सदागमैकविज्ञेयं समतीतक्षराक्षरम् । नारायणं सदा वन्दे निर्दोषाशेषसद्गुणम्
मङ्गलाचरणम्
मूल
***सदागमैकविज्ञेयं समतीतक्षराक्षरम् । ***
नारायणं सदा वन्दे निर्दोषाशेषसद्गुणम् ॥ १ ॥
तत्त्वमञ्जरी
श्रीनारायणपण्डिताचार्यविरचिता तत्त्वमञ्जरी
वन्दे नारायणं देवं प्रोद्यत्प्रद्योतनप्रभम् ।
निरस्तोरुतमस्तोमं स्वच्छातुच्छगुणोदयम् ॥
श्रीमदानन्दतीर्थार्यपादपांसुः पुनातु नः ।
चूडामणिः सुरेन्द्राणां सतां चिन्तामणिः सदा ॥
पूर्णानन्दात्मनेऽनन्तज्ञानविज्ञानरोचिषे ।
विशुद्धतत्त्वतनवे नमो वेदान्तमूर्तये ॥
त्रिविक्रमार्यवर्येभ्यो गुरुभ्योऽस्तु नमस्कृतिः ।
यत्कृपाकल्पकलता सर्वदा सर्वदाऽपि नः ॥
श्रीमदानन्दतीर्थीयो विष्णोः सत्तत्त्वनिर्णयः ।
व्याख्यायते यथाप्रज्ञं सज्जनोऽत्रानुमोदताम् ॥
टीका
श्रीजयतीर्थविरचिता टीका
विश्वस्योदयमातनोति तदनु त्राणं विधत्ते पुनः
सौख्याप्तीतरहानिसाधनमलं वक्ति श्रुतीर्व्यञ्जयन् ।
स्वापं प्रापयति श्रमापहृतये कल्पावसाने च यस्
तं देवं पितरं पतिं गुरुतमं वन्दे रमावल्लभम् ॥ १ ॥
लसतु श्रीमदानन्दतीर्थेन्दुर्नो हृदम्बरे ।
यद्वचश्चन्द्रिका स्वान्तसन्तापं विनिकृन्तति ॥ २ ॥
पदवाक्यप्रमाणज्ञान् प्रणम्य शिरसा गुरून् ।
व्याकरिष्ये यथाबोधं विष्णुतत्त्वविनिर्णयम् ॥ ३ ॥
भावबोधः
श्रीरघूत्तमयतिविरचितः भावबोधः
नत्वा लक्ष्म्याः पतिमानन्दतीर्थं तथा जयार्यं परमं गुरुं च ।
गुरुं च मे जयतीर्थीयभावं वक्ष्ये विष्णुप्रीतयेऽहं स्वशक्त्या ॥ १ ॥
अथ परमकारुणिकः श्रीमदाचार्यो यथायोगमिष्टेष्टसाधनत्वाभ्यां सकलसज्जनापेक्षितविष्णुतत्त्वनिर्णयमुद्दिश्य प्रकरणं निर्माय तस्य तादर्थ्यज्ञापनाय व्यधिकरणबहुव्रीहिसमासविवक्षया विष्णुतत्त्वनिर्णय इति नाम तस्य चकार । तस्याप्यतिगहनगम्भीरतया आचार्याभिमततच्छब्दवाच्यत्वं मन्दैर्न शक्यते ज्ञातुमिति तथा तच्छब्द-वाच्यत्वज्ञापनार्थं तस्य प्रकरणस्य व्याख्यानं कर्तुकामो जयतीर्थश्रीचरणः व्याचिख्यासितप्रकरणाद्यपद्य-गतान्त्यपदस्याऽकाङ्क्षाक्रमेण प्राथम्यात्तत्रापि भावरूपलक्षणप्रतिपादकांशस्य प्राधान्यात् तत्पद्यव्याख्यानदिक्-प्रदर्शनार्थं तदुक्तलक्षणभूतगुणवत्त्वेन परदेवतास्तुतिप्रणामरूपं मङ्गलमाचरति- विश्वस्येति ॥ देवमिति पदं गुरुतममित्यस्यानन्तरं विवक्षित्वा विश्वस्योदयमित्यादीनां यथाक्रमं पितृत्वाद्युपपादकत्वं द्रष्टव्यम् । संहारस्य क्रीडारूपत्वाद् देवत्वोपपादकत्वं युक्तम् । यद्वा सृष्टित्राणादीनां यथाक्रमं पितृत्वपतित्वगुरुतमत्वरूपाणां क्रीडारूपत्वाद् विश्वस्योदयमित्यादिवाक्यचतुष्टयस्यापि देवत्वोपपादकत्वेन देवमित्याद्युक्तम् । तमपोऽर्थो ऽलं व्यञ्जयन्नलं वक्तीति । अनुत्पन्नस्य पालनायोगादन्वित्युक्तम् । जातमात्रं प्रति उपदेशायोगात् स्थित्यानन्तर्य-वाचकपुनःशब्दप्रयोगः । चशब्दान्न केवलं प्रतिदिनमिति यथाश्रुतार्थः, प्रापयति चेति विशेषणसमुच्चयश्च । रमाशब्दप्रयोगस्य तत्र तत्रोक्तमेव तात्पर्यं द्रष्टव्यम् ।
भावदीपः
श्रीराघवेन्द्रयतिविरचितः भावदीपः
देवं नारायणं नत्वा पूर्णबोधादिकान् गुरून् ।
विवृणोमि यथाबोधं तत्त्वनिर्णयपञ्चिकाम् ॥ १ ॥
ग्रन्थादौ मङ्गलमाचरति- विश्वस्येति ॥ तं विश्वस्योत्पत्त्यादिहेतुम् । ‘रमावल्लभं वन्दे’ इत्युक्त्या ग्रन्था-दाववश्यवन्दनीयायाः सकलवाङ्मनसनियामिकाया देव्या अपि भगवदुपसर्जनतया वन्दनं कृतं भवति । कुतो वन्द्यताऽस्येत्यतः पितरं पतिं गुरुतमं देवमित्युक्तम् । कथं पितृत्वादिकमस्येत्यतो विश्वस्येत्यादि । विश्वस्येति सर्वत्रान्वेति । चिदचित्प्रकृत्यादेः सर्वस्य जगत उदयं वियन्नयोक्तदिशा पराधीनविशेषाप्त्यादिरूपोत्पत्तिं यः (रा.टि.)करोति । अतो विश्वस्य पितरम् । विश्वान्तःपातिनो ममापि पितरमिति । एवमग्रेऽपि । नैतावतोपरतः किन्तु तदनु जन्मानन्तरम् । उत्पन्नचराचराख्यविश्वमनुसृत्येति वा । तत्तद्योग्यतानुसारेणेति यावत् । अन्नपानादिना जीवानां, जडस्य च स्थायित्वादिरूपेणेत्यादिप्रकारेण यः पुनस् त्राणं रक्षणं विधत्ते करोति । अत एव पतिं रक्षकम् । एतेन जिज्ञासासूत्रस्थब्रह्मशब्दार्थभूतगुणपूर्णत्वरूपमूलकृदुक्तप्रधानलक्षणस्योपपादकं जन्मादिसूत्रोक्तं जगज्जन्मादिहेतुत्वमुक्तं भवति । किञ्च यः, सुखमेव सौख्यं, स्वार्थे ष्यञ्, सौख्यस्याऽप्तेः, सौख्येतरस्य दुःखस्य हानेश्च साधनं निवृत्तकर्मानुष्ठानाङ्गकश्रवणादिरूपम् अलं सम्यक्, विश्वस्य वक्ति । कथं सम्यक्तेत्यत उक्तम्- श्रुतीर्व्यञ्जयन्निति ॥ अपपाठादिना तिरोहिताः ‘ज्योतिश्वेमेन स्वर्गकामो यजेत’,‘श्रोतव्यः’ इत्यादिश्रुतीः स्वहृद्गता उच्चारणेन ब्रह्मादिविश्वस्योपदिशन्नित्यर्थः । अतो अलं फलाव्यभिचारिभूतत्वात् सम्यक्त्वं साधन-स्येति । अतो गुरुतमं ब्रह्मादयो हि विश्वस्य गुरवः, तेषामपि गुरुत्वाद् गुरुतमम् । किञ्च यः विश्वस्य जीवरूप-विश्वस्य जाग्रद्दशायां विषयेष्विन्द्रियविक्षेपेण प्राप्तश्रमापहृतये स्वापं निद्रां प्रापयति प्रतिदिनमिति योज्यम् । न केवलमेतावत् कल्पावसाने च प्रलये च ब्रह्मेतरजीवानां स्वापं प्रापयति । ततो देवं ‘दिवु क्रीडाविजिगीषाव्यवहार-द्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु’ इत्युक्तेः स्वप्नार्थस्य दीव्यतेः पचाद्यचि देवमिति रूपसिद्धेः स्वप्नकर्तार-मित्यर्थः । यद्वा विश्वस्योदयादिकरणेन किं प्रयोजनमित्यतो देवं क्रीडादिगुणकमित्यर्थः । लीलारूपमेव तत् । न प्रयोजनहेतुकमित्यर्थः । ‘लोकवत्तु लीलाकैवल्यम्’ इति सूत्रात् ॥ १ ॥
ग्रन्थकर्तॄनर्थयते- लसत्विति ॥ यथेन्दुश्चन्द्रोऽम्बरे गगने लसन् प्रकाशमानोऽर्कसन्तापं चन्द्रिकया निरा-करोति तथाऽऽनन्दतीर्थोऽपि नोऽस्माकं हृदि लसन् वचसाऽऽध्यात्मिकसन्तापं निराकरोत्विति भावः ॥ विनि-कृन्ततीति ॥ ‘कृती छेदने’ इत्यस्य ‘तुदादिभ्यः शः’ इति शप्रत्यये ‘शे मुचादीनाम्’ इति नुमागमे रूपं ध्येयम् ॥ २ ॥
स्वगुरुप्रणतिपूर्वं चिकीर्षितं प्रतिजानीते-पदेति ॥ शब्दमीमांसातर्कशास्त्रज्ञानिति गुरुत्वोपपादनम् । बहु-वचनं गौरवादेव । स्वगुरुप्रभृतितदुत्तमानेकगुर्वभिप्रायं वा । यथाबोधं शिष्यबुद्धिमनतिक्रम्य । शिष्याणां यथा बोधो भवति तथेति यावत् । ग्रन्थकर्तृबोधमनतिक्रम्येति वा । तदभिप्रायानुसारेणेति यावत् । अस्मद्-बुद्ध्यनुसारेणेति वाऽर्थः । व्याकरिष्य इत्यात्मनेपदप्रयोगेण ग्रन्थप्रतिपाद्यतत्कर्त्रोः प्रीतिमात्मन्याशास्ते । ‘स्वरितञितः कर्त्रभिप्राये क्रियाफले’ इत्युक्तेः ॥ विष्णुतत्त्वविनिर्णयम् ॥ विष्णुरूपतत्त्वस्येति वा विष्णो-श्चिदचित्प्रकृत्यादिसर्वतत्त्वानां वा सर्वोत्तमत्वसत्यत्वादिरूपेण विनिर्णयो यस्मात् तं ग्रन्थमित्यर्थः ॥३॥
