०२ मङ्गलवादः

टीका

टीका

विघ्नविघातादिसाधनतयाऽविगीतशिश्वचारपरम्पराद्यवगतं नारायणवन्दनं स्वयमन्तराय-विधुरोऽपि भगवानानन्दतीर्थमुनिः शिष्यान् ग्राहयितुं प्रकरणादौ निबध्नाति- सदागमैकविज्ञेय-मिति ॥ सदा वन्दे इत्यनेन मम नारायणवन्दनं न प्रत्यूहविरहादिप्रयोजनोद्देशेनेति सूचयति । न अनिर्धारितस्वरूपस्य वन्दनं युक्तं, न च लक्षणेन विना निर्धारणमित्यतो नारायणस्य लक्षणान्याह- निर्दोषेति ॥ निर्दोषश्चासावशेषसद्गुणश्चेति विग्रहः । अत्र निर्दोषग्रहणेन पारतन्त्र्यराहित्यादीनि, अशेषसद्गुणमित्यनेन परिपूर्णानन्दत्वादीनि च अनन्तानि लक्षणानि सूचितानि । तदर्थमेव अशेषेत्युक्तम् । दुःखादीनामपि गुणत्वेन व्यवहारात् सदिति । अथवा उत्पत्त्यादिराहित्यं गुणानां सच्छब्देनाऽचश्व्े । एतल्लक्षणसम्भावनार्थमुक्तम्- समतीतेति ॥ क्षराक्षरपदाभ्यां जडमप्युप-लक्ष्यते । सम्यगतीते अतिक्रान्ते क्षराक्षरे येन असौ तथोक्तः । जडजीवप्रकृतिभ्योऽत्यन्तविलक्ष-णम् । एतैर्लक्षणैर् अनया च सम्भावनयाऽन्वितो नारायणः कुतः प्रतिपत्तव्य इत्यत उक्तम्- आगमविज्ञेयमिति ॥ आगमैर् विशिष्टतया विलक्षणतया च ज्ञेयम् । प्रत्यक्षानुमानाभ्याम् अन्यथापि ज्ञायत इत्यत उक्तम्- एकेति ॥ आगमानपेक्षस्य प्रत्यक्षादेर् नारायणस्य सदोषत्वादौ प्रवृत्त्यनुपपत्तेस् तदपेक्षायां च उपजीव्यविरोधेन न तस्य तत्र प्रामाण्यमिति भावः । तथाऽपि पाशुपताद्यागमैर् अन्यथाऽपि ज्ञायत इत्यत उक्तम्- सदिति ॥ अयोग्यजनव्यामोहनाय प्रणीतानां तेषां दुरागमत्वान् न तदुक्तप्रकारेण ज्ञेयः । ‘दोषैकदृक् पुरोभागी, ह्लादैकमयीम्’ इत्यादिप्रयोगदर्शनात् सङ्ख्यार्थस्यैव एकशब्दस्य पूर्वकालैकेति पूर्वनिपातो न केवलार्थस्य ।

भावबोधः

निर्दोषत्वस्य गुणविशेषणत्वे सत्पदवैय्यर्थ्यम् । तृतीयपरिच्छेदे ‘वर्जितः’ इत्यादिप्रमाणोदाहरणाद्य-सङ्गतिश्च स्यादित्यत आह- निर्दोषश्चासाविति ॥ लक्षणान्तरलाभश्च विग्रहप्रदर्शनप्रयोजनम् । तदर्थमेवा-शेषेत्युक्तमिति । उत्पत्त्यादीत्यादिपदेन पारतन्त्र्यापूर्णत्वग्रहणेन सत्पदेनैव लक्ष्म्यादिव्यावृत्तिसिद्धेर्न तदर्थ-मशेषपदमिति भावः ॥ येनेति ॥ अन्यपदार्थस्य कर्मत्वे विरुद्धता स्यादिति भावः । वीत्यस्यार्थद्वयम् । ‘विशिश्व्तया’ लक्षणैरित्यर्थः । ‘विलक्षणतया’ जडजीवप्रकृतिभ्य इत्यर्थः । अत एवैतत्परिच्छेदान्ते तथैवाऽ-चार्यैरुपसंहारः कृत इति भावः ।

भावदीपः

नारायणवन्दनस्य ग्रन्थादौ लेखनस्य च कृत्यं वदन्नाद्यपद्यमवतारयति- विघ्नविघातादीति ॥ नारायणवन्दनं प्रकरणादौ निबध्नातीत्यन्वयः । तत् किं स्वस्य ग्रन्थकृतौ अविघ्नतार्थं नेत्याह- स्वयमिति ॥ तर्हि किं प्रयोजनं, शिष्यान् ग्राहयितुम् । ग्राहयतेर्द्विकर्मकत्वात् किमित्याकाङ्क्षायां सन्निधानादेतत्प्रकरणमित्य-न्वेति । निर्विघ्नतयैतत्प्रकरणमाद्यन्तमध्येतुं व्याख्यातुं चेत्यर्थः । यद्वा ‘यद्यदाचरति श्रेष्ठः’ इत्युक्तदिशाऽऽचार्यैरेवं कृतं, अस्माभिरप्येवं कार्यमिति बुद्धिं शिष्याणामुत्पादयितुमित्यर्थः । तेषां तथा बुद्ध्युत्पादनमपि किमर्थमित्यतो नारायणवन्दनं विशिनश्व् िअवगतमित्यन्तेन । विघ्नविघातादीत्यादिपदेन प्रचयपरिग्रहः । साधनतयेति प्रकारे तृतीया । परम्परादीत्यादिपदेन शिष्टाचारानुमितश्रुतिस्मृतिसङ्ग्रहः ॥ अविगीतेति ॥ निश्चितप्रामाण्य-कत्वेनाविप्रतिपन्नेत्यर्थः । शिष्याणां सर्वकर्मकृतौ सम्भावितविघ्नत्वात् तत्तन्निवृत्त्यर्थतया प्रमाणावगतनारायण-वन्दनमादौ कृत्वा निर्विघ्नं कार्यसमाप्तिं लभन्तां शिष्या इत्येतदर्थं नारायणनतेरादौ कर्तव्यताबुद्ध्युत्पादनमिति भावः । सदेत्यस्य कृत्यमाह- सदेति ॥ विशेषणत्रयस्य कृत्यमाह- नानिर्धारितेत्यादिना त्रयाणामपि कथनं युक्तमित्यन्तेन ॥ अनिर्धारितस्य स्वेतरसमस्तवस्तुव्यावृत्तयाऽनिर्णीतस्येत्यर्थः ॥ लक्षणेनेति ॥ इतरासाधा-रणधर्मेणेत्यर्थः ॥ लक्षणान्याहेति ॥ निर्दोषेतिपदकृत्यमेतत् । निर्दोषपदस्य गुणविशेषणतया बहुव्रीहिरयमिति भ्रमनिरासायाऽह- निर्दोषश्चासाविति ॥ निर्गतो दोषेभ्यः निर्दोषः । बहुव्रीहिगर्भोऽयं कर्मधारय इति भावः । ॥ अनन्तानीति ॥ अनन्तलक्षणोक्तिश्चेश्वरस्य ‘जन्माद्यस्य’ इत्यत्रेव वैभवद्योतनायेति भावः ॥ व्यवहारा-दिति ॥ तार्किकाणामिति योज्यम् । निर्दोषपदेनैव दुःखद्वेषमोहादेर्वारणादाह- अथ वेति ॥ तर्हि समतीतेति व्यर्थमित्यत आह- एतल्लक्षणेति ॥ ‘क्षरस्सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते’ इति गीतोक्त्या जडातीतत्वाप्राप्तेराह- क्षराक्षरपदाभ्यामिति ॥ विनिगमनाविरहाद् द्वयोरपि पदयोर्लक्षणत्वेनोक्तिरित्येके । उभयसम्बन्धिनोर्जडयोर्ग्रहणाय द्वयोरुक्तिरित्यन्ये । जडमप्युपलक्ष्यत इति ॥ लक्षणया जडमप्यत्र ग्राह्यमि-त्यर्थः । न तु न केवलं क्षराक्षरे उपलक्ष्येते अपि तु जडमपीत्यर्थः । न चैवं वृत्तिद्वयविरोधः । गङ्गायां मीनघोषावित्यत्र वचनवृत्त्या पूरस्य, लक्षणया तीरस्य गङ्गापदेन बोधनात् । उक्तं हि तर्कताण्डवे लाक्षणिकादेः शक्यसम्बद्ध-त्वादिनैव लक्ष्याद्युपस्थापकत्वसमर्थनवादे ‘गङ्गायां घोषो मत्स्यश्च इत्यादौ युगपद्वृत्तिद्वयदर्शनात्’ इति । केचित्तु वृत्तिद्वयविरोधात् सर्वमपि लक्षणयैव ग्राह्यमिति भावेनापिपदं प्रयुक्तमित्याहुः । एतेन जडप्रकृतिकर्मादि-स्वातन्त्र्यवादिनो निरस्ता इत्यपि ज्ञेयम् ॥ सम्यगतीते इति ॥ कर्मणि निष्ठान्तमतीतपदं क्षराक्षरविशेषणं, बहुव्रीहिश्च समास इत्युपेत्यैवमुक्तम् । द्वितीया श्रितातीतेति सूत्रोक्तदिशा कर्तरि निष्ठान्तमतीतपदमित्युपेत्य काष्ठातीत इत्यादाविव क्षराक्षरे समतीत इति विग्रहपक्षे क्षराक्षरसमतीतम् इति भाव्यमिति ध्येयमित्येके । केचित्तु तत्र सूत्रेऽतीतपदस्यैवोक्तेरिह समतीतपदोक्तेस्तत्सूत्रस्य नायं विषय इत्याहुः ।

