०२ टीका_टिप्पणि

विमतं मिथ्या, दृश्यत्वात्..

अथ श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितम्

प्रपञ्चमिथ्यात्वानुमानखण्डनं

ग्रन्थारम्भः

श्रीमज्जयतीर्थभिक्षुविरचिता

टीका

मङ्गलाचरणं

नत्वा विश्वोदयस्थेमलयहेतुं पतिं श्रियः ।

कुर्मः प्रपञ्चमिथ्यात्वमानखण्डनपञ्चिकाम् ॥

अथ श्रीब्रह्मण्यतीर्थपूज्यपादशिष्यश्रीव्यासतीर्थयतिविरचिता प्रपञ्चमिथ्यात्वानुमानखण्डनटीकाटिप्पणी

मन्दारमञ्जरी

कमलारमणं नत्वा पूर्णबोधेष्टदैवतम् ।

व्याकुर्वे विश्वमिथ्यात्वमानखण्डनपञ्चिकाम् ॥ १ ॥

स्पष्टार्थो य इह ग्रन्थः स न व्याक्रियते मया ।

ग्रन्थगौरवभीरुत्वान्न चोद्ग्रन्थं बहूच्यते ॥ २ ॥

प्रपञ्चमिथ्यात्वानुमानखण्डनं व्याचिख्यासुर्जयतीर्थाचार्यवर्यः ग्रन्थादौ मङ्गलमाचरंश्चिकीर्षितं निर्दिशति ॥ नत्वेति ॥ यद्यपि सृष्टिसंहार-प्रवाहस्यानादित्वेन दर्शपौर्णमासीतिथ्योरिव नैकस्यादित्वं सम्भवति तथापि उत्पन्नस्य नाशवन्नष्टस्य नोत्पत्तिरित्येकव्यक्त्यपेक्षयोदयादेः प्राथम्यादीति सृष्टिस्थितिलयानां क्रमनिर्देश उपपन्नः ।

श्रीनिवासतीर्थीयटिप्पणी

श्री वेणुपल्ली श्रीनिवासतीर्थविरचिता

प्रपञ्चमिथ्यात्वानुमानखण्डनटीकायाष् टिप्पणी

श्रीरामं हनुमत्सेव्यं श्रीकृष्णं भीमसेवितम् ।

श्रीव्यासं श्रीमदानन्दतीर्थसंसेवितं भजे ॥ १ ॥

प्रणम्य यादवाचार्यगुरूणां पादपङ्कजे ।

व्याख्यास्ये विश्वमिथ्यात्वमानखण्डनपञ्चिकाम् ॥ २ ॥

सर्वज्ञकल्पाष्टीकाकारा जयतीर्थश्रीमच्चरणाः प्रपञ्चमिथ्यात्वानुमान-खण्डनाख्यं प्रकरणं व्याख्यातुकामा ग्रन्थादौ मङ्गलाचरणपूर्वकं चिकीर्षितं प्रतिजानते ॥ नत्वेति । यद्यप्यत्राल्पाच्तरं पूर्वमिति स्थेमशब्दस्य प्रथम-प्रयोग उचितः । तथापि लब्धजन्मनो हि स्थित्यादीत्यत उदयस्याभ्यर्हि-तत्वादादौ निर्देशः कृतः । अभ्यर्हितं पूर्वमिति वचनात् । अल्पाच्तरं पूर्वमितिन्यायस्तु ‘समुद्राभ्राद्धः’ ‘आन्महतःसमानाधिकरणजातीययोः’ इत्यादौ व्यभिचरितत्वादयुक्त इति ज्ञातव्यम् । यद्यपि स्थिरशब्दप्रकृतिक-स्थेमशब्दो दार्ढ्ये रूढः । तथापि स्थाधातुनिष्पन्नत्वाद्योगेन स्थिति-वाच्यपि भवतीत्यभिप्रेत्य स्थेमेत्युक्तम् । अत एव निखिलभुवनजन्म-स्थेमभङ्गादिलील इति प्राचां प्रयोगः । व्याख्यातं च तट्टीकायां स्थेम स्थितिरिति ।

पाण्डुरङ्गी केशवाचार्यविरचितम् प्रपञ्चमिथ्यात्वानुमानखण्डन

विषमपदवाक्यार्थविवरणम्

श्रीगुरुराजीयटिप्पणी

यद्विद्याधीशगुरोः शुश्रूषान्या न रोचते यस्मात् ।

अस्त्वेषा भक्तियुक्ता श्रीविद्याधीशपादयोः सेवा ॥

आद्यश्लोके स्थेमशब्दः स्थितिपरः । नन्वजिरशिशिरशिथिलेत्याद्युणादि-सूत्रेण स्थाधातोः किरच्प्रत्यये ‘आतो लोप इटि च’ इति धात्वाकरलोपे च निष्पन्नस्य दृढार्थस्य स्थिरशब्दस्य दृढार्थत्वेन वर्णदृढादिभ्य इति तस्मादिमनिच्प्रत्यये स्थिरेत्यादिना स्थादेशे निष्पन्नस्य स्थेमशब्दस्य दार्ढ्यार्थतया प्रसिद्धत्वात् कथं स्थित्यर्थत्वमिति चेद्

अत्र स्वामिनः स्थेमशब्दस्य दार्ढ्ये प्रसिद्धावपि स्थितावपि अखिल-भुवनजन्मस्थेमभङ्गादिलीला इति रामानुजीयभाष्यनान्दीश्लोके स्थित्यर्थत्वेन तद्व्याख्यानरूपश्रुततत्त्वप्रकाशिकायामन्यत्रापि चाभियुक्तप्रयोगाणां बहुल-मुपलम्भात् तिष्ठतीति स्थिरमिति व्युत्पत्तेः स्थितिमत्परत्वेऽप्युपपत्तेश्च स्थेमशब्दस्य स्थितावत्र प्रयोग इति ।

श्रीसत्यनाथतीर्थविरचितः प्रपञ्च

मिथ्यात्वानुमानखण्डनपरशुः

रामचन्द्रमहं वन्दे श्रीमध्वकरपूजितम् ।

दोषापेतं गुणैः पूर्णं टीकाविज्ञानसिद्धये ॥ १ ॥

भार्गवं शरणं यामि शरणागतवत्सलम् ।

मिथ्यात्वखण्डनं कर्तुं रामं परशुलब्धये ॥ २ ॥

जयतीर्थमुनिं नत्वा गुरुं सत्यनिधिं तथा ।

व्यक्तीकरिष्ये मिथ्यात्वमानखण्डनपञ्चिकाम् ॥ ३ ॥

स्वयं मङ्गलमनुष्ठाय शिष्यशिक्षार्थं ग्रन्थादौ निबध्नन् चिकीर्षितं प्रतिजानीते ॥ नत्वेति ॥

शास्त्रैकदेशसम्बन्धेनास्य ग्रन्थस्य प्रकरणत्वोपपादनम्

टीका

‘जन्माद्यस्य यतः’ इति भगवता सूत्रकारेण जगदुदयादि-निमित्तकारणत्वं परस्य ब्रह्मणो लक्षणमभिहितम् । न च जगत्सत्यतामन्तरेण तद्वास्तवं सम्भवति । सापि न परोदीरित-प्रपञ्चमिथ्यात्वप्रमाणस्य आभासताव्युत्पादनेन विनोपपद्यत इति तदर्थमिदं प्रकरणमारभते भगवानाचार्यः ।

ननु कथं स्वपक्षसाधनेन विना निर्णयः? सत्यं, तथापि शास्त्रैक देशसम्बन्धित्वात्प्रकरणस्य न दोषः । विज्ञास्यते च कालातीतता व्युत्पादनेन स्वपक्षसाधनप्रकारोऽपीति ।

मन्दारमञ्जरी

व्याख्येयस्यास्य ग्रन्थस्य प्रकरणतासिद्धये शास्त्रैकदेशसम्बन्धित्वं दर्शयति । जन्माद्यस्य यत इत्यादिना ॥ निमित्तकारणत्वमिति ॥ उपादानकारणत्वे च ब्रह्मणो निर्विकारत्वानुपपत्तिः । विवर्ताधिष्ठानत्वे तु श्रुतौ ‘यतो वा इमानि भूतानि जायन्ते’ इति निर्देशः, सूत्रे जन्मादीति निर्देशश्चासङ्गतः स्यात् । न हि शुक्तिकातो रजतं जायत इति व्यपदेशोऽ-स्तीति भावः । न च तद्वास्तवं सम्भवतीति ॥ जगत्कारणत्वस्यावास्तवत्वे तत्प्रतिपादकश्रुतिसूत्राप्रामाण्यप्रसङ्ग इति भावः ।

तथापीति ॥ तथापि शास्त्र इवात्र स्वपक्षसाधनाभावेन निर्णयासम्भवेऽपि परपक्षदूषणेन जगत्सत्यत्वस्याश्रद्धेयतानिरासमात्रं भविष्यतीत्यर्थः ।

श्रीनिवासतीर्थीयटिप्पणी

नन्विदं प्रकरणं नारम्भणीयं विषयाद्यनुबन्धचतुष्टयशून्यत्वादित्या-शङ्क्यास्य प्रकरणत्वात्प्रकरणस्य शास्त्रैकदेशसम्बन्धित्वाच्छास्त्रे यद्विषयादिकं तदेवात्र विषयादिकं भविष्यतीत्यभिप्रेत्यास्य प्रकरणस्य शास्त्रसम्बन्धं दर्शयति ॥ जन्माद्यस्य यत इत्यादिना । सूत्रोक्तजगज्जन्मादिकारणत्वं नाम जगदुपादानत्वम् । तच्च परिणामित्वेनेति भास्करः । आरोपाधिष्ठानत्वेनेति मायावादिनः । तन्निरासार्थमुक्तं निमित्तकारणत्वमिति । मायावच्छिन्नं शबलं व्यावर्तयितुमुक्तं परस्येति । एतद् लक्षणम् ॥ तद्वास्तवमिति । तस्य ब्रह्मणो वास्तवं न च सम्भवतीत्यर्थः । न च जगत्सत्यतामन्तरेण तद्वास्तवं सम्भवतीति पाठे तल्लक्षणमित्यर्थः । जगत्कारणत्वलक्षण-स्यावास्तवत्वे तत्प्रतिपादकश्रुतिसूत्रयोरप्रामाण्यप्रसङ्ग इति भावः ॥ सापीति ॥ जगत्सत्यतापीत्यर्थः । ननु स्वपक्षसाधनपरपक्षोपालम्भाभ्यामेव निर्णयो नान्यतरमात्रेण । अत्र च परोदीरितप्रपञ्चमिथ्यात्वप्रमाणस्या-भासताव्युत्पादनेन परपक्षोपालम्भ एव क्रियते । न तु सत्यत्वरूपस्वपक्ष-साधनम् । तत्प्रमाणस्यानुपन्यस्तत्वात् । अतो न्यूनतेत्याशङ्कते ॥ नन्विति ॥ शास्त्रैकदेशेति । ‘‘शास्त्रैकदेशसम्बद्धं शास्त्रकार्यान्तरे स्थितम् । आहुः प्रकरणं नाम ग्रन्थभेदं विपश्चित’’ इति वचनादित्यर्थः । तथा च स्वपक्षसाधनप्रकारः शास्त्र एव कृतो द्रष्टव्य इति भावः ॥ कालातीतता-व्युत्पादनेनेति । प्रत्यक्षादिविरुद्धत्वाद्विश्वं सत्यमित्यादिवाक्यविरुद्धत्वाच्च कालात्ययापदिष्ट इति वाक्येन मिथ्यात्वानुमानस्य सत्यत्वग्राहिप्रत्यक्षादि-प्रमाणबाधव्युत्पादनं क्रियते । तेन सत्यत्वरूपस्वपक्षसाधनप्रकारो विज्ञास्यते । अतो न न्यूनतेति भावः ।

श्रीगुरुराजीयटिप्पणी

ननु विषयादिशून्यत्वेन प्रेक्षावद्भिरनुपादेयतया अस्य ग्रन्थस्य अव्याख्येयत्वान् नैतद्ग्रन्थव्याख्यानप्रतिज्ञा युक्तेत्याशङ्क्य प्रकरणत्वादस्य शास्त्रीयविषयादिनैव विषयादिमत्त्वसम्भवेन प्रेक्षावदुपादेयत्वाद् व्याख्येय-त्वोपपत्तेर् युक्तैव तद्व्याख्यानप्रतिज्ञेत्यभिप्रेत्य भवेदेतदेवं यद्यस्य प्रकरणता सिद्धा स्यात् सैव कुत इत्यतः शास्त्रैकदेशसम्बन्धित्वात्तत्सिद्धिरित्या-शयवान् अस्य शास्त्रैकदेशसम्बन्धितां दर्शयितुं शास्त्रार्थं तावद् दर्शयति ॥ जन्माद्यस्य यत इत्यादिनेति ॥ उपलक्षणं चैतत् । यतो वेत्यादिश्रुत्या चेत्यपि द्रष्टव्यम् । अस्त्वयं शास्त्रार्थस्तथापि कथमस्य तत्सम्बन्धित्व-मित्यतस्तद्दर्शयति ॥ न चेत्यादिना ॥ नन्विति ॥ तथा च स्वपक्ष-साधनाभावो दोष इति भावः ॥ न दोष इति ॥ स्वपक्षसाधनाभाव इति शेषः । अन्यथाऽस्यापि शास्त्रत्वप्रसक्त्या प्रकरणत्वभङ्गापत्तेरिति भावः । अङ्गीकृत्य चेदमुक्तम् । वस्तुतस्तु स्वपक्षसाधनाभाव एवासिद्ध इत्याह ॥ विज्ञास्यते चेति ॥

मिथ्यात्वानुमानखण्डनपरशुः

प्रकरणारम्भप्रयोजनमाह ॥ जन्माद्यस्येति ॥ न च जगत्सत्यता-मन्तरेणेति ॥ जगतः पारमार्थिकसत्यतामन्तरेण जगत्कारणत्वं पारमार्थिकसत्यं न भवतीत्यर्थः । ननु जगतः व्यावहारिकसत्यत्वेऽपि जगत्कारणत्वं पारमार्थिकसत्यमिति वक्तुं शक्यते । अन्यथा स्वाप्नगज-तुरगादेर् वासनामयत्वेन तत्कारणत्वस्य वासनामयत्वं स्यात् । न हि कार्यस्य वासनामयत्वं कारणस्य वासनामयत्वं न प्रयोजयति । प्रयोजयति च कार्यस्य व्यावहारिकत्वं कारणत्वस्य व्यावहारिकत्वमिति राज्ञा-माज्ञाऽस्तीति चेदुच्यते । न ब्रूमो वयं कार्यस्य व्यावहारिकत्वात्कारणत्वस्य व्यावहारिकत्वं स्यादिति । येनोक्तदोषः स्यात् ॥ किं नाम येनानुमानेन जगतो व्यावहारिकत्वसिद्धिः । तेनैवानुमानेन जगदन्तःपातितया पराभि-मतस्य जगत्कारणत्वस्य व्यावहारिकत्वं सेत्स्यतीति । तदिदमुक्तम् ॥ जगत्सत्यतामन्तरेण तद्वास्तवं सम्भवतीति ॥ एकानुमानविषययोर्वैजात्यं न सम्भवतीति भावः ॥

ननु जगत्सत्यत्वमेव प्रतिपाद्यतां किं मिथ्यात्वखण्डनेनेत्यत आह ॥ सापीति ॥ उपपद्यते । उपपत्तिसिद्धा युक्तिर् भवतीत्यर्थः । स्वपक्षसाधना-भावेन न्यूनतामाशङ्कते । ननु कथमिति ॥ शास्त्रैकदेशसम्बन्धत्वादिति ॥ शास्त्रेण एकदेशवत्सम्बन्धवत्वादित्यर्थः ॥ अस्मिन्प्रकरणे स्वपक्षसाधना-भावेऽपि स्वपक्षसाधनवता शास्त्रेण एकवाक्यत्वान्न न्यूनता । अन्यथा (परपक्षनिराकरणरूपशास्त्रैकदेशेऽपि स्वपक्ष) साधनाभावेन न्यूनता स्यादिति भावः ॥ प्रकारान्तरेण न्यूनतां परिहरति ॥ विज्ञास्यते चेति ॥

ग्रन्थारम्भे मङ्गलाचरणाभावप्रयुक्तन्यूनताशङ्कापरिहारः

टीका

ननु अविगीतशिष्टाचारपरम्परादिप्राप्तं प्रारिप्सितपरिसमाप्त्यादि प्रयोजनं किमपि मङ्गलाचरणं प्रकरणादौ कस्मादाचार्यो नानुष्ठित-वानिति चेत् कथमेतदवगतम् ? अनुपलम्भादिति चेन्न । तत्कालीनस्याधुनोपलब्धुमशक्यत्वात् । ग्रन्थे निवेशनाभावस्ताव-त्प्रत्यक्षसिद्ध इति चेत् । किमतः ? न हि ग्रन्थे निवेशनमेव तदनुष्ठानम् । नापि तद्व्याप्तम् । कायवाक्चित्तनिमित्तानामनेकेषां भावात् । ग्रन्थान्तरे निवेशनादिनैव शिष्या अवगमिष्यन्ति । अत एव न तदनुष्ठानसन्देहोऽपीति ।

मन्दारमञ्जरी

नापि तद्व्याप्तमिति ॥ कर्मणि क्तः । ततश्च ‘व्याप्तेः कर्म व्याप्यम्’ इति टीकाकारैरन्यत्रोक्तत्वात् तद् अनुष्ठानं व्याप्तं व्याप्यं यस्य ग्रन्थनिवेशनस्य तत् तद्व्याप्तमिति बहुव्रीहिः । यद्वा तदिति व्यस्तं पदम् । तथा च तद् अनुष्ठानं ग्रन्थे निवेशनेन व्याप्तं न हीत्यर्थः । अथवा भावे क्तः । ‘तयोरेव कृत्यक्तखलर्थाः’ इति कर्मणीव भावेऽपि क्तविधानात् । ततो ‘भुक्ता ब्राह्मणाः’ ‘पीता गावः’ इत्यादाविव मत्वर्थीयोऽकारः । तथा च ग्रन्थे निवेशनं व्यापकत्वेन व्याप्तिनिरूपकतया अनुष्ठानेन व्याप्ति-मदित्यर्थः । यद्वा ‘चैत्रो ग्रामं प्राप्तः’ इत्युक्ते ‘ग्रामं गतः’ इत्यर्थप्रतीतेर् आप्नोतेरपि गत्यर्थत्वात् ‘द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः’ इति सूत्रे कर्त्रर्थस्य प्राप्तशब्दस्य पाणिनिनापि प्रयुक्तत्वाच्च ‘गत्यर्थाकर्मकश्लिष-शीङ्स्थासवसजनरुहजीर्यतिभ्यश्च’ इत्यादिना सूत्रेण कर्तरि क्तः । तथा च ‘व्याप्तेः कर्तृ व्यापकमिति टीकाकारैरन्यत्रोक्तत्वाद्ग्रन्थे निवेशनं तस्या-नुष्ठानस्य व्यापकम्’ इत्यर्थः । एवं च पक्षचतुष्टयेऽप्ययं वाक्यार्थः । ग्रन्थे निवेशनमनुष्ठानव्यापकं चेद् अनिवेशनेनाननुष्ठानमनुमीयेत । तथात्वं तु नास्तीत्यर्थः ।