वाक्यार्थदीपिका
श्रीनिवासतीर्थविरचिता वाक्यार्थदीपिका
श्रीरामं हनुमत्सेव्यं श्रीकृष्णं भीमसेवितम् ।
श्रीव्यासं मध्वसंसेव्यं समस्ताभीष्टदं भजे ॥ १ ॥
श्रीमदानन्दतीर्थार्यचरणावाश्रयेऽनिशम् ।
रुद्रादिसर्वविबुधैः संसेव्याविष्टदौ सताम् ॥ २ ॥
श्रुतिक्षीराब्धिमामथ्य धीमन्दरमहीभृता ।
प्राप्ता न्यायसुधा येन तं जयेन्द्रमहं भजे ॥ ३ ॥
रघूत्तममुनीन् वन्दे तच्छिष्यानमलात्मकान् ।
छान्दोग्यभाष्यसट्टीकाकर्तॄन् वेदेशयोगिनः ॥ ४ ॥
वेदेशमुनिसत्पादसेवासम्प्राप्तवैभवान् ।
यादवार्यान् वरसुधाटीकाकारान् वयं नुमः ॥ ५ ॥
यैरहं शुकवत् सम्यक्छिक्षितोऽस्मि कृपालुभिः ।
तान् वन्दे यादवाचार्यान् सदा विद्यागुरून् मम ॥ ६ ॥
अथैतत्कृपया श्रीनिवासेन विदुषा हरेः ।
तत्त्वनिर्णयटीकाया व्याख्यानं क्रियते मया ॥ ७ ॥
बुधैरपि सुदुर्बोधे ग्रन्थे यन्मम साहसम् ।
तत् पारयन्तु निपुणा गुरुपादरजःकणाः ॥ ८ ॥
सर्वज्ञकल्पाष्टीकाकारा जयतीर्थश्रीमच्चरणाः स्वचिकीर्षितग्रन्थस्य निर्विघ्नपरिसमाप्त्याद्यर्थं स्वेष्टदेवतानमन-रूपं मङ्गल कृत्वा शिष्यशिक्षार्थं ग्रन्थादावुपनिबध्नन्ति- विश्वस्येति ॥ उत्तमपुरुषप्रयोगादेवाहमिति कर्ता लभ्यते । अहं रमावल्लभं वन्द इति क्रियाकारकसम्बन्धः । ग्रन्थस्य वाङ्मानसव्यापारत्वाद्रमायाश्च वाङ्मनस-देवतात्वादवश्यं सा वन्दनीया । सा च पृथक् न वन्दनीया । ‘क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम्’ इति पृथक् तद्वन्दनस्य निषिद्धत्वात् । अतो भगवद्विशेषणत्वेनैव वन्दनीयेत्याशयेन रमावल्लभमित्युक्तम् । न देवतावन्दनं व्यसनितया क्रियते, किन्तु विघ्नविघातादिप्रयोजनोद्देशेनैव । तथाविधैव च देवता तस्येश्व्े या विशिष्टेष्टाऽधिकृता च । तादृशश्च भगवान् रमावल्लभ इत्यभिप्रायेणोक्तं देवमिति । पतिं पालकम् । क्रीडादिगुणविशिष्टत्वार्थकदेवत्व-पितृत्वपतित्वाद्युक्त्या सर्वोत्तमत्वापरपर्यायविशिष्टत्वम् । गुरुतमत्वोक्त्या इष्टत्वम् । सौख्याप्तीतरहानि-साधनवक्तृरूपगुरोरेवेष्टत्वात् । ‘देवशब्दो देवतापर्यायः प्रतिपाद्यमाह’ इति गीताभाष्यटीकोक्तरीत्या देव-शब्देनैवाधिकृतत्वमप्युक्तं वेदितव्यम् । अन्ये तु पतिमिति पालकत्वकथनेन गुरुतममिति वेदोपदेश्व्ृत्वकथनेन च तत्प्रतिपादकागमप्रतिपाद्यत्वरूपमधिकृतत्वमुक्तमित्याहुः । देवत्वादिविशेषणचतुष्टयमेव विव्रियते विश्वस्ये-त्यादिना पादत्रयेण । तथा हि- विश्वस्य रमाब्रह्मादिसर्वजगतः, उदयं पराधीनविशेषावाप्त्यादिरूपामुत्पत्तिं, आतनोति वियदधिकरणव्युत्पाद्यावान्तरविशेषवत्तया विस्तारयति । करोतीति यावत् । तदनु उत्पत्त्यनन्तरं, (श्री.टि.) त्राणम् अन्नदानादिना पालनं, त्रैङ् पालन इति धातोः । विधत्ते करोति विपूर्वस्य धाधातोः करोत्यर्थकत्वात् । विश्वस्येत्यनुवर्तते । अनुत्पन्नस्य पालनायोगात्तदन्वित्युक्तम् । जातमात्रं प्रत्युपदेशायोगात् पालनानन्तर्यवाचकः पुनश्शब्दः । सुखमेव सौख्यं स्वार्थे ष्यञ्, स्वरूपानन्दस्तस्य आप्तिर् आविर्भावः । इतरस्य दुःखस्य, दुःखयतीति व्युत्पत्त्या तच्छब्दवाच्यलिङ्गशरीरस्य हानिर्भङ्गस्तयोः साधनं भगवत्तत्त्वम् । व्यासादिरूपेण श्रुतीर्व्यञ्जयन् शाखाभेदादिनोद्धारं कृत्वा प्रकटयन् । अलम् अतिशयेन इतरोपदेष्टृवैलक्षण्येन वक्ति उपदिशति ज्ञापयतीति यावत् । वेदानामपौरुषेयत्वाद्व्यञ्जयतीत्युक्तम् । अत्रापि विश्वस्येत्यनुवर्तते । ब्रह्मादि-सज्जनसमुदाय-स्येत्यर्थः । ब्रह्माणं प्रत्येव साक्षादुपदेशः । रुद्रादीनां तु ब्रह्मादिद्वारा भगवानेवोपदिशति । ‘अगम्य-त्वाद्धरिस्तस्मिन्नाविष्टो मुक्तिदो भवेत्’ इति वचनात् । तस्मिन्= गुर्वादावाविष्टः सन्, मुच्यतेऽनेनेति मुक्तिर्ज्ञानं तत्प्रदो भवेदिति वचनार्थः ।
॥ स्वापमिति ॥ अत्रापि विश्वस्येत्यनुवर्तते । जाग्रत्स्वप्नयोः शरीरेन्द्रियमनसामितस्ततो विक्षेपेण श्रान्तस्य विश्वस्य श्रमापहृतये श्रमापनोदाय स्वापं सुषुप्तिं प्रापयति प्रतिदिनमिति शेषः । न केवलं प्रतिदिनं किन्तु कल्पावसाने च महाप्रलये च स्वापं प्रापयतीत्यर्थः । अत्र स्वापो नाम मनआदिसर्वेन्द्रियोपरमरूपा सुषुप्तिः । सा च महाप्रलये रुद्रादीनामेव सम्भवति न तु वायोः । तस्य तदानीमपि प्रतिभातपरावरत्वेन तदीयमनो-वृत्त्युपरमाभावादिति ज्ञातव्यम् । न च तर्हि ‘सुषुप्तिसंस्थान् ब्रह्मादिकान्’ इत्युक्तिविरोध इति वाच्यम् । अतद्गुण-संविज्ञानबहुव्रीहिणा ब्रह्मादिकशब्देन रुद्रादीनामेव ग्रहणात् । नन्वेवमपि ‘सुप्तास्तत्र यतो जीवाः सर्वे ब्रह्म-शिवादिकाः’ इति वचनविरोधः । न ह्यत्रातद्गुणसंविज्ञानबहुव्रीहिर्युक्तः । तथात्वे शिवस्यापि तदभावापत्तेरिति चेन्न । छत्रिन्यायेन ब्रह्मणः सुषुप्त्युक्तेरुपचरितत्वात् । जगद्व्यापाराभावसाम्येन गौणी वा । नन्वथापि विश्व-शब्दोक्तब्रह्मादीनां कथं प्रतिदिनं सुषुप्तिः । ब्रह्मणस्तावन्नास्त्येव । अधिदैवगतानां रुद्रादितत्त्वाभिमानिदेवता-नामपि सा न सम्भवति । तथात्वे जगत्प्रवृत्तिविलयापातात् । यथोक्तमेकादशस्कन्धतात्पर्ये- ‘स्वर्गस्थानां नतु स्वापः’ इति । तस्मादेतत्कथमुच्यत इति चेत्, उच्यते । यद्यप्यधिदैवगतानां न सुषुप्तिरस्ति । अन्यथोक्तवचन-विरोधात् । तथाऽप्यध्यात्मं विद्यमानानां तत्त्वाभिमानिदेवानां जीवस्य सुषुप्त•वीषत्सुषुप्तिरस्त्येव । यथोक्तं तत्रैव- ‘एवं सुप्तावपि स्फुटम् । तदन्या देवतास्सर्वाः प्राणस्यैव वशे स्थिताः । ईषच्च सुप्तवद्यान्ति नैव मानुषजीववत्’ इति । अथवा इन्द्रादिदेवानां यदाऽर्जुनादिरूपेणोत्पत्त्या मानुषदेहप्राप्तिस्तदा तेषां सुषुप्तिरस्त्येवेति तदभिप्राये-णेदमित्यदोषः । तथा हि । महाभारते सौषुप्तिके पर्वणि सर्वेषां देवांशानां शिबिरे सुषुप्त्युक्तेरित्यवगन्तव्यम् ।
