ॥ यस्य निर्विघ्नेन परिसमाप्त्यर्थं मङ्गलाचरणं स्यादिति भावः ॥ सम्बन्धे-ति ॥ विषयप्रयोजनाभ्यां प्रकरणस्य, विषयप्रयोजनयोश्च परस्परं सम्बन्धाभावादित्यर्थः । विषयशून्यतयाऽ-नारम्भणीयत्वे दृष्टान्तमाह- प्रतीतेति ॥ प्रयोजनशून्यत्वेनानारम्भणीयत्वे दृष्टान्तमाह- काकेति ॥ ‘काकस्य कति वा दन्ता मेषस्याण्डं कियत्पलम् । कम्बले कति रोमाणि का वार्ता चोलमण्डले’ इत्यादिवदित्यर्थः । एतयोरेव सम्बन्धाभावोदाहरणत्वान्न पृथगुक्तमिति मन्तव्यम् । स्वरूपासिद्धिपरिहाराय विषयशून्यत्वमुप-पादयति- स हीति ॥ योऽज्ञात इत्यादि ॥ यथाऽऽहुः पदार्थविदः ‘सन्दिग्धविपर्यस्तान्यतरं प्रत्येव शास्त्रस्यार्थ-वत्त्वात्’ इति । अस्य प्रकरणस्य सर्वसम्मतत्वमुपपादयति- न हीति ॥ तथात्वे पदत्वव्याघातादिति भावः । व्याघातसूचनार्थमेव ‘पदमनर्थकं कोऽपि न ह्यङ्गीकरोति’ इत्युक्तम् । तथा हि । ‘अर्थवदधातुरप्रत्ययः प्रातिपदिकम्’ इति प्रातिपदिकसञ्ज्ञायाम्, ‘ङ्याप्प्रातिपदिकात्’ इति प्रातिपदिकोपरि स्वादिप्रत्यये, ‘सुप्तिङन्तं पदम्’ इति (श्री.टि.) पदत्वविधानात्, पदत्वाङ्गीकारेऽर्थवत्त्वप्राप्त्या अनर्थकत्वाङ्गीकारे च तद्व्याहन्येतेत्याशयः । प्रयोजन-शून्यत्वमुपपादयति- नापीति ॥ प्रयोजनं भवदैहिकं वा स्यात् पारत्रिकं वा । द्वितीयेऽपि स्वर्गो मोक्षो वा । नाऽद्यद्वितीयावित्याह- ऐहिकेति ॥ धान्यधनादिरूपैहिकेत्यर्थः । कृष्यादीत्यादिपदेन कुसीदादिग्रहणम् । यागादीत्यादिपदेन अन्नप्रपादानादिरूपपूर्तसङ्ग्रहः ॥ एतेनेति ॥ तयोः साधनान्तरसाध्यत्वेन एतेन प्रकरणेन जन्यजनकभावसम्बन्धाभावादित्यर्थः । एवमेवोत्तरत्राप्युपपादनं द्रष्टव्यम् । नापि तृतीय इत्याह- मोक्षस्या-पीति ॥ ‘अपाम सोमममृता अभूम’ इत्यादिश्रुतेरिति भावः ॥ एतदिति ॥ एतेन प्रकरणेनेत्यर्थः । विषय-प्रयोजनाभावादेवाधिकारी च दूरे निरस्त इत्याह- सकलेति ॥ आत्मकस्येत्यनन्तरं मोक्षस्येति शेषः । एक-विंशतिदुःखध्वंसात्मनाशादिरूपत्वादिति भावः ॥ अपुरुषार्थत्वेनेति ॥ पुरुषेणार्थ्यमानत्वाभावेनेत्यर्थः । न ह्येतादृशे मोक्षेऽर्थिता कस्यापि सम्भवतीति भावः ॥ निरधिकारिकत्वापत्तेरिति ॥ यो हि यमर्थमर्थयमानो यं विषयं जिज्ञासते तस्यैवाधिकारित्वादिति भावः । केवलार्थकैकशब्दार्थानुवादो दुरागमाद्यवेद्यत्वमिति । इहेत्यस्याऽवृत्तिमभिप्रेत्य इह ग्रन्थ इत्युक्तम् । ननु वेदप्रामाण्यापौरुषेयत्वादेरप्यत्र साधनात्तान्येवेति कथमुच्यत इत्यत आह- तत्प्रसक्तं चेति ॥ सदागमैकविज्ञेयत्वे कथिते वेदानामेवाप्रामाण्यात्तत्कथमेतदित्याशङ्कायां तत्प्रामाण्यादिसाधनं क्रियत इत्येवमादिरूपेण अन्यत् प्रामाण्यादिसाधनम्, सदागमैकविज्ञेयत्वादिकथनप्रसक्त-मित्यर्थः ॥ न तु स्वरूपमात्रमिति ॥ नारायणस्वरूपमात्रमित्यर्थः । येन तस्य सर्वसम्मतत्वेन विषयत्वं न स्यादिति भावः । विप्रतिपत्तिर् विपरीतनिश्चयः ॥ उक्त इति ॥ इह साधयिष्यामीत्यनेनेत्यर्थः । शङ्कते- स त्विति ॥ विषय इत्यर्थः । सदागमैकविज्ञेयत्वादिविशिष्टस्य नारायणस्य यद्विषयत्वमुक्तं तदयुक्तमिति यावत् ॥ साधकेति ॥ साधयिष्यामीति साधकं प्रमाणमुक्तं तदभावादित्यर्थः । अनुमानादिनेत्यत्राऽदिपदेन प्रत्यक्षं ग्राह्यम् ॥ स्ववचनविरोधादिति ॥ एतैर्लक्षणैरनया च सम्भावनया विशिष्टो भगवान् कुतः प्रतिपत्तव्य इत्या-शङ्कायां सदागमैकविज्ञेयत्वमुक्त्वाऽधुना अनुमानादिना वेद्यत्वाङ्गीकारे सदागमैकविज्ञेयमिति स्ववचनविरोधः स्यादित्यर्थः । सदुक्तिभिरित्यस्य व्याख्यानम्- सदागमैरिति ॥ वेदादिभिरित्यर्थः ।
ननु सौगतादिभिर्वेदादिसदागमानां प्रामाण्यानङ्गीकारात् कथं सौगतादीन् प्रति सदागमैकविज्ञेयत्वादिविशिष्ट-नारायणसाधनाय तदुपन्यास इत्यत आह- तत्प्रामाण्यं चेति ॥ उक्तार्थस्यानुमानादिनाऽप्यग्रे साध्यमानत्वात् कथं सदुक्तिभिः साधयिष्यामीति प्रतिज्ञेत्यस्वरसादाह- अथ वेति ॥ आदिपदेन यशोदादिप्रत्यक्षग्रहणम् । तैरपीति ॥ वेदानुगृहीतानुमानादिभिरपीत्यर्थः । नन्वेवं परमात्मनोऽनुमानादिगम्यत्वं वक्तुं न शक्यते । सदागमैकविज्ञेयत्ववचनविरोधादित्यत आह- सदागमैकविज्ञेयमिति चेति ॥ वेदादिविरुद्धेति ॥ न तु वेदानुकूलानुमानाद्यवेद्यत्वम् । तादृशानुमानादिभिरेव च साधनमस्माभिः प्रतिज्ञातमिति भावः । ननु प्रथमपरिच्छेदे सदागमैकविज्ञेयत्वप्रतिपादनमयुक्तम् । नियामकाभावात् । न च निर्देशक्रमानुसारेण तदुपपादनं क्रियत इति स एव नियामक इति वाच्यम् । निर्देशक्रमापेक्षया आकाङ्क्षाक्रमस्य बलवत्त्वेन निर्दोषाशेषसद्गुणत्वस्यैव प्रथमपरिच्छेदे प्रतिपाद्यत्वौचित्यादित्यत आह- निर्देशेति ॥