यद्वा ग्रन्थे निवेशनमेवानुष्ठानव्याप्यं चेदनुष्ठाने लिङ्गान्तराभावाद् रूपोपलब्ध्येकलिङ्गस्य चक्षुषो रूपानुपलब्ध्या अभाव इव अनिवेशनेन अननुष्ठानमनुमीयेत तथात्वं तु नास्तीति । ग्रन्थकर्तुराचार्यस्य परमास्ति-कत्वादिलिङ्गान्तरस्यापि सत्त्वादिति वाक्यार्थः ॥ अवगमिष्यन्तीति ॥ ग्रन्थादौ मङ्गलाचरणस्य कर्तव्यतामिति शेषः । आचार्यकर्तृकारम्भस्य अन्यत्र मङ्गलाचरणेन भूयः साहचर्यदर्शनाद् उपाधिव्यभिचारयोरदर्शना-दत्रापि तदनुष्ठानं निश्चीयत इत्याह ॥ अत एवेति ॥

श्रीनिवासतीर्थीयटिप्पणी

मङ्गलाचरणस्यानुष्ठेयत्वे फलप्रमाणयोरभावाद् आचार्यः प्रकरणादौ तन्नानुष्ठितवानित्यत उक्तम् । अविगीतेत्यादि । अविगीतो ऽविरुद्धः सर्व-संप्रतिपन्न इत्यर्थः । परिसमाप्त्यादीत्यादिपदेन प्रचयग्रहणम् । एतन् मङ्गलाननुष्ठानम् ॥ अनुपलम्भादिति । मङ्गलमेतद्ग्रन्थारम्भसमय-निष्ठाभावप्रतियोगि तदाऽनुपलभ्यमानत्वात् । यद्यदा नोपलभ्यते तत्तदा नास्ति । यथा शशविषाणमिति प्रयोगमनेन सूचयति ॥ तत्कालीनस्येति । अनुपलम्भमात्रस्याभावसाधकत्वे परमाण्वादौ व्यभिचारापत्त्या योग्यत्वे सत्यनुपलभ्यमानत्वस्य हेतूकर्तव्यत्वेन तत्कालीनस्य मङ्गलस्येदानी-मुपलब्धियोग्यत्वाभावेन विशेषणासिद्धिरिति भावः । अशक्यत्वाद् अयोग्य-त्वात् । नन्वथाप्येवमनुमीयते । मङ्गलमेतद्ग्रन्थारम्भसमयनिष्ठाभावप्रतियोगि ग्रन्थेऽनिवेशितत्वाद् इति । न च स्वरूपासिद्धिस् तस्य प्रत्यक्षसिद्धत्वा-दित्याशङ्कते ॥ ग्रन्थ इति । अप्रयोजकत्वाभिप्रायेणाह ॥ किमत इति । तदुपपादयति ॥ न हीत्यादिना । ग्रन्थे निवेशनस्यैव मङ्गलानुष्ठान-त्वेऽभेदेऽपि व्याप्यव्यापकभावमङ्गीकृत्य तदभावेन तदभावानुमानं युक्तं स्यान्न ह्येवमिति भावः । ननु नैवमनुमीयते अपि तु यद्यत्र मङ्गलम् आचार्यैरनुष्ठितं स्यात् तर्हि ग्रन्थे निवेशनीयं स्यान्न चैवं तस्मा-न्नानुष्ठितमित्येवमापाद्यत इति चेत्तत्राह ॥ नापीति । स्यादेवमापादनं यदि तन्मङ्गलानुष्ठानरूपमापादकं तेन ग्रन्थे निवेशनरूपापाद्येन व्याप्तं स्यान्न चैवमित्यर्थः । कुत एतदित्यतो व्यभिचारादित्याह ॥ कायेति । करशिर-स्संयोगः नमश्शब्दस् त्वत्तोऽहमपकृष्टो मत्तस्त्वमुत्कृष्ट इत्येवंरूपाणां कायवाक्चित्तकृतानामनेकेषां मङ्गलानामित्यर्थः । यद्वोक्तानुमाने व्यतिरेक-व्याप्तिर्न सम्भवति व्यभिचारादित्याह ॥ नापीति ॥ इति योज्यम् । एवमयोजने सर्वथैतद्वाक्यमसङ्गतमेव स्यात् । तथाहि । तद्ग्रन्थे निवेशनम् अनुष्ठानेन व्याप्तमित्यर्थकरणे वक्ष्यमाणव्यभिचारकथनस्यासङ्गतत्वात् । मङ्गलानुष्ठानं ग्रन्थनिवेशनेन व्याप्तमित्यङ्गीकारेऽपि मङ्गलानुष्ठानस्य हेतु-तयाऽनुक्तत्वेन तस्य व्यभिचारकथनस्याश्लिष्टत्वादित्यवगन्तव्यम् । ननु ग्रन्थादौ मङ्गलाचरणस्य कर्तव्यतां शिष्यान्प्रति ज्ञापयितुमपि ग्रन्थे निवेशनं कार्यं तत्कुतो न कृतमिति चेत्तत्राह ॥ ग्रन्थान्तरेति । आदिपदेन प्रत्यक्षग्रहणम् ॥ अवगमिष्यन्तीति । ग्रन्थादौ मङ्गलाचरणस्यानुष्ठेयतामिति शेषः । तथा चात्र निवेशने न किं कृत्यमिति च शेषः । तथाच शिष्या द्विविधाः । असन्निहिताः सन्निहिताश्चेति । तत्राद्या ग्रन्थान्तरनिवेशनेन ग्रन्थादौ मङ्गलाचरणस्यानुष्ठेयतामवगमिष्यन्ति । द्वितीयास्तु प्रत्यक्षत एवेति भावः । नन्वत्र ग्रन्थे निवेशनाभावेन मङ्गलानुष्ठानसन्देह एव स्यान्न निश्चय इत्यत आह ॥ अत एवेति । ग्रन्थान्तरे निवेशनादेवेत्यर्थः । यद्वा कायवाक् चित्तनिमित्तानामनेकेषां भावेन ग्रन्थे निवेशनस्याप्रयोजकत्वादेवेत्यर्थः ॥

श्रीगुरुराजीयटिप्पणी

ननु तथापीदं न व्याकर्तव्यं, अनुपादेयत्वात् । न हि विषयादि-सत्तामात्रेण उपादेयत्वम् । किं नाम स्वरूपलाभेनापि । न चास्य स्वरूपलाभोऽस्ति मङ्गलाचरणरहितत्वेन तत्साध्यनिरन्तरायपरिसमाप्त्य-सम्भवेन असमाप्तत्वादित्यभिप्रेत्य तदकर्तव्यत्वसाधकतया पराभिमतहेत्वोर-सिद्धिव्युत्पादनेन तत्कर्तव्यतामुपपादयन्नेव ग्रन्थादौ तदनुष्ठाने निमित्त-माक्षिपति ॥ नन्विति ॥ अत्र प्रकरणादौ मङ्गलं कस्मान्नानुष्ठितवानिति सम्बन्धः । प्रकरणादौ मङ्गलाननुष्ठाने न किमपि निमित्तमस्तीत्यर्थः । तद्धि भवद् अप्रामाणिकत्वं वा अफलत्वं वेति मनसि निधाय आद्यं दूषयति ॥ अविगीतेति ॥ अविगीतशिष्टाचारानुमितश्रुतिबोधितकर्तव्यताकमित्यर्थः । द्वितीयं दूषयति ॥ प्रारिप्सितेति ॥ आदिपदेन प्रचयपरिग्रहः । किम-पीति ॥ नतिस्तुत्यादिरूपे नानाविधे मङ्गले यत्किञ्चिदपीत्यर्थः । कर्तव्यमेव प्रकरणादौ मङ्गलाचरणम् । कृतं च भगवता आचार्येण । ततश्च तत्साध्य-समाप्त्यादेरुपपत्तेः समाप्तस्यास्य ग्रन्थस्य लब्धस्वरूपतया उपादेयत्वाद् व्याख्येयत्वोपपत्तिरित्यभिप्रेत्य ग्रन्थादौ मङ्गलाननुष्ठानं साधकप्रमाणाभावेन दूषयति ॥ कथमेतदवगतमिति ॥ एतद्ग्रन्थादौ आचार्येण मङ्गलं नानुष्ठित-मित्येतत् कथं केन प्रमाणेन अवगतं भवतीत्यर्थः । अनुष्ठानाभावावगमकं न किमपि प्रमाणमस्तीत्याशयः । अनुपलब्धेरेव तन्निश्चायकत्वात् कथं तदभाव इत्याशङ्कते ॥ अनुपलब्धत्वादिति चेदिति ॥ नानुपलम्भमात्रमभाव-निश्चायकम्, अतीन्द्रियोच्छेदापत्तेः । किन्तु योग्यानुपलम्भ एव । न चासाविहास्ति । तत्कथं तेनानुष्ठानाभावनिश्चय इत्यभिप्रेत्य तदनुष्ठानेऽप्य-योग्यतामुपपादयति ॥ तत्कालीनस्येति ॥ ग्रन्थे निवेशनाभावस्ताव-दिति ॥ अत एव तदननुष्ठानसिद्धिसम्भवान्न तदसिद्धिरिति भावः । किमत्र निवेशनव्यतिरेकेणाननुष्ठानस्यैवाभावान् निवेशनाभावस्य प्रत्यक्षेणैव सिद्धत्वादनुष्ठानाभावस्य प्रत्यक्षेणैव सिद्धिरित्यभिमतम् । किं वा निवेशना- भावस्य तद्व्यापकत्वाद् व्यापकाभावे च व्याप्याभावस्य नियमात् प्रत्यक्षसिद्धेन

निवेशनाभावेन तदनुमानसम्भवादनुमानतस् तत्सिद्धिरित्यभिमतम् । किं वा निवेशनस्यानुष्ठानव्याप्तत्वात् तदेकप्रमाणकस्यानुष्ठानस्य तदभावनिश्चयेन व्यतिरेकसिद्धिरिति विकल्पान् मनसि निधायाद्यं पक्षं प्रतिक्षिपति ॥ न हीति ॥ द्वितीयं दूषयति ॥ नापीति ॥ प्रतिज्ञाद्वयेऽपि हेतुमाह ॥ कायेत्यादिना ॥ ततश्च निवेशनमेव तदनुष्ठानमित्यस्यासिद्धेर्नानुष्ठानाभावस्य प्रत्यक्षेण सिद्धिः । अनिवेशितस्यापि मानसादेर्मङ्गलत्वेन निवेशन-स्यानुष्ठानव्यापकत्वासिद्धेर्न निवेशनाभावेनानुष्ठानाभावानुमानमपीत्याशयः । नन्वेवमपि निवेशनस्यापि नमस्कारादेर्मङ्गलत्वान्निवेशनमनुष्ठानव्याप्यं स्यादेव । ततश्च ग्रन्थे निवेशनस्यानुष्ठानव्याप्यत्वात्तत्कालीने आचार्यीय-मङ्गलानुष्ठानेऽपि तदेव प्रमाणं वाच्यम् । व्याप्यान्तरादर्शनेनानुष्ठानस्य निवेशनैकप्रमाणकत्वात् । तथा च रूपाद्युपलब्ध्येकप्रमाणकस्य चक्षुरादे रूपादेरुपलब्ध्यभावे व्यतिरेकनिश्चयो यथा एवं निवेशनैकप्रमाणकस्य व्यतिरेकनिर्णयः स्यादिति तृतीयपक्षमपि निषेधति ॥ नापीति ॥ अयं भावः स्यादेव रूपाद्यनुलब्ध्या चक्षुरादेरभावनिश्चयः । मानान्तरविरहेण तस्य रूपाद्युपलब्ध्यैकप्रमाणकत्वात् । न चैवमनुष्ठानस्य निवेशनैक-प्रमाणकत्वमस्ति । ग्रन्थकर्तुराचार्यस्य परमास्तिकत्वादिरूपलिङ्गान्तरेणापि तन्निश्चयसम्भवात् । ततश्चानुष्ठानस्य निवेशनैकप्रमाणकत्वाभावान्न तद्व्यतिरेकनिर्णय इति ।

नापि तद्व्याप्तमित्येतद्वाक्यं चिरन्तनटीकायां स्पष्टम् । तत एवावगन्तव्यम् ।

ननु शिष्यशिक्षणार्थत्वान् निवेशनमपि मङ्गलस्यावश्यकम् । अन्यथा शिष्यकर्तृकग्रन्थारम्भे तेषां मङ्गलकर्तव्यताबुद्धिर्न सिध्येदित्यतो ग्रन्थान्तर-निवेशनादिनैव शिष्याणां स्वयं मङ्गलकर्तव्यताबुद्धेः सम्भवेन प्रयोजन-स्यान्यथासिद्धत्वान्न निवेशनस्यावश्यकतेत्याशयेनाह ॥ ग्रन्थान्तर-निवेशनादिनैवेति ॥ आदिपदेनाचार्यीयमङ्गलानुष्ठानदर्शनपरिग्रहः । अयं भावः सन्निहितासन्निहितभेदेन शिष्या द्विविधाः । तत्र सन्निहितानां ग्रन्थारम्भकालीनाचार्यकर्तृकमङ्गलानुष्ठानदर्शनाद् असन्निहितानां च ग्रन्थान्तरनिवेशनेन तदनुमानात् स्वकर्तृकग्रन्थारम्भकालीनमङ्गलकर्तव्यता-बुद्धेरुपपन्नत्वान्नानिवेशनं दोष इति । ननु तथापि ग्रन्थारम्भे स्वयं मङ्गलं कर्तव्यमेवेत्यवधारणमसन्निहितशिष्याणां न सिद्ध्येत् । तद्धि सार्वत्रिक-निवेशने सत्येव सम्भवति । तथा सत्याचार्यकर्तृकग्रन्थारम्भेषु तेन मङ्गला-स्यानुष्ठितत्वनिश्चयेन क्वाचित्कस्यापि तदनुष्ठानस्यालाभेन शिष्याणां स्वयम-कर्तव्यत्वकोटिप्रापकाभावात् । क्वाचित्के तदनिवेशने सति तु तत्रैव ग्रन्थे तन्निश्चायकप्रमाणाभावेनाचार्यीयमङ्गलानुष्ठाननिश्चयासम्भवेन तस्याननु-ष्ठितत्वप्राप्त्या तत एव शिष्यान्प्रति स्वयमकर्तव्यत्वकोटिप्राप्तिसम्भवात् तेषां स्वकर्तृकग्रन्थारम्भे स्वयं मङ्गलं कर्तव्यं न वेति सन्देहस्यैव प्रसङ्गादित्यतो भवेदेतदेवं यद्यनुष्ठानस्य निवेशनैकप्रमाणकत्वं स्यात् । न चैतदस्ति परमास्तिकत्वादिरूपलिङ्गान्तरस्यापि निश्चायकत्वात् । ततश्च निवेशनस्थले तेनैव अनिवेशनस्थले लिङ्गान्तरेणाचार्यीयमङ्गलानुष्ठाननिश्चयेनाचार्य-कर्तृकग्रन्थारम्भकालीनस्य मङ्गलस्य कृतत्वप्राप्त्या कोटिद्वयप्रापकाभावेन शिष्याणां स्वयं मङ्गलमनुष्ठेयं न वेत्येवंरूपानुष्ठानसन्देहासम्भवाद् युज्यत एव मङ्गलं कर्तव्यमेवेत्यवधारणमिति न तदनिवेशनं दोष इत्याशयवानाह ॥ अत एवेति ॥ अनुष्ठानस्य निवेशनैकप्रमाणकत्वाभावं बुद्धिनिष्ठमत एवेति परामृशति । तच्च परमास्तिकत्वादनुमीयत इत्यन्यत्रोक्त्या च तस्य बुद्धि-स्थितत्वसिद्धिरित्यवधेयम् । इतिशब्दः प्रकरणस्यारम्भणीयत्वव्याख्येयत्व-योरुपपादनसमाप्त्यर्थः ।

मिथ्यात्वानुमानखण्डनपरशुः

कथमेतदवगतमिति ॥ अनुष्ठेयतया शिष्टाचारपरम्पराप्राप्तस्य सप्रयोजनस्य अननुष्ठानं कथं निश्चितमिति भावः ॥ परिहारमाशङ्कते ॥ अनुपलम्भादिति ॥ प्रतियोग्यनुपलम्भस्याभावनिश्चायकत्वात् ॥ अनुष्ठाना-भावो निश्चीयते इति भावः ॥ तत्कालीनस्येति ॥ नानुपलम्भमात्रं भवति निश्चायकं किन्तु योग्यस्य प्रतियोगिनोऽनुपलम्भो ऽभावनिश्चायकः । न चेदानीं तत्कालावच्छिन्नप्रतियोगिनः योग्यताऽस्ति । येन तदनुपलम्भे-नानुष्ठानाभावनिश्चयः स्यादिति भावः ॥ ग्रन्थे निवेशनाभाव इति ॥ मङ्गलरूपप्रतियोगिनः योग्यत्वात् तदभावनिश्चयो न सम्भवतीत्युक्तम् ॥ समयान्तरानुष्ठेयस्य मङ्गलान्तरस्यायोग्यत्वेऽपि शिष्टाचारपरंपराप्राप्तस्य ग्रन्थादाववश्यमनुष्ठेयस्य निवेशनरूपमङ्गलस्य योग्यत्वादनुपलब्ध्या तदभाव-निश्चयः सम्भवतीति भावः ॥ न हि ग्रन्थे निवेशनमेवेति ॥ न हि ग्रन्थे निवेशनमेकमेव ग्रन्थारम्भसमयेऽनुष्ठेयं मङ्गलं नान्यदित्यत्र किञ्चिन्नियामक-मस्ति । येन निवेशनानुपलब्ध्या आचार्येण मङ्गलं नानुष्ठितमिति निश्चयः स्यादिति भावः । तर्हि ग्रन्थे निवेशनस्य मङ्गलानुष्ठानव्यापकत्वाद् व्यापकीभूतग्रन्थनिवेशनस्य निवृत्त्या व्याप्यस्य मङ्गलानुष्ठानस्यापि निवृत्ति-रस्त्वित्यत आह ॥ नापि तद्व्याप्तमिति ॥ तदिति भिन्नपदम् । तन् मङ्गलानुष्ठानं निवेशनेन व्याप्तमित्यर्थः । कुतो न निवेशनं व्यापकमित्यत आह ॥ कायवागिति ॥ निवेशनविधुराणां कायवाक्चित्तनिमित्ता-नामनेकेषां मङ्गलानां शिष्टैरनुष्ठीयमानानां भावेन व्यभिचारान् न व्यापकत्वमिति भावः ।