अत्र विश्वोदयादिकर्तृत्वोक्त्या देवत्वं विवृतम् । तथा हि । ‘दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिस्वप्नमोद-मदकान्तिगतिषु’ इति क्रीडार्थकाद्दिव्धातोः कर्तरि ‘नन्दिग्रहि’ इत्यादिसूत्रेण पचाद्यच्प्रत्यये ‘पुगन्तलघूपधस्य च’ इति लघूपधगुणे च सति निष्पन्नस्य देवशब्दस्य क्रीडाकर्तृवाचित्वात्सृष्ट्यादेश्च क्रीडारूपत्वात् । सौख्याप्तीतर-हानिसाधनभूतभगवत्स्वरूपज्ञापकत्वोक्त्याऽपि देवत्वं विवृतम् । तथा हि । गत्यर्थकाद्दिव्धातोरन्तर्णीत-(श्री.टि.) ण्यर्थात्कर्तर्यच्प्रत्यये सति निष्पन्नस्य देवशब्दस्य ज्ञापकत्वार्थकत्वात् । सौख्याप्तीतरहानिसाधनेत्यस्य योग्यतया लाभः । स्वापप्रापकत्वोक्त्याऽपि देवत्वमेव विवृतम् । तथा हि । ‘स्वप्नः सुषुप्तिरित्याख्या’ इति वचनात् सुप्त्यपरपर्यायस्वप्नार्थकाद्दिव्धातोरन्तर्णीतण्यर्थात्कर्तर्यच्प्रत्यये सति निष्पन्नस्य देवशब्दस्य स्वाप-प्रापणार्थकत्वात् । विश्वोत्पत्तिकर्तृत्वोक्त्या पितृत्वं, त्राणकर्तृत्वोक्त्या पालकत्वापरपर्यायं पतित्वं, सौख्याप्तीतर-हानिसाधनत्वोक्त्या गुरुत्वं च विवृतं ज्ञातव्यम् । हिताहितप्राप्तिपरिहारोपदेष्टुरेव गुरुत्वात् सौख्यस्यैव हितत्वाद् इतरस्यैवाहितत्वात् । अलं वक्तीत्युक्त्या गुरुतममिति तमबर्थो विवृत इति सर्वमनवद्यम् ॥ १ ॥
अथ व्याचिख्यासितमूलकृत्त्वोपाधिना पूर्णबोधान् प्रसिद्धचन्द्रवैलक्षण्येन प्रार्थयते- लसत्विति ॥ प्रसिद्धेन्दु-राकाशे लसति, अयं तु हृदम्बर इति ततो वैलक्षण्यम् ॥ यद्वचश्चन्द्रिकेति ॥ यस्य श्रीमदानन्दतीर्थेन्दोर्वचन-लक्षणचन्द्रिका स्वान्तसन्तापं ‘स्वान्तं हृन्मानसं मनः’ इत्यभिधानान्मनोनिष्ठकामादिकृतसन्तापं विनिकृन्तति छिनत्ति । प्रसिद्धेन्दुस्तु बाह्यसन्तापमेवेत्यतोऽपि वैलक्षण्यमित्यर्थः ॥ २ ॥
‘यथा देवे तथा गुरौ’ इति शास्त्रमर्यादासंरक्षणार्थं कृतं गुरुप्रणाममुपनिबधन्न् स्वचिकीर्षितं प्रतिजानीते- पदवाक्येति ॥ पदं महाव्याकरणं, वाक्यं वार्तिकं, सूत्रव्याख्यानात्मकश्लोकरूपानुव्याख्यानं, प्रमाणं ब्रह्म-तर्कादि । गुरून् अक्षोभ्यतीर्थश्रीमच्चरणान् । विष्णोस्तत्त्वं विशेषेण निर्णीयतेऽनेनेति करणव्युत्पत्त्या, विष्णोस्तत्त्वं विष्णुतत्त्वं तस्य निर्णयो यस्मादिति व्यधिकरणबहुव्रीहिणा वा विष्णुतत्त्वविनिर्णयशब्दवाच्यं प्रकरणम् । ‘आनन्दतीर्थभगवद्वचसां विशिष्टव्याख्यानकर्मणि सुरा ह्यधिकारिणोऽत्र’ इत्यनेन सुराणामेवाधिकारस्यान्ते स्वयमेवोक्तत्वादत्र पुनस्तद्व्याख्यानकरणप्रतिज्ञाने कथं न स्वव्याहतिरित्यत उक्तम्- यथाबोधमिति ॥३॥
विषमपदवाक्यार्थविवृतिः
श्रीपाण्डुरङ्गिकेशवभट्टारकविरचिता विषमपदवाक्यार्थविवृतिर्
नत्वा श्रीशं गुरून् सर्वान् गुरुराजोक्तमार्गतः ।
तत्त्वनिर्णयटीकाया भावं वक्ष्ये यथामति ॥ १ ॥
निर्विघ्नपरिसमाप्त्यादिसाधनमविगीतशिष्टाचारपरम्पराद्यवगतं विशिष्टेष्टदेवतानतिस्तुतिरूपं मङ्गल…..१ शिष्यशिक्षायै ग्रन्थादौ निबध्नाति- विश्वस्येति ॥ अत्र रमावल्लभं वन्द इत्यन्वयः । तत्र च रमावल्लभमित्युक्त्या न विद्यन्ते अरा यस्याः सा नारा लक्ष्मीः, पतित्वेन तदयनत्वाद्वा नारायण इति आद्यपद्यगतनारायणपदाभि-प्रायव्यञ्जनेन आवश्यकसकलवाङ्मनसदेवतानमनाभावप्रयुक्तमौलिकन्यूनताशङ्का अपहस्तिता भवति । नारायणस्येव सकलवाङ्मनसदेवताया रमाया अपि ग्रन्थारम्भे अवश्यवन्दनीयता सूचिता भवतीति… ।२
ननु वन्द इति…३ कर्तृमात्रलाभेऽपि तस्य परकर्तृत्वेऽप्युपपत्त्या स्वमात्रकर्तृकत्वालाभात् स्वमात्रकर्तृकत्व-समर्पकाहमित्यनुक्त्या न्यूनत्वमिति चेत् । अत्र केचित् । अहमित्यध्याहारात्तत्सिद्धिरिति । तन्न । ‘अस्मद्युत्तमः’ इत्यादौ युष्मद्युपपदे मध्यम एव न प्रथमोत्तमौ, शेषे प्रथम एव न मध्यमोत्तमौ, इत्येवमा-कारोपपदनियमविवक्षायां युष्मदो मध्यमेन, शेषस्य प्रथमेन नियमितत्वेन उत्तमपुरुषाप्राप्त्यापत्त्या स्वनियमि-तास्मद एव उपपदत्वमार्थिकमिति उत्तमपुरुषप्रयोगादेव अस्मदर्थलाभः । अन्यथा उपपदनियमे शेषग्रहणा-नर्थक्यप्रसङ्गात् । शेषग्रहणं कुर्वतः सूत्रकारस्य….१ युष्मद्येव मध्यमो ऽस्मद्येव उत्तमः शेष एव प्रथम इत्येवमाकारपुरुषनियमस्य विवक्षिततया उत्तमपुरुषस्य अस्मदर्थं विना असम्भवात् तद्बलेन साक्षाच्च अहमित्यस्य लाभसम्भवेन निराकाङ्क्षत्वात् साकाङ्क्षत्वप्रयुक्ताध्याहारकल्पनायोगात् । उभयथा लाभेऽपि अध्याहारे गौरवमनध्याहारे लाघवमित्यर्थसूचकः ‘उत्तमपुरुषप्रयोगादेव अहमिति लभ्यते’ इति सुधास्थैवकारविरोधाच्च । तस्मादुत्तमपुरुषप्रयोगादेव अहमित्यस्य लाभान् न तदनुक्तिर्न्यूनत्वापादिकेत्येव तत्त्वम् ।
ननु रमावल्लभस्य कुतो वन्द्यत्वमित्यतः विशिष्टत्वेष्टत्वाधिकृतत्वानां वन्द्यत्वप्रयोजकानां तस्मिन्नेव भावाद् युक्तं तदिति भावेन तत्प्रदर्शनाय देवमित्यादिविशेषणचतुष्टयं प्रयुक्तम् । तत्र वन्द्यत्वप्रयोजकविशिष्टत्वाधि-कृतत्वयोः सङ्कीर्तनं देवमिति । देवशब्दस्य क्रीडादिगुणवैशिष्ट्यवाचित्वात् । ‘देवशब्दो देवताशब्दपर्यायः प्रतिपाद्यमाह’ इति गीताभाष्यटीकोक्तरीत्या प्रतिपाद्यार्थत्वाच्च तस्य तदुभयसङ्कीर्तनत्वमिति ज्ञेयम् । वन्द्यत्व-प्रयोजकेष्टत्वप्रतिपादनाय पितरं पतिं गुरुतममिति विशेषणत्रयम् । एतद्विशेषणचतुष्टयविवरणपरं विश्वस्येत्यादि-वाक्यचतुश्व्यं योग्यतानुसारेण ज्ञेयम् । तत्र देवमित्यस्य विवरणं स्वापं प्रापयतीति विशेषणम् । स्वापपदोक्तस्य संहारस्य क्रीडारूपत्वाद् देवत्वोपपादकत्वमुपपन्नम् । विश्वान्तर्गतस्वोत्पादकत्वस्यापि प्राप्तेः पितृत्वादि-प्रयुक्तवन्द्यत्वप्रयोजकेष्टत्वलाभात्… ।२ स्वं प्रति वन्द्यत्ववद् देवपदसूचितविश्वसंहारकारणत्वेन विश्वान्तर्गत-स्वसंहारकत्वस्यापि प्राप्त्या तत्प्रयुक्तद्वेष्यत्वापत्त्या अवन्द्यत्वमपि स्यादित्यत उक्तम्- श्रमापहृतय इति ॥ तथा च यः कल्पावसाने श्रमापहृतये स्वर्गनरककर्मभूमिप्राप्तिसाधनगतागतप्रयुक्तश्रमापहाराय स्वापं मनसो बहिरिन्द्रियाणाञ्च स्वस्वविषयसञ्चाररूपोपप्लवोपरमरूपत्वात् स्वापशब्दार्थं संहारं प्रापयन्नप्यसौ मातृवन्न द्वेष्यः, किन्तु तद्वत् हितकारित्वाद् वन्दनीय एवेति भावः । पितरमित्यस्य विवरणं विश्वस्योदयमातनोतीति । विश्वोत्पाद-कत्वाद् रमावल्लभस्य युक्तं विश्वान्तर्गतस्वपितृत्वमित्युक्तं भवति । पतिमित्यस्य विवरणं तदनु त्राणं विधत्त इति । अत्र विश्वस्येत्यनुवर्तनीयम् । सृष्ट्यनन्तरमेव स्थितिव्यापारः न तु तत्समानकाल इतीममर्थं द्योतयितुं तदनु इति । गुरुतममित्यस्य विवरणं सौख्याप्तीतरहानिसाधनमलं वक्तीति । पुनःशब्दो न सृष्टिस्थित्योरिव अनयोः पूर्वापरीभाव इति ज्ञापनार्थः । सुखमेव सौख्यं स्वार्थे ष्यञ् । सौख्यस्य स्वरूपानन्दस्य आप्तिर् आविर्भावः । इतरस्य लिङ्गदेहादेर् हानिः, तयोः साधनं वक्तीति । तमपो विवरणम्, अलमिति । तथा च तस्य अलं वक्तीति वा अलं व्यञ्जयन्निति वा अन्वयसूचनेन मोक्षदातृत्वं ज्ञानदातृत्वञ्चोक्तं भवति । तथा (पां.टि.) सौख्याप्तेर् इतरस्य दुःखादिकस्य हानिः प्राप्तिः ‘ओ हाङ् गतौ’ इति धातोस् तत्साधनम् अज्ञानं वक्तीति बन्धदत्वम् आनन्ददत्वञ्च उक्तं भवति । बन्धमोक्षदत्वोक्त्या अर्थान् नियमनकर्तृत्वस्यापि सिद्धिरिति सृष्ट्याद्यष्टकर्तृत्वं सूचितं भवति । प्रसिद्धपुरुषोपदेष्टृवत् साक्षाद् वक्तृत्वस्य बाधितत्वाद् आह - श्रुतीर्व्यञ्जय-न्निति ॥ उपवेदावान्तरवेदशाखोपशाखादिभेदेन तदर्थनिर्णायकन्यायग्रथनात्मकमीमांसाशास्त्रनिर्माणेन च श्रुतिव्यञ्जनं द्रष्टव्यम् । अनेन श्रुत्युक्त्या तस्योपदेष्टृत्वमित्युक्तं भवति । यद्वा विश्वस्योदयमातनोतीत्यादिविशेषण-चतुष्टयमपि देवत्वोपपादकं सृष्टित्राणादिसर्वव्यापाराणां क्रीडारूपत्वात् । आद्यं विशेषणत्रयं पितरमित्यादेरपि क्रमेण विवरणमिति ज्ञेयम् ।