सम्भावनाघटनाय फलितमाह-जडेति ॥ विशिष्टतयेति ॥ भावाभावरूपोक्तानन्तलक्षणविशिष्टतया जडजीवश्रीतत्त्वेभ्यो विलक्षणतया चेत्यर्थः । परिच्छेदान्ते तथैवोपसंहारादिति भावः ॥ अन्यथेति ॥ दोषित्वादेः रामकृष्णादिरूपे नारायणे प्रत्यक्षेण पुरुषत्वशरीरित्वाद्यनुमानेनेत्यर्थः ॥ एकेतीति ॥ केवलार्थोऽत्रैकशब्द इत्यग्रे व्यक्तम् । प्रबलप्रत्यक्षविरुद्धं निर्दोषत्वमागमः कथं ब्रूयादित्यत आह- आगमेति ॥ रामकृष्णादौ नारायणावतारत्वमज्ञात्वा मनुष्यत्वमेव देवदत्तादाविव ज्ञात्वा दोषित्वग्राहिप्रत्यक्षमागमानपेक्षत्वान्नारायणस्य दोषित्वग्राहि न भवति । यदा तु ‘निरनिष्टो निरवद्यः’ इत्याद्यागमेन निर्दोषतयाऽवधारितनारायणावतारत्वम् ‘अजस्तस्मान्महान् राजा तस्माद्दशरथोऽभवत् । तस्यापि भगवान् विष्णुः साक्षाद् ब्रह्ममयो हरिः । अंशांशेन चतुर्धाङ्गात्पुत्रत्वं प्रार्थितस्सुरैः’ इति, तथा ‘देवक्यां देवरूपिण्यां विष्णुस्सर्वगुहाशयः । आविरासीत्’ इत्याद्यागमेन ज्ञात्वा नारायण एवायं रामो रोदिति खिद्यतीति दोषित्वग्राहिप्रत्यक्षमागमसापेक्षमित्युपजीव्यागमविरोधा-दप्रमाणमेवमनुमानमपीत्यर्थः ॥ तस्येति ॥ प्रत्यक्षस्य । तत्र दोषित्व इत्यर्थः ॥ अन्यथेति ॥ शिवादि-हीनत्वादिरूपेणेत्यर्थः । ननु ‘पूर्वकालैकसर्वजरत्पुराणनवकेवलास्समानाधिकरणेन’ इति समासविधिसूत्रे प्रथमान्ततया एकपदस्य निर्देशात् तस्य च ‘प्रथमानिर्दिष्टं समास उपसर्जनम्’ इत्युपसर्जनसञ्ज्ञा । ‘उपसर्जनं पूर्वम्’ इति सूत्रेण पूर्वनिपाते सदैकागमविज्ञेयमिति भाव्यमित्यत आह- दोषैकेति ॥ एकदोषदृक्पुरोभागीति वाच्येऽप्यमरसिंहस्य दोषैकदृगिति प्रयोगाद् एकह्लादमयीमिति वाच्ये ह्लादैकमयीमिति काव्यप्रकाशे प्रयोगदर्शनेन कल्पकसत्त्वेन सङ्ख्यार्थकस्यैवैकशब्दस्य समाससूत्रे प्रथमानिर्देशो न केवलार्थस्येति कल्प्यते । अत्रामरादौ च केवलार्थ एवैकशब्दो न सङ्ख्यार्थ इति पूर्वनिपाताभावेनाऽगमैकेति निर्देशो युक्त इति भावः । ‘उपसर्जनं पूर्वम्’ इत्यस्यैव पूर्वनिपातसूत्रत्वेऽपि पूर्वकालैकेत्यस्य तन्मूलत्वात् पूर्वकालैकेत्युक्तम् ।

वाक्यार्थदीपिका

ननु सदागमैकविज्ञेयमित्याद्यपद्यं व्यर्थम् । न च मङ्गलकरणार्थत्वेन सार्थकमिति वाच्यम् । फल-प्रमाणयोरभावेन तस्याकर्तव्यत्वात् । अस्तु वा कर्तव्यत्वम् । तथाऽप्यन्यैरेव तत्कर्तव्यम् । तेषां सान्तराय-त्वात् । न तु भगवत्पादैस्तेषां निरन्तरायत्वात् । अस्तु वा तैरपि तत्कर्तव्यम् । तथाऽप्युपनिबन्धो व्यर्थ इतीमाः शङ्काः परिहरन्नाद्यपद्यमवतारयति- विघ्नविघातादीति ॥ विघ्नविघात एव आदिः कारणं यस्याः समाप्तेस् तत्साधनतयेत्यर्थः । अत्र प्रचयोऽप्युपलक्षणीयः । समाप्त्यादिसाधनतयेत्युक्तसमाप्तेर्विघ्नविघातकारणकत्वोक्त्या सिद्धान्ते मङ्गलस्य समाप्तिरेव फल, विघ्नध्वंसोऽवान्तरव्यापार इति सूचितं भवति । एवं व्याख्याने ‘प्रामाणि-कत्वाच्चास्यार्थस्य’ इत्यादिनाऽग्रिमग्रन्थेन मङ्गलसमाप्त्योरेव व्यभिचारपरिहारेण कार्यकारणभावसमर्थनमपि सङ्गच्छते, विघ्नध्वंसफलकत्वे तु न सङ्गच्छत इत्यवधेयम् । अविगीतो धर्मशास्त्राविरुद्धः । तथा च मङ्गल निर्विघ्नपरिसमाप्तिफलकम्, अविगीतशिष्टाचारपरम्परावगतत्वात् । यदविगीतशिष्टाचारपरम्परावगतं तत्सफल-मिति सामान्यव्याप्तिमूलकमनुमानं प्रमाणमुक्तं भवति । परम्परादीत्यादिपदेन ‘मङ्गलाचारयुक्तानां नित्यं च प्रयतात्मनाम् । जपतां जुह्वतां चैव विनिपातो न विद्यते ।’ ‘निर्विघ्नपरिसमाप्तिकामो मङ्गलमाचरेत्’ इत्यादिवचन-सङ्ग्रहः । नारायणवन्दनं कृतमिति शेषः । अन्यथा अकृतस्य निवेशने प्रतारकत्वप्रसङ्ग इति भावः । अन्तरायो विघ्नः । ‘विघ्नोऽन्तरायः प्रत्यूहः’ इत्यभिधानात् । शिष्यान् असन्निहितशिष्यान् । प्रयोजनोद्देशेनेत्यनन्तरं ‘किन्तु स्वभावेन’ इति शेषः । स्वरूपस्य वस्तुन इति शेषः ॥ निर्धारणमिति ॥ सजातीयविजातीयव्यावृत्ततया लक्ष्यावधारणमित्यर्थः । निर्दोषत्वस्य गुणविशेषणत्वे सत्पदवैय्यर्थ्यं स्यात् । तृतीयपरिच्छेदे ‘वर्जितः सर्वदोषैश्च’ इति भगवतो निर्दोषत्वे प्रमाणोदाहरणासङ्गतिश्चेत्यत आह- निर्दोषश्चासाविति ॥ तदर्थमेवेति ॥ अनन्त-लक्षणसूचनार्थमेवेत्यर्थः । परमात्मनिष्ठैकैकगुणस्यानन्यसाधारणत्वेन व्यावर्त्याभावादनन्तलक्षणसूचनार्थ-मेवैतत्प्रयोग इति भावः ॥ व्यवहारादिति ॥ तार्किकाणां मत इति शेषः ॥ सदितीति ॥ ‘सद्भावे साधुभावे च’ इति वचनात्सच्छब्दः साधुत्वार्थकः । दुःखादीनां चासाधुत्वात्तेन तद्व्यावृत्तिरिति भावः । ननु दुःखादीनां दोषत्वेन तेषु गुणत्वव्यवहारस्य तार्किकाणां सङ्केतमात्रमूलकत्वेनाप्रामाणिकतया तद्व्यावृत्त्यर्थं सत्पद-मनुपादेयमित्यत आह- अथ वेति ॥ ननु गुणादीनां कथं निर्दोषत्वं चेतनाश्रितपापादिष्वेव दोषशब्दव्यवहारदर्शनेन गुणेषु तत्प्रसक्तेरेवाभावेन निषेधायोगादित्यत उत्पत्तीत्यादिना दोषो व्याख्यात उत्पत्त्यादिदोष इत्यर्थः । तथा च भगवद्गुणेषु ज्ञानादिषूत्पत्त्यादयो दोषाः प्रसक्ताः । तज्जातीयेषु जीवज्ञानादिषु दर्शनादतस्तन्निषेधो युक्त इति भावः ।

अत्रेदं विचार्यते । ननु दोषात्यन्ताभावरूपं निर्दोषत्वं कथं भगवल्लक्षणम् । सिद्धान्ते प्रामाणिकप्रतियोगि-कात्यन्ताभावाभावेन दोषाणां जीवे प्रामाणिकतया तत्प्रतियोगिकात्यन्ताभावासम्भवादिति चेत् । अत्र ब्रूमः- निर्दोषत्वं नाम आरोपितदोषात्यन्ताभावः स एव च भगवल्लक्षणमिति । आरोपितदोषाणां चाप्रामाणिकतया तत्प्रतियोगिकात्यन्ताभावसम्भवात् । न च वाच्यं जीवे वास्तवदोषाणामेव विद्यमानत्वेनाऽरोपितदोषात्यन्ता-(श्री.टि.) भावोऽस्तीति लक्षणस्यातिव्याप्तिरिति । जीवे वास्तवदोषाणामेव विद्यमानत्वेनाऽरोपित-दोषात्यन्ताभावायोगात् । तथा हि । आरोपितदोषात्यन्ताभावो नाम दोषारोपपूर्वकप्रतीतिविषयाभाव इत्यर्थस्य विवक्षितत्वात् । दोषारोपपूर्वकप्रतीतिविषयाभावो नाम दोषा आरोप्य निषिध्यन्त इति यावत् । तथा च जीवे दोषारोपपूर्वकप्रतीतिविषयाभावरूपारोपितदोषात्यन्ताभावो न वक्तुं शक्यः । तत्र दोषारोपे प्रधानभूतवास्तव-दोषाणामेव विद्यमानत्वेन जीवे दोषा न सन्तीति दोषानारोप्य न निषेधः कर्तुं शक्यते । अत्यन्ताभावस्य प्रतियोगिनेव प्रतियोग्यारोपे यत्प्रधानं तेनापि साकं विरोधात् । भगवति च प्रधानभूतवास्तवदोषाणामभावेन दोषा न सन्तीति दोषानारोप्य निषेधः कर्तुं शक्य इत्येवं दोषारोपपूर्वकप्रतीतिविषयाभावरूपारोपितदोषा-त्यन्ताभावस्य भगवति सम्भवाज्जीवे चासम्भवान्नातिव्याप्तिरिति ।

अन्ये तु स्वसंसृष्टदोषात्यन्ताभावो लक्षणमिति विवक्षितम् । स्वशब्दस्समभिव्याहृतपरः । तथा चेश्वरीय-दोषाणामप्रामाणिकत्वेन तत्संसृष्टदोषात्यन्ताभावसम्भवात् । जीवे च नातिव्याप्तिः । स्वशब्दोक्तजीवसंसृष्ट-दोषणां प्रामाणिकतया स्वसंसृष्टदोषात्यन्ताभावस्य जीवेऽभावादित्याहुः ।

इदमेवोपपादनमन्यत्रापि द्रष्टव्यम् । तथा हि- सिद्धान्ते सत्त्वासत्त्वयोः परस्परविरहरूपत्वेन विरोधः कथ्यते । स न युक्तः । सत्त्वस्य सति असत्त्वस्यासति प्रामाणिकत्वेन तत्प्रतियोगिकात्यन्ताभावयोरसम्भवादिति चेन्न । परस्परविरहरूपत्वोक्तेः परस्परविरहव्यापकत्वे तात्पर्यम् । तथा हि । यत्राऽरोपितसत्त्वात्यन्ता-भावस्तत्रासत्त्वम् । यत्र चाऽरोपितासत्त्वात्यन्ताभावस्तत्र सत्त्वम् । न च सति घटे वास्तवसत्त्वसद्भावेनाऽ-रोपितसत्त्वात्यन्ताभावसद्भावात्तत्र चासत्त्वाभावाद्व्यभिचारः । एवमेवासति शशविषाणादौ वास्तवासत्त्व-सद्भावेनाऽरोपितासत्त्वात्यन्ताभावसद्भावात्तत्र च सत्त्वाभावाद्व्यभिचार इति वाच्यम् । आरोपितसत्त्वा-त्यन्ताभावो नाम सत्त्वारोपपूर्वकप्रतीतिविषयाभाव इत्यर्थस्य विवक्षितत्वेन सति घटे प्रधानभूतवास्तवसत्त्वस्यैव सद्भावेन सत्त्वमारोप्य निषेधस्य कर्तुमशक्यत्वेनाऽरोपितसत्त्वात्यन्ताभावस्यैवाभावान्न व्यभिचारः । एवमेवा-रोपितासत्त्वान्ताभावो नाम असत्त्वारोपपूर्वकप्रतीतिविषयाभाव इत्यर्थस्य विवक्षितत्वेनासति शशविषाणादौ प्रधानभूतवास्तवासत्त्वस्यैव सत्त्वेनासत्त्वमारोप्य निषेधस्य कर्तुमशक्यत्वेनाऽरोपितासत्त्वात्यन्ताभावस्यैवाभावान्न व्यभिचारः । अतो युक्तं सत्त्वासत्त्वयोः परस्परविरहव्यापकत्वमिति । ननु दोषात्यन्ताभावस्य कथं भगवल्लक्षण-त्वम् ? लक्षणानां भगवताऽत्यन्ताभिन्नत्वाङ्गीकारादन्योन्याभावस्येवात्यन्ताभावस्यापि भगवत्स्वरूपत्वा-नङ्गीकारादिति चेन्न । दोषात्यन्ताभाववत्त्वस्यैव भगवल्लक्षणत्वेन दोषात्यन्ताभावस्य लक्षणत्वानङ्गीकारात् । दोषात्यन्ताभाववत्त्वस्य च भावरूपत्वेन तस्य भगवत्स्वरूपत्वोपपत्तेरित्यवधेयम् । विस्तरस्तु लिङ्गपादीय-सुधायामदृश्यत्वाधिकरणे द्रष्टव्यः ।