नन्वाचार्येणावश्यमनुष्ठितमङ्गलस्य निवेशनं कार्यं शिष्यशिक्षारूप-प्रयोजनसद्भावादित्याशङ्कानिरासाय प्रयोजनमन्यथासिद्धमित्याह ॥ ग्रन्थान्तरेति ॥ आदिपदेन शिष्टाचारः ग्रन्थान्ते निवेशश्च ग्राह्यः । ननु न मयाऽचार्यैर्मङ्गलं नानुष्ठितमिति निश्चीयते । अपि तु सन्दिह्यत इत्यत आह ॥ अत एवेति ॥ ग्रन्थान्तरे ग्रन्थान्ते च निवेशनेनैव मङ्गल-स्यावश्यकत्वबोधनादेवेत्यर्थः ॥ न हि परस्य मङ्गलमावश्यकमिति बोधयन् परमास्तिकः स्वयं मङ्गलं नानुष्ठातीति सम्भवतीति भावः ।

मायावाद्युक्तप्रपञ्चमिथ्यात्वानुमानानुवादः

टीका

तत्र तावन्मायावादिनोदितं प्रपञ्चमिथ्यात्वानुमानमनुवदति ।

मिथ्यात्वानुमानखण्डनम्

विमतं मिथ्या दृश्यत्वाद् यदित्थं तत्तथा यथा सम्प्रतिपन्नम् ।

टीका

‘सर्वं मिथ्या’ इत्युक्ते ब्रह्मणि प्रमाणबाधः शुक्तिरजतादौ सिद्धार्थता च स्यादिति विमतमित्युक्तम् । विमतेरनेकविधत्वेऽपि साध्यविशेषोपादानात्तद्विशेषसिद्धिः । तथा च सत्यत्वमिथ्यात्वाभ्यां वादिप्रतिवादिविमतिविषयो वियदादीत्युक्तं भवति । तर्हि वियदा-दीत्येव वक्तव्यम् । न चैवं शङ्क्यम् अवच्छेदकानुक्तावुक्तदोषा-निस्तारात् ।

मिथ्यात्वानुमाने व्यतिरेकव्याप्तिप्रदर्शनाभावे कारणकथनम्

यद्यपि दृश्यत्वहेतुरन्वयव्यतिरेकी । तथाप्यकुटिलेऽन्वये सम्भवति न कुटिलो व्यतिरेक आदरणीय इति सूचयितुं यदित्थं तत्तथेत्यन्वय एव दर्शितः ।

मिथ्यात्वानुमाने यत्तत्पदयोरावृत्त्यभावेऽपि विवक्षितार्थसिद्धिर्

यत्तदिति साधारणप्रयोगादेव सर्वोपसंहारसिद्धेर्द्विर्वचनाभावो न दोषाय । ‘गौर्न पदा स्प्रष्टव्या’ इतिवत् ।

मिथ्यात्वानुमाने सम्प्रतिपन्नपदकृत्यं

सम्प्रतिपन्नं दृश्यत्वमिथ्यात्ववत्तयेति शेषः । सम्प्रतिपन्नग्रहणेन साध्यविकलत्वादिदृष्टान्तदोषनिरासोऽपि कृतः स्यादिति शुक्ति-रजतमित्येव नोक्तम् ।

प्रपञ्चमिथ्यात्वानुमाने पञ्चावयवाननुवादकारणं

यद्यपि परेण स्वग्रन्थे पञ्चावयवप्रयोगोऽस्य विहित इति तथैवानु वादो युक्तः । तथाप्युपनयनिगमनयोरसाधनाङ्गत्वादनुवादार्हतापि नास्तीति सूचयितुं त्र्यवयवानुवादः । तच्चान्यत्रोपपादितम् । एवं चानुवदतैव अधिकं नाम निग्रहस्थानमपि सूचितं भवति ।

मन्दारमञ्जरी

अवच्छेदकानुक्ताविति ॥ अयमर्थः, वियदादीत्यत्र आदिशब्दः किमसङ्कुचितवृत्तिः ? किं वा सङ्कुचितवृत्तिः? आद्ये ब्रह्मशुक्तिरूप्ययोरपि पक्षतया बाधसिद्धसाधनते । द्वितीये विवक्षितव्यक्तिविशेषाणामनन्तत्वेन तत्तन्नाम्ना जन्मसहस्रेणापि निर्देष्टुमशक्यत्वाद् इयानेव आदिशब्दार्थ इति किञ्चिदवच्छेदकं वाच्यम् । तच्च विमतिविषयत्वातिरिक्तं नास्ति । यद्यपि असद्विलक्षणत्वे सति प्रातिभासिकातिरिक्तत्वे सति ब्रह्मव्यतिरिक्तत्वं पक्षता वच्छेदकमस्ति । तथापि प्रतीतिगौरवान्न तदवच्छेदकम् । लाघवाद्विमति-विषयत्वमेवावच्छेदकमिति ॥ गौरिति ॥ यथा ‘या या गौः सा सा न पदा स्प्रष्टव्या’ इति वीप्साया अभावेऽपि सर्वगवां पदा अस्प्रष्टव्यतासिद्धि-स्तद्वदित्यर्थः ॥ तथापीति ॥ यद्यपि दूष्यैकदेशानुवादे अननुभाषणप्रसङ्गात् सर्वानुवादः प्राप्तः । तथापि भट्टमतानुसारिणा परेणाप्युपनयनिगमनयोर-साधनाङ्गताङ्गीकारात्पञ्चावयवप्रयोगे परस्याधिकं नाम निग्रहस्थानं सूचयितुं त्र्यवयवानुवादः कृत इत्यर्थः ।

श्रीनिवासतीर्थीयटिप्पणी

तत्रेति । अस्य प्रकरणस्याऽरम्भणीयत्वे सिद्धे सतीत्यर्थः । यद्वा परोदीरितप्रपञ्चमिथ्यात्वानुमानस्याभासत्वे व्युत्पादनीये सतीत्यर्थः ॥ तावदिति । आभासत्वं पश्चाद्वदिष्यतीति भावः ॥ प्रमाणबाध इति । तस्य सत्यत्वेन तत्र मिथ्यात्वाभावस्यैव प्रमितत्वादिति भावः ॥ सिद्धार्थता चेति । तत्र मिथ्यात्वस्य सिद्धत्वादिति भावः ॥ अनेकविधत्वेऽपीति । नित्यत्वानित्यत्वादिनेत्यर्थः । साध्यविशेषो मिथ्यात्वम् । तद्विशेषो विमति-विशेषः । तमेव विवृणोति ॥ तथा चेति ॥ वियदादीति । आदिकार्यत्वा-द्वियद्ग्रहणम् । आत्मन आकाशस्संभूत इति श्रुतेः ॥ तर्हीति । यदि सर्वं मिथ्येत्युक्ते प्रमाणबाधादिस्तर्हि तथाऽनुक्त्वा वियदादीत्येवोच्यताम् । तथात्वे प्रमाणबाधाद्यभावात् । अतो विमतमिति कस्मादुक्तमिति भावः । अवच्छेदकानुक्ताविति । आदिपदग्राह्यतावच्छेदकानुक्तावित्यर्थः ॥ उक्त-दोषेति । तथा चादिपदग्राह्यतावच्छेदकानुक्तावसंकुचितेनादिपदेन शुक्ति-रजतादेरपि ग्रहणापत्त्या बाधसिद्धसाधनतारूपोक्तदोषानिस्तारादित्यर्थः । एवं चोक्तदोषपरिहारायादिपदग्राह्यतावच्छेदके वाच्ये विमतिविषयत्वाति-रिक्तस्य तस्याभावात् तदेवावच्छेदकत्वेन वाच्यम् । तथा च तस्यैव पक्षतावच्छेदकत्वोपपत्तौ किं तद्ग्रहाधीनग्रहणेन वियदादीति वचनेनेत्याशयेन विमतमित्येवोक्तमिति भावः ॥ यद्यपीति । परमते व्यतिरेकव्याप्तौ ब्रह्मणो दृष्टान्तस्य सत्वेन यन्न मिथ्या न तद्दृश्यमिति व्यतिरेकोऽपि प्रदर्शयितव्य इत्यर्थः । सम्भवति सति ॥ कुटिल इति । अन्वयव्याप्त्यनुमापकतया प्रकृतसाध्यसिद्ध्यङ्गत्वाभावेन कुटिलत्वमन्यत्रोपपादितं द्रष्टव्यम् ।

ननु सर्वोपसंहारेण व्याप्तिग्रहणसिध्यर्थं यद्यदित्थं तत्तत्तथेति यत्तच्छब्दयो- र्द्विर्वचनरूपवीप्सा वक्तव्येति चेत्तत्राह ॥ यत्तदिति ॥ साधारणेति । सर्वसङ्ग्राहकेत्यर्थः । द्विर्वचनरूपवीप्साया अभावेऽपि सर्वसङ्ग्रहसिद्धिरित्यत्रो दाहरणमाह ॥ गौर्न पदेति । या गौः सा न पदा स्प्रष्टव्येति द्विर्वचनाभावेऽपि यथा सर्वगवां पदाऽस्प्रष्टव्यत्वसिद्धिस् तद्वदित्यर्थः ।

ननु यथा शुक्तिरजतमित्यनुक्त्वा सम्प्रतिपन्नमिति कस्मादुक्तमित्यत आह ॥ सम्प्रतिपन्नग्रहणेनेति । आदिपदेन साधनवैकल्याश्रयवैकल्ययो-र्ग्रहणम् । यदि शुक्तिरजते साध्यसाधनधर्मौ न स्यातां तदा किंधर्मवत्तया तत्र सम्प्रतिपत्तिः स्यात् । यदि वा शुक्तिरजतमेव न स्यात् । तदा साध्यसाधनधर्मयोः कुत्र सम्प्रतिपत्तिः स्याद् इत्येवं साध्यवैकल्यादि-दृष्टान्तदोषनिरासाय सम्प्रतिपन्नग्रहणं कृतमित्यर्थः ॥ तथैवेति । तथा चेदं दृश्यं, तस्मान्मिथ्येत्युपनयनिगमनरूपावयवद्वयानुवादोऽपि कर्तव्य इत्यर्थः ॥ असाधनाङ्गत्वादिति । उपनयवाक्यस्य हेतुवाक्येन गतार्थत्वान् निगमनस्य च प्रतिज्ञावाक्येन चरितार्थत्वान्न साधनाङ्गत्वमित्यर्थः ॥ त्र्यवयवेति । प्रतिज्ञाहेतूदाहरणरूपावयवत्रयेत्यर्थः । मीमांसकैरवयवत्रयनियमाङ्गीकारान् मायिना च व्यवहारे भट्टनय इत्यङ्गीकारादिति भावः । यथोक्तं कारि-कायाम् । त्रीनुदाहरणान्तान्वा यद्वोदाहरणादिकान् । मीमांसका इति ॥ तच्चेति । उपनयनिगमनयोरसाधनाङ्गत्वं तत्वनिर्णयादावुपपादितमित्यर्थः ॥ एवं चानुवदतेति । मायिना स्वग्रन्थे पञ्चावयवप्रयोगे विहितेऽप्य-वयवत्रयानुवादं कुर्वता आचार्येणेत्यर्थः । अपिशब्दोऽपसिद्धान्तसमुच्चायकः । तथा च व्यवहारे भट्टनय इत्यङ्गीकुर्वतापि मायिना पुनः पञ्चावयव-प्रयोगविधाने आधिक्येन निग्रहोऽपसिद्धान्तश्चेति सूचितमनेनेति द्रष्टव्य-मित्यर्थः ।

श्रीगुरुराजीयटिप्पणी

प्रथमवाक्यस्यानुमानाभासत्वव्युत्पादकत्वादानर्थक्यमाशङ्क्य परिहरति ॥ तत्रेति ॥ परोदीरितप्रपञ्चमिथ्यात्वप्रमाणस्याभासव्युत्पादकेऽस्मिन् प्रकरणे इत्यर्थः । नन्वनुवादो व्यर्थ इत्याशङ्क्य तस्य दूष्यस्वरूपावगमकतया तदवगतिद्वाराऽऽभासत्वव्युत्पादनायोगात् । अन्यथाऽनवधारितस्वरूपस्य दूषणैराभासताया एव ज्ञापनायोगादिति भावेन दूषणस्यानुवादपूर्वकत्वं वक्तुं तावदित्युक्तम् ॥ ब्रह्मणि प्रमाणबाधः शुक्तिरजतादौ सिद्धार्थता चेति ॥ ननु शुक्तिरजतादौ साध्यसिद्धावपि न सिद्धसाधनम् । पक्षतावच्छेदका-वच्छेदेन साध्यसिद्धेरिहोद्देश्यतया तदवच्छिन्ने साध्यासिद्ध्या तदनवसरात् । न च तत्सामानाधिकरण्येन साध्यसिद्धेरुद्देश्यत्वात्सिद्धसाधनमिति वाच्यम् । तथा सति तत्सामानाधिकरण्येन साध्यसिद्धिरूपोद्देश्यसिद्धेरविकलत्वेनोद्देश्य-सिद्ध्यविरोधाद् ब्रह्मण्यंशे प्रमाणबाधस्यादोषत्वापातात् । ततश्च यद्यत्र पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धिरुद्देश्या तदा शुक्तिरजतादौ सिद्धसाधनत्वप्रसक्तावपि न ब्रह्मणि प्रमाणबाधप्रसङ्गः । यदि च तदव-च्छेदेन तत्सिद्धिरुद्देश्या तदा ब्रह्मण्यंशे प्रमाणबाधप्रसक्तावपि न शुक्ति-रजतादौ सिद्धसाधनतेति कथमुक्तदोषद्वयसमावेशोऽत्रेति चेद् अत्र स्वामिनः किमत्र पक्षतावच्छेदकावच्छेदेन साध्यसिद्धिरुद्देश्यतयाऽभिमता । किं वा पक्षतावच्छेदकधर्मसामानाधिकरण्येन । आद्ये ब्रह्मणि प्रमाणबाधः । द्वितीये शुक्तिरजतादौ सिद्धसाधनतेति पक्षभेदेन दूषणद्वयमत्राभिमतम् । यद्यपि समानप्रकारकविरहज्ञानस्यैव प्रतिबन्धकतया ब्रह्मत्वावच्छेदेन साध्याभाव-निश्चयेऽपि सर्वत्वावच्छेदेन तदसिद्ध्या नांशबाधस्य दूषणत्वम् । तथापि पक्षतावच्छेदकावच्छेदेन सर्वत्र जायमानाया अनुमितेस्तदंशे प्रमात्व-प्रतिबन्धकतया तस्य दोषत्वमित्यत्र तात्पर्याददोषः । मूले चशब्दस्तु व्यवस्थितविकल्पार्थकवाशब्दार्थ इति न तद्विरोधोऽपीति ।

इत्येव वक्तव्यमिति ॥ आवश्यकत्वाद् लाघवाच्च तत्रोक्तदोषाप्रसराच्चेति भावः ॥ यद्यपीति ॥ ततश्चान्वयव्यतिरेकस्याप्युपदर्शनीयत्वात्तदप्रदर्शनं दोषः । यदि चान्वयव्यतिरेकयोरन्यतरोपदर्शनेन चारितार्थ्याद् उभया-प्रदर्शनमिति मन्यसे तदा व्यतिरेकोपदर्शनेनापि तत्सिद्धेरन्वयदर्शनानुपपत्ति-रित्याशङ्काभिप्रायः । ननु सकलस्य साधनवतः साध्यवत्वरूपव्याप्त्यन्तर्गत-साकल्यार्थत्वाद् यद्यदित्थं तत्तथेति यच्छब्दवीप्साया आवश्यकत्वात्तद-भावोऽत्र दोष इत्यतो वीप्सां विनापि यदित्थं तत्तथेति सामान्योक्त्यैव तत्सिद्धेर्वीप्साभावो न दोष इत्याह ॥ यत्तदिति साधारणप्रयोगादेवेति ॥ कथं वीप्सां विनापि व्याप्त्यन्तर्गतोक्तसाकल्यस्य साधारणप्रयोगात्सिद्धि-रित्यतस्तथा दृष्टत्वादित्यभिप्रायेणानुरूपं दृष्टान्तमाह ॥ गौर्न पदा स्प्रष्टव्येतिवदिति ॥ गौर्न पदा स्प्रष्टव्या । ब्राह्मणो न हन्तव्यः । यस्योभयं हविरार्तिमार्च्छति । योऽवगुरेत्तं शतेन शातयादित्यादौ वीप्सां विनापि सामान्योक्त्या व्याप्त्यन्तर्गतोक्तरूपसाकल्यस्य सिद्धिदर्शनादित्यर्थः । उपलक्षणं चैतद् इदमेतदभिन्नम् एतदसाधारणधर्माधिकरणत्वाद् एतद्वदित्य-भेदानुमाने सपक्षव्यक्तिभेदाभावेन वीप्सार्थाभावाच्चेत्यपि द्रष्टव्यम् ।