भावबोधे तु देवमिति पदं गुरुतममित्यस्य अनन्तरं विवक्षित्वा विश्वस्योदयमित्यादीनां यथाक्रमं पितृत्वाद्युप-पादकत्वं द्रष्टव्यमित्युक्तम् । अन्ये तु वन्द्यत्वप्रयोजकेष्टत्वादिविशिष्टसूचनाय रमावल्लभमिति । रमावल्लभत्वं हि रमापरमप्रेमास्पदत्वम्, न हि ब्रह्मरुद्रादिपददात्र्याः प्रेक्षावत्याश्च तस्यास् तादृशं प्रेम तस्मिन् निर्निबन्धनं भवितु-मर्हति इति तदभिलषितस्य दाता अनेकगुणशाली इति लभ्यते । अत एव रमाया वल्लभमिति तत्पुरुष एव न तु बहुव्रीहिरिति सम्प्रदायविदः । वन्द्यत्वप्रयोजकम् अधिकृतत्वं च व्याख्येयग्रन्थप्रतिपाद्यत्वादेव सुज्ञानमिति नोक्तम् । ततश्च वन्द्यत्वप्रयोजकरूपवत्त्वाद् रमावल्लभस्यैव वन्द्यत्वसिद्धिरित्याहुः । तत्र ‘देवशब्दो देवताशब्द-पर्यायः प्रतिपाद्यमाह’ इति टीकाकारीयग्रन्थान्तरस्य देवशब्दार्थव्युत्पादनानुसारेणापि देवशब्देन प्रतिपाद्यत्वरूपस्य अधिकृतत्वस्यापि उक्तिसम्भवेन सुज्ञानतया तदनुक्तेर् अनाश्रयणीयत्वात् । प्रयोजनापेक्षया विश्वोत्पत्त्यादिकारित्वे अपूर्णत्वं, तदनपेक्षायां च न प्रेक्षावत्त्वं, प्रेक्षावत्प्रवृत्तेः प्रयोजनाविनाभूतत्वादिति शङ्कानिवारकस्यापि तस्य प्रतिपाद्यत्वरूपाधिकृतत्वसूचकताया विशिष्टेष्टत्वसूचकस्य रमावल्लभपदस्य सकलवाङ्मनसदेवतया रमया युतस्यैव हरेर् ग्रन्थारम्भे वन्द्यत्वसूचकत्वस्येव अविरुद्धत्वाच्च ।
यच्च न केवलं विशिष्टेष्टाधिकृतत्वेभ्यः रमावल्लभस्य वन्द्यत्वसिद्धिः, किन्तु पितृत्वादिरूपप्रयोजकान्तर-सद्भावादपि तस्य तत्सिद्धिरिति भावेन पितरमित्यादिविशेषणत्रयमिति व्याख्यानम् । तन्न । ‘न हि देवतावन्दनं व्यसनितया क्रियते’ इत्यादिटीकाकारीयग्रन्थान्तरस्थवन्द्यत्वप्रयोजकत्वव्युत्पादनानुसारेण विशिश्व्त्वादेस् तत्प्रयोजकत्वेऽपि विना विनिगमकं पितृत्वादेस् तत्प्रयोजकत्वाभिधानस्य अतिप्रसङ्गपराहतत्वेन अनुचित-त्वात् । पितृत्वाद्युक्त्या इष्टत्वलाभात् तस्य तत्प्रयोजकत्वाभिप्राये च न भवदभिमतप्रयोजकान्तरपरत्वसिद्धिः । इश्व्त्वरूपतत्प्रयोजकमात्रपरत्वाभिप्राये तु अस्मत्पक्षनिक्षेप एवेति दिक् ।
यदपि स्वापं प्रापयतीत्यत्र विश्वोत्पत्तिकारणस्य तस्य विश्वान्तर्गतसंहारकारणत्वस्यापि प्राप्तेः पितृत्वादि-प्रयुक्तवन्दनीयत्ववद्द्वेष्यत्वमपि स्याद् इति शङ्कोत्थापनं तदपि न । पितृत्वादेर् वन्द्यत्वप्रयोजकत्वाभावस्य प्रागेव व्युत्पादितत्वेन तदसम्भवात् ।
यद्वा नानिर्धारितस्वरूपस्य वन्दनं युक्तम् । न चान्तरेण लक्षणं वस्तुनिर्धारणम् इत्यतो विभवाद् अनेक-(पां.टि.)लक्षणोक्तिरियं देवमित्यादि । तत्र देवशब्देन क्रीडादिगुणोपलक्षितानन्तगुणत्वं प्रधानलक्षणम् । पितरमित्यादिना तु तत्सम्भावकं ‘जन्माद्यस्य यतः’ इति द्वितीयसूत्रोक्तं जगज्जन्मादिकारणत्वरूपलक्षणं सूचितमिति विवेकः ॥ १ ॥
देवताप्रणामस्येव गुरुप्रणामस्यापि अभिमतसाधनतया यस्य देवेत्यादिप्रमाणसिद्धत्वाद्देवताप्रणामानन्तरं गुरून् इन्दुत्वेन निरूपयन् प्रार्थयते- लसत्विति ॥ २ ॥
साक्षाद् गुरुप्रणतिपुरस्सरं शिष्यमनःसमाधानाय चिकीर्षितं निर्दिशति-पदेति ॥ एतच्च गुरुत्वोपपादकं विशेषणम् । अत्र पदार्थज्ञानोपायभूतं पद्यते शब्दार्थोऽनेनेति व्युत्पत्त्या व्याकरणं पदम् । वाक्यार्थज्ञानोपाय-न्यायसमर्पकं प्रमेयमीमांसाशास्त्रं वाक्यम् । उद्देशलक्षणविभागपरीक्षाभिः प्रमाणस्वरूपनिर्धारकप्रमाणमीमांसा-शास्त्रं ब्रह्मतर्काख्यं प्रमाणमुच्यत इति द्रश्व्व्यम् । व्याख्याक्रियाफलस्यालौकिकस्य भगवत्प्रसादविषयत्वस्य, लौकिकस्य ख्यात्यादेश्च कर्तृगामित्वाद् व्याकरिष्ये इति आत्मनेपदप्रयोग इति ज्ञेयम् । ननु विषयादिशून्यतया प्रकरणमेवेदमनारम्भणीयं ततश्च न व्याख्येयमित्याशङ्कां वारयितुं भगवत्पादकृताया विष्णुतत्त्व(वि)निर्णय इति ग्रन्थसञ्ज्ञायाः सर्वनामानीत्यादिवद् अन्वर्थसञ्ज्ञात्वेन विषयप्रयोजनसम्बन्धप्रतिपादनपरत्वात् तत्प्रकरणस्य आरम्भणीयत्वेन युक्तं व्याकर्तव्यत्वम् इति भावेन विष्णुतत्त्वविनिर्णयमित्युक्तम् । अत्र च विष्णोस्तत्त्वं विष्णु-तत्त्वं विष्णुतत्त्वस्य विनिर्णयो यस्मादिति गमकत्वाद् व्यधिकरणो बहुव्रीहिरित्येके । केचित्तु विष्णुतत्त्वस्य विनिर्णयो विष्णुतत्त्वविनिर्णय इति षष्ठीतत्पुरुष एव । न च ग्रन्थस्य निर्णयरूपत्वाभावात् षष्ठीसमासो बाधित इति वाच्यम् । निर्णीयतेऽनेनेति निर्णय इति निर्णयशब्दस्य करणसाधनत्वेन भावसाधनत्वानाश्रयणेनोक्त-दोषानवकाशात् । न च ‘प्रतिपदविधाना षष्ठी न समस्यते’ इति षष्ठ्याः समासः प्रतिषिध्यत इति वाच्यम् । ‘कृद्योगलक्षणा षष्ठी समस्यते’ इति प्रतिप्रसवाद् ब्रह्मजिज्ञासेत्यादाविव प्रकृतेऽपि षष्ठीसमासोपपत्तेरित्याहुः । वस्तुतः ‘अशेषविषयत्वाद् अशेषं दर्शनं यस्यासौ अशेषदर्शनः’ इति अन्यत्र टीकाकारीयोक्त्यनुसारेण अत्रापि निर्णयशब्दस्य भावसाधनत्वेऽपि विष्णुतत्त्वविषयत्वाद् विष्णुतत्त्वं निर्णयो यस्मात्स ग्रन्थस् तथोक्त इति समानाधिकरणबहुव्रीहिरेवायमिति न किञ्चिदेतत् ॥ ३ ॥
लघुप्रभा
श्रीव्यासतत्त्वज्ञविरचिता लघुप्रभा
ऋगादिवेदाप्ततमप्रणीतजयादिमानैकसुमेयरूपम् ।
क्षराक्षरातीतमहं रमेशं हरिं विदोषं गुणपूर्णमीडे ॥ १ ॥
देवदुर्गमपरार्थगभीरान् सूत्रभारतपुराणसुवेदान् ।
योऽतनोदवितथार्थनिबन्धान् नन्दितीर्थमहमन्वपि सेवे ॥ २ ॥
श्रीमदानन्दतीर्थार्यगूढभावप्रकाशकः ।
जयतीर्थाख्यतरणिर् भातु मद्धृदयाम्बरे ॥ ३ ॥
यो व्यासमुनिदावाग्निः कुमतामितकाननम् ।
भस्मीचकार सच्छास्त्रसमीरेतो रुचेऽस्तु नः ॥ ४ ॥
विजयीन्द्रयतीन्द्रार्यवागस्तु विजयाय नः ।
न वादिविजयो यस्माद्विना यदुपजीवनम् ॥ ५ ॥
पञ्चधा पितृतोपेतान् किञ्च भावितसद्गुरून् ।
गुरून् जनार्दनार्यान् स्वस्तरून् वन्दे निरन्तरम् ॥ ६ ॥
तनोमि गुरुपादोच्चव्याख्यादर्शितभावधीः ।