॥ सम्भावनार्थमिति ॥ असम्भावनाशङ्कानिरासार्थमित्यर्थः । निश्चयार्थमिति यावत् । तेनोत्कटकोटि-कस्संशयस्सम्भावना तदर्थमित्यन्यथाप्रतीतिः परास्ता वेदितव्या । एवमेवोत्तरत्रापि व्याख्येयम् । नन्वत्र (श्री.टि.) शरीरक्षरणाद्ब्रह्मादिचेतनाः क्षराः, अक्षरदेहवत्त्वादक्षरा महालक्ष्मीस् तद्वैलक्षण्यरूपं तदतीतत्वं जडेऽ-प्यस्तीति सम्भावकस्य जडेऽप्यतिप्रसक्तत्वात्तस्यापि निर्दोषत्वाशेषसद्गुणत्वयोः प्रसक्तिरित्यत आह- क्षराक्षर-पदाभ्यामिति ॥ अत्रापिशब्दस्समुच्चये । उपलक्ष्यत इत्यस्य प्रतिपाद्यत इत्यर्थः । एवञ्च क्षराक्षरपदाभ्यां न केवलं क्षराक्षरे प्रतिपाद्ये किन्तु जडमपीत्येवमपिशब्दस्य क्षराक्षरजडानां प्रतिपादनरूपैकक्रियासम्बन्धरूप-समुच्चयोऽर्थः । प्रतिपाद्यत्वं च क्षराक्षरयोर्मुख्यवृत्त्या जडस्य तु लक्षणयेति विवेकः । ननु क्षराक्षरशब्दयोर्मुख्यवृत्त्या स्वार्थप्रतिपादकत्वस्य लक्षणया जडप्रतिपादकत्वस्य चोक्तावेकस्य शब्दस्य युगपद्वृत्तिद्वयविरोधस्स्यादिति चेन्न । सिद्धान्ते तावन्न विरोधः । ‘मायामात्रम्’ इति सूत्रे मायाशब्दस्येश्वरप्रज्ञावाचकत्वस्य वासनालक्षकत्वस्य चाङ्गीकारात् । ‘गङ्गायां मीनघोषौ’ इत्यत्र परैरपि युगपद्वृत्तिद्वयस्वीकाराच्च । वस्तुतस्तु न केवलं क्षराक्षरपदाभ्यां क्षराक्षरे लक्ष्येते किन्तु जडमपि लक्ष्यत इत्येवमपिशब्दस्य क्षराक्षरजडानां लक्षणारूपैकक्रियासम्बन्ध-रूपस्समुच्चयोऽर्थः । न च वाच्यं क्षराक्षरशब्दयोः क्षराक्षरवाचकत्वेन कथं तत्र लक्षणेति । इयं ह्यजहत्स्वार्थ-लक्षणा । तस्यां चाजहत्स्वार्थलक्षणायां वाच्यस्यार्थस्यापि लक्ष्यत्वमेव । यथा ‘काकेभ्यो दधि रक्ष्यताम्’ इत्यत्र काकपदस्य स्वार्थे तदितरत्र च लक्षणा । ननु तत्र शक्यलक्ष्यकाकमार्जालादिसाधारणस्य दध्युपघातकद्रव्यत्वरूप-स्योपलक्ष्यतावच्छेदकस्य सत्त्वादुभयत्र लक्षणा सम्भवति । प्रकृते तु कथमिति चेत् । उच्यते । प्रकृतेऽप्य-स्वतन्त्रत्वरूपस्य शक्यक्षराक्षर-लक्ष्य-जडरूपोभयसाधारणस्योपलक्ष्यतावच्छेदकस्य सत्त्वाल्लक्षणा सम्भव-त्येव । नन्वत्र काकपदेन घटादेरितरस्यावाच्यत्वात्काकस्यैव वाच्यत्वं वाच्यम् । काकस्यापि लक्ष्यत्वाङ्गीकारे तस्य कुत्रापि वाचकत्वमेव न स्यादेवं प्रकृतेऽपीति चेन्न । स्यादिदं यद्यजहत्स्वार्थलक्षणास्थले काकपदाल्लक्षणया काकत्वप्रकारकबोधो भवतीत्युच्येत । न चैवम् । किन्तु दध्युपघातकद्रव्यत्वप्रकारक एव । एवं प्रकृतेऽपि यदि क्षराक्षरपदाभ्यां क्षराक्षरत्वप्रकारक एव बोधो लक्षणया भवतीत्युच्येत तदैवोक्तदूषणं स्यात् । न चैवम् । किन्त्वस्वतन्त्रत्वप्रकारक एव बोधः । तथा चोभयत्रापि क्षराक्षरपदाभ्यां काकपदेन चास्वतन्त्रत्वदध्युपघातक-द्रव्यत्वप्रकारकबोधस्तु लक्षणयैव भवति । एवं च काकेभ्यो दधि रक्ष्यतामित्यस्य दध्युपघातकद्रव्येभ्यो दधि रक्ष्यतामित्यर्थः । एवं प्रकृतेऽपि समतीतक्षराक्षरमित्यस्य समतीतास्वतन्त्रमित्यर्थः सम्पद्यत इति ज्ञातव्यम् ।

ननु लक्षणाबीजस्य मुख्यार्थबाधस्याभावात् कथमुभयत्रापि लक्षणेति चेन्न । तात्पर्यानुपपत्तेरपि लक्षणाबीजस्य यष्टीः प्रवेशयेत्यादौ दर्शनेनात्रापि तदनुपपत्त्यैव लक्षणास्वीकारात् । तथा हि । काकेभ्य इत्यत्र काकपदेन तन्मात्र-ग्रहणे दध्युपघातकद्रव्येभ्यो दधिरक्षणरूपवक्तृतात्पर्यस्यानुपपत्तिः स्यादतोऽत्र लक्षणा । एवं प्रकृतेऽपि क्षराक्षर-शब्दाभ्यां तन्मात्रग्रहणेऽस्वतन्त्रातीतत्वरूपवक्तृतात्पर्यमनुपपन्नं स्यादतस्तदनुपपत्त्यैवात्र लक्षणेति ध्येयम् । ननु क्षराक्षरपदान्यतरपदेनैव लक्षणायास्सम्भवात् क्षराक्षरपदाभ्यामिति कस्मादुक्तमिति चेत् । अत्राऽहुः । क्षरशब्देन घटादिरूपं क्षरजडमुपलक्ष्यते । अक्षरशब्देन च प्रकृत्यादिरूपाक्षरजडमित्युभयोपादानमिति । तन्न । क्षरशब्दस्य क्षरजडलक्षकत्वे अक्षरशब्दस्य चाक्षरजडलक्षकत्वे उपलक्ष्यतावच्छेदकधर्मस्याभावेनोपलक्षणायोगात् । न च (श्री.टि.) ब्रह्मादिवाचकक्षरशब्देन क्षरजडलक्षणायां क्षरत्वमेवोपलक्ष्यतावच्छेदकम् । तथा लक्ष्मीवाचकाक्षर-शब्देनाक्षरजडलक्षणायामक्षरत्वमेवोपलक्ष्यतावच्छेदकमिति वाच्यम् । तयोरेव शक्यतावच्छेदकत्वेन तदाक्रान्त-योर्ब्रह्मादिश्रियोरपि क्षराक्षरशब्दलक्ष्यतापातात् । यदि चास्वतन्त्रत्वमुभयत्राप्युपलक्ष्यतावच्छेदकं तर्ह्येकेनैव शब्देनोभयोपलक्षणायां सम्भवन्त्यामन्यतरवैय्यर्थ्यानिस्तारात् । अतो विनिगमनाविरहादुभयोरपि लक्षकत्वमिति सम्प्रदायार्थविदः । नन्वत्र यद्यजहत्स्वार्थलक्षणा तर्ह्युपलक्ष्यत इति पदास्वारस्यं, जहत्स्वार्थलक्षणायामेवोपलक्ष्यत इति शब्दस्य ‘वेदा इत्युपलक्षणं पञ्चाशद्वर्णा अपि गृह्यन्त’ इत्यादौ दर्शनादिति चेन्न । अजहत्स्वार्थलक्षणायामपि उपलक्ष्यत इति शब्दप्रयोगस्य बहुलमुपलम्भात् । यथा हि । ‘उपजीव्यविरोधे तु न प्रामाण्यममुष्य च’ इति ब्रह्मतर्कवाक्यव्याख्यानावसरे निरवकाशादेरुपलक्षणमेतदित्युक्तमित्यादि द्रष्टव्यमिति सर्वमकलङ्कम् ।

उपलक्षणकरणेन सम्पन्नवाक्यार्थमाह- जडजीवेति ॥ संशब्दार्थोऽत्यन्तेति । वीत्युपसर्गस्यार्थद्वयमाह- विशिष्टतयेति ॥ निर्दोषाशेषसद्गुणत्वविशिष्टतयेत्यर्थः ॥ विलक्षणतया चेति ॥ जडजीवप्रकृतिभ्योऽत्यन्त-विलक्षणतयेत्यर्थः । अत एव परिच्छेदान्ते तथैवाऽचार्यैरुपसंहारः कृत इति भावः ॥ प्रत्यक्षानुमानाभ्या-मिति ॥ रामकृष्णादौ दोषग्राहि प्रत्यक्षं, विष्णुर्दोषी चेतनत्वाद्देवदत्तवदित्याद्यनुमानं ताभ्यामित्यर्थः ॥ अन्यथाऽ-पीति ॥ निर्दोषत्वाशेषसद्गुणत्वसमतीतक्षराक्षरत्वाभाववत्तयेत्यर्थः ॥ आगमानपेक्षस्येति ॥ अयमर्थः । रामकृष्णादिदोषग्राहिप्रत्यक्षेण त्रेधोत्पत्तव्यम् । अयं रामकृष्णादिर्विष्णुः, स च दोषवान्, ततश्च तदभिन्नो विष्णुर्दोषवानिति वा । कश्चिदयं दोषवानिति वा । विष्णोरन्योऽयं दोषवानिति वा । प्रकारान्तराभावात् । तत्र द्वितीयतृतीययोर्न विष्णोर्दोषित्वे आगमानपेक्षं तत्प्रत्यक्षं भवितुं शक्यम् । विष्णुर्दोषवानिति तेनानव-गाहनात् । आद्ये रामकृष्णादेरवश्यं विष्णुत्वं ज्ञातव्यम् । न चैतत्प्रत्यक्षवेद्यम् । तस्मात् ‘देवक्यां देवरूपिण्यां विष्णुः सर्वगुहाशयः । आविरसीत्’ इत्याद्यागमेनैव ज्ञातव्यम् । तथा च प्रत्यक्षं प्रत्यागमस्योपजीव्यत्वात्तद्विरोधे सति तत्र विष्णोः सदोषत्वादौ तस्य प्रत्यक्षस्याप्रामाण्यम् । एवं चेतनत्वानुमानस्याप्यागमानपेक्षत्वे विष्णोरेवा-भावेनाऽश्रयासिद्धौ चोदितायां निरनिष्टो निरवद्य इत्याद्यागमेन तत्सिद्धिर्वक्तव्या । तथा च तेन निर्दोषत्वेनैव विष्णोस्सिद्धत्वात्तं पक्षीकृत्य दोषित्वानुमाने धर्मिग्राहकतयोपजीव्यागमविरोध इत्यर्थः । यथोक्तमनुव्याख्याने ‘आगमेन हि विष्णुत्वं ज्ञात्वा दोषोऽत्र कल्प्यते । न चेत्स्याद्दोषवानन्यः’ इति ।