भवेदेतदेवं यदि उपनयनिगमनयोरसाधनाङ्गत्वमेव स्यात् तदेव कुत इत्यत आह ॥ तच्चेति ॥ अन्यत्रेति ॥ प्रमाणलक्षणादावित्यर्थः । उपनयस्य हेतुवचनेन निगमनस्य च प्रतिज्ञावाक्येन गतार्थत्वान्न साधनाङ्ग-त्वम् । न चोपसंहारार्थत्वान्निगमनस्य नानर्थक्यमिति वाच्यं विजातीय-बहुप्रमेयाव्यवधानेन तदनपेक्षणात् । अन्यथा प्रत्येकं कण्टकोद्धारानन्तरं तस्मात् सर्वदोषराहित्यादिदं साधकमित्याद्यपि निगमनं नियतं स्यात् । न च बाधादि शङ्कानिरासार्थं तदिति वाच्यम्, उदाहरणोपनयोक्तव्याप्तिपक्ष-धर्मताभ्यामेव विरोधिसर्वदोषप्रतिक्षेपादित्युपपादनप्रकारोऽवधेयः । शिष्टं चिरन्तनटीकायामेव स्पष्टं तत एव प्रति पत्तव्यम् ।

मिथ्यात्वानुमानखण्डनपरशुः

अनुमानमनुवदतीति । मायावादिनोक्तं मिथ्यात्वानुमानरूपं वाक्य-मुच्चरतीत्यर्थः । सर्वं मिथ्येत्युक्त इति ॥ ननु कस्य व्याख्यानम् । किमाचार्यवाक्यस्य उत मायावादिवाक्यस्य । नाद्यः । अनुवादके नान्यथानुवादपरिजिहीर्षया विमतं मिथ्येत्येव वक्तव्यत्वेन न बाधसिद्ध-साधनतापरिहारार्थं विमतं मिथ्येत्युक्तमित्युक्त्ययोगात् । नह्याचार्यवर्यः स्वयमेव बाधसिद्धसाधनतापरिहाराय प्रयत्नं कृत्वा स्वयमेवानुमानं दूषय-तीति सम्भवति ॥ अन्यथाऽनुवादप्रसङ्गेन सर्वं मिथ्येत्युक्तिसम्भावना-भावाच्च ॥ नापि द्वितीयः । मायावादिवाक्यस्यैतद्ग्रन्थे निवेशाभावे-नाव्याख्येयत्वादिति चेत् । उक्तं किमुक्तम् ॥ मायावादिवाक्यमेवा-चार्येणानुवादव्याजेन स्वग्रन्थे निवेशितमिति ॥ ततश्चैवं योजना । सर्वं मिथ्येत्युक्ते ब्रह्मणि प्रमाणबाधः शुक्तिरजतादौ सिद्धार्थता च स्यादिति । विमतमिति ॥ मायावादिनोक्तं तच्चाचार्येणानूदितमिति ।

ननु विमतमित्युक्तावपि ब्रह्मणि प्रमाणबाधः शुक्तिरजतादौ सिद्ध-साधनता च स्यात् । तयोरपि विमतिविषयत्वाद् इत्यत आह ॥ विमते-रनेकविधत्वेऽपीति ॥ ननु ब्रह्मणोऽपि सत्यत्वमिथ्यात्वाभ्यां तटस्थ-विमतिविषयत्वेन पक्षत्वापत्त्या बाध इत्यत आह ॥ वादिप्रतिवादीति ॥ वादिप्रतिवादिविमतेरेव पक्षत्वप्रयोजकत्वेन तटस्थविमतेरप्रयोजकत्वमिति भावः । तर्हीति ॥ यदि बाधसिद्धसाधनतापरिहाराय प्रयत्नस्तर्हि वियदा-दीत्येव वक्तव्यम् । एवं सति बाधसिद्धसाधनता प्रसक्त्यभावात् । स्फुटं वियदादिकं मिथ्येत्युद्दिश्य प्रतीतिसिद्धिसंभवाच्च ॥ अवच्छेदकानुक्ता-विति ॥ अवच्छेदकानुक्तौ ब्रह्मादीनां पक्षप्रवेशभ्रमापत्या पुनर्बाधादिदोष-शङ्काप्रसङ्ग इति भावः ॥ सामान्यप्रयोगेण वीप्सार्थलाभे उदाहरणमाह ॥ गौर्न पदेति ॥ दृश्यत्वमिथ्यात्ववत्तयेति शेष इति । यद्यपि पराभिप्रेत-मिथ्यात्ववत्तया शुक्तिरजतादिकं नास्माकं सम्प्रतिपन्नं तथापि अस्माकं सम्प्रतिपन्नमिति भ्रान्त्या परेण तथोक्तम् ॥ शुक्तिरजतमित्येव नोक्त-मिति ॥ परेणेति शेषः । एतेन साध्यवैकल्यादिदोषपरिहाराय स्वयमेव सम्प्रतिपन्नमित्युक्त्वा पुनरुत्तरत्र साध्यवैकल्यादिदोषाभिधानमनुपपन्नमिति परास्तम् ॥ यद्यपि परेणेति ॥ इतःपरं टीकायां श्रूयमाणमुपनय-निगमनयोरसाधनाङ्गत्वादनुवादार्हतापि नास्तीति सूचयितुं त्र्यवयवानुवादः । तच्चान्यत्रोपपादितम् । एवं चानुवदतैवाधिकं नाम निग्रहस्थानमपि सूचितं भवतीति वाक्यत्रयं प्रक्षिप्तं न टीकावाक्यम् ॥ तथापीत्यतः परमुपनय-निगमनयोरिहादूषणाददूष्यांशानुवादे आधिक्यं स्यादिति तत्परिहारायेत्ये-तावदुत्सन्नम् । अवश्यं चैतदेवं विज्ञेयम् ॥ उपनयनिगमनयोः स्वमते साधनांगत्वात् । व्यवहारे भट्टनय इति वदता परेणापि प्रतिज्ञाहेतूदाहरणा-नामिव उदाहरणोपनयनिगमनानामपि साधनांगत्वाङ्गीकारेण उपनयनिगम-नयोरसाधनाङ्गत्वादित्युक्तेरयुक्तत्वात् । साधनानङ्गत्वेऽपि दूषणार्थं तस्यानुवाद्यत्वेनानुवादार्हताऽपि नास्तीत्युक्त्ययोगात् । अन्यथा व्यभिचार-त्वेनासाधकस्य दृश्यत्वस्याप्यनुवादार्हता न स्यात् । उपनयनिगमनयोः साधनाङ्गत्वस्य क्वाप्यनुपपादितत्वेन तच्चान्यत्रोपपादितमित्युक्त्ययोगाच्च । कथायां समयबन्धानुसारेणावयवप्रयोगं कुर्वतो मायावादिन आधिक्यसूचना-योगाच्च । अस्य प्रसङ्गस्य कथाबहिर्भावेन निग्रहस्थानस्यावक्तव्यत्वात् ॥ कथाबाह्यस्यानिग्रहस्थानत्वात् ॥ ततश्चैवं टीकापाठः ।

‘‘यद्यपि परेण स्वग्रन्थे पञ्चावयवप्रयोगोऽस्य विहित इति तथैवानुवादो युक्तः । तथापि उपनयनिगमनयोरिहादूषणाद् अदूष्यांशानुवादे आधिक्यं स्यादिति तत्परिहाराय त्र्यवयवानुवादः कृतः’’ इति ॥

प्रपञ्चमिथ्यात्वानुमाने असत्वस्य मिथ्यात्वरूपत्वे अप्रसिद्धविशेष्यतादोषः

टीका

एवमनूदितमनुमानं दूषयिष्यन् प्रथमप्राप्तत्वात्प्रतिज्ञाश्रयं दोषमाह ।

मिथ्यात्वानुमानखण्डनम्

इत्युक्ते जगतोऽभावादाश्रयासिद्धः पक्षः

इति मायावादिनोक्ते वक्तव्यमिति शेषः । अग्न्याहितादिवदसिद्ध आश्रयो यस्यासावाश्रयासिद्धः । पक्ष इति तदेकदेशस्साध्यधर्मो लक्ष्यते । अथ वा सप्तम्यर्थे बहुव्रीहिरिति मुख्यार्थ एव पक्षशब्दः ।

‘उक्ते’ इत्यनेनोक्तिनिमित्तमिदं दूषणमिति सूचयता ‘अनुक्तोपा लम्भोऽयं परेण प्रपञ्चासत्वस्यासाधनात्’ इति निरस्तं भवति ।

ननु ‘जगतोऽभावात्’ इति हेतुः सिद्धश्चेत्सिद्धं परस्याभिमतम् । किमप्रसिद्धविशेष्यता करिष्यति ? असिद्धश्चेत्तथापि । असिद्धाश्रयत्वसाधकाभावात् । मैवं, यदि जगदभावोऽत्र साध्यते तदा जगतोऽभावात्साध्यधर्मस्य आश्रयासिद्धिः स्यात् । ततश्च विशेष्याभावाद्विशिष्टाभाव इति प्रतिज्ञार्थो बाधितः स्याद् इत्येवं पराङ्गीकृतेन परस्य दोषोद्भावनात् ।

मिथ्यात्वमसत्वमिति पक्षाश्रयणेन दूषणे छलशङ्का तत्परिहारश्च

मिथ्याशब्देन किमसदुच्यते ? उतान्यत्किमपि ? इति विकल्पे-नोपक्रमान्न छलप्रसङ्गः । शिष्याणां कथाक्रमशिक्षणार्थं विकल्पः ।

मन्दारमञ्जरी

ननु स्वार्थानुमानेऽप्याश्रयासिद्धिरस्त्येव । तत आचार्येण इत्युक्ते आश्रया सिद्धिर् इति कथमुक्तम् ? इत्याशङ्क्य सत्यमेवं, तथाप्याश्रयासिद्ध्युक्तिस्तु परार्थानुमान एव । तथा च श्रुतस्य इत्युक्ते इत्यस्योपपत्तये अश्रुत-मप्यध्याह्रियत इत्याह ॥ वक्तव्यमिति शेष इति ॥ ननु ‘इति वक्तव्यमिति शेषः’ इति वाच्यम् । इतिशब्दाभावे ‘आश्रयासिद्धः पक्षो वक्तव्यम्’ इत्युक्तेऽनन्वयादिति चेन्न । इत्युक्ते, इत्यत्र विद्यमानस्य इतिशब्दस्यानु-षङ्गेणैव सम्बन्धसम्भवेन तस्याध्याहार्यताऽभावात् ।

नन्वसिद्धशब्दस्य निष्ठान्तत्वात् ‘निष्ठा’ इत्यनेन पूर्वनिपातप्रकरणगतेन सूत्रेण ‘कृतकट’ इत्यत्र कृतशब्दस्येव पूर्वनिपातेन भवितव्यमित्यत आह ॥ अग्न्याहितादिवदिति ॥ ‘वाऽऽहिताग्न्यादिषु’ इत्यनेन सूत्रेण आहिता-दीनामग्न्यादिसम्बन्धे परनिपातस्याप्युक्तत्वात् तस्य च आकृतिगणत्वाद् असिद्धशब्दस्य विकल्पेन परनिपातोपपत्तिरित्यर्थः ।

ननु विशेषणं साध्यधर्मं प्रति य आश्रयो धर्मी विशेष्यस् तदसिद्धिरेव दोषः । विशेष्याभावे विशिष्टाभावेन धर्मविशिष्टधर्मिविषयकस्यानुमानस्या-प्रामाण्यापातात् । न तु साध्यधर्मविशिष्टस्य पक्षस्य य आश्रयस्तदसिद्धिः । तत्सिद्धेः प्रकृतानुपयोगात् । तस्माद् आश्रयासिद्धः पक्ष इति कथ-माचार्येणोक्तम् ? इत्याशङ्क्याह । पक्ष इति तदेकदेश इति ॥ अथ वा आश्रयोऽसिद्धो यस्मिन् पक्ष इति सप्तम्यर्थे बहुव्रीहिरित्याह ॥ अथवेति ॥ पक्षस्य साध्यतदाश्रयरूपोभयसमुदायात्मकत्वात्समुदायस्याश्रयं प्रति अधिकरणत्वोपपत्तिः । ‘वने चूतः’ इत्यादौ तद्दर्शनात् । तेन सप्तम्यर्थो-पपत्तिरिति द्रष्टव्यम् । नन्वचार्येण ‘इत्यत्राश्रयासिद्धः पक्षः’ इत्येव वक्तव्यम् । किमर्थमुक्तग्रहणं कृतम् ? यदुपपत्त्यर्थं वक्तव्यपदमध्याह्रियत इत्यत आह ॥ उक्त इतीति ॥ मिथ्याशब्दस्यानिर्वचनीयवाचिताया अन्यत्र निरस्तत्वात् ‘विमतमसत्’ इत्यनुक्तावपि मिथ्याशब्देनैवासत्त्वस्योक्तत्वात् ‘मिथ्या’ इत्युक्तिनिमित्तमिदं दूषणम् । न तु पराभिप्रेतानिर्वचनीयत्वादि-रूपार्थनिमित्तमिति ‘उक्ते’ इति निमित्तसप्तमीप्रयोगात् सूचयता आचार्येण ‘अनुक्तोपालम्भोऽयं परेणासत्वस्यासाधनात् । अनिर्वचनीयत्वरूप-मिथ्यात्वस्यैव तेन साधनात्’ इति निरस्तं भवति । तेनानुक्तोपालम्भ-निराससूचनार्थं ‘उक्ते’ इति वक्तव्यमित्यर्थः ।

अन्ये तु ‘खपुष्पं सुरभि’ इत्यादाविव न वस्तुत आश्रयासिद्धिः । प्रपञ्चस्य सत्त्वात् । किं तु ? मिथ्येति परोक्तिनिमित्ता इत्यनेन प्रकारेणोक्तिनिमित्तमिति ग्रन्थं व्याचक्षते । असिद्धत्वपक्षं दूषयति । असिद्धश्चेत्तथापीति ॥ ‘सिद्धं परस्याभिमतम्’ इत्यनेनानुषक्तेनास्य सम्बन्धः । तत्र हेतुरसिद्धाश्रयत्वेति । आचार्येण पक्षग्रहणेन सूचित-माश्रयासिद्धेः प्रतिज्ञादोषं दर्शयति ॥ ततश्चेति ॥

मिथ्यात्वानुमाने विशेष्याभावाद्विशिष्टाभावस्य पररीत्या समर्थनं

ननु यत्र विशेष्यसद्भावो विशेषणाविरोधी तत्र विशेष्याभावे विशिष्टा-भावः । यथा पुरुषाभावे दण्ड्यभावः । प्रकृते तु प्रपञ्चरूपविशेष्यसद्भावो मिथ्यात्वलक्षणविशेषणविरोधी । ततश्च विशेष्यसद्भावाङ्गीकारे विशेषणा-योगाद्विशेषणाभावप्रयुक्तो विशिष्टाभावः । यथा ‘प्रध्वस्तो घटः’ इत्यत्र घटसद्भावाङ्गीकारे प्रध्वंसविशिष्टघटाभावः । तस्मात्कथमुक्तं विशेष्याभावा-द्विशिष्टाभाव इति । मैवं ‘प्रतिपन्नस्वभावानुपमर्देन सत्यविवेकापरपर्याय-धर्मसाधनम्’ इति वदता परेण प्रपञ्चरूपविशेष्ये सद्विलक्षणस्वरूप-सद्भावस्य मिथ्यात्वलक्षणविशेषणानुकूलता अङ्गीक्रियते । ततश्च विशेषणस्यात्यन्तासत्त्वे विशेष्याभावेन विशिष्टाभावापरिहारादिति । ननु मिथ्याशब्दस्यानिर्वचनीयावाचित्वेऽपि तार्किकैस्समवायशब्देन नित्यसम्बन्ध-वत् परैरपि परिभाषामात्रेणापि मिथ्याशब्देनानिर्वचनीयत्वस्य विवक्षितुं शक्यत्वाद्विवक्षितं पक्षं परित्यज्य अविवक्षितासत्वपक्षाश्रयणेन आश्रया-सिद्ध्यभिधाने छलप्रसङ्ग इत्याशङ्क्याह ॥ विकल्पेनोपक्रमादिति ॥ आचार्यो मिथ्यात्वं किमसत्त्वम् ? किं वा अनिर्वचनीयत्वादि ? इति विकल्पं हृदि निधाय आद्ये आश्रयासिद्धिमाह । अन्यत्र दोषं वक्ष्यति । तेन छलप्रसङ्गो नास्तीत्यर्थः ।

एतच्च असत्त्वपक्ष एवाश्रयासिद्धिर्नान्यत्रेत्यभ्युमगमवादेनोक्तम् । वस्तु-तस्तु अनिर्वचनीयत्वादिपक्षेऽप्याश्रयत्वप्रयोजकसत्त्वाभावेन आश्रयासिद्धि-र्दुर्वारेति विकल्पेनोपक्रमाभावेऽपि न छलप्रसङ्ग इति द्रष्टव्यम् । ननु पराभिप्रेत एव पक्षो दूष्यः । किमनभिप्रेतासत्त्वपक्षदूषणार्थं विकल्पेन ? इति । तत्राह ॥ शिष्याणामिति ॥ शुक्तिरूप्यादेर्मिथ्यात्वमस्मद्रीत्या असत्त्वं परस्य त्वनिर्वचनीयत्वादिकमिति । तथा च प्रकृते का रीतिः ? इति विकल्पयता आचार्येण अन्यत्रापि सामान्यशब्दे प्रयुक्ते रीतिद्वयसम्भवे च विकल्पपूर्वकमेव दोषो वाच्यः । पराभिप्रेतपक्ष एव दोषाभिधाने परः ‘त्वद्रीत्या मयोक्तम् । तस्मादनुक्तोपालम्भः’ इति प्रतारयेदिति सूचित-मित्यर्थः ।