तत्त्वनिर्णयटीकार्थबोधनाय लघुप्रभाम् ॥ ७ ॥
इह खलु शमदमादिमतो मुमुक्षोरैहिकामुष्मिकभोगविरागवतस्तत्त्वमविदुषस्तत्त्वबुभुत्सोरधिकारिवर्गस्य तत्त्वं निश्चाययितुं भगवानान्दतीर्थमुनिस् तत्त्वनिर्णयं प्रणिनाय । तस्यापि गम्भीरतया तं व्याचिख्यासुर् जयतीर्थराजः प्रारिप्सिताविघ्नपरिसमाप्त्यादिहेतुतया विशिश्व्शिश्वनुष्ठितमिश्व्देवतानत्यादिरूपमभिमतसिद्ध्यङ्गं मङ्गल मनसा आचर्य शिष्यशासनाय आदिमग्रन्थेन ग्रथयति- विश्वस्येति ॥ अहं तं रमावल्लभं वन्द इत्यन्वयः । स क इत्याशङ्कायां तत्स्वरूपमाह- य उदयमातनोतीत्यादिना ॥ आतनोति आ समन्ताद् विस्तारयतीत्यर्थः । ओति वा । विस्तारस्य धात्वर्थत्वेऽपि वियन्नयन्यायेनोदयस्य सार्वत्रिकत्वद्योतनार्थमाङ्प्रयोगः । कस्येत्यपेक्षा-यामाह- विश्वस्येति ॥ रमाब्रह्मादिरूपचेतनात्मकप्रपञ्चस्येत्यर्थः ॥ तदन्विति ॥ उदयोपलक्षितमित्यर्थः । यद्वा उदयानन्तरमित्यर्थः ।
ननु ‘अनुर्लक्षणे’ इति सूत्रेण ‘लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः’ इति सूत्रेण वा जपमनु प्रावर्षदित्यादिवदनोः कर्म-प्रवचनीयसञ्ज्ञायां ‘कर्मप्रवचनीययुक्ते द्वितीया’ इति तत्पदे१ द्वितीयया भाव्यम् । उदयशब्दस्य च ‘एरच्’ इत्यजन्तस्य ‘घञजन्तश्च’ इति पुंलिङ्गतया तदर्थपरामर्शकतच्छब्देनापि पुंलिङ्गेन भाव्यम् । अतस् तमन्विति निर्देश्व्व्ये तदन्विति कथमचकथत् । न च ‘तस्मात्पश्चात् तदनु’ इति पश्चादर्थे ‘अव्ययं विभक्ति’ इत्यादिना अव्ययीभावाभिप्रायेणेत्थमकथीति वाच्यम् । तथा सति ‘प्रथमानिर्दिष्टं समास उपसर्जनम्’ (व्या.टि.) इति अनोरुपसर्जनसञ्ज्ञायाम् ‘उपसर्जनं पूर्वम्’ इति पूर्वनिपाते गोः पश्चादनुगु इतिवद् अनु- तदित्यनिर्दिश्य१ तदन्विति निर्देशोऽयुक्ततर इति चेत् । अत्र ब्रूमः । लक्षणार्थत्वे तावद् भूतपूर्वादिवत् सुप्समासोपपत्तिः ।
यद्वा पुमांसमनुजाता पुमनुजेतिवत् तमनु तदन्विति द्वितीयातत्पुरुषः । न च श्रितादिपरिगणनविरोधः । ‘द्वितीया’ इति सूत्रे श्रितादिषु ‘गमिगाम्यादीनामुपसङ्ख्यानम्’ इति वार्तिके आदिपदेन अन्नबुभुक्षुरित्यादेरिव ‘भूमीन्द्रजा तदनु राजसभां बभाज’ इति नैषधप्रयोगेण प्रामाणिकत्वादस्यापि ग्रहणोपपत्तेः । अथ वा अनन्तर-मित्यर्थे ‘पञ्चमी, भयेन’ इति योगविभागेन पञ्चमीसमासोऽपि युक्तः । ‘किमेत्तिङव्ययघात्’ इत्यादौ दृष्टेः । न त्वव्ययीभावः । तेन न पूर्वनिपातः । अथ वा अनुसारार्थे तस्य अनु तदन्विति षष्ठीसमासोऽपि युक्तः। यद्वा अञ्जसेतिवत् तस्मादित्यर्थे तदिति विभक्तिप्रतिरूपकमव्ययं भिन्नं पदम् । अन्वित्यस्य च पश्चादित्यर्थः ।
अथ वा तदिति नपुंसकलिङ्गं ‘सा वैश्वदेव्यामिक्षा’ इतिवत् प्रक्रंस्यमानत्राणविशेषणम् । अन्याद्वारकव्यापार-त्वेन प्रसिद्धमिति तदर्थः । उदयमिति प्रकृतमेव आवृत्त्या अन्वित्यत्रापि सम्बध्यत इति न काऽप्यनुपपत्तिः ।
॥ त्राणमिति ॥ त्रायतेर्भावे ल्युडन्तत्वं बोध्यम् । भावनिष्ठान्तत्वे तु ‘नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम्’ इति वैकल्पिकं निष्ठानत्वं बोध्यम् । पुनरित्यनन्तरार्थेऽव्ययम् । पुनर्नोवाच किञ्चनेतिवत् । यद्वा संहर्तुरसंहाराति-रिक्तपालनाभावशङ्कावारणाय समुच्चये पुनःशब्दः । अन्नदानादेः पृथक् सत्त्वात् । यथोक्तं ‘प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः’ इति ॥ सौख्याप्तीति ॥ चातुर्वर्ण्यादित्वात् स्वार्थे ष्यञिति बोध्यम् । नन्वितर-हानीत्यत्रेतरपदेन कथं दुःखमात्रबोधः । भिन्नत्वस्य केवलान्वयित्वात् प्रतियोगिविशेषस्यानुपादानात् । इतरपदस्य विरुद्धपरतामुपेत्य सौख्याप्तिपदस्य प्रतियोगिवाचितया इतरपदान्वये तस्य साधनपदेनानन्वयापत्तेः । सौख्यपदस्य आप्तिपदेनान्वितस्य एतत्पदार्थान्वितप्रतियोगिवाचित्वं तु अशक्यशङ्कम् इति चेन्न । सौख्यपदेन सौख्यस्य प्रकृतत्वेन हेयप्रतिपक्षतया योग्यत्वेनात्र इतरशब्दस्य तद्विरुद्धलाक्षणिकतया दुःखमात्रबोधोपपत्तेः । विस्तरस्त्व-स्मत्कृतगुरुप्रभायां द्रष्टव्यः ॥ अलं वक्तीति ॥ विश्वस्येति पदमत्राप्यन्वेति । ननु विश्वस्य सम्प्रदानत्वाविवक्षायां ‘अकथितं च’ इति कर्मसञ्ज्ञायां द्वितीयया भाव्यम् । सम्प्रदानत्वविवक्षायां चतुर्थ्या भाव्यमिति चेन्न । द्वितीया-विपरिणामेनान्वयात् । विश्वसम्बन्धित्वस्य साधनेऽन्वयाद्वा नानुपपत्तिः । विस्तृतमेतद् गुरुप्रभायाम् ॥ स्वापं प्रापयतीति ॥ अनुदिनमिति शेषः । विश्वस्येतिपदं सर्वत्रान्वेति ।
ननु गङ्गां प्राप्त इति ‘गत्यर्थ’ इति सूत्रे कर्तृनिष्ठान्ततयोदाहरणादिसाधकेन ‘द्वितीया श्रित’ इत्यादिसूत्रे शब्दस्वरूपग्रहणेन अर्थग्रहणाभावेन गतशब्दात् पृथक् प्राप्तपदोपादानोपपत्त्या बाधकाभावेन च आप्नोतेर् गति-विशेषार्थतया सणौ ‘गतिबुद्धि’ इत्यनेन विश्वस्य कर्मतया द्वितीयया भाव्यम् । विपरिणामस्तु ‘वर्तमाने लट्’ (व्या.टि.) इत्यतो विपरिणामसम्भवे ‘लटः शतृ’ इति पुनर्लड्ग्रहणेनायुक्त इति ज्ञाप्यत इति चेन्न । व्याकरणे अङ्गस्येत्यस्य यथायथं पञ्चम्याद्यन्ततयोत्तरत्र उत्तरमीमांसायां ‘ज्ञोऽत एव’ इत्यस्योत्तरत्र यथायथं षष्ठ्याद्यन्ततया विपरिणामेनानुवृत्तिदर्शनादत्रापि विपरिणामोपपत्तेः । ‘लटः शतृ’ इत्यत्रत्यस्य लड्ग्रहणस्य व्यर्थस्य प्रथमा-समानाधिकरणेऽपि शत्रादिज्ञापनार्थत्वात् । न चैवं ‘सं ते वातो वायुना गच्छताम्’ इत्यत्रत्यस्य गच्छता-मित्यस्याङ्गानीत्यत्र वचनविपरिमाणेनान्वयसम्भवेन ‘सं यज्ञपतिः’ इत्यत्र व्यवायान्नानुषज्यत इत्युक्ता-ननुषङ्गविरोध इति वाच्यम् । तत्र विपरिणाममुपेत्य व्यवायात्प्रत्ययमात्रस्याननुषङ्गः प्रकृतेस्त्वनुषङ्ग एवेति नवीनैरुक्तत्वात् । अधिकं तु गुरुप्रभायां द्रश्व्व्यम् । अथ वा विश्वमिति शेषो वा अङ्गीकार्यः । यद्वक्ष्यति ‘आत्माज्ञानपरिकल्पितत्वे च जगत आत्मनो भिन्नत्वेन न दृश्येत इत्यत्र जगदिति शेषः’ इति ।
॥ श्रमापहृतय इति ॥ शरीरिणां मनुष्याणां जागरावस्थायां नानाविषयसञ्चारादिना चित्तविक्षेपात् श्रान्तानां श्रमापहाराय प्रतिदिनं निद्रां प्रापयतीत्यर्थः । ‘निद्रया ह्रियते नक्तं निद्रया ह्रियते श्रमः’ इति स्मृतेरिति भावः ॥ कल्पावसाने चेति ॥ नात्र श्रमापहृतय इत्यन्वेति । प्रलयस्यातदर्थत्वात् । स्वापमित्यस्यानु-कर्षणार्थश्चकारः ।