ननु ‘पूर्वकालैकसर्वजरत्पुराणनवकेवलास्समानाधिकरणेन’ एते समानाधिकरणेन समस्यन्त इत्यनेन समासे ‘प्रथमानिर्दिष्टं समास उपसर्जनम्’ समासशास्त्रे प्रथमानिर्दिष्टमुपसर्जनसञ्ज्ञं स्यादित्यनेन पूर्वसूत्रे पूर्वकालैक-सर्वजरत्पुराणनवकेवला इति प्रथमानिर्दिष्टस्यैकशब्दस्योपसर्जनसञ्ज्ञायां ‘उपसर्जनं पूर्वम्’ - समास उपसर्जनं प्राक् प्रयोज्यम्- इत्यनेनोपसर्जनभूतैकशब्दस्य पूर्वनिपाते सति सदेकागमविज्ञेयमिति स्यादेकशाटीतिवदित्यत आह- सङ्ख्यार्थस्यैवेत्यादिना । पूर्वकालैकेतीति ॥ पूर्वकालैकेत्यादिसूत्रैरित्यर्थः । तेन पूर्वकालैकेत्यादिसूत्रेण समासस्यैव विहितत्वात्कथं पूर्वकालैकेति पूर्वनिपात इत्युक्तमिति शङ्काऽनवकाश इति ज्ञातव्यम् ॥ न केवलार्थ-(श्री.टि.) स्येति ॥ प्रकृते च केवलार्थः । केवलागमविज्ञेय इति वक्ष्यमाणत्वादिति भावः । केवलार्थकस्यैक-शब्दस्य पूर्वनिपातो नास्तीत्यत्र ज्ञापकमुक्तम्- दोषैकदृगिति ॥ केवलदोषद्रष्टेत्यर्थः । अमरकोशवाक्य-मिदम् । ह्लादैकमयीमिति काव्यप्रकाशीयः श्लोकः । ह्लादः सुखं केवलाह्लादमयीमित्यर्थः । द्वितीयाया उत्तरेणान्वयः।

विषमपदवाक्यार्थविवृतिः

ननु मङ्गलस्य विघ्नविघातादिसाधनताया अप्रामाणिकत्वेन तस्य तत्फलकत्वानुपपत्त्या निष्फलत्वेन अकर्तव्यत्वात्, कर्तव्यत्वेऽपि वा अन्तरायविधुरतया भवदभिमतस्य आचार्यस्यान्तरायविरहोद्देशेन ग्रन्थारम्भ-कालीननारायणवन्दनरूपमङ्गलाचारानुपपत्तेः । कथञ्चित् तदुपपत्तावपि निष्प्रयोजनतया ग्रन्थे तदुपनिबन्धस्य सर्वथैवानुपपत्तेस् तत्पराद्यपद्यानर्थक्यमित्येताः शङ्काः क्रमेण परिहरन् तदुपनिबन्धपरतया आद्यपद्यं सङ्गमयति- विघ्नविघातादिसाधनतयेत्यादिना ॥ अत्र आनन्दतीर्थमुनिर् नारायणवन्दनं निबध्नातीति सम्बन्धः । अवगत-मित्यन्तेन ग्रन्थेन निष्फलत्वप्रयुक्ततदकर्तव्यत्वशङ्कानिरासः । अनेन मङ्गलस्य विघ्नविघातादिसाधनताया अविगीतशिश्वचारानुमितश्रुतिबोधितत्वकथनेन मङ्गलस्य विघ्नविघातादिफलकत्वस्य सिद्धतया अकर्तव्यत्वहेतोर् निष्फलत्वस्य असिद्धिव्युत्पादनात् । यद्यपि ग्रन्थकृन्मते ‘प्रामाणिकत्वाच्च अस्यार्थस्य’ इत्युत्तरग्रन्थपर्यालोचनया मङ्गलस्य समाप्तिफलकत्वव्युत्पादनपरजिज्ञासासूत्रीयसुधानुसाराच्च समाप्तेरेव मङ्गलफलत्वस्थित्या मङ्गलस्य विघ्नविघातादिफलकत्वाभावाद् विघ्नविघातादिसाधनतयेत्युक्तिरयुक्तेत्याभाति । तथाऽपि विघ्नविघात आदिः कारणं यस्याः सा विघ्नविघातादिरिति विग्रहाश्रयणाद् विघ्नविघातादिपदेन समाप्तेरेव ग्रहणाद् अदोष इति ज्ञेयम् । मङ्गलस्य विघ्नध्वंसद्वारा समाप्तिसाधनत्वस्य अङ्गीकाराद् व्यापारप्राधान्यविवक्षया इयमुक्तिरित्यप्याहुः। अन्तरायविधुरोऽपि शिष्यान् ग्राहयितुमित्यनेन द्वितीयतृतीयशङ्कयोर्निरासः । अत्र हि अन्तरायविधुरोऽ-पीत्यतःपरम् अनवरतम् ईश्वरप्रवणकायकरणवृत्तिरपीति पूरणीयम् । ततश्च आनन्दतीर्थमुनेर् विलीनप्रकृतितया अन्तरायविधुरस्य तद्विरहोद्देशेन ग्रन्थारम्भकालीनमङ्गलाचारानुपपत्तावपि अनवरतम् ईश्वरप्रवणकायकरण-वृत्तित्वेन तस्य कालान्तर इव ग्रन्थारम्भकालेऽपि मङ्गलाचारसम्भवलाभात्, तेन द्वितीयशङ्कानिरासः । शिष्यान् ग्राहयितुमिति निबन्धनप्रयोजनोक्त्या च वैय्यर्थ्यप्रयुक्ततन्निबन्धनानुपपत्तिशङ्कायाः परिहार इति द्रश्व्व्यम् । केचित्तु नारायणवन्दनमित्यत्र कृतमिति पूरणात् कृतं नारायणवन्दनं शिष्यान् ग्राहयितुम् उपनिबध्नातीत्यनेन शङ्काद्वयनिरासः । आचार्यीयग्रन्थारम्भकालीनवन्दनाचारस्य शिष्यशिक्षार्थत्वेन ग्रन्थोपनिबन्धनस्य च आचार्यीयग्रन्थारम्भकालीनमङ्गलाचारदर्श्यसन्निहितशिष्यशिक्षणार्थकतया मङ्गलाचारतन्निबन्धनयोर्द्वयोरपि शिष्यशिक्षैकप्रयोजनकत्वेन तदनुपपत्तेरप्रसरादित्याहुः ।

॥ लक्षणान्याहेति ॥ अनेकलक्षणाभिधानं च विभवादिति ज्ञेयम् । ननु मूले निर्दोषाशेषसद्गुणत्वरूपैक-लक्षणाभिधानाद् लक्षणमाहेत्येव तदवतारस्य कर्तव्यत्वान् न लक्षणान्याहेति तदवतारो युक्त इत्यत आह- निर्दोषश्चासाविति ॥ यद्वा निर्दोषा अशेषाः सन्तो गुणा यस्येति निर्दोषत्वस्य गुणविशेषणत्वे सत्पद-वैयर्थ्यापत्तेः, उदाहरिष्यमाण ‘वर्जितः सर्वदोषैर्यः’ इत्यादिप्रमाणासङ्गतिप्रसङ्गाच्च, तदुभयानुरोधेन इदं (पां.टि.) विग्रहप्रदर्शनम् । रागादिदोषराहित्यस्य निर्दोषपदार्थत्वे तस्येतरसाधारणत्वेन लक्षणत्वानुपपत्तेर् अन्यथा व्याख्याति- अत्रेति ॥ पारतन्त्र्यराहित्यादीत्यादिपदेन अपर्याप्तशक्तित्वासर्वज्ञत्वादिराहित्यादिपरिग्रहः। तदर्थमेवेति ॥ परमात्मनि एकैकगुणस्यानन्यसाधारणत्वेन व्यावर्त्याभावाद् अनन्तलक्षणसूचनमेव तत्पद-प्रयोगफलमित्यर्थः । उत्पत्त्यादीत्यादिपदेन पारतन्त्र्यापूर्णत्वादेर्ग्रहात् तद्राहित्यवाचिना सच्छब्देनैव लक्ष्म्यादि-व्यावृत्तिसिद्धेर्न तदर्थम् अशेषपदमिति भावः । व्यवहारादिति ॥ वैशेषिकादीनामिति शेषः ॥ सदितीति ॥ गुणविशेषणमुपात्तमिति शेषः । व्यावृत्त्युपादेयताप्रयोजकरूपवत्त्वलक्षणस्यैव सत्त्वस्य अत्र विवक्षितत्वात् तेन तद्व्यावृत्तिरिति भावः । ननु दुःखादेः स्वरूपतो दोषत्वेन गुणताभावात्, वैशेषिकादिव्यवहारस्य च स्वसङ्केत-मात्रमूलकत्वेन अप्रयोजकत्वात्, गुणपदेनैव तद्व्यावृत्तिसिद्धेर् न तदर्थं सत्पदोपादानम् इत्यरुचेर् अर्थान्तरमाह- अथ वेति ॥

यत्त्वत्र उत्पत्त्यादिराहित्यं पराधीनविशेषावाप्तिलक्षणोत्पत्त्यादिराहित्यं विवक्षितम् । अभूत्वाभावित्वरूपो-त्पत्त्यादिरहितगुणवत्त्वस्य चित्प्रकृत्यादिसाधारणतया लक्षणत्वासम्भवादिति केषाञ्चिद् व्याख्यानं, तत्र उत्पत्त्या-दीत्यादिपदगृहीतपारतन्त्र्यादिरहितगुणवत्त्वस्य भगवन्मात्रनिष्ठत्वेन तदसाधारणत्वेन यथाश्रुते दोषाभावात् ।