श्रीनिवासतीर्थीयटिप्पणी

दूषयिष्यन्निति । सर्वैर्दूषणैरिति शेषः । इत्युक्ते आश्रयासिद्धः क्ष इत्यनन्वितम् अत आह ॥ वक्तव्यमिति शेष इति । तथा च इत्युक्ते जगतोऽभावादाश्रयासिद्धः पक्ष इति वक्तव्यमित्येवमितिशब्दस्यानुवृत्त्या योजनीयम् । अन्यथा पुनरनन्वितत्वमेव स्यादिति द्रष्टव्यम् । नन्वसिद्ध-शब्दस्य निष्ठान्तत्वान्निष्ठान्तस्य च निष्ठेतिसूत्रेण पूर्वनिपाते कृतकटः पुमा-नित्यत्र कृतशब्दस्येव असिद्धशब्दस्यापि पूर्वनिपातेन भाव्यम् । तथा चासिद्धाश्रय इति वक्तव्यम् । आश्रयासिद्ध इति कथमुक्तमित्यत आह ॥ अग्न्याहितादिवदिति । आहितोऽग्निर्येनासावाहिताग्निरिति भाव्ये वाहिताग्न्यादिष्विति सूत्रेणाहितादीनां शब्दानाम् अग्न्यादिसम्बन्धे परनिपात-स्याप्युक्तत्वात्तस्य चाकृतिगणत्वाद् असिद्धशब्दस्यापि परनिपातो युक्त इत्यर्थः । ननु विशेषणभूतं साध्यधर्मं प्रति य आश्रयो विशेष्यरूपो धर्मी तदसिद्धिरेव दोषो न तु साध्यधर्मविशिष्टधर्मिरूपपक्षस्य य आश्रयस्तद-सिद्धिर् अत आश्रयासिद्धः पक्ष इति कथमुक्तमाचार्यैरित्यत आह ॥ पक्ष इतीति । साध्यधर्मविशिष्टो धर्मी हि पक्षशब्दमुख्यार्थः । तत्र साध्यधर्मरूप एकदेशो लक्ष्यत इत्यर्थः । लक्षणाबीजसम्बन्धं दर्शयितुं तदेकदेश इत्युक्तम् । तथा च पक्षः साध्यधर्मः स आश्रयासिद्धो ऽसिद्धाश्रयः साध्यधर्मं प्रति आश्रयोऽसिद्ध इति यावदिति मूलार्थो द्रष्टव्यः ॥ यद्वेति । तथा च असिद्ध आश्रयो यस्येति न विग्रहः । किन्तु आश्रयोऽसिद्धो यस्मिन्पक्ष इति सप्तम्यर्थे बहुव्रीहिरित्यर्थः ॥ मुख्यार्थ एवेति । तथा च साध्यधर्मविशिष्टो धर्मी पक्षः स असिद्धाश्रयः । पक्षशब्दार्थे आश्रय-भागोऽसिद्ध इति यावदित्यर्थः ।

ननु आश्रयासिद्धिकथनमयुक्तम् । अनुक्तोपालम्भरूपत्वात् । न हि परेण मिथ्येत्यसत्वं साधितम् । किं त्वनिर्वचनीयत्वमिति चेन्न । एतदा-शङ्कापरिहारार्थमेवाचार्यैराश्रयासिद्धः पक्ष इत्येव वक्तव्ये इत्युक्त इत्युक्त-मित्याह ॥ (उक्त) इत्युक्त इत्यनेनेति ॥ उक्तिनिमित्तमिति । यदि मिथ्येत्यनेनासत्वं परेणोक्तं स्यात्तदैवाश्रयासिद्धः पक्ष इति दूषणमस्माभि-रुच्यत इति सूचितमित्यर्थः । अनिर्वचनीयार्थत्वे त्वन्यदेव दूषणं भविष्यतीत्याशयः ॥ असाधनादिति । मिथ्यापदेनेति शेषः । पक्ष आश्रयासिद्धो भवितुमर्हति । जगतोऽभावादिति साधनानुमानमनेनोक्तमिति भ्रान्तः शङ्कते ॥ नन्विति ॥ सिद्धश्चेदिति । सिद्धान्तिनामित्यर्थः ॥ अप्रसिद्धविशेष्यतेति । आश्रयासिद्धतेत्यर्थः । तथापीत्यनन्तरं सिद्धं परस्याभिमतम् इति वर्तते । तत्कथमित्यत आह ॥ असिद्धाश्रयत्वेति । आश्रयासिद्धीत्यर्थः । दूषणानुमानमेवात्र विवक्षितं न साधनानुमान-मित्याह ॥ यदीति । विशिष्टाभाव इतीति । साध्यधर्मविशिष्टधर्म्यभाव इत्यर्थः ॥ पराङ्गीकृतेनेति । मिथ्याशब्दोक्तप्रपञ्चासत्वेनेत्यर्थः ।

ननु मिथ्याशब्दस्यानिर्वचनीयवाचिताः परेण विवक्षितत्वाद् विवक्षितपक्षं परित्यज्याविवक्षितासत्वपक्षाश्रयणेनाश्रयासिध्यभिधाने छलप्रसङ्ग इत्या-शङ्क्याह ॥ मिथ्याशब्देनेति । अन्यत्किञ्चिद् अनिर्वचनीयम् ॥ विकल्पे-नेति । तथा चैवं विकल्पं हृदि निधायासत्वपक्षे आश्रयासिद्धिरुक्तेति छलप्रसङ्गो नास्तीत्यर्थः । ननु पराभिप्रेत एव पक्षो दूष्यः किम् अनभिप्रेता-सत्वपक्षदूषणार्थं विकल्पेनेत्यत आह ॥ शिष्याणामिति । शुक्तिरजतादे-र्मिथ्यात्वं मद्रीत्याऽसत्वं पररीत्याऽनिर्वचनीयत्वमिति । तथा च प्रकृते का रीतिरिति विकल्पयता आचार्येणान्यत्रापि केनचित्सामान्यशब्दे प्रयुक्ते रीतिद्वयसम्भवे च विकल्पपूर्वकमेव दोषो वाच्यः । अन्यथा पराभिप्रेत-पक्षस्यैव दोषाभिधाने परस्त्वद्रीत्या मयोक्तं तस्मादनुक्तोपालम्भ इति प्रतारयेदिति सूचितमित्यर्थः ।

मिथ्यात्वानुमानखण्डनपरशुः

ननु इत्युक्ते आश्रयासिद्धः पक्ष इत्ययुक्तम् । आश्रयासिद्धेरुक्ति-निमित्तत्वाभावात् । अन्यथा पर्वतोऽसन्निति केनचिदुक्ते धूमस्याप्या-श्रयासिद्धिः स्यात् । न च जगतोऽभावादिति वदता जगतोऽभाव-निमित्तैवाश्रयासिद्धिः । नोक्तिनिमित्तेत्यभिप्रेयत इति वाच्यम् । इत्युक्त इत्यस्यानन्वितत्वप्रसङ्गात् ॥ श्रूयमाणानां जगतोऽभावादित्यादीनामन्वय-प्रतियोगित्वाभावादित्यत आह ॥ इति मायावादिनोक्त इति ॥ अनेन मायावादिना विमतं मिथ्या इत्युक्ते तन्मते जगतोऽभावात्सत्ववैधुर्या-दाश्रयासिद्धः पक्ष इति वक्तव्यमिति मूले योजनोक्ता भवति । नन्वा-श्रयासिद्धः पक्ष इत्युक्तम् । निष्ठेति सूत्रेण बहुव्रीहौ निष्ठाप्रत्ययान्तस्य पदस्य पूर्वं प्रयोज्यताया नियमितत्वादित्यत आह ॥ अग्न्याहितादि-वदिति ॥ आश्रयासिद्ध इति रूपमग्न्याहित इत्यादिशब्दवत्साध्विति ज्ञातव्य मित्यर्थः । निष्ठेत्यनेन निष्ठान्तस्य बहुव्रीहौ पूर्वनिपातनियमविधानेऽपि वाहिताग्न्यादिष्विति सूत्रे आहिताग्न्यादिशब्देषु पूर्वनिपातविकल्पाभिधानात् । आहिताग्न्यादेराकृतिगणत्वात् । आश्रयासिद्ध इत्यत्रासिद्धशब्दस्य पूर्वनिपाताभावो (परनिपातस्याप्युपपत्तेः ।) न दोषायेति भावः ।

ननु पक्षशब्दस्य साध्यधर्मविशिष्टधर्मिवाचित्वात्तदाश्रयासिद्धेरनुमान-दोषत्वाभावेन तदुद्भावनमयुक्तमित्यत आह ॥ पक्ष इतीति ॥ साध्य-धर्माश्रया सिद्धेरनुमानदोषत्वात् तद्भावनं युक्तमेवेति भावः ॥ अथवा सप्तम्यर्थ इति ॥ अत्र टीकायामितःपरं श्रूयमाणम् इत्युक्ते इत्यनेनोक्ति-निमित्तमिदं दूषणमिति सूचयताऽनुक्तोपालम्भोऽयं परेण प्रपञ्चासत्वस्या-साधनादिति निरस्तं भवतीति वाक्यत्रयं प्रक्षिप्तं न टीकावाक्यम् ॥ अवश्यं चैतदैवं विज्ञेयम् । परेणासत्वासाधनेऽपि आश्रयत्वप्रयोजकसत्ववैधुर्य-स्याभिधानेनानुक्तोपालम्भाभावेन तन्निरासायोगात् । इतिशब्दस्य पूर्वप्रकृत-परामर्शकत्वेन पूर्वमसत्वोक्त्यभावाद् इत्युक्त इत्यस्यासदित्युक्त इत्यर्थ-कथनायोगात् ॥ नन्विति ॥ जगतोऽभावादित्यनेनोक्तं सत्ववैधुर्यं सिद्धं वा न वा सिद्धं चेत् सिद्धं परस्याभिमतम् । जगतः सद्वैलक्षण्यस्यैव पराभि-लषितत्वात् । ततश्चाप्रसिद्धविशेष्यताऽनुमानविघटनद्वाराऽभिलषित-विघटना न भवतीति सा न वक्तव्या । असिद्धं चेत्सिद्धं परस्याभिमतम् । अनुमानदोषसाधकाभावेन निर्दोषेणानुमानेन अभिलषितार्थसिद्धिसम्भवा-दित्यर्थः । यदि जगदभावोऽत्रेति । यदि जगदभावः सद्वैलक्षण्यम् अत्र विप्रतिपन्ने जगति साध्यते तर्हि जगतो ऽभावात् सत्ववैधुर्यात् साध्यधर्मस्य सद्विलक्षणस्वरूप स्याश्रयासिद्धिर्दोषः स्यादिति भावः । अस्तु तर्हि साध्य-धर्मस्याश्रयासिद्धिस् तथापि प्रतिज्ञायाः को दोष इत्यत आह ॥ ततश्चेति ॥ विशेष्याभावाद्विशेष्यभूतजगतोऽभावात्सत्ववैधुर्याज्जगतः साध्यधर्मवैशिष्ट्य-रूपप्रतिज्ञार्थो बाधितः स्यात् । विशेष्याभावे विशिष्टायोगाद् इति भावः ॥ पराङ्गीकृतेनेति । अस्माभिः परोक्तार्थानङ्गीकारात् प्रतिवादिनः स्वाभि-लषितसिद्धमिति न सन्तोष्टव्यमित्यर्थः । एतेन पराङ्गीकारेण (कृतेन) परस्य दोषोद्भावनमित्ययुक्तम् । असत्वस्य धर्मिसत्ताविरोधित्वेन तत्सत्तानपेक्ष-त्वात् । अन्यथा शशविषाणं नास्तीति वदतो भवतोऽपि अप्रसिद्धविशेष्यत्वं स्यात् । जगदसत्वस्यैव प्रतिज्ञार्थत्वेन प्रतिज्ञार्थस्य बाधितत्वाभिधाना-योगाच्चेति निरस्तम् । मिथ्येत्यनेन मायावादिना जगतोऽसत्वमुच्यत इति पक्षे अनेन मूलवाक्येन दोष उच्यत इत्यनङ्गीकारात् । तर्हि कस्मिन्पक्षे दोषोऽयमुच्यत इति चेत् । मिथ्येत्यनेन सदसद्वैलक्षण्यविशिष्टस्वरूपमुच्यत इति ब्रूमः । असच्छब्दाभिधेयस्य निःस्वरूपस्य धर्मिसत्ताविरोधित्वेन धर्मिसत्तानपेक्षत्वात् । शशविषाणमसदिति उक्तिसम्भवेऽपि सदसद्वैलक्षण्य-विशिष्टस्वरूपस्य धर्मिसत्तासापेक्षत्वेन मिथ्याशब्दार्थभूतसदसद्वैलक्षण्य-विशिष्टस्वरूपस्य धर्मिसत्तासापेक्षत्वेन मिथ्याशब्दार्थभूतसदसद्वैलक्षण्य-विशिष्टस्वरूपलक्षणसाध्यस्याश्रयासिद्धिर्दूषणमेव । अत एव शशविषाण-मसदित्याद्युक्तौ अविद्यमानविशेष्यत्वस्यादोषत्वेऽपि जगन्मिथ्येत्युक्तौ सत्वाशून्यविशेष्यकत्वं दोषः । सत्वविधुरस्य सदसद्वैलक्षण्यविशिष्ट-स्वरूपस्यायोगेन प्रतिज्ञार्थोऽपि बाधित एव । इतःपरं श्रूयमाणं ‘‘मिथ्या-पदेन किमसदुच्यते उतान्यत्किमपीति विकल्पेनोपक्रमान्न छलत्वप्रसङ्गः । शिष्याणां कथाक्रमशिक्षायै विकल्प’ इति वाक्यद्वयं प्रक्षिप्तम् । न टीकावाक्यम् ॥ अवश्यं चैतदेवं विज्ञेयम् । परोक्तसद्वैलक्षण्यपक्ष एव मूलोक्तदूषणसम्भावनाद्विकल्पेनोत्थानस्य प्रयोजनाभावात् । परोक्तस्यैव दूषितत्वेन छलप्रसङ्गाभावाच्च ॥ ‘उक्त इत्यनेनोक्तिनिमित्तमिदं दूषणमिति सूचयताऽनुक्तोपालम्भोऽयं परेण प्रपञ्चासत्वस्यासाधनादिति निरस्तं भवति’ इत्यस्य टीकावाक्यत्वपक्षे अनेन गतार्थत्वाच्च असत्त्वरूपधर्मस्याश्रया-सिद्धेर्भूषणत्वेन दूषणत्वाभिधानायोगाच्च अत एव शिष्याणां कथाक्रमशिक्षार्थं विकल्प इत्यस्यायोगाच्च ॥

मिथ्यात्वानुमाने असत्वस्य मिथ्यात्वरूपत्वे अपसिद्धान्तः

टीका

अथ वा जगतोऽसत्वे प्रतिज्ञाते अपसिद्धान्तमनेनाचष्टे । तथा हि, पक्षः प्रतिज्ञार्थः प्रपञ्चस्यासत्वलक्षणः । स ‘आश्रयासिद्धः’ आश्रयः सिद्धान्तस् तदाश्रयेण कथाप्रवृत्तेः । तस्मिन्नसिद्धस् तद्विरुद्ध इति यावत् । कुतः ? जगतो भावाद् भावत्वेन असद्विलक्षणत्वेन परेणाङ्गीकृतत्वादिति ।

मन्दारमञ्जरी

एवं ‘जगतो विश्वस्य अभावात्’ इति पदविभागमाश्रित्य व्याख्यातम् । इदानीं ‘भावात्’ इतिपदविभागमाश्रित्य व्याचष्टे ॥ अथवेति ॥ अप-सिद्धान्तं वक्तुं पक्षाश्रयासिद्धशब्दान् व्याचष्टे ॥ पक्ष इत्यादिना याव-दित्यन्तेन ॥ भावादित्येतद्व्याचष्टे ॥ भावत्वेनाङ्गीकृतत्वादिति ॥ भावत्वेनेति स्वपदं विवृणोति ॥ असद्विलक्षणत्वेनेति ॥

श्रीनिवासतीर्थीयटिप्पणी

एवं जगतो विश्वस्याभावादिति पदविभागमाश्रित्य व्याख्यातम् । इदानीं भावादिति पदविभागमाश्रित्य व्याचष्टे ॥ अथ वेति । अपसिद्धान्तं वक्तुं पक्षाश्रयासिद्धशब्दान् व्याचष्टे ॥ पक्ष इत्यादिना यावदित्यन्तेन । भावा-दित्येतद्व्याचष्टे ॥ भावत्वेनेति । भवतीति भावः सन् सत्वेनेत्यर्थः । तदभिप्रायमाह ॥ असद्विलक्षणत्वेनेति । तथा चासत्वसाधनेऽपसिद्धान्त इति भावः ।

मिथ्यात्वानुमानखण्डनपरशुः

अथवेति ॥ जगतो ऽसत्वप्रतिज्ञाने सत्वाभावप्रतिज्ञाने सद्वैलक्षण्य-प्रतिज्ञान इति यावत् ॥ अपसिद्धान्तमनेन मूलेनाचष्ट इत्यर्थः । कथमित्यत आह । तथाहीति । प्रपञ्चस्यासत्वलक्षण इति ॥ प्रपञ्चस्य सद्वैलक्षण्य-लक्षण इत्यर्थः । असद्विलक्षणत्वेनेति ॥ सत्वेन परेण परमेश्वरेण सूत्रकारेणाङ्गीकृतत्वादित्यर्थः ।

सर्वथा निर्वचनानर्हत्वस्य मिथ्यात्वरूपत्वे अप्रसिद्धविशेषणता

टीका

स्यादेतत्, न वयं मिथ्येत्यत्यन्तासन्तं गगनकुसुमसमं प्रपञ्च-माचक्ष्महे । येन साध्यधर्मस्याश्रयासिद्धिरपसिद्धान्तो वा स्यात् । किन्तु ? अनिर्वचनीयमेवेति । अत आह–

मिथ्यात्वानुमानखण्डनम्

अनिर्वचनीयासिद्धेरप्रसिद्धविशेषणः

टीका

पक्ष इत्यनुवर्तते । अत्र पक्ष इति तदेकदेशो धर्मी प्रपञ्चो लक्ष्यते । अप्रसिद्धं विशेषणं यस्मिन्निति मुख्यार्थो वा । अनिर्वचनीयं खलु निर्वचनानर्हमुच्यते । न च तत् प्रागेतदनुमानात्सिद्धम् । सर्वस्यापि निर्वचनार्हत्वात् । अन्यथा स्वव्याघातो मूकता वा स्यात् । अतो मिथ्यापदेन विमतस्यानिर्वचनीयताभिधाने पक्षोऽप्रसिद्धविशेषणो भवति । अयमपि वचननिमित्तो दोष इति ज्ञातव्यम् ।

मन्दारमञ्जरी

ननु साध्यधर्मविशिष्टः पक्षः । तस्य कथम् अप्रसिद्धं विशेषणं यस्येति बहुव्रीहिणा आचार्येण साध्यधर्मवैशिष्ट्यमुक्तम् । न हि दण्डिनः पुनर्दण्ड-वैशिष्ट्यं किं तु ? देवदत्तस्यैवेति । अत आह ॥ पक्ष इति तदेकदेश इति ॥ अन्यथेति ॥ निर्वचनानर्हं किम् ? इति प्रश्ने यदि इदम् इति वदेत्तदा स्वव्याघातः । न चेन्मूकतेत्यर्थः । अयमपि वचननिमित्त इति ॥ यथा आश्रयासिद्धिर्मिथ्यापदोक्तिनिमित्ता एवमप्रसिद्धविशेषणत्वमप्य-निर्वचनीयपदप्रयोगनिमित्तम् । तस्य निर्वचनानर्हवाचित्वात् तस्य चा-प्रसिद्धत्वात् । न तु परपरिभाषितसदसद्विलक्षणत्वरूपार्थनिमित्तम् । तत्र सिद्धसाधनत्वादेर्वक्ष्यमाणत्वादित्यर्थः ।