ननु कल्पावसाने विश्वस्य स्वापः कथम् । ‘स्वापो द्विविधः स्वप्नः सुषुप्तिश्च’ इति षट्प्रश्नटीकोक्तेः, सुप्तेर् देहनाड्याद्यभावेन, स्वप्नस्य मनस उपरतत्वेन चायोगादिति चेन्न । लये विद्यमानावस्थायां सुप्त्या मानस-ज्ञानाभावसाम्येन स्वापशब्दोपपत्तेः ‘अज्ञानं सुप्तिशब्दोक्तम्’ इति तात्पर्योक्तेः । अत्र विश्वपदस्य संसारि-रुद्रादिपरत्वम्, न तु वाय्वादिपरत्वम् । ‘एवं प्रलयकालेऽपि प्रतिभातपरावरः । मुख्यवायुः’ इति अनुव्याख्या-नोक्तेः । ‘स्वरूपातिरिक्तज्ञाननित्यत्वाभिप्रायेण’ इति तत्त्वप्रकाशिकोक्तेश्च वायोरुक्तावस्थाऽयोगात् । ‘सुषुप्तिसंस्थान् ब्रह्मादिकान्’ इति तु अतद्गुणसंविज्ञानबहुव्रीहिणा ब्रह्मशब्दस्य बृहस्पतिपरत्वेन वा उपपन्नम् । ‘सुप्तास्तत्र यतो जीवाः सर्वे ब्रह्मशिवादिकाः’ इत्यैतरेयभाष्योक्तवचने ‘अंशेन सुप्तो ब्रह्मा तु’ इति तात्पर्ये च सुप्तपदं ‘सुप्तो देवो जनार्दनः’ इतिवन् निर्व्यापारत्वाभिप्रायम् । यद्वा उक्तवचनानुसारेण पूर्वोक्तवचनानुसारेण च१ बाह्यज्ञानाभावे सति मनोवृत्तिसत्त्वरूपस्वप्नसमावस्था वायोरपि । ‘स्वप्नावस्था च (सु) सदृशी ह्यवस्था सुप्तिसञ्ज्ञिता’ इति गरुडपुराणोक्तेः (अ.११,श्लो.३०) । सकृत्प्रयुक्तस्यानेकार्थत्वं तु सह्यम् । तथा च वायोरपि विश्वशब्देन ग्रहणमित्यवधेयम् । अधिकं तु गुरुप्रभायां बोद्धव्यम् ।
अधिकृतत्वेष्टत्वविशिष्टत्वगुरुतमत्वानि वन्द्यत्वप्रयोजकानि दिदर्शयिषुर् वन्द्यं विशिनष्टि- तं देवमित्या-दिना ॥ देवमिति प्रतिपाद्यत्वं, देवताशब्दपर्यायत्वात्तस्य । यथोक्तं गीताभाष्यटीकायां ‘देवताशब्दपर्यायो देवशब्दः’ इति । पितरमितीष्टत्वम् । पितुरिष्टत्वप्रसिद्धेः । पतिमिति विशिष्टत्वम् । प्रतियोगिविशेषानुपादानेन (व्या.टि.) सर्वोत्तमत्वप्राप्तेः । गुरुतममित्यतिशयितगुरुत्वम् । ‘कृग्रोरुच्च’ इति कुप्रत्यये गृणतेरुदित्यन्तादेशे रपरत्वे अतिशायने तमपि च तद्रूपसिद्धेः। तत्र देवत्वोपपादनं सौख्याप्तीतरहानिसाधनमिति । प्रथमान्तं य इत्यस्य विशेषणम् । इष्टसाधनस्यैव सर्ववेदप्रतिपाद्यत्वात् । ‘इष्टे व्युत्पत्तिरिष्यते’, ‘योगश्च स्यान्महाफले’ इत्युक्तेः । अस्मिन् पक्षे श्रुतीर्वक्तीति सम्बन्धः । हयग्रीवकपिलऋषभव्यासादिरूपेण तत्र प्रमाणत्वेन श्रुतीर्वक्तीति तदर्थः । न चात्र वचनकर्मत्वाद्वाक्यत्वं तस्मात्पौरुषेयत्वं मन्तव्यमित्याह- व्यञ्जयन्निति ॥ विपूर्वादञ्जेर् णिचि कर्तरि शतरि सुबन्तम् । प्रकटयन्निति यावत् । प्राकट्यं च पूर्वं स्थितस्यैवेति प्राक् स्थितिरुक्ता । अनेन ‘श्रुता एवापरैर्जनैः’ इति स्मारयति । एतेन ‘ऋचः सामानि जज्ञिरे’ इत्याद्युत्पत्तिश्रुतयोऽपि ‘जनी प्रादुर्भावे’ इति धात्वर्थोक्त्या ‘तदुत्पत्तिवचश्चैव भवेद्व्यक्तिमपेक्ष्य तु’ इति वक्ष्यमाणदिशा व्याख्याता वेदितव्याः । साधनमित्यस्य द्वितीयान्तत्वेऽपि साधनमात्मानं वक्तीति संयोज्यम् । तत्र कर्मत्वोक्त्या देवत्वस्य, वक्तीत्यनेन गुरुत्वस्य चोपपादनम् । श्रुतीर्व्यञ्जयन्नित्यनेन श्रुतीनामादिमवक्तेत्यर्थपरेण गुर्वनपेक्षगुरुत्वस्य असङ्कुचद्वृत्तिबहुवचनेन ‘ऋषिर्हि सर्वविद्यानां भगवान् पुरुषोत्तमः’ इति ऋग्भाष्योक्तसर्ववेदवक्तृत्वस्य चोक्त्या तमबर्थस्योपपादनं द्रश्व्व्यम् । यथोक्तं भागवते ‘नारायणाखिलगुरो’ इति । उदयमातनोतीति पितृत्वस्य, त्राणं विधत्त इति पतित्वस्य चोपपादनम् । यद्वा देवशब्दस्य, स्वप्नार्थाद् अन्तर्णीतण्यर्थाद् दीव्यतेरचि लघूपधगुणे च रूपमभिसन्धाय स्वापं प्रापयतीति देवत्वस्य विवरणम् । न च दीव्यतेर् इगुपधलक्षणः कः कस्मान्न स्यादिति वाच्यम् । कबाधनार्थमेव पचादिषु पाठेन अच एवोपपत्तेः ॥ रमावल्लभमिति ॥ सकलवाङ्मनसदेवताभूतरमायाश्चावश्यं वन्दनीयत्वेन समनानयरीत्याऽत्यन्तरङ्गताद्योतनाय तां धवविशेषणत्वेन ववन्दे । ‘परिवारतया ग्राह्या अपि हेयाः प्रधानतः’ इत्युक्तेः । ‘क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम्’ इति स्वातन्त्र्येणाव्यक्तासक्तिनिन्दनाच्च तथा वन्दनस्यैव युक्तत्वात् । वाल्लभ्यं च तामन्तरा स्त्र्यन्तरारतिमत्त्वम् । तदुक्तं तात्पर्यनिर्णये- ‘तयैवान्याः सर्वदाऽनुप्रविष्टाः’ इति ‘यदावेशो बहुलः स्याद्रमायाः’ इति च । अभिवादयामि स्तौमीति पृथग्ग्रहणमन्तरा वन्द इत्युक्तिर् लघूक्त्योभयलाभाय । तेन१ ‘अभिवादनशीलस्य’ इत्युक्तायुरादिप्राप्तिं स्तुतिसाध्यप्रसादप्राप्तिं च सूचयन् स्वस्यामहाधिकारित्वं सूचयति । यद्वक्ष्यति ‘विशिश्व्व्याख्यानकर्मणि सुरा ह्यधिकारिणोऽत्र’ इति । अत्र वन्द इति क्रियायां कर्तृविशेषलाभप्रकारस्तु ‘उत्तमपुरुषप्रयोगादेवाहमिति कर्ता लभ्यते’ इति सुधोक्तोऽवसेयः । तदर्थस्तु कर्तृविशेषवाचकपदाभावान्न न्यूनत्वम् ‘अस्मद्युत्तमः’ इति सूत्रे पुरुषनियमेनास्मदर्थस्यैव कर्तृताया लाभादिति । विस्तृतं चैतद् वाक्यार्थचन्द्रिकायाम् । अथ वा नानिर्धारितस्वरूपस्य वन्दनं युक्तम्, निर्धारणं च नान्तरेण लक्षणं सम्भवतीत्याशयवान् वैभवादनेकलक्षणान्याह- तं देवमित्यादिना ॥
देवमिति क्रीडादिगुणविशिष्टत्वं दिवु क्रीडेत्यादेः । पितरमिति स्रश्व्ृत्वम् । नन्वेतदयुक्तम् । प्रत्यक्षेण, ‘यन्मे रेतः’ इति श्रुत्या, ‘रेतःसिग्योगोऽथ’ इति सूत्रेण च विरोधाद् इति चेन्न । सञ्ज्ञामूर्तिक्लृप्त्यधिकरणे ‘विरिञ्चो (व्या.टि.) वा इदं सर्वं विरेचयति’ इति श्रुत्यवष्टम्भेन विरिञ्चस्य देहकर्तृत्वं पूर्वपक्षयित्वा ‘देहश्चैव तदुद्भवः’ इति, त्रिवृत् कुर्वत इति, हेतुगर्भ इति सिद्धान्तयद्भाष्यदिशा सूचितेन ‘सेयं देवता’ इति श्रुतिसिद्धेन ‘परो नामरूपात्मकदेहस्रष्टा त्रिवृत्कर्तृत्वात्’ इति हेतुना, ‘मामको देहः स्रष्टृसृष्टः कार्यत्वाद् घटवत्’ इति सामान्यतः स्रष्टरि सिद्धे ‘अयं पिता न स्रष्टा अस्वातन्त्र्यात्’ इति पितुस् तदभावसिद्धौ परिशेषेण ‘त्रिवृत्क्रिया यतो विष्णोः’ इति स्मृत्या अत्रत्यपितृपदसूचितया ‘यो नः पिता’ इत्यादिश्रुत्या ‘पिताऽसि लोकस्य’ इति गीतया च स्वतन्त्रेश्वरकर्तृत्वसिद्धेः । ‘स ब्रह्मणा सृजति’ इति श्रुत्यनुसारेण ब्रह्मादीनां द्वारत्वमिति टीकोक्तेर् इतरस्य द्वारमात्रत्वान् मुख्यामुख्यन्यायेन मुख्यस्यैवेश्वरस्य ग्रहणौचित्यात् । यथोक्तमनुव्याख्याने ‘देहकर्तृत्वमीशस्य ज्ञात्वा तत्पितृतास्मृतेः । विशेषस्नेहमापाद्य’ इति । पतिमिति स्वामित्वं, गुरुतममिति परमगुरुत्वम् इत्यनेकानि लक्षणानि सूचितानि । अथ वा श्रोतृशेमुषीमनुकूलयिष्यन् वक्ष्यमाणपरिच्छेदत्रयोपपाद्यविशेषणानि सङ्गृह्य तैर्विशिनश्व्-ि तं देवमित्यादिना ॥ विश्वस्येति विशेषणत्रयान्वयि । देवमिति पदेन क्रीडार्थकधातुजेन लीला-कैवल्योक्त्या निर्दोषत्वम् । सदोषस्य लीलामात्रप्रवृत्त्ययोगात् । गत्यर्थकधातुप्रकृतिकेन कर्मार्थकघञन्तेन देवतापदपर्यायेण वा तेन सदागमैकविज्ञेयत्वम् । विश्वस्य पितरं पतिमिति च ‘कर्तृत्वात् सगुणं ब्रह्म’ इत्युक्तदिशा अशेषसद्गुणत्वम् । ‘पतिं विश्वस्याऽत्मेश्वरम्’ इति श्रुतिं सूचयता पतिपदेन च विश्वपतित्वस्वातन्त्र्याशेष-सद्गुणत्वतत्तदागमविज्ञेयत्वादीनि सूचितानि । रमावल्लभमित्यनेन विशेष्यवाचिना अक्षरस्वामित्वोक्त्या क्षरातीतत्वस्यापि कैमुतिकन्यायेन लाभेन समतीतक्षराक्षरत्वमपि सूचितम् । मूले क्षराक्षरातीतत्वोक्त्या ‘गुणानां च परार्थत्वादसम्बन्धः समत्वात् स्यात्’ इत्युक्तन्यायेन क्षराक्षरयोः परस्परसाम्यशङ्का प्राप्ता । तां वारयितुं क्षरस्य ब्रह्मादेरक्षरश्रीतत्त्ववशत्वात्तदतीतत्वोक्तिमात्रेणोभयातीतत्वं लब्धमित्यभिप्रायेण टीकायां रमावल्लभ-मित्युक्तम् । यथोक्तं भगवत्पादैः सप्तमस्तोत्रे ‘ब्रह्मेशशक्ररविधर्मशशाङ्कपूर्वगीर्वाणसन्ततिरियं यदपाङ्ग-लेशम् । आश्रित्य’ इति । मूले गुरुनमनन्यूनतापरिहाराय मूलकृदभिसंहितं तदभेदं नारायणस्य सूचयितुं गुरुतम-मिति व्यशिनडिति सकलमकलङ्कम् ।
अथ वा त्रिपाद्रूपी भगवान् दिव्यपुरुषस्त्रिविक्रमोऽस्य देवता । तत्प्रतिपादकगायत्रीभाष्यत्वात् । तत्प्रतिपादिका च गायत्री । ‘त्रिपदा गायत्री’ इति श्रुतेः । अस्या अपि त्रिपदात्वात् । तद्भाष्यत्वं चास्य ‘गुणैस्ततः प्रसविता वरणीयो गुणोन्नतेः । भारतिज्ञानरूपत्वाद् भर्गो ध्येयोऽखिलैर्जनैः । प्रेरकोऽशेषबुद्धीनां स गायत्र्यर्थ ईरितः’ इति ऋग्भाष्योक्तदिशा तच्छब्दार्थवर्णनम्- निर्दोषाशेषसद्गुणमिति । वरेण्यमित्यस्यार्थवर्णनम्- समतीत-क्षराक्षरमिति । देवताशब्दपर्यायदेवशब्दार्थवर्णनम्- सदागमैकविज्ञेयमिति । यद्वा वरेण्यमित्यस्यसदागमैक-विज्ञेयमिति । सवितृपदस्य सवितृत्वार्थकस्यार्थवर्णनम्- समतीतक्षराक्षरमिति । भारतिज्ञानार्थस्य भर्गशब्द-स्योपलक्षणाभिप्रायेणाशेषसद्गुणत्वोक्तिरिति गुणत्रयं परिच्छेदत्रयप्रतिपाद्यम् । अतः परिच्छेदत्रयरूपस्यास्य (व्या.टि.) गायत्रीभाष्यत्वं सिद्धम् । अत एव श्रीमदानन्दतीर्थश्रीमच्चरणैर् गायत्रीवर्णैः१ तत्सवर्णैरेवाऽद्य-पद्यविन्यासः कृतः । तद्देवतानामादिमवर्णेन प्रारम्भस् तदन्तिमतकारेण ग्रन्थसमाप्तिश्च ‘नमो नारायणाय ते’ इति तथा ‘नारायणम्’ इति तद्ध्येयमूर्तिकीर्तिश्चेति । यथा मीमांसाशास्त्रं सर्वशाखानिर्णायकं विश्वतोमुखत्वात्तथेदं प्रकरणमपि तदेकदेशसम्बद्धत्वाद् वेदैकदेशगायत्रीनिर्णायकं तत्सरूपत्वात् । तथा ‘अथ वा पञ्चमूर्तिः सः’ इत्यनुव्याख्याने सूत्रप्रतिपाद्यतयोक्तपञ्चमूर्तिमध्यपतितनारायणप्रतिपादकम् ।
‘सज्जनसंविदे’ इत्युक्तं त्रैगुण्यज्ञानस्य मोक्षहेतुत्वं ‘सर्वदोषविहीनत्वं गुणैः सर्वैरुदीर्णता’ इत्याद्यागम-सिद्धम् । एवं पदेऽपि स्वारस्यमवगन्तव्यम् ।
यथा मोक्षशास्त्रत्वाद् ब्रह्मतन्त्रस्य प्रणवपूर्वकत्वं, यथा वा गायत्र्या ब्रह्मविद्यात्वात् तत्पदपूर्वकत्वं तथा अस्यापि ग्रन्थस्य गायत्रीभाष्यत्वाद् ब्रह्मतन्त्रैकदेशत्वाच्च ‘सत्’ पदपूर्वत्वम् । त्रयाणामपि ब्रह्मनामत्व-साम्यात् । यथोक्तं गीतायाम्- ‘ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः’ इति । ‘ॐ इति ब्रह्म’ इतिवत् ‘तदिति वा एतस्य’ इति श्रुतिवच्च स्मृतेरपि तत्समकक्षतया सच्छब्दग्रहणेन नामत्वोक्त्या शक्तिनिश्चायक-त्वात् । एवं चास्य ब्रह्मनाम्नोपक्रमात् ‘ते’ इत्यन्ते ब्रह्मणः प्रत्यक्षनिर्देशाच्च ब्रह्मविद्यात्वं सिद्धम् । एवं च यथा अग्न्यर्थस्यापि प्रणवादेः ‘वैश्वानरः प्रथमा मात्रा’ इत्यवयवशो वैश्वानरादिमूर्तिकतया सर्वप्रह्वांहो-दाहकतया श्रुतितो माङ्गलिकत्वं, यथा वा ‘अग्निर्मुखम्’ इति श्रुत्या गायत्रीतत्पदस्य अग्निवाचित्वेन जामदग्न्यमूर्तिकतया माङ्गलिकत्वं, तथा सच्छब्दस्य साधुभावार्थकत्वेन मङ्गलार्थस्य माङ्गलिकत्वादादिमत्वं मन्तव्यमित्यभिप्रेत्य टीकाचार्यः स्वयमपि तत्प्रतिपादनाय तदीयशब्दानर्थांश्च प्रत्यभिज्ञापयति- तं देवमित्यादिना ॥ तत्र ‘तम्’ इत्यनेन तच्छब्दस्य, देवम् इत्यनेन देवस्येत्यत्रत्यप्रातिपदिकस्य ‘पितरम्’ इत्यनेन सवितुरित्युक्तप्रसवितृत्वार्थस्य गुरुतममित्यनेन ‘धियो यो नः प्रचोदयात्’ इत्युक्तार्थस्य ‘रमावल्लभम्’ इत्यनेन प्रतियोगिविशेषोपादानेन वरेण्यमित्यस्य ‘वन्दे’ इत्यनेन ध्यानवन्दनयोर् मनोवृत्तिविशेषत्वाद् धीमहि इत्यस्य प्रत्यभिज्ञापनम् । इतराणि तदुपपादकानीति रहस्यतमं मात्सर्यमुत्सार्य सुधीभिराकलनीयमित्याद्यपद्यमनवद्यम् ॥ १ ॥
देवानां विष्णुचोदिते ज्ञानदानकर्मणि मुख्याधिकारित्वात्तत्रापि देवोत्तमस्य ब्रह्मणो ‘गुरुर्ब्रह्माखिलानां च’ (व्या.टि.) इति जगद्गुरुत्वेनोक्त्या ‘एतैरुपायैर्यतते यस्तु विद्वान् तस्यैष आत्मा विशते ब्रह्मधाम’ इति श्रुत्या च मुख्यतमत्वात् प्राणस्य च ‘वायुरसि प्राणो नाम’ इति प्राणं प्रकृत्य ‘धातुराधिपत्ये’ इति श्रुतब्रह्मभावत्वेन तादृक्त्वात् तत्सन्निधानस्य च ‘आचार्यो ब्रह्मणो मूर्तिः’ इति स्मृत्या व्याख्यातृस्थत्वावगमाद् व्याख्यातृत्वस्य च ‘सहकार्यन्तरविधिः’ इति सूत्रोक्तदिशा तत्सहकारित्वार्थत्वात् तस्य च सेवारूपतया अवश्यं सम्पाद्यत्वात् तत्प्रयोजकं तत्सन्निधानमभीप्सुः प्राणावतारत्वाद्व्याचिख्यासितग्रन्थनिर्मातृत्वेनानुग्राहकत्वाच्चाऽनन्दितीर्थमुनेस् तद्ग्रन्थं व्याचिख्यासुर् जयतीर्थश्रीमच्चरण आत्मनीने मनसि तत्सन्निधिं नाथयति- लसत्विति ॥ भासताम् । लस श्लेषणक्रीडनयोरिति धातोः श्लिष्यतु क्रीडतां वा इत्यर्थः । श्रीरस्यास्तीति श्रीमान्, श्रीशब्दश्च वेदवचनः । यथाऽऽह वेदः ‘ऋचः सामानि यजूंषि । सा हि श्रीरमृता सताम्’ इति । भूमार्थोऽयं मतुप् । ‘भूमनिन्दाप्रशंसासु भवन्ति मतुबादयः’ इत्युक्तेः । अनन्तशाखाद्रश्व्ेत्यर्थः । तेन तद्वचसो ऽतिविश्वसनीयत्वं सूचयति । आनन्दतीर्थ इन्दुरिवेत्युपमितसमासः ।
ननु ‘उपमितं व्याघ्रादिभिः सामान्याप्रयोगे’ इति सामान्यधर्माप्रयोगे समासविधानात् । अत एव व्याघ्रादे-राकृतिगणत्वादेव सिद्धे ‘वृन्दारकनागकुञ्जरैः पूज्यमानम् इत्यादिसामान्यप्रयोगार्थम्’ इत्युक्तं सिद्धान्तकौमु-द्याम् । इह तूपमानोपमेयसाधारणचन्द्रिकावत्त्वाम्बरसञ्चारादिसाधारणधर्मोक्तेः कथं समास इति चेत् । मैवं वोचः । ‘भाष्याब्धिः क्वातिगम्भीरः’ इति कैयटीयप्रयोगात् सामान्यप्रयोगेऽपि समासः साधुः । अत्र गाम्भीर्यं साधारणधर्मत्वेन न विवक्षितं, किन्तु विततत्वदुरवगाहित्वादि, तच्च न प्रयुक्तमिति समाधानं तु न सम्यक् । स्वरसप्रतीतिविरोधात् । शूरत्वस्यापि साधारणधर्मत्वेनाविवक्षायां पुरुषो व्याघ्र इव शूर इत्यादावपि समासोप-पत्तेश्च । तेनोपमालङ्कारः, ताद्रूप्यविवक्षया रूपकं वा ।