॥ एतल्लक्षणेति ॥ निर्दोषाशेषसद्गुणसूचितानन्तलक्षणेत्यर्थः । नन्वत्र क्षराक्षरवैलक्षण्यवद् जडवैलक्षण्यम् अवश्यं वाच्यम् । तस्यापि उक्तलक्षणसम्भावकत्वात् । तत्किमिति तस्यासङ्कीर्तनम् । अथ सम्भावनाया यत्किञ्चित् सम्भावकोक्तावपि सिद्धेस् तदनुक्तिरिति मन्यसे तर्हि क्षरवैलक्षण्येनैव वाऽक्षरवैलक्षण्येनैव वा तत्सिद्ध्या तन्मात्रस्य वक्तव्यत्वोपपत्त्या उभयग्रहणस्यापि आनर्थक्यापातात् । यदि च विनिगमनायां कारणाभावाद् उभयग्रहणमिति मन्यसे तर्हि तत एव जडवैलक्षण्यमपि वक्तव्यमित्यत आह- क्षराक्षरपदाभ्यामिति ॥ शरीरक्षरणवद्ब्रह्मादि-तदक्षरणवच्चेतनप्रकृतिवाचिक्षराक्षरपदाभ्यां जडमपि उपलक्ष्यत इत्यर्थः ।

न चात्र क्षराक्षरपदयोर् अन्यतरस्य जडोपलक्षकत्वाश्रयणेनैव जडजीवप्रकृतिभ्योऽत्यन्तविलक्षणत्वरूपा-भिलषितवाक्यार्थनिर्वाहसम्भवात् किमिति पदद्वये लक्षणाश्रयणमिति वाच्यम् । न्यायनये बहुव्रीहौ विनिगमना-विरहेण पदद्वये अन्यपदार्थलक्षणावद् इहापि पदद्वये तदुपपत्तेः । किं चात्र क्षरशब्देन क्षरसम्बन्धिमहत्तत्त्वादि-कार्यजातस्यैव अक्षरशब्देन तत्सम्बन्धिजडप्रकृत्यादेरेव लक्षणा न्याय्या । अभिमानिवाचिक्षराक्षरपदाभ्यां तदभिमन्यमानलक्षणायां तद्बीजभूतसाक्षात्सम्बन्धलाभात् । तदुभयलक्षणायां साक्षात्सम्बन्धालाभात् । सम्भवति च साक्षात्सम्बन्धे परम्परासम्बन्धानुसरणस्य अन्याय्यत्वात् । अत्र लक्ष्यत इत्येवोक्ते मुख्यार्थत्यागेन जडमात्र-विलक्षणत्वलाभेऽपि क्षराक्षरविलक्षणत्वालाभात् तदर्थमुपलक्ष्यत इत्युक्तम् । तेनाजहत्स्वार्थलक्षणा सिद्धा भवति । अपिशब्दस्तु क्षरपदेन तत्सम्बन्धिनो ऽक्षरपदेन तत्सम्बन्धिन उपलक्षणं भवतीत्येवं सम्भावनार्थः । ‘अपिः पदार्थसम्भावना’ इति पाणिनिस्मृतेः । योजना तु उपलक्ष्यत इत्यपि सम्भावितम् । लक्षणामूलभूतान्तरङ्ग-(पां.टि.) शक्यसम्बन्धलाभात् । न च लाक्षणिकप्रयोगे प्रयोजनाभाव इति शङ्क्यम् । अत्यन्तपराधीनत्वज्ञापनाय तत्सम्भवात् । तदुक्तम् । ‘यतोऽत्यन्तपराधीनं चेतनादप्यचेतनम्’ इति प्राञ्चः । नव्यास्तु- उपलक्षणा च गौणी चेत्यादौ उपलक्षणाशब्दस्य लक्षणायामपि प्रयोगाद् उपलक्षणाशब्दो लक्षणापर एव । तेन उपलक्ष्यत इत्यनेनैव अजहत्स्वार्थलक्षणालाभादपिशब्दवैय्यर्थ्यमिति शङ्कानिरासः । अपिशब्दमहिम्नैव तल्लाभात् । योजना तु न केवलं क्षराक्षरपदाभ्यां क्षराक्षरे वचनवृत्त्या अभिधीयेते । किं नाम? जडं लक्ष्यतेऽपीति । न च युगपद्वृत्तिद्वयप्रसङ्गः, सिद्धान्ते च तस्य अदोषत्वादित्याहुः ।

तदुभयमप्यसत् । ‘ब्रह्मा शिवः सुरेशाद्याः शरीरक्षरणात् क्षराः’ इत्याद्युत्तरपरिच्छेदस्थमूलवाक्यव्याख्याऽ-नुरूपया ‘क्षरणं जीवरूपस्य न सम्भवति इत्यतः शरीरेत्युक्तम् । स्वनाशेन स्वामिनोऽपि विनाशोपचारो लोके दृश्यते’ इत्युत्तरटीकया विरोधापातात् । तदनुरोधेन क्षराक्षरशब्दयोर् ब्रह्मादिचेतनेषु मुख्यवृत्त्यभावसिद्धेः। तस्माद् उत्तरटीकानुसारेण विनाश्यविनाशिजडवाचकयोः क्षराक्षरशब्दयोर् ब्रह्मादिचेतनेषु लक्षणैव । अपिशब्दस्तु न केवलं क्षराक्षरपदाभ्यां क्षराक्षरे लक्ष्येते किं नाम? जडमपि लक्ष्यत इति समुच्चयार्थ एव । उपलक्षणाशब्दस्य लक्षणापरताया उक्तरीत्यैव सिद्धेः । न च क्षराक्षरशब्दाभ्यां मुख्यवृत्त्यैवोक्तोभयजडग्रहसम्भवात् तत्र तल्लक्षणाश्रयणमनर्थकमिति वाच्यम् । ‘काकेभ्यो दधि रक्ष्यताम्’ इत्यादौ मुख्यार्थभूतकाकस्य काकपदेन लक्ष्यत्ववद् वृत्तिद्वयविरोधपरिहाराय स्वार्थभूतस्यापि जडस्योप-लक्ष्यत्वलाभसम्भवात् । यद्यपि च गङ्गायां मत्स्यो घोषश्च इत्यादौ तद्दर्शनात् पङ्कज(वृत्तिद्वयपरिहाराय स्वार्थीभूतस्यापि)पदेन रूढ्या पद्मत्वजातेर्योगेन पङ्कजननस्य प्रतीतिदर्शनाच्च न ग्रन्थकृन्मते युगपद्वृत्तिद्वयविरोधो दोषः । तथाऽपि तद्दोषत्ववादिमतेनेदमभिधानम् । यद्यपि च काकेभ्यो दधि रक्ष्यतामित्यत्रेवाजहत्स्वार्थलक्षणाश्रयणे शक्यलक्ष्यसाधारणदध्युपघातकत्वादिधर्मेण काका-काकसमुदायस्योपस्थितिवद्् इहापि शक्यलक्ष्यसाधारणयत्किञ्चिद्धर्मेणैव तदुभयोपस्थितेर् जडजीवप्रकृति-भ्योऽत्यन्तविलक्षणत्वरूपविवक्षितार्थलाभः । तथाऽपि चित्रगुलम्बकर्णादिशब्देष्विवासाधारणधर्मपुरस्कारेणापि शक्यलक्ष्यार्थोपस्थितिसम्भवाद् उक्तविवक्षितार्थलाभ इति द्रष्टव्यम् । क्षराक्षरे समतीत इति द्वितीयासमासे प्रथमा-निर्दिष्टतयोपसर्जनस्य क्षराक्षरशब्दस्य पूर्वनिपातप्रसङ्गाद् बहुव्रीहिरयमित्याह- समतीते क्षराक्षरे येनेति ॥ अन्यपदार्थस्य कर्मत्वे विरुद्धता स्याद् इति भावेन येनेत्युक्तम् । क्षराक्षरयोर् एतद्ध्वस्तत्वप्रतीतिनिवृत्त्यर्थ-मतीतशब्दार्थमाह- अतिक्रान्ते इति ॥ अत्यन्तेति संशब्दार्थकथनम् । अत्र जडस्य आदौ ग्रहणं तदुभयापेक्षया अत्यन्तवैलक्षण्यद्योतनायेति प्राञ्चः । वस्तुतस्तु अप्राधान्यक्रमेण अयं निर्देशः । जडस्य मुख्यार्थत्वं जीवप्रकृत्योस्तु तल्लक्ष्यत्वम् इति ज्ञापनाय जडस्य प्रथमं निर्देश इति वा ।

ननु वेदान् निर्दोषत्वादिना प्रतीतिमात्रेण न नारायणस्य निर्दोषत्वादिसिद्धिर्भवितुमर्हति । तथा सति भगवदत्यन्ताभिन्नतदवताररामकृष्णादिविषयकतद्दर्शिपुरुषप्रत्यक्षानुमानाभ्यां दोषवत्त्वादिनाऽपि प्रतीतत्वेन नारायणस्य सदोषत्वादेरपि सिद्धिप्रसङ्गात् । न च ‘निरनिष्टो निरवद्यः’ इत्यागमविरुद्धत्वेन प्रत्यक्षादेरप्रामाण्यात् (पां.टि.) न तेन तत्सिद्धिरिति वाच्यम् । प्रत्यक्षादितोऽनधिकबलस्याऽगमस्य प्रत्यक्षबाधाक्षमत्वात् । अन्यथा तत्त्वमस्याद्यागमस्यापि प्रत्यक्षबाधकत्वापत्त्या प्रत्यक्षविरोधेन तस्य प्रतीतार्थं परित्यज्य अर्थान्तरकल्पनानव-काशप्रसङ्गादिति भावेन शङ्कते- प्रत्यक्षानुमानाभ्याम् इति ॥ ‘अवतारादिदृष्टौ स्यादागमस्योपजीव्यता । आगमेन हि विष्णुत्वं ज्ञात्वा’ इत्यादिज्ञानपादीयमनुव्याख्यानं मनसि निधाय एकपदसूचितं परिहारमाह- आगमानपेक्षस्येति ॥

अयं भावः । सिद्धान्ते प्रत्यक्षविरोधेन आगमस्याप्रामाण्याभिधानेऽपि प्रकृते आगमविरोधेन प्रत्यक्षस्य अप्रामाण्याभिधानं न विरुद्धम् । न हि निर्विशेषयोः प्रत्यक्षागमयोः परस्परं बाध्यबाधकभावोऽभिहितः । किं तु उपजीवकत्वेन बाध्यत्वम् उपजीव्यत्वेन बाधकत्वम् । ततश्च तत्त्वमस्याद्यागमं प्रति प्रत्यक्षस्य धर्मिग्राहकतया उपजीव्यत्वात् । उपजीव्यतया प्रबलप्रत्यक्षेणोपजीवकतया ततो दुर्बलस्याऽगमस्य युक्तो बाधः । प्रकृते तु दोषग्राहकप्रत्यक्षस्याऽगमं प्रति उपजीव्यत्वाभावेन तदपेक्षया प्रबलत्वाभावात् । आगमस्यैव च दोषग्राहकप्रत्यक्षं प्रत्युपजीव्यत्वेन प्रत्यक्षापेक्षया प्रबलत्वात् तेनैव तद्बाधो युक्तः । तथा हि । रामकृष्णादिदोषग्राहिणा प्रत्यक्षेण त्रेधा उत्पत्तव्यम् । विष्णुरयं दोषवानिति वा विष्णोरन्योऽयं दोषवानिति वा कश्चिदयं दोषवानिति वा । प्रकारान्तराभावात् । तत्र द्वितीयतृतीययोर् विष्णोर्दोषवत्त्वे न तदुद्भावयितुं शक्यम् । विष्णुर्दोषवानिति तेनानवगाहात् । वस्तुवृत्त्याऽसौ विष्णुरेवेति चेत्, किं तावता । न हि वस्तुवृत्तिसहितं यत्किञ्चिद् ज्ञानं विवक्षित-विशेषं साधयति अतिप्रसङ्गात् । तस्माद् आद्य एव अङ्गीकर्तव्यः । तत्र विष्णुत्वं सर्वथा ज्ञातव्यम् । न च यथा पटश् छिन्नो दग्धो मलिन इति परानुपजीविना प्रत्यक्षेण गृह्यते तथा आगमादिकमनुपजीव्य प्रत्यक्षेणैव विष्णोः सदोषत्वं ज्ञातुमशक्यम् । पटत्वस्य अवयवसन्निवेशव्यङ्ग्यस्य प्रत्यक्षतया परानपेक्षप्रत्यक्षेण तथा ज्ञातुं शक्यत्वेऽपि विष्णुत्वस्य समस्तगुणपूर्णत्वनिर्दोषत्वजगज्जन्मादिकारणत्वरूपस्य शास्त्रैकसमधिगम्यत्वेन अप्रत्यक्षतया पञ्चपलपरिमितोऽयं पटो मलिन इतिवत् केवलेन प्रत्यक्षेण विष्णुरयं दोषवानिति ज्ञातुमशक्यत्वात् । तस्मात् ‘देवक्यां देवरूपिण्यां विष्णुः सर्वगुहाशयः । आविरासीत्’ इत्यागमात् तदवगन्तव्यम् । तथा च दोषग्राहक-प्रत्यक्षस्य आगमोपजीव्यताया अङ्गीकर्तव्यत्वात् सर्वस्याप्यागमस्य एकवाक्यत्वात् सर्वरूपोपेतस्य विष्णोर् निर्दोषत्वस्य प्रतिपादनात् तद्विरोधेन दोषग्राहकस्य विष्णुरयं दोषवानिति प्रत्यक्षस्य तथाविधस्यानुमानस्य अप्रमाणत्वान् न ताभ्यां सदोषत्वादिसिद्धिः ।