श्रीनिवासतीर्थीयटिप्पणी

शङ्कते ॥ न वयमिति । ननु साध्यधर्मविशिष्टः पक्षस् तस्य यद्विशेषणं तदप्रसिद्धमित्युच्यते तदसङ्गतम् । अतो व्याचष्टे ॥ पक्ष इतीति । अनुवर्तते पक्षशब्देनेत्यर्थः । तथा च पक्षो धर्मी स अप्रसिद्धं साध्यरूपं यद्विशेषणं तद्वानिति मूलार्थो द्रष्टव्यः ॥ इति मुख्यार्थो वेति । सप्तम्यर्थे बहुव्रीहिरिति मुख्यार्थ एव पक्षशब्द इत्यर्थः । तथा च साध्यधर्मविशिष्टो धर्मी पक्षः सोऽप्रसिद्धविशेषणः । सर्वस्यापीति । प्रपञ्चस्येत्यर्थः ॥ अन्यथेति । सर्वस्यापि निर्वचनार्हत्वमनङ्गीकृत्य निर्वचनानर्हत्वरूपानिर्वचनीयत्वाङ्गीकार इत्यर्थः । अनिर्वचनीयत्वं नाम किमिति प्रश्ने उत्तरमुच्यते न वा । आद्ये आह । स्वव्याघात इति । निर्वचनानर्हपदेनैव निर्वचनीयत्वप्राप्त्या स्ववचनव्याघात इत्यर्थः । यद्वा विमतपदेनैव सर्वस्यापि निर्वचनात् तदनर्हत्वोक्तौ स्वव्याघात इत्यर्थः ॥ मूकता वेति । अनिर्वचनीयत्वं नाम किमिति प्रश्ने निर्वचनमकृत्वा यदि तूष्णीं स्थीयते तदा मूकता स्यात् । तथा चाननुभाषणं नाम निग्रहस्थानमिति भावः ॥ अयमपीति । आश्रया-सिद्धिवदप्रसिद्धविशेषणत्वरूपोऽपि दोष इत्यर्थः ॥ वचनेति । यथा मिथ्यात्वं नामासत्वमिति परेणोक्ते आश्रयासिद्धिरुक्ता एवं मिथ्यात्वं नामानिर्वचनीयत्वं तच्च निर्वचनानर्हत्वमिति परेणोक्ते सतीदं दूषणमुक्तम् । सदसद्विलक्षणत्वे तु सिद्धसाधनत्वादिरूपं दोषान्तरं भविष्यतीति भावः ।

मिथ्यात्वानुमानखण्डनपरशुः

स्यादेतदिति ॥ मिथ्येति पदेनात्यन्तासन्तं सद्(सन्मात्र)विलक्षणस्वरूपं नाचक्ष्महे । येनाश्रयासिद्धिरपसिद्धान्तो वा स्यात् । किं नामानिर्वचनीय-माचक्ष्मह इत्यर्थः । एतेनासतोऽसत्वाभिधाने आश्रयासिद्धेरदूषणत्वेन तत्परिहाराय पूर्वपरित्यागेन पक्षान्तरस्वीकारोऽनुपपन्न इत्यपि परास्तम् ॥ आहेति । विप्रतिपन्नस्यैव साधनीयत्वान् निर्वचनानर्हत्वसाधने क्लिष्टं दूषणम् । शिष्यैरेवोह्यतामिति भावेन दूषणान्तरमाहेत्यर्थः ॥ एवमुत्तरत्रापि द्रष्टव्यम् । अप्रसिद्धविशेषणत्वमुपपादयति ॥ अनिर्वचनीयं खल्विति । अन्यथेति । कस्यचिन्निर्वचनानर्हत्वोक्तौ सत्यां स्वव्याघातः । निर्वचना-नर्हत्वोक्त्यैव निर्वचनार्हत्वलाभात् । वादिना सर्वं निर्वचनानर्हमित्युक्तेऽपि प्रत्युत्तरादाने मूकवदनादरणीयत्वं स्यादित्यर्थः ॥ अतो मिथ्यापदेनेति ॥ उपलक्षणमेतत् । अपसिद्धान्तश्च भवतीति द्रष्टव्यं सूत्रकारेण निर्वच-नाङ्गीकारात् ॥

इतःपरं श्रूयमाणम् ‘‘अयमपि वचननिमित्तो दोष’’ इति वाक्यं प्रक्षिप्तं न टीकावाक्यम् । अनिर्वचनीयासिद्धेरिति मूलावतारिकायां गतार्थत्वात् ॥

सदसद्वैलक्षण्यस्य मिथ्यात्वरूपत्वे सिद्धसाधनत्वदोषः

टीका

ननु सदसद्वैलक्षण्यमेव मिथ्यात्वं ब्रूमो नासत्वम् । एतदेवा-निर्वचनीयत्वं नाम । न तु सर्वथा निर्वचनानर्हत्वमेव । अतो नोक्तदोष इति । तत्राह–

मिथ्यात्वानुमानखण्डनम्

सदसद्वैलक्षण्ये मिथ्यात्वे सिद्धसाधनता

टीका

प्रतिज्ञादूषणप्रस्तावात्साधनशब्दोऽत्र भावसाधनः । करणसाधनत्वे हि हेतुदूषणं स्यात् । सदसद्वैलक्षण्ये मिथ्यात्वेऽङ्गीक्रियमाणे हि विमतं सद्विलक्षणमसद्विलक्षणं चेति प्रतिज्ञार्थः स्यात् । तत्र अस-द्विलक्षणत्वं प्रपञ्चस्यास्माभिरङ्गीकृतमेवेति सिद्धसाधनता भविष्यति ।

ननु सद्वैलक्षण्येन सहासद्वैलक्षण्यमत्र साध्यते । तत्कथमेष दोषः? इति । मैवं, न हि सिद्धमसिद्धेन सहोच्यमानमसिद्धं भवति । सद्वै-लक्षण्यविशिष्टासद्वैलक्षण्यसाधनाददोष इति चेत् तथापि सिद्धसाधन तैव । सतोऽपि सदन्तरवैलक्षण्याङ्गीकारात् । सदसद्वैलक्षण्यं नाम सदसत्त्वानाश्रयत्वमिति चेत् तथापि न सिद्धसाधनतानिस्तारः । सत्वैकस्वभावस्य प्रपञ्चस्य सदसत्त्वानङ्गीकारात् । प्रत्येकमुभया-नाश्रयत्वमिति चेत् । तथाप्यसत्त्वानाश्रयत्वेन सिद्धसाधनता-तादवस्थ्यम् । विशिष्टसाधनाददोष इति चेत् तथापि देशकाल-परिच्छिन्नेषु घटादिषु व्यवस्थाश्रयणेन सिद्धसाधनतैवेति ।

मन्दारमञ्जरी

करणसाधनत्वे हीति ॥ तथात्वे साधनं लिङ्गं स्यात् । तथा च सिद्धसाधनतापि तन्निष्ठैवेति हेतुदोषः स्यादित्यर्थः । सदसद्विलक्षणमिति कोऽर्थः ? सदसद्रूपं यदेकं ततो विलक्षणमिति वा ? सद्विलक्षण-मसद्विलक्षणं चेति वा ? सद्विलक्षणत्वे सत्यसद्विलक्षणमिति वा ? आद्ये सदसद्रूपतायाः प्रपञ्चे मयाप्यनङ्गीकारात्सिद्धसाधनताप्रसङ्गेन द्वितीय एवाङ्गीकार्य इत्याह ॥ सदसद्वैलक्षण्य इति ॥ तर्हि द्वितीय एवास्त्वित्यत आह ॥ तत्रेति ॥ न हि सिद्धमसिद्धेनेति ॥ ‘पर्वतः शिलात्मकोऽग्नि-मांश्च’ इत्यादाविव अंशे सिद्धसाधनता दुर्वारेत्यर्थः । तृतीयं शङ्कते ॥ सद्वैलक्षण्येति ॥ विशिष्टस्याखण्डैकपदार्थान्तरत्वान्नांशस्तत्रापि । येनांशे सिद्धसाधनता स्यात् । अन्यथा ‘प्रामाण्यं स्वतो ज्ञायते’ इति प्रतिज्ञायां ज्ञानमात्रस्य परतस्त्ववादिनाप्यङ्गीकारादंशे सिद्धसाधनता स्यादित्यर्थः । परिहरति ॥ तथापीति ॥ तर्हि सदसत्त्वानाश्रयत्वं साध्यमिति चेत् किमत्र सदसद्रूपं यद् विशिष्टं तत्त्वानाश्रयत्वं साध्यते ? किं वा सत्त्वानाश्रयत्वम् असत्त्वानाश्रयत्वं चेति द्वयम् ? यद्वा सत्त्वानाश्रयत्वे सत्यसत्त्वानाश्रयत्वं नाम विशिष्टम्? इति विकल्प्याद्यं दूषयति ॥ तथापीति ॥ द्वितीयं शङ्कते ॥ प्रत्येकमिति ॥ दूषयति । तथाप्यसत्त्वेति ॥ तृतीयं शङ्कते ॥ विशिष्टेति ॥

ननु तथापि देशकालेति घटादेः सत्त्वानाश्रयत्वमङ्गीकृत्य परिहारोऽ-भिहितः । स न युक्तः घटादेः सत्त्वाश्रयत्वाङ्गीकारात् । स्वदेशकाला-द्यवच्छेदेन सत्त्वाश्रयस्यापि घटादेर् देशान्तराद्यवच्छेदेन सत्त्वानाश्रयत्वं चास्तीति चेत् तर्हि देशान्तराद्यवच्छेदेनासत्त्वाश्रयत्वं चास्तीति ‘सत्त्वैक-स्वभावस्य’ इत्येतदसङ्गतं स्यादिति चेन् मैवं सत्त्वैकस्वभावस्येत्यत्र सर्वदेशकालसम्बन्धाभावरूपात्यन्ताभावाप्रतियोगित्वं सत्त्वं विवक्षित्वा सत्त्वैकस्वभावत्वमुक्तम् । तथापि देशकालेत्यत्र तु ‘अस्तीति प्रमिति-विषयत्वं सत्त्वं’ ‘तदविषयत्वं चासत्त्वं’ विवक्षित्वा अन्यदेशादौ सत्त्वानाश्रयत्वं स्वदेशादावसत्त्वानाश्रयत्वं चोक्तमिति ।

श्रीनिवासतीर्थीयटिप्पणी

भावसाधन इति । भावो धात्वर्थस्तं साधयति प्रतिपादयतीति भाव-साधन इत्यर्थः । तथाच सिद्धस्य ज्ञातस्यैव साधनता अनुमितिरूप-सिद्धिज्ञानविषयता प्राप्तेत्यर्थो द्रष्टव्यः । एवं करणसाधनशब्दार्थोऽपि ज्ञातव्यः । ननु करणसाधनत्वे को दोष इत्यत आह ॥ करणसाधनत्वे हीति । सिद्धं साध्यते अनेनेति सिद्धसाधनशब्दार्थत्वे सिद्धसाधकत्वस्य हेतुधर्मत्वेन हेतुदूषणत्वं स्यादित्यर्थः । अस्तु हेतुदूषणत्वमित्यत उक्तम् ॥ प्रतिज्ञादूषणप्रस्तावादिति ।

नन्वसद्वैलक्षण्यमात्रस्य सिद्धत्वेऽपि सद्वैलक्षण्यस्यासिद्धत्वेन तेन सहा-सद्वैलक्षण्यं साध्यतेऽतो न दोष इत्याशङ्कते ॥ नन्विति ॥ न हीति । तथात्वे पर्वतोऽग्निमान् पाषाणवांश्चेत्यत्राप्यंशे सिद्धसाधनता न स्यादिति भावः ॥ सद्वैलक्षण्यविशिष्टेति । तथाच विशिष्टस्याखण्डपदार्थान्तरत्वेन तत्रांशा-भावान्नांशे सिद्धसाधनतेति भावः ॥ सदसत्त्वानाश्रयत्वमिति । सतः सदन्तरवैलक्षण्येऽपि सत्त्वाश्रयत्वेन तदनाश्रयत्वाभावान्नोक्तदोष इति भावः ।

ननु सदसत्त्वानाश्रयत्वमित्यत्र सच्च तदसच्च सदसत् । तत्त्वानाश्रयत्वं साध्यमिति विवक्षितम् । अथवा सच्चासच्च सदसती तयोर्भावः । सदसत्त्वं द्वन्द्वान्ते श्रूयमाणस्त्वप्रत्ययः प्रत्येकं सम्बध्यते । तथा च सत्त्वानाश्रयत्वम् असत्वानाश्रयत्वं चेति धर्मद्वयं साध्यत इति । यद्वा सत्वानाश्रयत्वे सति असत्वानाश्रयत्वरूपं विशिष्टं साध्यत इति । आद्यं दूषयति ॥ तथापीति । तदुपपादयति ॥ सत्वैकस्वभावस्येति । द्वितीयं शङ्कते ॥ प्रत्येकमिति । तृतीयं शङ्कते ॥ विशिष्टेति ॥ व्यवस्थेति । अस्मिन्देशे सन् देशान्तरेऽसन् अस्मिन्काले सन् कालान्तरेऽसन् इत्येवं घटादीनां देशकालव्यवस्थया सदसत्वाश्रयणेन देशान्तरीयकालान्तरीयसत्वानाश्रयत्वस्यैतद्देशकालीना-सत्वानाश्रयत्वस्य च सिद्धत्वात्सिद्धसाधनतेत्यर्थः ॥

श्रीगुरुराजीयटिप्पणी

ननु यदि सदसद्विलक्षणत्वमेव मिथ्यात्वमुच्यते तर्ह्यनिर्वचनीयत्वं मिथ्यात्वमिति गतः पक्ष इत्यत आह ॥ एतदेव चेति ॥ उक्तो दोष इति ॥ मिथ्यात्वप्रत्युक्तासत्त्वप्रयुक्ताश्रयासिद्धिर् अपसिद्धान्तरूपः । अनिर्वचनीयत्वस्यानिर्वचनार्हताप्रयुक्ताप्रसिद्धविशेषणतालक्षणो वेत्यर्थः ॥ भावसाधन इति ॥ भावो धात्वर्थः । स साधनमभिधेयं यस्य स तथोक्तः । भाववाचक इत्यर्थः । साधनविकलोऽयं दृष्टान्त इत्यादावपि उक्तार्थता-निरासायोक्तम् ॥ अत्रेति ॥ भावसाधनत्वे नियामकमाह ॥ प्रतिज्ञेति ॥ करणसाधनत्वमेव साधनशब्दस्य किं न स्यादित्यत आह ॥ करणेति ॥ करणं साधनमभिधेयं यस्येति करणसाधनः । करणवाचक इत्यर्थः । ततश्च प्रतिज्ञानिरासोपक्रमविरोध इति भावः । सदसद्विलक्षणत्वं किं सद-सद्भिन्नत्वमभिमतं सदसत्त्वानधिकरणत्वं वा । आद्येऽपि सदसद्रूपं यदेकं ततो भिन्नत्वं वा सद्भिन्नत्वमसद्भिन्नत्वं चेति धर्मद्वयं वा । नाद्यः सदेक-स्वभावे प्रपञ्चे सदसद्रूपताया मयाऽनङ्गीकारेण तद्भिन्नतायाः सिद्धत्वेन तत्साधने सिद्धसाधनमिति मनसि निधाय द्वितीयं पक्षं परिशिनष्टि ॥ सदसद्वैलक्षण्ये मिथ्यात्वेऽङ्गीक्रियमाण इत्यादिना ॥ अस्तु तर्ह्ययमेव प्रतिज्ञार्थः को दोष इत्यतः किमत्र समप्राधान्येनोभयसाधनमभिमतं किं वा विशेषणविशेष्यभावेनेति मनसि निधायाद्यं निराचष्टे ॥ तत्रेति ॥ सिद्ध-साधनतेति ॥ अंशे सिद्धसाधनतेत्यर्थः । ननु पक्षैकदेशे सम्पूर्णसाध्य-सिद्धावंशतः सिद्धसाधनत्वस्य दोषत्वेऽपि सर्वस्मिन् पक्षे साध्यैकदेशसिद्ध्या तस्यादोषत्वात् । प्रकृते चोभयोर्मिलितयोः साधनान्न सिद्धसाधनतेति शङ्कते ॥ नन्विति ॥ उभयोर्मिलितयोः पक्षत्वेऽपि पक्षतावच्छेदक-नानात्वात् क्वचिदधिकरणे पक्षतावच्छेदकावच्छेदेन साध्यसिद्धावंशतः सिद्धसाधनतावद् उभयोर्मिलितयोः साध्यत्वेऽपि साध्यतावच्छेदकनानात्वात् साध्यतावच्छेदकावच्छिन्नस्य पक्षतावच्छेदकावच्छेदेन सिद्धिरूपस्य सिद्ध-साधनताबीजस्य सत्त्वादंशतः सिद्धसाधनत्वमेवेत्याशयेनाह ॥ न हीति ॥ द्वितीयमाशङ्कते ॥ सद्वैलक्षण्यविशिष्टेति ॥ सिद्धसाधनतेति ॥ सद्भिन्नत्व विशिष्टासद्भिन्नत्वस्य प्रपञ्चे मयाप्यङ्गीकारादित्यर्थः । तत्कथमित्यतोऽ-सद्विलक्षणत्वस्य प्रपञ्चे उभयवादिसम्मतत्वेन तदंशस्योपपादननिरपेक्षत्वात् तदनुपपाद्यैव सद्भिन्नत्व मात्रस्यैव तत्सापेक्षत्वात् सदेव सद्भेदवादिनेत्यनु-व्याख्यानं मनसि निधायोपपादयति ॥ सतोऽपीति ॥ आद्ये द्वितीयं शङ्कते ॥ सदसद्वैलक्षण्यं नामेति ॥ विध्यर्थाभावेत्यत्र विशब्दस्याभावार्थ-तयाभियुक्तव्याख्यानात् सदसद्विलक्षणशब्दस्य सदसल्लक्षणाभावपरत्वे लक्षणस्य च सन्निधानात् सदसच्छब्दोपस्थितस्यैव ग्रहणेन सदसत्त्वानधि-करणत्वस्यैव तच्छब्दात्प्रसक्तेरिति भावः । किमत्र सत्वे सत्यसत्त्वरूपं यद्विशिष्टं तदनधिकरणत्वमित्यभिमतं किं वा सत्त्वानधिकरणत्वमसत्त्वा-नधिकरणत्वमिति धर्मद्वयमिति विकल्पं मनसि निधायाद्यं निराचष्टे ॥ सत्त्वैकस्वभावस्येति ॥ सदसत्त्वानङ्गीकारादिति ॥ सत्त्वविशिष्टस्या-सत्त्वानङ्गीकारात् तत्साधने सिद्धसाधनतेति भावः । द्वितीयमाशङ्कते ॥ प्रत्येकमिति ॥ किमत्र समप्रधानतयोभयसाधनमभिमतं किं वा विशेषण-विशेष्यभावेनेति विकल्पद्वयं मनसि निधायाद्यं प्रत्याचष्टे ॥ तथापीति ॥ सिद्धसाधनतेति ॥ अंशे सिद्धसाधनतेत्यर्थः । उपपादनप्रकारस्तु पूर्ववदेव द्रष्टव्यः । द्वितीयमाशङ्कते ॥ विशिष्टेति ॥ घटादेर्देशकालपरिच्छिन्नतया स्वदेशकालावच्छेदेनासत्त्वानाश्रयत्वस्यान्यदेशकालावच्छेदेन सत्त्वानाश्रय-त्वस्य च सत्त्वेन विशिष्टसाध्यस्यापि सिद्धेः सिद्धसाधनत्वमेवेति परिहरति ॥ तथापीति ॥ अत्र पूर्वोत्तरग्रन्थविरोधश्चिरन्तनटीकायामेव स्पष्टः ।

