०६ पदपूर्वनिपातविचारः

लघुप्रभा

लघुप्रभा

विग्रहं ग्राहयति- सम्यगतीते इति ॥ यद्यपि ‘द्वितीया श्रितातीत’ इति तत्पुरुषो युक्तः । समासप्राब-ल्यात् । अतिपूर्वकस्येणः प्रतियोगितानिरूपितानुयोगिताकभेदोऽर्थः । आधेयत्वं द्वितीयार्थः । निष्ठा च कर्तरि, इति द्वितीयासमासे क्षराक्षरवृत्तिप्रतियोगितानिरूपितानुयोगिताकवैलक्षण्यस्य ऋजुगत्या सिद्धेश्च । कर्मणि निष्ठामुपेत्य तृतीयार्थबहुव्रीहौ तु वक्रेण सिद्धिः । तथाऽपि स नाऽश्रयणीयः । समासशास्त्रे द्वितीयायाः प्रथमानिर्दिष्टत्वेन क्षराक्षरशब्दयोः पूर्वनिपातापत्तेः । समासविधौ तदन्तग्रहणनिषेधेन समतीतशब्देन द्वितीया-तत्पुरुषायोगाच्च । विवक्षितार्थबोधस्त्वर्थात् । समासशक्तिमते आरूढो वानरो यमिति विग्रहे वृक्षकर्मकारोहणकर्ता वानर इति बोधेऽपि, आरूढवानर इति समासे बोधानुसारेण वानरकर्तृकारोहणकर्मणि शक्तिवत्, विग्रहे स्ववृत्तिभेदप्रतियोगिताके क्षराक्षरे इति बोधेऽपि समासशक्तिबलात् क्षराक्षरवृत्तिप्रतियोगिताकभेदवानीश्वर इति बोधः साक्षादपीति न कोऽपि दोषः । अधिकं गुरुप्रभायाम् ।

ध्वस्ते इति प्रतीतिवारणायातिक्रान्ते इति । फलितमाह- जडेति ॥ अप्राधान्यक्रमेण निर्देशः । मूलेऽक्षर-पदस्याजाद्यदन्तत्वेऽपि वस्तुतोऽभ्यर्हितत्वेऽपि क्षरपदस्याल्पाक्षरत्वेन, अक्षरप्रतियोगिसमर्पकत्वेन प्रथमोप-स्थितत्वनिमित्ताभ्यर्हितत्वेन च पूर्वनिपातः । केचित्तु अक्षरशब्दस्याभ्यर्हितत्वात् पूर्वनिपातमाशङ्क्य यतिभङ्गान्न दोष इत्याहुः । तन्न । पदमध्ये पादविच्छित्तिरूपस्य तस्याप्रसक्तेः । शास्त्रेऽदोषत्वाच्च । भवद्रीत्या सदागमैकेत्यत्र दोषत्वापाताच्च । पूर्वान्तवत्स्वरः सन्धावित्यस्यापि साम्याच्च । यतिभङ्गभयेन शास्त्रप्राप्तनिपातपरित्यागस्या-चातुर्यावहत्वाच्चेत्यलम् ।