‘क्व च प्रत्यक्षतः प्राप्तम् अनुमागम् अबाधितम्’ इति प्रत्यक्षस्य जात्यादिना प्राबल्यवचनं तु लौकिकार्थविषयम् । अत एव ‘प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतम्’ इति अलौकिकार्थे आगमस्यैव जात्या प्राबल्याभिधानं सङ्गच्छते इति सर्वमनवद्यम् ।

यत्तु प्रत्यक्षानुमानाभ्याम् आगमविरुद्धाकारेणापि ज्ञानजननाद् योग्यताव्यतिरेकनिश्चयात् कथं तद्विरुद्धार्थ-प्रत्यायनमागमः कुर्यात् ? तस्य प्रत्यक्षापेक्षया दुर्बलत्वात् प्रत्यक्षस्य जात्यादिभिः प्राबल्यादिति प्रत्यक्षानुमाना-भ्यामिति शङ्काग्रन्थाभिप्रायवर्णनम्, तदसत् । बाधपरतया एतद्ग्रन्थयोजनायाष् टीकास्थापिशब्दविरुद्धत्वेन (पां.टि.)अयुक्तत्वात् । तद्बलेन प्रतिपक्षपरताया एव प्राप्तत्वात् । अन्यथाऽपि ज्ञानजननस्य तदुपपादक-तयोक्तेरश्लिष्टत्वापाताच्च । यच्च अत एव ‘प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतम्’ इति भगवत्पादोक्तिरपि इत्युदाहृतवाक्यस्य भगवत्पादोक्तित्ववचनम्, तदप्यसत् । तस्य ब्रह्मतर्कवाक्यत्वेन भगवत्पादवाक्यत्वा-भावात् ।

ननु ‘सदागमैकविज्ञेयम्’ इत्यत्र ‘पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन’ इति समासे एकशब्दस्य समासशास्त्रे प्रथमानिर्दिष्टत्वेन ‘प्रथमानिर्दिष्टम्’ इति उपसर्जनसञ्ज्ञायां ‘उपसर्जनं पूर्वम्’ इति पूर्वनिपाते सदैकागमविज्ञेयमिति स्यात्, न तु सदागमैकविज्ञेयम् इति, इत्यत आह- दोषैकदृगिति ॥ ‘पूर्वकालैक’ इति निर्देशप्रयुक्तः पूर्वनिपात इति मध्यमपदलोपी समासः । ननु पूर्वकालैकेति सूत्रस्य सङ्ख्यार्थकैकशब्दस्यैव समासविधायकत्वं कस्माद् इत्यत एकशब्दमात्रस्य समानाधिकरणशब्देन समासविधायकत्वस्य दोषैकदृगि-त्याद्यभियुक्तप्रयोगानुपपत्तिप्रसङ्गेन अयोगाद् इति भावेन उक्तम्- दोषैकदृगिति ॥ उपलक्षणं चैतत् । तस्यैव युक्तत्वाच्चेत्यपि द्रष्टव्यम् । तथा हि । ‘विशेषणं विशेष्येण बहुलम्’ इत्यनेन विशेषणवाचकशब्दस्य विशेष्य-वाचकशब्देन समासे विहिते विशेषणविशेष्यशब्दयोः सम्बन्धिशब्दत्वाद् एकेनैव परस्परसमासस्य विज्ञानसम्भ-वात् पदान्तरवैयर्थ्यमित्याशङ्कायां, तेनैव विशेष्येण समासः यदि तद् विशेष्यं विशेषणमपि स्याद् इति परस्पर-विशेषणविशेष्यभावस्थल एव अनेन समासः, अत एव नीलोत्पलमित्यत्र नीलशब्दस्य पीतादिव्यवच्छेदकत्वाद् उत्पलशब्दस्य च नीलभ्रमरादिव्यवच्छेदकत्वाद् एतादृशस्थल एव अनेन समास इति इमम् अर्थं द्योतयितुं पदद्वयोपादानम् इति प्रत्युक्ते, तर्हि उभयोरपि प्रथमानिर्दिष्टत्वात् पूर्वनिपातानियमस्स्याद् इत्याशङ्कायाम्, उपसर्जनसञ्ज्ञाया अन्वर्थत्वेन अप्रधानपरत्वात्, नीलोत्पलमिति द्रव्यगुणवाचकशब्दयोर् गुणवाचकस्य अप्रधानत्वेन पूर्वनिपातनियमसम्भवात्, क्रियाद्रव्यवाचकयोश्च क्रियावाचकस्य अप्रधानत्वेन पूर्वनिपात-नियमसम्भवात्, गुणवाचकयोः खञ्जकुब्जशब्दयोः, क्रियावाचकयोरपि पाचकपाठकशब्दयोर् उभयोरपि अप्रधानत्वेन पूर्वनिपातानियमस्य इष्टत्वात्, द्रव्यवाचकयोरपि शिंशुपावृक्षशब्दयोर् उभयोः प्रधानत्वेऽपि वृक्षत्वस्य अन्यत्रापि सत्त्वेन वृक्षशब्दस्य बहुविषयत्वेन प्रधानत्वात् शिंशुपाशब्दस्यैव पूर्वनिपात इति न पूर्वनिपातानियम इति प्रत्युक्तेऽपि, स्नातानुलिप्त इत्यादिक्रियावाचकशब्दयोः पूर्वनिपातानियमे प्राप्ते, ‘दिक्सङ्ख्ये सञ्ज्ञायाम्’ इत्यनेन दिग्वाचकसङ्ख्यावाचकशब्दयोः सञ्ज्ञायामेव समासस्य नियमितत्वेनैकशाटीत्यादेश्च सञ्ज्ञात्वाभावाद् असमासे प्राप्ते, एकशब्दस्य समानाधिकरणेन समासविधानार्थं, स्नातानुलिप्त इत्यादौ पूर्वनिपातनियमार्थं च प्रवृत्तस्य पूर्वकालैकेति सूत्रस्य सङ्ख्यार्थकैकशब्दस्य समासविधायकत्वावश्यम्भावात् । ततश्च सङ्ख्यार्थकैक-शब्दस्यैव पूर्वकालैकेति सूत्रेण समासविधानेन पूर्वनिपातनियमान् न केवलार्थकैकशब्दसमासविधाने तस्य प्रवृत्तिरिति । न च केवलार्थकैकशब्दस्य विशेषणं विशेष्येणेति समासे आगमशब्दार्थस्यैव प्रधानत्वाद् आगम-शब्दस्यैव परनिपातः स्याद् इति वाच्यम् । ‘राजपुरुषः’ इत्यत्र राजशब्दस्येव आगमशब्दस्य अप्राधान्यविवक्षया (पां.टि.) पूर्वनिपातोपपत्तेः । एकत्वस्य आगमादन्यत्रापि सत्त्वेन बहुविषयत्वविवक्षया आगमशब्दस्य पूर्व-निपात इति तु तत्त्वम् । यद्वा सदागमाश्च ते एके चेति ‘मयूरव्यंसकादयश्च’ इति समासः । व्यंसकादिशब्देषु हि विशेषणमित्यनेन समासे तेषां गुणवाचकत्वेन अप्रधानत्वात् पूर्वनिपाते प्राप्ते गुणवचनानामपि परनिपातविधानार्थं प्रधानवचनानामपि मयूरादिशब्दानां पूर्वनिपातविधानार्थं च तस्य प्रवृत्तत्वेन प्रधानीभूतागमवचनस्यापि आगम-शब्दस्य पूर्वनिपातो युक्तः । तस्य आकृतिगणत्वेन, दोषैकदृक् पुरोभागी, ह्लादैकमयीमित्याद्यभियुक्त-प्रयोगदर्शनाच्च अस्यापि अभियुक्तप्रयोगतया तत्र अनुसन्धेयत्वान् न अनुपपत्तिः । सापेक्षत्वेऽपि एकशब्दस्य गमकत्वात् समास इति सर्वमकलङ्कम् ।