मिथ्यात्वानुमानखण्डनपरशुः

ननु सदसद्वैलक्षण्यमेव मिथ्यात्वं ब्रूमो न तु सर्वथा निर्वचनानर्हत्वम् । न च जगतोऽनिर्वचनीयत्वाङ्गीकारादपसिद्धान्तः । अनिर्वचनीयपदेन सद-सद्वैलक्षण्यस्यैवाभिधानात् । न चाप्रसिद्धविशेषणाख्यो दोषः । अनिर्वचनीय पदेन सर्वथा निर्वचनानर्हत्वानभिधानात् ॥ नाप्याश्रयासिद्धिः । अस-द्विलक्षणत्वस्यैवाश्रयत्वप्रयोजकत्वात् । सदसद्विलक्षणत्वस्य सूत्रकाराभि-मतत्वेनापसिद्धान्ताभावाच्चेति भावेन शङ्कते ॥ ननु सदसद्वैलक्षण्यमेवेति ॥ इतः परं टीकायां श्रूयमाणं ‘‘नासत्वमिति’’ वाक्यं प्रक्षिप्तम् । न टीका-वाक्यम् । अवश्यं चैतदैवं विज्ञेयम् । मिथ्याशब्दार्थत्वेन सत्वस्याप्रसक्त-त्वात् । साधनशब्दोऽत्र इति ॥ सिद्धसाधनेत्यत्र साधनशब्दः भावसाधनः सिद्धिरूपधात्वर्थवाचकः । न तु करणवाचकः । एवं च सिद्धस्य साधनं सिद्धिर्यस्येति विग्रहस्याश्रयणे दोषस्य प्रतिज्ञानिष्ठत्वलाभः । प्रतिज्ञायाः सिद्धिकरणत्वाभावेऽपि सिद्धिकारणत्वसद्भावात् । करणसाधनत्वे तु सिद्धं साध्यतेऽनेनेति विग्रहप्रसङ्गेन सिद्धिकरणस्यैव लाभः स्यात् । नतु कारणमात्रस्य प्रतिज्ञादेरिति भावः ।

यद्वैलक्षण्येन सहेति स्यादयं दोषः । यद्यसद्वैलक्षण्यमात्रं साधयामः । न चैवं सति दोषो भवति । एकाकिनः सार्थस्य गमने चोरादिबाधेऽपि बल-वद्भिः सहगमने तदभावदर्शनादिति भावः ॥ न हि सिद्धमिति । हि यस्मात् सिद्धमसिद्धेन सहोक्तमसिद्धं न भवति । तस्मान्मैवमित्यन्वयः । चोरादिबाधस्य पुरुषान्तरनिष्ठबलनिवर्त्यत्ववत् सिद्धसाधनत्वस्य साध्यान्तर-निष्ठसिद्धिनिवर्त्यत्वाभावाद् वैषम्यमिति भावः । व्यवस्थाश्रयणेनेति ॥ घटादीनां स्वदेशकालयोर् असत्वं न देशान्तरकालयोः सत्वं नेत्यङ्गीकारेण सत्त्वानधिकरणत्वविशिष्टासत्वानधिकरणत्वस्य सिध्या सिद्धसाधनतैवेति भावः । एतेन घटादीनां स्वदेशकालयोः सत्वं देशान्तरे कालान्तरे वाऽसत्वमिति व्यवस्थाश्रयणेन घटादीनां सदसत्वलाभेऽपि सत्वानाश्रयत्व-विशिष्टासत्वानाश्रयत्वालाभान्न सिद्धसाधनतेति निरस्तम् । उपलक्षणमेतत् । धर्माणां प्रातिस्विकत्वेन देशाद्यपरिछिन्नेष्वपि गगनादिषु परकीयसत्वा-नधिकरणत्वस्य विद्यमानत्वेन सत्वानधिकरणत्वविशिष्टासत्वानधिकरण-त्वस्य सत्वेन सिद्धसाधनतेति द्रष्टव्यम् ।

सिद्धान्तिनामनिष्टस्य सदसद्वैलक्षण्यस्य मिथ्यात्वरूपत्वे अप्रसिद्धविशेषणतादोषः

टीका

अथैवं ब्रूयाद् यादृशं सदसद्वैलक्षण्यं सद्वादिनामनिष्टं तन्मिथ्यात्व- मिति । तत्राप्येतदेवोत्तरम् । तथा हि, सदसद्वैलक्षण्ये मिथ्यात्वेऽङ्गी-क्रियमाणे सति असिद्धसाधनता अप्रसिद्धविशेषणता भवतीति । एतच्च दृष्टान्तव्युदासप्रस्तावे वक्ष्यामः । सर्वत्र असद्वैलक्षण्य-साधनवैयर्थ्यं च ।

सत्यविवेकस्य मिथ्यात्वरूपत्वे सिद्धसाधनता

सत्यविवेकस्य मिथ्याभावस्य साध्यत्वान्नोक्तदोष इति चेन् न । सत्यान्तरविवेकाङ्गीकारेण सिद्धसाधनत्वात् ।

सत्यतानाश्रयत्वस्य मिथ्यात्वरूपत्वे अपसिद्धान्तादिदोषाः

सत्यतानाश्रयत्वं सत्यविवेक इति चेत् । केयं सत्यता ? अर्थ-क्रियासामर्थ्यादिलक्षणा चेत्तदनाश्रयत्वसाधने परस्यापसिद्धान्त-प्रसक्तिः । तदन्या चेत्सिद्धसाधनतैव ।

सत्यमबाध्यं बाध्यं मिथ्येति तद्विवेक इति चेत् । तर्हि बाधो वक्तव्यः । अन्यथाविज्ञातस्य सम्यग्विज्ञानं चेत्सिद्धसाधनतैव । क्षणिकत्वादिना विज्ञातस्य प्रपञ्चस्य अक्षणिकत्वादिबाधकज्ञान-विषयत्वस्यास्माभिरङ्गीकृतत्वात् ।

प्रतिपन्नोपाधौ त्रैकालिकसत्यतानिषेध इति चेन् न । सत्यताया एवाद्याप्यनिरूपणात् ।

मन्दारमञ्जरी

यादृशमिति ॥ सर्वथा सत्त्वानधिकरणत्वे सति असत्त्वानधिकरणत्वं सदसत्त्वानधिकरणत्वमित्यर्थः । असिद्धसाधनता इति पदविभागमाश्रित्य तत्परिहारतया तदेव वाक्यं व्याचष्टे ॥ तत्राप्येतदेवोत्तरमिति ॥ सर्वत्रेति ॥ विशिष्टसाधनपक्षेऽपि ‘पर्वतः प्रमेयत्वे सत्यग्निमान्’ इत्यादाविव अंशे सिद्धसाधनता दुर्वारा । ‘प्रामाण्यं स्वतो ज्ञायते’ इत्यादौ ‘ज्ञायते’ इत्यनुक्त्वा विप्रतिपन्नस्वतस्त्वमात्रस्य साधयितुमशक्यत्वान्न सिद्धसाधनता । न चैवं प्रकृते । ‘असद्विलक्षणत्वम्, इत्यनुक्त्वापि विप्रतिपन्नसद्विलक्षणत्वमात्रस्य साधयितुं शक्यत्वादिति भावः ।

सत्यतानाश्रयत्वमित्यत्र सत्यताशब्देन किमुच्यते ? किमर्थं क्रिया-सामर्थ्यादिकम् ? किं वा व्यवहारातीतत्वलक्षणपारमार्थिकत्वम् ? अथवा अबाध्यत्वम् ? इति विकल्पयति ॥ केयमिति ॥ आद्यमाशङ्कते ॥ अर्थ-क्रियेति ॥ आदिशब्देन सत्ताजात्याश्रयत्वासद्विविक्तत्वादिकं विवक्षति । अर्थक्रियासामर्थ्यादेः पक्षे परेणाप्यङ्गीकारात् तदनाश्रयत्वसाधने अपसिद्धान्त इति परिहरति ॥ तदनाश्रयत्वेति ॥ द्वितीयमाशङ्कते ॥ तदन्या चेदिति ॥ तादृशपारमार्थिकत्वानधिकरणत्वस्य पक्षे मयाप्यङ्गीकारात्सिद्धसाधनतेति परिहरति ॥ सिद्धसाधनतैवेति ॥ तृतीयमाशङ्कते ॥ सत्यमबाध्यमिति ॥ प्रतिपन्नोपाधाविति ॥ सत्यताग्रहणाभावे बाधलक्षणमसम्भवि स्यात् । मायिकस्य आविद्यकस्य वियदादेः शुक्तिरूप्यादेश्च मायावादिना प्रतिभास-काले अवस्थित्यङ्गीकारेण स्वरूपतस्त्रैकालिकनिषेधप्रतियोगित्वानङ्गीकारात् । तदर्थं सत्यताग्रहणम् । त्रैकालिकपदाभावे तु सिद्धसाधनत्वं सत्यत्व-वादिनाऽपि घटादेः कालान्तरावच्छिन्नप्रतिषेधाङ्गीकारात् । तदर्थं त्रैकालिकत्वेन प्रतिषेधो विशेषितः । प्रतिपन्नोपाधिपदाभावे पुनस्तदेव सिद्धसाधनत्वं सत्यत्ववादिनाऽपि गोत्वादेरश्वादावुक्तप्रतिषेधाङ्गीकारात् । तदर्थं प्रतिपन्नोपाधिपदम् ।

सत्यतानिरुक्तौ बाधनिरुक्तिस् तन्निरुक्तौ बाध्यत्वाभावलक्षणसत्यता-निरुक्तिर् इत्यन्योन्याश्रय इति परिहरति ॥ सत्यताया इति ॥

श्रीनिवासतीर्थीयटिप्पणी

यादृशमिति । देशान्तरे कालान्तरे चासत्वमुभयवादिसिद्धम् । स्वदेश-कालयोः सत्वं सद्वादिनामिष्टम् । तदपि नास्तीत्युच्यते । तथा च सर्वथा सत्वानधिकरणत्वे सति असत्वानधिकरणत्वरूपं सदसत्त्वानधिकरणत्वं सद्वादिनामनिष्टमिति तदेव मया साध्यत इत्यर्थः ॥ एतदेवेति । सदसद्वै-लक्षण्य इति मूलवाक्यमेवेत्यर्थः । एतदप्रसिद्धविशेषणत्वम् ॥ वक्ष्याम इति । शुक्तिरजतस्याप्यनिर्वचनीयत्वाभावात्साध्यविकलो दृष्टान्त इत्यत्रे-त्यर्थः । तत्र शुक्तिरजतादेरसत्वेन तदनधिकरणत्वाभावस्योपपादितत्वादिति भावः । प्रत्येकम् उभयवैलक्षण्यसाधनपक्षे प्रत्येकम् उभयानाश्रयत्वसाधनपक्षे विशिष्टसाधनपक्षे चासद्वैलक्षण्यसाधने सिद्धसाधनतामुक्त्वा व्यर्थविशेष्यत्व-रूपदोषान्तरं चाह ॥ सर्वत्रेति ॥ सत्यविवेकस्येति । सत्यभिन्नस्येत्यर्थः । सत्यविविक्तस्येति यावत् ॥ मिथ्याभावस्येति । मिथ्याया भावो धर्मो मिथ्यात्वं तस्येत्यर्थः ।

सत्यविविक्तत्वरूपमिथ्यात्वसाधनपक्षेऽपि पूर्ववत्सिद्धसाधनतेत्याह ॥ सत्यान्तरेति ॥ सत्यतानाश्रयत्वमिति । सत्यान्तरविवेकेऽपि सत्यताश्रय-त्वस्यैव सत्वेन तदनाश्रयत्वाभावान्नोक्तदोष इति भावः ॥ केयं सत्यतेति । यदनाश्रयत्वं साध्यत इत्यर्थः । अर्थक्रियासामर्थ्यम् अर्थक्रियाकारित्वम् । आदिपदेन व्यवहारविषयत्वं ग्राह्यम् ॥ अपसिद्धान्तेति ॥ अर्थक्रिया-सामर्थ्यस्य व्यवहारविषयत्वस्य च प्रपञ्चे परेणाप्यङ्गीकारात्तदनाश्रयत्व-साधनेऽपसिद्धान्त इत्यर्थः ॥ तदन्या चेदिति । अर्थक्रियासामर्थ्यादिभिन्ना सत्ताजात्यधिकरणत्वरूपा सत्यता चेदित्यर्थः ॥ सिद्धसाधनतैवेति । अनुगतजातेरस्माभिरनङ्गीकारेण तदनधिकरणत्वस्य सिद्धत्वादित्यर्थः ॥ तद्विवेक इति । सत्यविवेकशब्दार्थ इत्यर्थः ॥

विज्ञानं चेदिति । बाधस् तद्विषयत्वं बाध्यत्वमिति शेषः ॥ प्रतिपन्नो-पाधाविति । संयोगेन समवायेन वा प्रतियोग्याधारत्वेन प्रतिपन्ने उपाधा-वित्यर्थः । तत्र त्रैकालिकप्रतिषेधो बाध इत्युक्तेऽसम्भवः । मायिकस्य वियदादेराविद्यकस्य शुक्तिरजतादेश्च प्रतीतिकालेऽसद्विलक्षणस्वरूपाङ्गीकारेण स्वरूपस्य त्रैकालिकनिषेधाभावात् । अतः सत्यताप्रतिषेध इत्युक्तम् । एवं च नासम्भवः । सत्त्वप्रतिषेधो बाध इत्येवोक्ते सिद्धसाधनता । घटे काशीस्थसत्वप्रतिषेधसद्भावात् । अतः कालिकेत्युक्तम् । तथापि घटादौ कालान्तरीयसत्वप्रतिषेधसद्भावेन पुनःसिद्धसाधनतावारणाय त्रैकालिके-त्युक्तम् । वर्तमानकाले सत्वसद्भावेन त्रैकालिकसत्वप्रतिषेधाभावान्न सिद्ध-साधनता । त्रैकालिकसत्वप्रतिषेधो बाध इत्युक्तेऽसति शशविषाणा-दावतिव्याप्तिस् तस्य कालत्रयेऽप्यभावात् । अतः प्रतिपन्नोपाधावित्युक्तम् । संयोगेन समवायेन वा प्रतियोगिभूतशशविषाणाद्याधारत्वेन प्रतिपन्न-स्योपाधेरेवाभावान्न तत्रातिव्याप्तिरिति पदानां कृत्यं द्रष्टव्यम् । अद्यापीति । सत्यतानिरुक्तौ बाधनिरुक्तिर् बाधलक्षणान्तःपातित्वात्सत्यतायाः । बाध-निरुक्तौ चाबाध्यत्वलक्षणसत्यत्वनिरुक्तिः । अभावनिरूपणस्य प्रतियोगि-निरूपणाधीनत्वादित्यन्योन्याश्रय इति भावः ।

श्रीगुरुराजीयटिप्पणी

ननु च ख्यातिबाधान्यथानुपपत्त्या उक्तरूपसदसद्विलक्षणत्वस्य शुक्ति-रूप्ये सिद्धत्वात् कथमप्रसिद्धविशेषणत्वमित्यत आह ॥ एतच्चेति ॥ सर्वत्रेति ॥ असद्विलक्षणत्वमनुपादाय विप्रतिपन्नसद्विलक्षणत्वमात्रस्यैव साधयितुं शक्यत्वादिति भावः । अत्र वदन्ति ‘गुणादिकं गुण्यादिना भिन्नाभिन्नं समानाधिकरणत्वात्’ इत्यत्र तार्किकाङ्गीकृतभिन्नत्वस्येव व्यापकविशेषणानाम् उद्देश्यप्रतीत्यर्थत्वाद् इह च सद्विलक्षणत्वे सत्य-सद्विलक्षणत्वमिति प्रतीतेरुद्देश्यत्वान् नासद्विलक्षणत्वसाधनवैयर्थ्यम् । न चाभेदे सत्यपि घटः कलश इति सामानाधिकरण्यदर्शनाद् अप्रयोजकत्व-निरासाय विशिष्टधियस्तत्रोद्देश्यत्वेऽपि प्रकृते तादृशप्रयोजनादर्शनेन विशिष्टधिय उद्देश्यत्वानुपपत्तेर्वैयर्थ्यमिति वाच्यम् । तुच्छे सद्विलक्षणत्वे सत्यपि दृश्यत्वादर्शनेन प्राप्ताप्रयोजकत्वशङ्कानिरासायेव प्रकृतेऽपि तथाधिय उद्देश्यत्वेन वैयर्थ्यायोगात् । अत एव न्यायामृतेऽपि व्यर्थविशेषणत्वं नेत्युक्तम् ॥ आनन्दबोधोक्तमिथ्यात्वनिर्वचनमाशङ्कते ॥ सत्यविवेक-स्येति ॥ तथा च नासद्वैलक्षण्यसाधनवैयर्थ्यमिति भावः । सत्यविविक्तत्व-मिति कोऽर्थः ? किं सद्भिन्नत्वम् । किं वा सत्यतानाश्रयत्वम् । किं वा बाध्यत्वमिति विकल्पान् मनसि निधायाद्यं निराचष्टे ॥ न सत्यान्तरेति ॥ द्वितीयमाशङ्कते ॥ सत्यतेति ॥ सत्यताशब्देन किमुच्यते ? किमर्थ-क्रियासामर्थ्यादिकम् ? किं वा व्यवहारातीतत्वलक्षणपारमार्थिकत्वमिति विकल्पयति ॥ केयमिति ॥ आद्यमाशङ्क्य परिहरति ॥ अर्थक्रियेति ॥ द्वितीयमाशङ्क्य परिहरति ॥ तदन्या चेदिति ॥ विकल्पितसत्य-विवेकशब्दार्थेषु तृतीयमाशङ्कते ॥ सत्यमिति ॥