॥ सम्भावनयेति ॥ ‘ण्यासश्रन्थो युच्’ इति युच् । न ल्युट् । तेन न स्त्रीलिङ्गस्य टापो वाऽनुपपत्तिः । लक्षणे सम्भावके च किं मानमिति शङ्का । विशिष्टतया विलक्षणतया चेति विशब्दस्यार्थद्वयकथनेन, वैशिष्ट्यरूपे लक्षणे वैलक्षण्यरूपे सम्भावके चाऽगमो मानमित्युक्तं भवति । सदोषत्वादिग्राहकप्रत्यक्षानुमानरूपे प्रतिपक्षे जाग्रति कथमागमेन तन्निश्चय इत्यत एकशब्देन प्रतिपक्षत्वनिरास इत्यभिप्रेत्यावतारयति- प्रत्यक्षेति ॥ अत्र एकेति विशेषणेन लक्षणसम्भावके प्रति धर्मितावच्छेदकेन विष्णुत्वेनाऽगमेनैव ज्ञेयमित्यर्थोऽभिमतः । तेनान्यधर्मितावच्छेदककत्वेन कृष्णो दोषवान्, कश्चिद्दोषवानित्यस्य वा न प्रतिपक्षत्वम् । ‘देवक्यां देवरूपिण्यां विष्णुः सर्वगुहाशयः । आविरासीत्’ इत्याद्यागमाधीनविष्णुत्वनिश्चयमूलकतद्धर्मितावच्छेदककप्रत्यक्षादेरुप-जीव्यविरोधेन दुर्बलत्वान्न प्रतिपक्षत्वमित्यवधेयम् । विवृतमेतत् ‘अवतारादिदृष्टौ स्यादागमस्योपजीव्यता । आगमेन हि विष्णुत्वं ज्ञात्वा’ इत्यनुव्याख्यानव्याख्यावसरे सुधायाम् । पाशुपतागमेन सत्प्रतिपक्षत्वं तु निर्दोष-त्वाद्यावेदकेन आगमानां सत्त्वविशेषणेन तेषां दुरागमत्वसूचनेन निरस्तमित्याह- तथाऽपीत्यादिना ॥ ननु ‘पूर्वकालैक’ इति समासशास्त्रे एकशब्दस्य प्रथमानिर्दिष्टत्वेन ‘प्रथमानिर्दिष्टम्’ इत्यनेनोपसर्जनत्वात् ‘उपसर्जनं पूर्वम्’ इति पूर्वनिपाते सदेकागमेति निर्देष्टव्ये सदागमैकेति निर्देशोऽयुक्त इत्यत आह- दोषैकदृगिति ॥ पूर्व-कालैकेति पूर्वनिपात इत्यत्र निर्देशप्रयुक्तपदस्य मध्यमस्य लोपो मन्तव्यः ॥ न केवलार्थस्येति ॥ इति विज्ञायत इति शेषः । केवलार्थकैकशब्दस्य पूर्वनिपातरहितोऽभियुक्तप्रयोगः पूर्वकालैकेत्यत्र सङ्ख्यार्थकस्यैव ग्रहणे ज्ञापकः । ‘विशेषणं विशेष्येण’ इत्यनेन समासे सिद्धे ‘दिक्सङ्ख्ये सञ्ज्ञायाम्’ इत्यस्य सञ्ज्ञायामेव सप्तर्ष्यादिपदे सङ्ख्यावाचकस्य समासो नान्यत्रेति नियमार्थ(क)त्वेन एकशाटीत्यादावेकशब्दस्य समासाप्राप्तौ पुनस्तदर्थं पूर्वकालैकेत्येकग्रहणमिति साफल्यमप्यपरं ज्ञापकमवधातव्यम् । न च केवलार्थकत्वेऽपि विशेषण-मित्यनेन समासे पूर्वनिपातः स्यादेवेति वाच्यम् । बहुप्रयोगानुरोधेनाऽकृतिगणे मयूरव्यंसकादावन्तर्भावात् । तस्य विशेष्यस्यापि मयूरादेः पूर्वनिपातार्थत्वात् । कैवल्यं च समभिव्याहृतपदार्थसंसर्गिनिष्ठभेदप्रतियोगिता-नवच्छेदकान्वयितावच्छेदकावच्छिन्नत्वम् । विष्णुविषयकविज्ञानकरणत्वसंसर्ग्यन्यन्नास्तीत्यागम एव तादृशः। तन्निष्ठभेदप्रतियोगिताऽनवच्छेदकं चाऽगमत्वमितीह कैवल्यम् । एवमन्यत्रापीत्यवधेयम् । अधिकं तु गुर्व्यां प्रभायाम् ।