लघुप्रभा

ननु वन्दनादिरूपं मङ्गल नानुष्ठेयं विधिफलयोरभावात् । तथा हि । न तावद्विधिरस्ति । स हि श्रुतो वा अनुमितो वा । नाऽद्यः । ‘यजेत स्वर्गकामः’ इतिवत् ‘वन्देताविघ्नपरिसमाप्तिकामः’ इति प्रत्यक्षश्रुतेरभा-वात् । नाप्यनुमितः । तत्प्रतिबद्धलिङ्गाभावात् । न चाऽचारपरम्परया विध्य(श्रुत्य)नुमितिः । चैत्यवन्दनादावपि तत्प्रसङ्गात् । नापि शिष्टाचारपरम्परया विध्यनुमितिः । शिष्टकृताङ्गचेष्टादौ व्यभिचारात् । नापि फलम् । फल स्वसाधने प्रवर्तयत् स्वसाधनताज्ञानद्वारा प्रवर्तयति । तत्र नेष्टत्वेनेष्टसाधनताज्ञानं प्रवर्तकम् । इच्छाज्ञान-स्याप्रवर्तकत्वात् । किन्तु स्वरूपसदिच्छाविषयसाधनताज्ञानं वक्तव्यम् । ततश्च स्वतो विघ्नविधुरस्याऽनन्दतीर्थमुनेस् तद्विघाताद्युद्देश्याभावेनानुष्ठानमयुक्तम् । न च शिष्यशिक्षार्थं तदिति वाच्यम् । शिष्याणामिष्टसाधनताबोधनेनैव प्रवृत्त्युपपत्तेः स्वानुष्ठानपर्यन्तप्रयासवैयर्थ्यात् । न हि शिष्यपापपरिजिहीर्षया प्रायश्चित्तमनुष्ठापयन्तस् तत्स्वय-मनुतिष्ठन्ति । किञ्च शिष्याणां फल किं प्रारिप्सितपरिसमाप्तिर्वा, तद्विघ्नविघातो वा, तद्द्वारकसमाप्तिर्वा । नाऽद्यः । आरिप्सोरारब्धपरिसमाप्तेर् इष्यमाणत्वेन फलत्वसम्भवेऽपि कृतदेवतावन्दनानामपि चिकीर्षितापरि-समाप्तेर् अकृतदेवतावन्दनानामपि तत्समाप्तेर् अन्वयव्यतिरेकव्यभिचारेण कार्यकारणभावग्रहासम्भवात् । वन्दनेन विघ्ने निवृत्ते बुद्धिवैशद्यादिकारणान्तरेण समाप्तिसम्भवाच्च । विघ्ननिवृत्त्युपक्षीणत्वेनान्यत्रानुपक्षीणा-न्वयव्यतिरेकाभावाच्च । न द्वितीयः । निर्विघ्नपुरुषस्य विघ्नाभावेन तद्विघातानुपपत्तेः । न हि सर्वोऽपि विघ्नवानेवेति नियन्तुं शक्यते । तस्य शपथनिर्णेयत्वात् । न तृतीयः । निर्विघ्नकृतौ विघ्नविघातेन विनाऽपि समाप्तिदर्शनेन तस्य द्वारत्वानुपपत्तेः । ‘यदवच्छिन्नं यदवच्छिन्नं जनयित्वा यदवच्छिन्नं जनयति तदवच्छिन्नस्य तदवच्छिन्नजनने तदवच्छिन्नं द्वारम्’ इति द्वारलक्षणम् । किञ्च विघ्नाभावस्य समाप्तिकारणत्वे प्रतिबन्धकाभावस्य कारणत्वा-पत्तिः । न चेष्टापत्तिरिति वाच्यम् । प्रतिबन्धकत्वस्य कारणीभूताभावप्रतियोगित्वरूपतया प्रतिबन्धकाभावत्वेन कारणत्वेऽन्योन्याश्रयापत्तेः । किञ्च प्रतिबन्धकाभावस्य कारणत्वे उत्सर्गापवादौ क्वापि न स्याताम् । तथा हि । सत्यां सामग्य्र•ं कार्यानुत्पादव्याप्यत्वं प्रतिबन्धकत्वम् । प्रतिबन्धकाभावस्य कारणत्वे कारणाभावादेव कार्याभावसम्भवे प्रतिबन्धकवाचोयुक्तिः रिक्ता स्यात् । अतो विघ्नाभावो न प्रतिबन्धकाभावत्वेन समाप्ति-कारणमिति द्वारत्वानुपपत्तिः । स्वतस्सिद्धविघ्नविरहवता कृतमङ्गलस्य विघ्नध्वंसकारणत्वाभावेन तज्जन्यत्वा-भावाच्च । विघ्नोत्सारणासाधारणकारणत्वस्यैव मङ्गलत्वरूपत्वेन तेन रूपेण विघ्नोत्सारणासाधा-रणकारणत्वे अवच्छेद्यातिरिक्तावच्छेदकाभावेनाऽत्माश्रयापत्तेश्च । कायिकादिविजातीयक्रियासाधारण-स्यैकस्यान्यस्य दुर्वचत्वाच्च । मङ्गलत्वस्य जातित्वे मानसत्वादिना साङ्कर्यापत्तेः । अतो मङ्गलस्य विघ्नध्वंसद्वारा समाप्तिः फलमिति रिक्तं वचः ।

गौरीकान्तस्तु ‘विघ्नभिन्नत्वे सति विघ्नध्वंसप्रतिबन्धकाभावभिन्नत्वे सति विघ्नध्वंसासाधारणकारणत्वं मङ्गलत्वम्’ इत्याह । तन्न । उक्तदोषापरिहारात् । विघ्नध्वंसप्रागभावेऽतिव्याप्तेश्च । न च विघ्नध्वंसप्रागभावो विघ्न एवेति वाच्यम् । भावस्याभावत्वानुपपत्तेः । दुरितादिजन्यस्य विघ्नस्यानादित्वाभावेनानादिसान्तत्व-लक्षणप्रागभावत्वस्य सुतरामयुक्तत्वाच्च । न च तत्प्रागभावोऽपि तद्ध्वंसप्रागभाव इति वाच्यम् । एक-प्रतियोगिकभावाभावोभयविधप्रागभावकल्पनेऽदृष्टकल्पनाप्रसङ्गात् । तत्प्रागभावस्य तन्निरूप्यत्वेऽपि तद्ध्वंसा-निरूप्यत्वाच्च । तत्प्रागभावस्यापि तद्ध्वंसप्रागभावत्वे प्रागभावनाशे प्रतियोग्युत्पत्तिनियमेन तत्प्रागभावनाशे तदुत्पत्तिरिव तद्ध्वंसस्यापि तदैवोत्पत्तिप्रसङ्गाच्च । प्रतियोगितद्ध्वंसयोरेकप्रागभावोत्पत्तिकत्वेन प्रतियोगि-ध्वंसयोरभेदापत्तेश्च । प्रतियोगिप्रागभावस्य प्रतियोगिनाऽन्यथासिद्धेश्च । तत्प्रागभावस्य तद्ध्वंसाव्यवहित-प्राक्कालीनत्वाभावेन कारणत्वायोगाच्च । भावस्याभावव्यापारत्वकल्पनेऽदृष्टकल्पनापत्तेश्च । भावाभावसाधारण-स्यैकस्य प्रागभावत्वस्य दुर्वचत्वाच्च । तस्मात्प्रतियोगिभिन्नः प्रागभाव इति तत्रातिव्याप्तिः सुस्थैवेति । प्रतिबन्ध-काभावस्य कारणत्वाभावादेव तद्वारणे तद्भिन्नपदवैयर्थ्याच्च । विघ्नस्य विघ्नध्वंसकत्वे विघ्नो विघ्नध्वंसक इति प्रयोगप्रत्ययौ स्याताम् । न चेष्टापत्तिरिति वाच्यम् । ध्वंसनक्रियां प्रति एकस्यैव विरुद्धे कर्तृकर्मत्वे स्याताम् । किञ्च प्रतियोगिन इवाव्यहितपूर्वक्षणमात्रसम्बन्धिनोऽन्यस्यापि दण्डादेः कारणताऽऽपातेन कार्यसहभूतत्वे सतीति भावकारणलक्षणे विशेषणाऽवश्यकत्वेन प्रतियोगिनो न क्वापि ध्वंसकारणत्वमिति विघ्नस्य कारणत्वाभावेनैवा-तिव्याप्तिविरहे तद्भिन्नत्वविशेषणस्यापि वैयर्थ्याच्चेत्यलमतिविस्तरेण । तस्मान्नानुष्ठानं नतरां तन्निबन्धनं युक्तम् इत्याशङ्क्य परिहरति- विघ्नविघातादीति ॥ विघ्नन्तीति विघ्नाः प्रतिबन्धकाः । मूलविभुजादित्वात्कः । ‘गमहन’ इत्युपधालोपः । ‘हो हन्तेः’ इत्यनेन कुत्वम् । तेषां विघातः प्रतिहतिः । विपूर्वात् हन्तेर्भावे घञि कुत्वे ‘हनस्त’ इति तः । आदिना समाप्तिप्रचयादि ।

केचित्तु विघ्नविघात एवाऽदिः कारणं यस्याः समाप्तेस् तत्साधनतयेत्यर्थ इत्याहुः । तदसत् । विघ्नाभाव-कारणत्वे उत्सर्गापवादौ क्वापि न स्यातामित्युत्तरटीकाविरोधात् । शब्देनैव प्रचयग्रहणसौलभ्ये उपलक्षण-करणासम्भवाच्च । साधनतयेत्यवगतमित्यनेनान्वयि । शासतीति शिष्टा धर्मप्रवक्तारः । शासेः कर्तरि क्तः । ‘शास इदङ्हलोः’ इतीत्वम् । तेषामाचारः धर्मबुद्ध्याऽनुष्ठानम् । तत्परम्परेत्यर्थः । तेन तत्कृतवन्ध्यक्रिया-व्युदासः । अवगतमिति नारायणवन्दनविशेषणम् । तच्च ग्रहेर्बुद्ध्यर्थत्वेन ‘गतिबुद्धि’ इत्यनेन णौ द्विकर्मकत्वात् कर्मतयाऽन्वेति । वन्दनं शिष्यान् ग्राहयितुम् इत्यन्वयः । साधनतयाऽवगतमिति फलाभावो निरस्तः । आचार-परम्परेति प्रमाणाभावश्च ॥ अन्तरायविधुरोऽपीति ॥ विलीनप्रकृतितयेति शेषः । भगवानिति पूजार्थम् ॥ सदा वन्द इत्यनेनेति ॥ ‘सर्वैकान्यकिंयत्तदः काले दा’ इत्यतः सप्तम्यन्तेभ्यः कालार्थेभ्यः स्वार्थे दा स्यादिति दाप्रत्ययं विधाय ‘सर्वस्य सोऽन्यतरस्यां दि’ दाप्रत्यये परे सर्वस्य सो वा स्यात् । सर्वस्मिन् काले सदा सर्वदेत्युभयोदाहृतत्वात् साधुः । सार्वकालिकवन्दनकर्तृकर्तृकं वर्तमानवन्दनमित्यर्थः । तेन सर्वकालार्थ-तद्धितेन वन्द इति वर्तमानार्थकलडन्तेनानन्वय इति निरस्तम् । ममेति नारायणवन्दनेन प्रयोजनोद्देशेन च सम्बध्यते । तेन मदीयं वन्दनं मदीयप्रयोजनोद्देशेन नेति विशेषं निषेधता शिष्यानुजिघृक्षया परकीयप्रयोजन-मुद्दिष्टमनुज्ञायते । ‘विशेषनिषेधे शेषाभ्यनुज्ञानम्’ इति वचनात् । तेन ग्रन्थकर्तुरेकान्तत्वं परानुजिघृक्षुत्वं च सूचयति । यथोक्तं ‘एकान्तानां न कस्यचित् । अर्थे नारायणो देवः’ इति ‘दयापरा भागवता हि लोके’ इति च । अत्रायं परिहारक्रमः । मङ्गलमनुष्ठेयं विहितत्वादित्यनुमानं मानम् । यत्त्वत्र मङ्गल नानुष्ठेयं विध्यभावा-दित्यनुमाय स हि (विधिः) श्रुतो वा अनुमितो वेति विकल्पितम् । तत्राऽद्यं तावदङ्गीकुर्मः । ‘स्तुहि श्रुतम्’ इति ऋग्वेदे यजुषि च लोटा प्रत्यक्षं स्तुतिरूपमङ्गलविधानात् । तथा ‘नमो देवेभ्यः’ इति मन्त्रस्य ब्राह्मणे ‘नमो देवेभ्य इत्याहूय (इत्याह) याश्चैव देवता यजति याश्च न ताभ्य एवोभयीभ्यो नमस्करोत्यात्मनोऽनार्त्यै’ इति नमस्कार-विधानाच्च । न च नात्र विधिः प्रत्यक्ष इति वाच्यम् । ‘उपांशुयाजमन्तरा यजति अजामित्वाय’ इतिवदनार्त्यै इति फलश्रवणेन पञ्चमलकारोपपत्तेः । द्वितीयमप्यङ्गीकुर्मः । शाखान्तराधिकरणन्यायेन अदृष्टे तच्छ्रुतीनां शिष्टाचारेणापि श्रुत्यनुमानसम्भवात् । तथा हि । मङ्गल श्रुतिविहितं शिष्टाचारपरम्परितत्वात् होलाकादिवदित्यनुमानसम्भवात् । यथोक्तं मीमांसकैराचाराधिकरणे- ‘आचाराच्च स्मृतिं ज्ञात्वा स्मृतेश्च श्रुतिकल्पनम् । तेन द्व्यन्तरितं तेषां प्रामाण्यं विप्रकृष्यते’ इति ।

