वर्जितः सर्वदोषैर्यो गुणसर्वस्वमूर्तिमान्
तृतीयः परिच्छेदः
वर्जितः सर्वदोषैर्यो गुणसर्वस्वमूर्तिमान् । स्वतन्त्रो यद्वशाः सर्वे स विष्णुः परमो मतः ॥" इति परमोपनिषदि ।
नित्यपूर्णाखलिगुणो विदोषः सर्वदैव यः । स्वतन्त्रः परमो विष्णुर्जन्ममृत्यादिवर्जितः ॥
नारद उवाच ।
निर्दोषश्चेत् कथं विष्णुर्मानुषेषूदपद्यत । चिन्ताश्रमव्रणाज्ञानदुःखयुग् दृश्यते कथम् ॥
एष मे संशयो ब्रह्मन् हृदि शल्य इवार्पितः । अनुद्धार्योपरैर्मत्यैः सूक्तिशक्त्या तमुद्धर ॥
ब्रह्मोवाच ।
स्त्रीपुंमलाभियोगात्मदेहो विष्णोर्न जायते । किन्तु निर्दोषचैतन्यसुखां नित्यां स्वकां तनुम् ॥
प्रकाशयति सैवेयं जनिर्विष्णोर्न चापरा । तथाप्यसुरमोहाय परेषां च क्वचित् क्वचित् ॥
दुःखाज्ञानभ्रमादीन् स दर्शयेच्छुद्धसद्गुणः । क्व व्रणादि क्व चाज्ञानं स्वतन्त्राचिन्त्यसद्गुणे ॥
दोर्लभ्यायैव मौक्षस्य दर्शयेत् तान्यजो हरिः । मिथ्यादर्शनदोषेण तेन मुक्तिं न यान्ति च ॥
तमो यान्ति च तेनैव तस्माद् दोषविवर्जितम् । प्रादुर्भावगतं चैव जानीयाद् विष्णुमञ्जसा ॥" इति ब्रह्माण्डे ।
गुणक्रियादयो विष्णोः स्वरूपं नान्यदिष्यते । अतो मिथोपि भेदो न तेषां क्वचित् कदाचन ॥
स्वरूपेपि विशेषोस्ति स्वरूपत्ववदेव तु । भेदाभावेपि तेनैव व्यवहारश्च सर्वतः ॥" इति महोपनिषदि ।
अभिन्नत्वमभेदश्च यथा भेदविवर्जितम् । व्यवहार्यं पृथक् च स्यादेवं सर्वे गुणा हरेः ॥
अभेदाभिन्नयोर्भेदा यदि वा भेदभिन्नयोः । अनवस्थितिरेव स्यान्न विशेषणतामतिः ॥
मूलसम्बन्धमज्ञात्वा तस्मादेकमनन्तधा । व्यवहार्यं विशेषेण दुस्तर्कबलतो हरेः ॥
विशेषोपि स्वरूपं स स्वनिर्वाहकतास्य च ॥" इति ब्रह्मतर्के ॥
“एकमेवाद्वितीयं तत्’ “नेह नानास्ति किञ्चन'
“मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति । यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।
एवं धर्मान् पृथक् पश्यन् तानेवानु विधावति ॥’ इत्यादिश्रुतेश्च ॥
देशः सर्वत्र पुरुषः स्वतन्त्रः कालनित्यता । इत्यादिषु स्वसम्बन्धो यथैव गुणरूपिणः ॥
गुणित्वं गुणभोक्तृत्वं स्याद् विष्णोस्तच्च स स्वयम् ॥” इति ब्रह्मतर्के ।
विष्णुं सर्वगुणैः पूर्णं ज्ञात्वा संसारवर्जितः । निर्दुःखानन्दभुङ् नित्यं तत्समीपे स मोदते ।
मुक्तानां चाश्रयो विष्णुरधिकोधिपतिस्तथा । तद्वशा एव ते सर्वे सर्वेदैव स ईश्वरः ॥” इति परमश्रुतिः ।
“अमृतस्यैष सेतुः’ “सोश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता’ इत्यादि च ॥
नृपाद्या शतधृत्यन्ता मुक्तिगा उत्तरोत्तरम् । गुणैः सर्वै शतगुणा मोदन्त इति हि श्रुतिः ॥” इति पाद्मे ।
अतो निश्शेषदोषवर्जितः पूर्णानन्तगुणो नारायण इति सिद्धम् ।
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं बट् तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत् ।
वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुर् मध्वो यत्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे ॥
स्वतन्त्रायाखलिेशाय निर्दोषगुणरूपिणे । प्रेयसे मे सुपूर्णाय नमो नारायणाय ते ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितः श्रीमद्विष्णुतत्त्वविनिर्णयस् तृतीयः परिच्छेदः ॥