(श्री.टि.) ननु बलवन्तमाकाङ्क्षाक्रमं विहाय निर्देशक्रमविवक्षायां किं बीजमिति चेदुच्यते । सदागमैक-विज्ञेयत्वोपपादनस्य वेदप्रामाण्याद्युपपादनसापेक्षत्वेनात्यायाससाध्यतया प्रथममेव तस्योपपाद्यत्वात् । किञ्च सदागमैकविज्ञेयत्वस्य प्रथमत उपपादनाभावे निर्दोषाशेषसद्गुणत्वं साधयितुं न शक्यते । आगमानामप्रामाण्य-शङ्काकलङ्कितत्वेन तज्ज्ञापकप्रमाणाभावात् । प्रथमतः सदागमैकविज्ञेयत्वोपपादने तु सदागमरूपप्रमाणसद्भावेन तेन निर्दोषाशेषसद्गुणत्वसाधनं सुशकमिति भावः । एतदभिप्रायेणैव निर्देशक्रम एवात्र विवक्षित इत्यवधारणमिति ज्ञातव्यम् ।
सदागमैकविज्ञेयत्वादिविशिष्टनारायणसंविन्मात्रस्य प्रयोजनत्वमुक्तं तदयुक्तमित्याशङ्कते- नन्विति ॥ व्युत्पाद्यार्थसंविन्मात्रमिति ॥ प्रतिपाद्यार्थज्ञानमात्रमित्यर्थः ॥ काकदन्तेति ॥ काकस्याष्टौ दन्ता इति काक-दन्तपरीक्षाग्रन्थेत्यर्थः । तथा च दन्ताष्टकरूपप्रतिपाद्यार्थज्ञानमात्रस्य तत्रापि जायमानत्वेन सप्रयोजनत्वापत्त्या निष्प्रयोजनत्वं सर्वसम्मतं न स्यादिति भावः ॥ येषामित्यादि ॥ ‘एकान्तानां न कस्यचित् । अर्थे नारायणो देवः सर्वमन्यत्तदर्थकम्’ इति वचनादिति भावः ॥ संविदेवेति ॥ प्रार्थ्येति लिङ्गविपरिणामेनानुवर्तते । तान् प्रति एकान्तभक्तान् प्रति । नन्वेवं सत्यस्मिञ्च्छास्त्रे एकान्तभक्तातिरिक्तभक्तानामधिकारो न स्यादित्यत आह- न हीति ॥ तथा चेष्टापत्तिरिति भावः । एकान्तभक्तातिरिक्तभक्ताभिप्रायेणापि प्रयोजनाभिधानपरं संविद इति पदं योजयति- अथ वेति ॥ तत्साध्य इति लक्षणाबीजभूतशक्यसम्बन्धोक्तिः । नन्वस्मदायत्ते वाक्यप्रयोगे सज्जनमुक्तय इति मुख्यप्रयोगमकृत्वा मोक्षावाचकसंवित्पदप्रयोगो न युक्तः । प्रयोजनाभावादित्यत आह- मोक्षस्येति ॥ तथा च लक्षणाबीजशक्यसम्बन्धान्वेषणे संविन्मोक्षयोर्जन्यजनकभावलाभेन यत्पूर्वं शङ्कित मोक्षस्य कर्मसाध्यत्वं तन्निराकरणं संविद्विषयप्रतिपादकस्यास्य प्रकरणस्य संवित्साध्यमुक्त्या सह परम्परया साध्यसाधनभावसम्बन्धोपपादनं च कृतं भवति । मुख्यप्रयोगे तदसिद्धेरिति भावः । सज्जनपदमवतारयति- एवं तर्हीति ॥ मोक्षस्य प्रयोजनत्वोक्तावित्यर्थः ॥ निरधिकारिकत्वमिति ॥ एकान्तभक्तानां मोक्षापेक्षाया अभावात् । तदतिरिक्तभक्तानां चाप्रसिद्धत्वान्निरधिकारिकत्वमित्यर्थः । कथमनेन शङ्कापरिहार इत्यत एकान्त-भक्तातिरिक्ता अपि भक्ता मोक्षापेक्षिणस्सन्तीत्याह- ये खल्वित्यादिना ॥ सात्त्विकप्रकृतयः सात्त्विक-स्वभावाः । साधनचतुष्टयसम्पन्न एवाधिकारीत्याशयेन साधनचतुष्टयं दर्शयति- शमादीति ॥ मुमुक्षव इत्युक्तं मुमुक्षुत्वमेवैकान्तभक्तातिरिक्तभक्तस्वरूपज्ञापकम् । ‘एकान्तानां न कस्य-चित् । अर्थे नारायणो देवः’ इति वचनात्तेषां मुमुक्षाया अभावादिति भावः । तां भगवत्संविदम् ॥ तेषां संविद इति ॥ मोक्षसाधनीभूतज्ञानाये-त्यर्थः । उपसंहरति- तस्मादिति ॥
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
॥ अनारम्भणीयमिति ॥ प्रेक्षावदनुपादेयमित्यर्थः ॥ विषयेति ॥ विषयशून्यत्वात् सम्बन्ध-शून्यत्वाच्च इत्यर्थः । आद्यहेतोर्व्याप्त्यसिद्धिं दृष्टान्तोक्त्या परिहरति- प्रतीतेति ॥ निश्चितेत्यर्थः । द्वितीयहेतोरपि दृष्टान्तोक्त्या तां परिहरति- काकेति ॥ आद्यहेतोः स्वरूपासिद्धिमुद्धरति- स हीति ॥ द्वितीयस्यापि तां परि-(पां.टि.) हरति- नापीति ॥ ननु ऐहिकपारत्रिकयोः साधनान्तरसाध्यत्वेऽपि यागस्य यवव्रीह्युभय-साधनसाध्यत्ववत्, एतत्प्रकरणसाध्यत्वमपि किं न स्याद् इत्यत आह- एतेनेति ॥ प्रकरणेनेत्यर्थः ॥ अपुरु-षार्थत्वेनेति ॥ पुरुषकामनाऽविषयत्वेनेत्यर्थः ॥ निरधिकारिकत्वापत्तेरिति ॥ प्रकरणस्येति शेषः । फल-कामनावत एव अधिकारित्वात्, अत्र च फलस्याकाम्यत्वेन तत्कामनारूपाधिकारिविशेषणविरहान् नाधि-कारित्वमिति भावः ।
॥ एतेन विषयो दर्शित इति ॥ विशेषणानि यानीह कथितानि साधयिष्यामि तान्येव इत्येतावतांऽशेने-त्यर्थः ॥ स त्विति ॥ विषय इत्यर्थः ॥ स्ववचनविरोधादिति ॥ पूर्वं सदागमैकविज्ञेयत्वस्य उक्ततया अनु-मानावेद्यत्वोक्तेः, तद्विरुद्धत्वादिति भावः ॥ सदागमैरिति ॥ अनेन सत्यश्च ता उक्तयश्च सदुक्तय इति कर्मधारय इति सूचितं भवति । ननु चात्रोक्तो दोषः, वेदादिप्रामाण्यमनभ्युपगच्छतः सौगतार्हतादीन् प्रति तदुपन्यासायोगाद् इति तत्राऽह- तत्प्रामाण्यं चेति ॥ उक्तार्थस्य अनुमानादिनाऽपि अग्रे साध्यमानत्वात् कथं सदागमैः साधयिष्यामीति प्रतिज्ञेत्यत आह- अथ वेति ॥ नन्वेवं ‘सदागमैकविज्ञेयम्’ इति वचनविरोध इत्यत आह- सदागमेति ॥ आकाङ्क्षाक्रमस्यापि क्रमशब्दार्थत्वात् तस्य च प्रकृते असत्त्वादाह- निर्देशेति ॥ संविदेवेति ॥ अत्र प्रार्थ्यमित्येतत् प्रकृतमर्थवशाद् लिङ्गविपरिणामेन प्रार्थ्येति सम्बध्यते । नन्वेवम् अत्र प्रकरणे अनेकान्तानाम् अधिकारो न स्यादित्यत आह- अथ वा संविच्छब्देनेति ॥ तत्साध्य इति ॥ लक्षणा-बीजभूतसम्बन्धोक्तिः । नन्वेवं सज्जनमुक्तय इति वाचकपदप्रयोगम् अकृत्वा अवाचकपदप्रयोगे स्वायत्त-न्यायविरोध इत्यत आह- मोक्षस्येति ॥ तथा च संविद इति लाक्षणिकपदप्रयोगे हि लक्षणाहेतुशक्यसम्बन्धान्वेषणे संविन्मोक्षयोर्जन्यजनकभावलाभेन मोक्षस्य कर्मसाध्यत्वनिराकरणसिद्धिः । संविद्विषयप्रतिपादकस्यास्य प्रकरणस्य तत्साध्यमुक्त्या संविद्द्वारा साध्यसाधनभावसम्बन्धोपपादनस्य च सिद्धिः, न तु सज्जनमुक्तय इति वाचकपदप्रयोगे । अतो वाचकं हित्वा लाक्षणिकस्यैव प्रयोग इति भावः ॥ निरधिकारिकत्वमिति ॥ सकलैहिकपारत्रिकभोगविरागात्मकत्वान् मोक्षस्यापुरुषार्थत्वाद् इति भावः ।
लघुप्रभा
(व्या.टि.)
प्रायः स्पष्टानि वाक्यानि बहुभिर्व्याकृतानि च ।
अतोऽस्पष्टास्पृष्टवाक्यभाव एवोच्यते मया ॥
‘ज्ञातार्थं ज्ञातसम्बन्धं श्रोतुं श्रोता प्रवर्तते’ इत्युक्त्या विषयादिसम्बन्धवत एव प्रेक्षावदुपादित्सागोचरत्वेन, अत्रोपादानप्रयोजकं तद्द्वारा आरम्भणीयताप्रयोजकं विषयादिसम्बन्धादिकमाक्षिपति- स्यादेतदिति ॥ एतद् वन्दननिबन्धनादिकं स्याद्, युक्तमिति शेषः ॥ प्रकरणमेवेति ॥ यदि प्रकरणमारम्भणीयं भवेत् तदेदं युक्तं स्यात्, तदेव नेति बुद्ध्या विवेकेन एवकारस्य प्रकरणारम्भणीयत्वनिष्ठव्यापकतासूचकत्वं मन्तव्यम् ॥ विषय-प्रयोजनसम्बन्धेति ॥ विषयसम्बन्धशून्यत्वात्, प्रयोजनसम्बन्धशून्यत्वाद् इति हेतुद्वयम् । विशिष्टस्य हेतुत्वे (व्या.टि.) वैयर्थ्यम् । प्रतिपादकताप्रयोजकतादिसम्बन्धेन विषयाद्यभावस्य सम्बन्धाभावत्वविवक्षया इत्थ-मुक्तिः । सम्बद्धयोर्विषयप्रयोजनयोरारम्भणीयताप्रयोजकत्वे सम्बन्धप्राधान्यविवक्षया वा सम्बन्धाभावस्य हेतूकरणम् । हेतुद्वयमपि सामान्याभावरूपम् । अस्य च सम्भावितो विशेषो विरोधी । शङ्किते विशेषे विषय-लक्षणाभावे प्रयोजनलक्षणाभावे वा सम्बन्धस्याभावे वा विशेषत्वमेव नास्तीति न सामान्याभावरूपहेत्व-सिद्ध्यापादकत्वमित्यवधेयम् । आद्ये निदर्शनम्- प्रतीतेति ॥ द्वितीये- काकदन्तेति ॥ विषयलक्षणासम्भवेन तत्त्वाभावं वक्तुं तल्लक्षणमाह-स हीति ॥ अज्ञात इति ॥ अप्राप्ते शास्त्रमर्थवदिति न्यायादिति भावः ॥सम्मत एवेति ॥ स्वरूपमात्रे विवादाभावादिति भावः ॥ पदमनर्थकमिति ॥ इतरथा प्रातिपादिकसञ्ज्ञाऽभावेन सुबनुत्पत्तेः पदत्वव्याघात इति भावः । द्वितीयमुपपादयति- नापीति ॥ प्रयोजनं भवद् ऐहिकं पारत्रिकं मोक्षो वेति त्रेधा विकल्प्य आद्यद्वितीयौ निराह- ऐहिकपारत्रिकयोरिति ॥ इहपरत्रशब्दाभ्यां प्राग्वहतेष्ठकि रूपम् । कृष्यादियागादीति ॥ कृष्यादि च यागादि च, ते च ते साधनान्तरे च इति विग्रहः । उत्तरपदेनैव कर्मधारये पूर्वपदेन समासानुपपत्तेरिति भावः । एतेन प्रकरणेन । तृतीयं निराह-मोक्षस्येति ॥ कर्मेति ॥ ‘अपाम सोमम्’ इति श्रुतेरित्यर्थः ॥ भोगपरित्यागेति ॥ ‘केन कं पश्येत्’ इति श्रुतेरित्यर्थः । सम्भावकेन लक्षणासम्भावनानिवृत्तिं दर्शयति- उद्गिरणेति ॥ गिरतेर्ल्युट् । दानमित्यर्थः । इहेति आवृत्त्या योजयति- आद्यपद्य इत्यादिना ॥ अन्यद् वेदप्रामाण्यस्वतस्त्वादि ॥ विषय इति ॥ प्रकरणस्येति शेषः । तेन आद्यहेतोरसिद्धिरुक्ता वेदि-तव्या ॥ स त्विति ॥ सम्बन्ध इत्यर्थः । साधनं किम् अनुमानादिना सदागमैर्वा इति विकल्प्य आद्यं निराह- न तावदिति ॥ स्ववचनेति ॥ सदागमैकविज्ञेयम् इत्युक्तिविरोधाद् इत्यर्थः । द्वितीयं पराह- नापीति ॥ द्वितीयपक्षपरिग्रहाय सदुक्तिभिरित्येतत् कर्मधारयाभिप्रायेण व्याचश्व्े- सदागमैरिति ॥ इत्यर्थ इति शेषः । सदुक्त्युपन्यासायोगशङ्कायाः सदुक्तिभिरित्येतद् असङ्गतम् अनुत्तरत्वाद् इत्यत आह- तत्प्रामाण्यं चेति ॥ अप्रामाण्यं च निरसिष्यामीत्यर्थः । यद्वक्ष्यति एतच्छङ्कानिराससमुच्चितस्येति । प्रथमपक्षपरिग्रहाय बहुव्रीहिं स्पष्टयति- सत्य इति ॥ सर्वं विषयाभिधानम् इति भ्रान्तिं वारयति- प्रयोजनाभिधानमिति ॥ तेन द्वितीय-स्याप्यसिद्धिरुक्ता । तथाविधा एकान्तभक्ताः । सर्वाधिकारिसाधारणफल दर्शयितुमाह-अथ वेति ॥ लाक्षणिकप्रयोगे प्रयोजनं दर्शयति-मोक्षस्येति ॥ निरधिकारिकत्वमिति ॥ मुमुक्षुमात्रस्य अभावादिति भावः । सत्त्वं व्यनक्ति- ये खल्विति ॥ संविदेकेति ॥ ‘नान्यः पन्थाः’ इति श्रुतेरिति भावः ।