न इति ॥ अस्माकमित्यर्थः । ‘अस्मदो द्वयोश्च’ इति बहुवचनम् । हृदम्बर इति ॥ मनोनभसीत्यर्थः ‘स्वान्तं हृन्मानसं मनः’ इत्यभिधानात् । वचश्चन्द्रिकेति पूर्ववत् । स्वान्तसन्तापमिति ॥ ‘क्षुब्धस्वान्त-ध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमस्सक्ताविस्पष्टस्वरानायासभृशेषु’ इति मनसि स्वान्तेति निपातः । अत्र वर्ण्यस्योपमानाधिक्यपूर्वं ताद्रूप्योक्त्या आद्यं रूपकमर्थालङ्कारः । तल्लक्षणोदाहरणे सुधीन्द्र-तीर्थश्रीपादैरलङ्कारमञ्जर्यां-‘रूपकं तद्विषयिणाभेदताद्रूप्ययोः क्रमात् । विषये रञ्जनं त्रेधाऽऽधिक्यन्यूनसम-त्वतः । चन्द्रो जयीन्द्रो नित्यर्धिरनभ्रगतिरुत्कलः’ इति दर्शिते । अन्यत्र च ‘विषय्यभेदताद्रूप्यरञ्जनं विषयस्य यत् । रूपकं तत्त्रिधाऽऽधिक्यन्यूनत्वानुभयोक्तिभिः ॥’ ‘अयं हि धूर्जटिः साक्षाद् येन दग्धाः पुरः क्षणात्’ इति । अत्र स्वान्तसन्तापमिति तकारावृत्त्या वृत्त्यनुप्रासनामा शब्दालङ्कारः । तल्लक्षणोदाहरणे अलङ्कारमञ्जर्यां- ‘वृत्त्यनुप्रास एकस्याप्यावृत्तिरसकृद्यदा । विजयीन्द्रो विलोलाक्षीवीक्षणाक्षतहृत्क्षितौ’ इति । अलङ्कारचूडामणौ च- ‘वृत्त्यनुप्रास एकानेकावृत्तौ नन्दनन्दनः’ इति ॥ विनिकृन्ततीति ॥ कृती छेदने । अस्य तौदादिकत्वात् शः । ‘शे मुचादीनाम्’ इति नुमागम इति बोध्यम् । इति द्वितीयं पद्यमनवद्यम् ॥ २ ॥
लघुप्रभा
‘यस्य देवे परा भक्तिः’ इति श्रुतौ विष्णौ सर्वोत्कृष्टभक्तेर् ब्रह्मादिदेवेषु यथाक्रमभक्तेर् गुरौ च भक्तेः कर्तव्यत्वेनोक्तेस्तदनुरोधेन देवप्रणामानन्तरं गुरून् प्रणमति- पदेति ॥ पद्यते गम्यते अर्थोऽनेनेति पदं व्याकरणम् । वाक्यं मीमांसा । ‘पदं व्याकरणं प्रोक्तं मीमांसा वाक्यमेव च’ इति साम्प्रदायिकोक्तेः । सा च त्रिविधा । ‘मीमांसा त्रिविधा ज्ञेया दैवी ब्राह्मी च कार्मिकी’ इति गीतातात्पर्यनिर्णयोक्तेः । वार्तिकमिति केचित् । तन्न शोभते । अल्पत्वात् । पदपदेन पुनरुक्तेश्च । प्रमाणविषयत्वात् प्रमाणं ब्रह्मतर्कः । यथोक्त-मनुव्याख्याने- ‘मानन्यायैस्तु तत्सिद्धेः’ इति । तानि जानन्तीति तथोक्ताः । इगुपधेति कः ॥ प्रणम्येति ॥ भक्तिश्रद्धातिशयपूर्वकत्वं प्रकर्षः । तादृश एव हि प्रणामो भवत्यभिमतसिद्धेरङ्गम् । शिरसेत्युपलक्षणया साष्टाङ्गत्वं द्योतयति । तादृशस्यैव हि प्रणामस्य ‘तद्विद्धि प्रणिपातेन’ इति गुर्वतिप्रीतिहेतुत्वेन कर्तव्यत्वोक्तेः । व्याकरिष्य इत्यात्मनेपदेन ‘य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति’ इत्युपक्रम्य ‘मामेवैष्यति’ इत्युक्तं भगवत्प्राप्तिलक्षणं फल ‘व्याख्यैकस्य शतोत्तरा’ इति तन्त्रसारोक्तं भगवत्पूजाधिक्यं फल चाऽत्मगामीति सूचयति- यथाबोध-मिति ॥ ‘यथाऽसादृश्ये’ इत्यनतिक्रमेऽव्ययीभावः । तेन ख्यात्यर्थमबुद्धव्याख्यानं वारयति । शिष्यमत्यनुकूलनं वा तदर्थः ॥ विष्णुतत्त्वेति ॥ निर्णीयतेऽनेनेति निर्णयो ग्रन्थः । ‘निर्णयः सर्वशास्त्राणां भारतम्’ इतिवत् । निरुपपदान् नयतेः ‘पुंसि सञ्ज्ञायां घः प्रायेण’ इति करणे घ इति बोध्यम् । (सूत्रे प्रायेण इति नास्ति) । ‘एरच्’ इत्यज्वा । विष्णुतत्त्वविनिर्णय इत्यत्र ‘कर्तृकर्मणोः कृति’ इति षष्ठी । तस्यास्समासः । न च ‘कर्मणि च’ इति प्रतिषेधः । तत्र चशब्दस्य इतिशब्दार्थकतया कर्मणीतिपदयुक्तेन ‘उभयप्राप्तौ कर्मणि’ इति सूत्रेण प्राप्ताया एव समासनिषेधात्, नापि ‘प्रतिपदविधाना’ इत्यनेन निषेधः । ‘कृद्योगलक्षणा षष्ठी समस्यते’ इति प्रतिप्रसवाद्् ‘व्यासकृतिः’ ‘भारतश्रवणम्’ इतिवत् ।
केचित्तु, विष्णुतत्त्वविषयत्वाद् विष्णुतत्त्वं निर्णयो यस्मादिति ‘स्वतन्त्रोऽशेषदर्शनः’ इत्यत्रेव समानाधि-करणबहुव्रीहिमिच्छन्ति । अपरे तु, विष्णुतत्त्वस्य निर्णयो यस्मादिति व्यधिकरणबहुव्रीहिमास्थिषत । केचित्तु विष्णोस्तत्त्वं विशेषेण निर्णीयतेऽनेनेति व्यधिकरणबहुव्रीहिणा तत्त्वविनिर्णयशब्दवाच्यं प्रकरणमिति वदन्ति । तत्र करणव्युत्पत्तिं प्रदर्श्य बहुव्रीह्युपन्यासोऽतिसाहसः । अत्र यथाबोधमिति बोधानतिक्रमाभ्यां वक्तव्यतत्त्वज्ञानाविप्रलिप्से, व्याकरिष्य इति व्याक्रियाप्रतिज्ञया पटुकरणत्वव्याचिख्यासे च सूचयता स्वस्य गुणचतुष्टयरूपाप्तिं सूचयता तत्त्वनिर्णयमिति स्वव्याख्येयग्रन्थनामि्न निर्णयपदेन युक्तिमूलत्वं तत्त्वपदेन प्रमेयवाचिना श्रुतिमूलत्वं च मूलस्य सूचयता ‘आप्तवाक्यतया तेन’ इत्युक्तत्रिविधप्रामाण्यं शास्त्रस्येव व्याख्यानस्यापि स्वकृतस्य बोध्यमिति सूचितम् । एवं विष्णुतत्त्वविनिर्णय इति व्याख्येयनामकीर्तनेन व्याख्येयस्य निश्चितप्रामाण्यकमीमांसाशास्त्रेणैकार्थ्यं सूचयता तद्व्याख्यानरूपस्वग्रन्थस्य प्रामाण्यं सूचितम् । नामकीर्तनेन मीमांसयैकार्थ्यसूचनं च विष्णुब्रह्मशब्दयोः पर्यायत्वाद् जिज्ञासानिर्णयशब्दयोः पर्यायत्वात् स्फुटं चैतत्प्रकरणस्य शास्त्रेणैकार्थ्यम् । तथा हि । शास्त्रयोनिसूत्रे यत्सदागमैकप्रमाणकत्वं प्रत्यपादि यथाऽऽह भाष्यकारः सङ्क्षेपे (व्या.टि.) ‘आगमोदितः’ इति तदत्राऽद्यविशेषणेन सञ्जग्राह । यच्च वियत्पादे रमाब्रह्माद्युत्पत्तिकथनेन समतीतक्षराक्षरत्वं तदत्र द्वितीयेन । यच्चाऽद्याध्यायेऽशेषसद्गुणत्वं- ‘शब्दैरतोऽनन्तगुणो यच्छब्दा योगवृत्तयः’ इति- तदत्राशेषसद्गुणमिति । यच्च द्वितीये निर्दोषत्वमुक्तं- ‘सर्वदोषोज्झितस्तस्मात्’ इति तदत्रापि निर्दोषेति । तेन विशिष्टव्याख्यातुः स्वस्य सुरोत्तमत्वं सूचितमिति वेदितव्यम् । यद्वक्ष्यति ‘विशिष्टव्याख्यानकर्मणि सुरा ह्यधिकारिणोऽत्र’ इति तृतीयं पद्यमनवद्यम् ॥ ३ ॥
तत्त्वमञ्जरी
‘‘सदागमैकविज्ञेयं समतीतक्षराक्षरम् ।
नारायणं सदा वन्दे निर्दोषाशेषसद्गुणम् ॥’’
इतीश्व्देवतामभिवन्दते शिश्वचारपरिपालनाद्यर्थम् । सदागमा निर्दोषागमाः । दोषास्त्व-ज्ञानमूलत्वादयः । सदागमैरेकविज्ञेयं प्रधानविज्ञेयम् । यद्यपि सदागमैः कर्मदेवतादिकमपि विज्ञेयम् । तथाऽपि तत्र महातात्पर्याभावान्नारायण एव मुख्यज्ञेय इत्यर्थः । अथवा, सर्वचेतना-चेतनेभ्य एकत्वेन मुख्यत्वेन विज्ञेयम् । एकशब्दः प्रधानेऽपि प्रसिद्धः - ‘एकः प्रधान उद्दिष्टः’ इति । अथवा, सदागमेनैकेनैव विज्ञेयम्; न तु दुरागमेन । नापि सदागमाननुगृहीतप्रत्यक्षानु-मानाभ्याम् । तयोराभासत्वनियमात् । निर्दोषश्चायमशेषसद्गुणश्चेति । अशेषाः पूर्णाः ।