यच्चोक्तं फलाभावादिति तदप्यसत् । ‘नमस्करोत्यात्मनोऽनार्त्यै तस्मा एव नमस्कृत्य सदः प्रसर्पत्यात्मनोऽ-नार्त्यै । तेभ्य एव नमस्कृत्य सदः प्रसर्पत्यात्मनोऽनार्त्यै नम इन्द्राय मखघ्न इन्द्रियं मे वीर्यं मा निर्वधीरिति होत्रियमाशिषमेवैतामाशास्ते इन्द्रियस्य वीर्यस्यानिर्घाताय’ इत्यादौ कामपदेनेव चतुर्थ्याऽपि ‘सर्वेभ्यः कामेभ्यो दर्शपूर्णमासौ’ इत्यादाविव विघ्नविघातादेः फलत्वोक्तेः । किञ्चाफले प्रेक्षावत्प्रवृत्त्ययोगेन शिष्टाचाराच्च मङ्गलस्य फलसाधनत्वं ज्ञायते । तथा हि । मङ्गल फलसाधनं फलोद्देशेन शिष्टाचरितत्वात् । न चासिद्धो हेतुः । ऋचि ‘अग्निमीे’ इत्याद्ये ‘नमो महद्भ्यः’ इति मध्ये ‘नमः प्रवक्त्रे’ इत्यन्ते अन्यत्र ‘नमः परमऋषिभ्यः’ इति ‘नमो वाचे’ इति च श्रवणात् । यजुषि चाऽद्येऽनुवाके ‘नमोऽग्नयेऽप्रतिविद्धाय नमोऽनाधृष्टाय नमः सम्राजे’ इति मध्ये ‘हविष्मन्तो नमसा विधेम ते’ इति मध्ये सप्तमेऽनुवाके ‘नमोऽग्नये पृथिविक्षिते नमो वायवेऽन्तरिक्षक्षिते नमः सूर्याय दिविक्षिते’ इति शतरुद्रीये च ‘नमस्ते रुद्र’ इत्यादौ ‘नमो भवाय च’ इति मध्ये ‘तेभ्यो नमस्ते नो मृडयन्तु’ इत्यन्ते । उपनिषदि ‘नमो ब्रह्मणे । नमस्ते वायो’ इत्यादौ अन्ते च ‘भूयिष्ठां ते नम उक्तिं विधेम’ इत्यन्ते, भारते च ‘नारायणं सुरगुरुम्’ इत्यारभ्य ‘वन्दे भवघ्नम्’ इति, भागवते च ‘जन्माद्यस्य इत्यारभ्य, सत्यं परं धीमहि’ इति आदिमध्यावसानेषु वैदिकस्मार्ताचारात् । तेन जानीमः सफल मङ्गलमिति । यथोक्तं महाभाष्ये- ‘मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि कार्याण्यविघ्नं परिसमाप्यन्ते प्रचीयन्ते च’ इति । आचारश्च स्वार्थे स्मृतिवत् स्वतन्त्रं प्रमाणम् । ‘प्रेक्षावत्प्रवृत्त्या सफलत्वे सिद्धे’ इति टीकोक्तेः । न च दृष्टान्तोऽसिद्धः । सूत्रकृता ‘कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्याम्’ इति द्विवचनेन श्रुतिस्मृत्योः समकक्षतया निर्देशात् । श्रौतार्थे ‘स्मरन्ति च’ इति चशब्देन समुच्चयीकरणात् । अस्वातन्त्र्ये समुच्चयीकरणायोगात् । न हि सम्भवति घटः सन् दर्शनात्सन्निकर्षाच्चेति । अनुवादवत् पूर्वप्रमाणावच्छिन्नतयाऽर्थानवगाहनाच्च । अत एव ‘न विलक्षणत्वात्’ इति सूत्रव्याख्यानावसरे नित्यत्वात्तदनुसारित्वाच्चेत्येवमुक्तम्, न श्रुत्यनुमापकत्वादिति । संवादमात्रं त्वविरुद्धम् । श्रुतेः श्रुतिसंवादवत् । ‘यद्वै किञ्च मनुरवदत्तद्भेषजम्’ इति श्रुत्यैव तदुक्तार्थसत्यत्वोक्त्या स्वातन्त्र्योक्तेश्च । तद्वदाचारोऽपि । अत एव ‘वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम्’ इति चशब्देन स्मृत्याचारौ समुच्चितवान् । अत एव गीताभाष्ये ‘आचाराच्चैवमित्याह- कर्मणैव हि’ इति चशब्दः प्रयुक्तः । अत्र चाऽचारपरम्परावगतमित्यवोचन् न त्वनुमितश्रुत्यवगतमिति । तेन चाऽचारात् श्रुतिमनुमिमानाः परे निरस्ता वेदितव्याः । आस्तां श्रुत्यनुमानम् । स्मृत्यनुमानद्वारीकरणमत्यन्तायुक्तम् । स्वत एवार्थप्रत्यायनसम्भ-वात् । यच्चोक्तं फल किं स्वनिष्ठं परनिष्ठं वेति तत्रेदमुत्तरम् । फलवत्त्वमात्रं प्रवृत्तौ प्रयोजकं न तु स्वफलवत्त्वं गौरवात् । अव्यापकत्वेन असम्भवाच्च । शास्त्रदेशितं फल प्रयोक्तरीत्यौत्सर्गिकम् । अपवादे परनिष्ठत्वस्यापि ग्राह्यत्वात् । अत एव पूर्वतन्त्रे जातेष्ट्यधिकरणे- ‘वैश्वानरं द्वादशकपालं निर्वपेत्’ इति जातेष्टिं प्रकृत्य ‘यस्मिञ्जात एतामिष्टिं निर्वपति पूत एव तेजस्व्यन्नाद इन्द्रियावी पशुमान् भवति’ इति श्रुते पुत्रपूतत्वादौ वैयधिकरण्ये-नाफलत्वमाशङ्क्य श्रुत्यैव ‘यस्मिन् जातः’ इति जातमात्रे इष्टिविधानात् पुत्रपूतत्वादिकं व्यधिकरणमपि फलमित्यु-क्तम् । इयांस्तु विशेषः । जातेष्ट्या पितृकृतयैव स्वयं पूतो भवति न स्वयं यजति । इह तु स्वयमनुष्ठायैव निर्विघ्नो भवतीति । अत्र विघ्नस्य प्रतिबन्धकापरपर्यायस्य दुश्चरितनिमित्तत्वाद् धर्मप्रवणे मुनावसम्भवः । ‘स्वधर्मनिष्ठः शतजन्मभिः पुमान् विरिञ्चितामेति’ इत्युक्तेः । ऋजुत्वाच्च । ‘ऋजूनामेक एव’ इत्युक्तेः । प्राणावतारत्वाच्च न स्वनिष्ठनिवर्तनीयविघ्नादि । प्राणस्य ‘यथा लोष्ठमाखणमश्मानमृत्वा विघ्वंसेतैवम्’ इति पापालेपोक्तेः । पर-निष्ठस्यापि पुत्रपूतत्वस्य पितुरिष्टत्वेन फलत्ववत् शिष्यविघ्नविघातादेरपि आचार्योद्देश्यत्वेन फलत्वसम्भवाच्च । अतः ‘यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः’ इति भगवद्गीतोक्तदिशा भगवदाचार इव भागवताचार्याचारोऽपि लोकसङ्ग्रहार्थ एव । न स्वगतफलार्थः । यथोक्तं भागवते ‘न धीर्मय्येक-भक्तानामाशीर्भिर्भिद्यते क्वचित्’ इति । तदेतत्स्पष्टमुक्तं ‘नमस्काराधिकारादिग्रथनसूचने शिष्यशिक्षार्थम्’ इति ।

यच्चोक्तं शिष्याणामपि किं फलम् इत्यादि तत्रेशितुरिच्छानुसारेण यथायथं सर्वं फलमिति ब्रूमः । न चैकस्यानेकफलकत्वं न दृष्टचरमिति वाच्यम् । स्वर्गार्थतया श्रुतस्यापि दर्शादेः ‘कामाय कामाय प्रयुज्यते सर्वेभ्यो (व्या.टि)हि कामेभ्यो यज्ञः प्रयुज्यते’ इति सर्वकामार्थत्वोक्तेः । ‘अग्निहोत्रं जुहोति’ इति स्वर्गार्थस्याग्निहोत्रस्य ‘दध्नेन्द्रियकामस्य’, ‘पयसा पशुकामस्य’, ‘यवाग्वा ग्रामकामस्य’ इति नानाफलार्थेनानेकगुणविधानात् । काम्येष्टिकाण्डे प्रजार्थमैन्द्राग्नादीष्टिं विधाय पुनः फलान्तरार्थं विधानदर्शनात् । न च निर्विघ्नपुरुषकृतस्या-तत्फलत्वेन व्यभिचारान्न तत्फलत्वमिति वाच्यम् । अदग्धगृहपुरुषकृतक्षामवत्या वैयर्थ्ये गृहदाहवत्कृताया अपि तत्प्रसङ्गात् । अतो यथेच्छं फलमिति सिद्धम् ।

यच्चोक्तं मङ्गलत्वस्य जातित्वे मानसत्वादिना साङ्कर्यापातात्तेन विघ्नोत्सारणासाधारणकारणत्वस्यैव मङ्गलत्व-रूपतया वक्तव्यत्वेन तेन रूपेण विघ्नोत्सारणकारणत्वे आत्माश्रयादीति । तन्न । मङ्गलशब्दव्यवहार्यत्वस्यैव मङ्गलत्वरूपत्वात् । यथा पूर्वतन्त्रे उत्तमामन्त्रणस्य तत्त्वातत्त्वादेः परस्पराव्यापकत्वेन मन्त्रप्रसिद्धिरेव मन्त्रलक्षणं, यथा वा स्तुतिनिन्दापरकृतिपुराकल्पादिरूपविजातीयवाक्यजातस्यार्थवादप्रसिद्धिरेव लक्षणं, तथाऽत्रापि मङ्गलत्वप्रसिद्धेरेव लक्षणत्वे आत्माश्रयादिगन्धाभावेन तस्यैव सम्यक्त्वात् । वस्तुतस्तु ‘मगि समर्पणे’ इत्यतः ‘मङ्गेरलच् मङ्गलम्’ इति शाकटायननिर्वचनेन ‘कल्याणं मङ्गल शुभम्’ इत्यभिधानेन च शुभमेव मङ्गलम् । तत्कारणत्वात् साधने ताच्छब्द्यम् आयुर्घृतमितिवत् । न तु विघ्नोत्सारणासाधारणक्रिया । साधारणकारणे, द्रव्ये च नारायणे मङ्गलानां च मङ्गलमिति प्रयोगादिति सङ्क्षेपः । केचित्तु ग्रन्थकर्तुरेव शङ्कितविघ्ननिरासाय मङ्गलाचरणरूपप्रयत्न इति व्याख्यन् । तत् तत्त्वविप्लुतेः प्रमाद इति मङ्गलवादः समापत् ।