मिथ्यात्वानुमानखण्डनपरशुः

नन्वप्रसिद्धविशेषणतेत्ययुक्तम् ॥ दृष्टान्तसद्भावेन तत्रैव साध्यस्य प्रसिद्धत्वात् ॥ अन्यथा दृष्टान्तत्वं न स्यादित्यत आह ॥ एतच्चेति ॥ दृष्टान्तस्य साध्यवैकल्येऽभिहिते विशेषणस्यासिद्धिः सिद्धा भवतीति भावः ॥ सर्वत्रेति ॥ सदसद्वैलक्षण्यं साध्यमिति पक्षे तथा सद्वैलक्षण्येन सहासद्वैलक्षण्यं साध्यमिति पक्षे सद्वैलक्षण्यविशिष्टासद्वैलक्षण्यं साध्यमिति पक्षे यादृशं सद-सद्वैलक्षण्यं सद्वादिनामनिष्टं तादृशं साध्यमिति पक्षे च असद्वैलक्षण्यं व्यर्थम् । सदसत्वानाश्रयत्वमित्यादिपक्षेषु असत्वानाश्रयत्वसाधनं व्यर्थमिति भावः । एतेन सदसत्वानाश्रयत्वमित्यादिपक्षेषु असद्वैलक्षण्यसाधनाभाववैय्यर्थ्याभि-धानमयुक्तमिति परास्तं सत्यताश्रयत्वमिति । तत्तद्धर्मतयाऽङ्गीकृतसत्वा-नाश्रयत्वं सद्विविक्तमिति शब्दार्थतया विवक्षितम् । अतो न परकीयसत्वा-नधिकरणत्वादिकमादाय सिद्धसाधनतेति भावः ॥ तदन्या चेदिति ॥ अर्थक्रियासामर्थ्यादिलक्षणायाः सत्यता सदन्या चेदित्यर्थः । सत्यमिथ्या-शब्दार्थयोर् विवेककथनव्याजेन बाध्यत्वं मिथ्येति विवक्षितसाध्यमुपादत्ते । सत्यमबाध्यमिति । सत्यताया एवेति । अबाध्यत्व व्यतिरेकेण सत्यताया अनिरूपणादित्यर्थः ॥ बाधज्ञाने अबाध्यत्वरूपसत्यताज्ञाने च त्रैकालिक-सत्यताप्रतिषेधरूपबाधज्ञानमित्यत्यन्योन्याश्रय इति भावः ॥

सत्त्वाभावस्य आश्रयासिद्धिप्रयोजकत्वसमर्थनम्

टीका

किं चैवं सति अत्यन्तासत्वमेव प्राप्तमिति आश्रयासिद्ध्यादि प्रत्यावृत्तिः । सत्त्वनिषेध एव क्रियते । न त्वसत्त्वविधिरिति चेन्न । सत्त्वनिषेधातिरिक्तस्यासत्वस्याभावात् । भावेऽपि सत्त्वनिषेधे-नैवाश्रयासिद्धिः स्यात् । असत्त्वमनाश्रयत्वे प्रयोजकं न सत्त्वाभाव इति चेन्न । नियामकाभावात् । समं प्रतिवादिनोऽपीति चेद् अस्तु तावत्, आश्रयासिद्धिसन्देहेऽप्यनुमानमसाधकम् ।

व्यावहारिकसत्वस्याश्रयत्वप्रयोजकत्वशङ्का तन्निरासश्च

व्यावहारिकसत्तास्वीकारादाश्रयतोपपत्तिरिति चेत् केयं व्यावहारिकी सत्ता ? यदा व्यवहारनिर्वाहहेतुस्तदा सिद्धं नः समीहितम् । व्यर्थं च व्यावहारिकीति विशेषणम् । सत्तामङ्गीकृत्य पुनस्तन्निषेधे परस्यापसिद्धान्तश्च ।

पारमार्थिकत्वमेव निषिध्यते न तु व्यावहारिकी सत्तेति चेत् किमिदं पारमार्थिकत्वम् ? अव्यावहारिकत्वं चेन् निषिध्यताम् । न नो हानिः । अबाध्यत्वमिति चेद् अबाध्यत्वनिषेधो बाध्यत्वमेव । तच्च सत्तानिषेध इति कुतो व्यावहारिकी सत्तापि ? इतरेतराश्रय-दोषो वा स्यात् ।

भ्रान्तिसिद्धा सत्ता व्यावहारिकी सत्तेति चेत् तथा सति नास्ति सत्तेत्यनाश्रयतैव ।

मन्दारमञ्जरी

एवं तावत्सत्यतानाश्रयत्वं सत्यविवेक इति पक्षः सत्यत्वनिरुक्त्या दूषितः । इदानीमस्तु यत्किञ्चित्सत्यत्वम् । अथापि तदनाश्रयत्वसाधने अत्यन्तासत्वमेवापन्नमिति आश्रयासिद्ध्यपसिद्धान्तौ स्यातामिति तस्मिन्नेव पक्षे दोषान्तरमाह ॥ किञ्चैवमिति ॥ सत्वनिषेधातिरिक्तेति ॥ शश-शृृङ्गादौ सत्त्वाभावेनैव क्लृप्तेन असद्व्यवहारोपपत्तौ तद्व्यतिरिक्तासत्व-कल्पनं नित्यत्वाभावातिरिक्तानित्यत्वकल्पनमिव निष्प्रमाणकमित्यर्थः ॥ अस्तु तावदिति ॥ यद्यसत्त्वाभाव आश्रयत्वे प्रयोजकः स्यात्तदा आश्रयत्वाभावरूपे अनाश्रयत्वे असत्त्वाभावाभावरूपमसत्त्वमेव प्रयोजकं स्यात् । न त्वेतदस्ति गौरवात् । किं तु? लाघवेन आश्रयत्वे सत्त्वमेव प्रयोजकम् । तथा च अनाश्रयत्वेऽपि सत्वाभाव एव प्रयोजक इति निश्चेतुं शक्यत्वेन निश्चिताश्रयासिद्धिरेव वक्तुं शक्या । तथापि सत्त्वा-भावस्य अनाश्रयत्वप्रयोजकत्वनिश्चयाभावमुपेत्य सन्दिग्धासिद्धिरुच्यत इति तावच्छब्दाभिप्रायः ।

व्यर्थं चेति ॥ सत्त्वेन व्यवहारमात्रं व्यावहारिकं सत्त्वमित्यङ्गीकारे मिथ्यात्ववादिनः सत्त्वनिषेधलक्षणप्रयोजनसहितं व्यावहारिकपदं स्यात् । तत्तु नाङ्गीकर्तुं शक्यम् । अर्थगतसत्वाभावेन आश्रयासिद्धितादवस्थ्यात् । व्यवहारनिर्वाहहेतुभूतं सत्वं व्यावहारिकं सत्वमित्यङ्गीकारे तु अर्थसत्व-सम्भवेन आश्रयासिद्धिपरिहारेऽपि सत्ताया अभ्युपगतत्वेन सत्तानिषेध-लक्षण प्रयोजनरहितं व्यावहारिकत्वविशेषणं व्यर्थमित्यर्थः । यद्वा व्यवहार-निर्वाहाहेतुसत्ताया अभावेन व्यावर्त्याभावान् निष्प्रयोजनं विशेषणमित्यर्थः । किं च सत्यतानाश्रयत्वमित्यत्र किं सत्तामात्रनिषेधोऽभिप्रेतः? किं वा व्यावहारिकसत्ताभ्युपगमेन पारमार्थिकसत्तानिषेधः ? इति विकल्पं हृदि निधायाद्यं दूषयति ॥ सत्तामङ्गीकृत्येति ॥ द्वितीयमाशङ्कते ॥ पारमार्थिकत्वमेवेति ॥ दूषयति ॥ किमिदमित्यादिना । सत्यता-नाश्रयत्वमित्यत्र पारमार्थिकत्वमेव निषिध्यते । तच्च पारमार्थिकत्व-मबाध्यत्वमिति वदता परेण अबाध्यत्वनिषेधः सत्यतानाश्रयत्वमित्युक्तं स्यात् । अबाध्यत्वनिषेधो बाध्यत्वमेव । बाधश्च पूर्वोक्तसत्यतानिषेधरूपः । तत्र च बाधलक्षणे किं सत्तामात्रनिषेधोऽभिप्रेतः ? पारमार्थिकसत्तानिषेधो वा । तत्राद्ये व्यावहारिकसत्तापि न स्यादित्याह ॥ कुतो व्यावहारि-कीति ॥ द्वितीये ‘पारमार्थिकत्वज्ञाने तन्निषेधलक्षणबाध्यत्वज्ञानं बाध्यत्व-ज्ञाने च अबाध्यत्वरूपपारमार्थिकत्व ज्ञानम्’ इत्यन्योन्याश्रय इत्याह ॥ इतरेतराश्रयदोषो वेति ॥

यद्यपि सत्यताया एवाद्याप्यनिरूपणादित्यत्रापि ग्रन्थे अन्योन्याश्रयः प्रागुक्तः । अत्रापि स एवोच्यते । तथापि प्राक् सत्यतानाश्रयत्वमिति लक्षणे ‘‘सत्यतापदेन अबाध्यत्वविवक्षायामन्योन्याश्रयप्रसङ्गात्तदर्थमर्थ-क्रियासामर्थ्यादिकं व्यवहारातीतत्वं वा विवक्षणीयम् । तत्राद्ये मूलग्रन्थोक्त एवापसिद्धान्तः । द्वितीये तु तदुक्तैव सिद्धसाधनता । तथा च सत्यता-नाश्रयत्वं सत्यविवेक इति पक्षोऽपि मूलग्रन्थोक्तदोषं नातिवर्तते’’ इति वक्तुं तदुपयोगित्वेनार्थक्रियासामर्थ्यादिपक्षं परिशेषयितुं पक्षान्तरे अन्योन्याश्रय उक्तः । इदानीं तु सत्यतानाश्रयत्वमिति लक्षणे मूलग्रन्थोक्ताश्रयासिद्धिरपि वक्तुं शक्येति किञ्चैवमित्यादिना प्रक्रम्य मध्ये व्यावहारिकसत्यत्वेन परेण आश्रयत्वे शङ्किते तदभावोपपादनार्थं ‘‘सत्यता-नाश्रयत्वमित्यत्र लक्षणे पारमार्थिकत्वनिषेधे अन्योन्याश्रयप्रसङ्गात् सत्ता-मात्रनिषेधोऽपि विवक्षणीयः ॥ तथा च व्यावहारिकसत्ताया अप्यभावा-दाश्रयासिद्धिः’’ इत्येवमाश्रयासिद्धिं वक्तुं तदुपयोगित्वेन सत्तामात्रनिषेधपक्षं परिशेषयितुं पक्षान्तरे अन्योन्याश्रय उच्यत इति फलभेदान्न पौनरुक्त्यम् । ननु न व्यवहारनिर्वाहहेतुसत्ता व्यावहारिकी सत्ता येन तव समीहित-सिद्ध्यादिकं स्यात् । किं तु ? अन्यैवेति शङ्कते ॥ भ्रान्तिसिद्धेति ॥ तथा सति नास्तीति ॥ भ्रान्तिसिद्धस्यास्तित्वे भ्रान्तित्वस्यायोगादित्यर्थः ।

श्रीनिवासतीर्थीयटिप्पणी

सत्यतानाश्रयत्वं सत्यविवेक इति पक्षे दूषणान्तरमाह ॥ किं चैवं सतीति । त्रैकालिकसत्वनिषेधे सतीत्यर्थः । आश्रयासिध्यादीत्यादि-पदेनापसिद्धान्तग्रहणम् । क्रियते मिथ्यापदेन ॥ न त्विति । तथा च नाश्रयासिध्यादीति भावः ॥ न सत्वाभाव इति । तथा च तावन्मात्रेण नाश्रयासिद्धिरिति भावः ॥ नियामकाभावादिति । तथा चानाश्रयत्वे सत्वाभावस्यैव प्रयोजकत्वं नासत्वस्येत्यपि वक्तुं शक्यत्वेनाश्रयासिद्धिः स्यादेवेत्याशयः ॥ सममिति ॥ सत्वाभाव एवानाश्रयत्वे प्रयोजको न त्वसत्वं प्रयोजकमिति भवत्पक्षेऽपि नियामकं नास्तीति दूषणं सममित्यर्थः ॥ तथा च सत्त्वनिषेधेनाश्रयासिध्युद्भावनं भवतामयुक्तमिति हृदयम् ॥ सन्देहेऽपीति । यदि त्वत्पक्षे नियामकं स्यात् तदानाश्रयासिद्धिर् यदि चास्मत्पक्षे नियामकं स्यात् तदा स्यादेवाश्रयासिद्धिरित्याश्रयासिद्धि-सन्देहेऽपि सन्दिग्धाश्रयासिध्यैवानुमानं दुष्टमित्यसाधकमित्यर्थः । किं व्यवहारनिर्वाहहेतुभूता सत्ता व्यावहारिकी सत्ता उत भ्रान्तिसिद्धा सत्तेति विकल्प्य आद्यमनूद्य दूषयति ॥ व्यवहारनिर्वाहेति । घटोऽस्तीत्यादि-व्यवहारनिर्वाहहेतुभूता सत्ता व्यावहारिक सत्तेत्यर्थः ॥ सिद्धं न इति । व्यवहारहेतुभूतसत्तायाः प्रपञ्चेऽङ्गीकारेणाश्रयासिद्धिपरिहारेऽपि सत्ताप्रतिषेध रूपमिथ्यात्वसाधने बाधापत्त्याऽनुमानस्य दुष्टत्वेनास्माकं समीहितं सिद्ध-मित्यर्थः ॥ व्यर्थं चेति । व्यवहारनिर्वाहाहेतुसत्ताया अभावेन व्यावर्त्या-भावाद् व्यावहारिक(त्व)विशेषणं व्यर्थमित्यर्थः । आश्रयासिद्धिपरिहाराय व्यावहारिकसत्तामङ्गीकृत्य पुनस्तत्प्रतिषेधरूपमिथ्यात्वसाधने न केवलं बाधेनास्मदभिमतसिद्धिः किं त्वपसिद्धान्तेनापीत्याह ॥ सत्तामिति । यद्वा सत्वानाश्रयत्वमित्यत्र किं सत्तामात्रप्रतिषेधोऽभ्युपगतः किं व्यावहारिक-सत्ताभ्युपगमेन पारमार्थिकसत्ताप्रतिषेध इति विकल्पं मनसि निधायाद्य-मपसिद्धान्तेन दूषयति ॥ सत्तामङ्गीकृत्येति । व्याहतेश्चेति क्वचित्पाठे स्फुटोऽर्थः । द्वितीयं शङ्कते । पारमार्थिकसत्त्वमेवेति ॥ न त्विति । तथा च नाश्रयासिद्धिरिति भावः ॥ न नो हानिरिति । व्यवहारनिर्वाह-हेतुत्वस्यैव प्राप्त्या नास्माकं काचित्क्षतिरित्यर्थः । प्रतिपन्नोपाधौ सत्ताप्रतिषेधो हि बाधः । तत्र किं सत्ताप्रतिषेधमात्रं विवक्षितं पारमार्थिक-सत्ताप्रतिषेधो वा । आद्ये आह ॥ तच्चेति । तथाच न तु व्यावहारिकी सत्ता निषिध्यत इत्युक्तमसदिति भावः । द्वितीयेत्वाह ॥ इतरेतरेति । पारमार्थिकत्वनिरुक्तौ बाध्यत्वनिरुक्तिस् तल्लक्षणान्तःपातित्वात् । बाध्यत्व-निरुक्तौ अबाध्यत्वलक्षणपारमार्थिकत्वनिरुक्तिः । अभावनिरूपणस्य प्रातियोगिकनिरूपणाधीनत्वादित्यन्योन्याश्रय इत्यर्थः । ननु केयं व्यावहारिकी सत्तेति प्रश्ने व्यवहारनिर्वाहहेतुभूता सत्ता व्यावहारिकी सत्तेति नोच्यते । येन भवत्समीहितसिध्यादिकं स्यात् । किं त्वन्यैवेत्याशङ्कते ॥ भ्रान्तिसिद्धेति ॥ नास्ति सत्तेति । भ्रान्तिसिद्धस्यास्तित्वे भ्रान्ति-त्वस्यैवायोगादिति भावः ॥ अनाश्रयतैवेति । आश्रयासिद्धिरेवेत्यर्थः ॥

श्रीगुरुराजीयटिप्पणी

न केवलमस्मिन् पक्षे इतरेतराश्रय इत्येव किन्तु अन्यत्रासत्त्वेन सम्प्रतिपन्नस्य पटादेः प्रतिपन्नोपाधौ त्रैकालिकसत्यतानिषेधप्रतियोगित्वे सार्वदैशिकसार्वकालिकनिषेधप्रतियोगित्वेनात्यन्तासत्त्वादाश्रयासिद्ध्यपसिद्धान्तौ स्यातामित्याह ॥ किञ्चेति ॥ अबाध्यत्वं पारमार्थिकत्वमिति पक्षेऽपि बाधलक्षणे किं सत्तामात्रनिषेधोऽभिप्रेतः पारमार्थिकत्वनिषेधो वेति विकल्पं मनसि निधायाद्यं निराचष्टे ॥ कुत इति ॥ ततश्च न तदाश्रयणे-नाश्रयत्वसमर्थनं युज्यत इति भावः । द्वितीयं दूषयति ॥ इतरेतरेति ॥

मिथ्यात्वानुमानखंडनपरशुः

किं चैवं सतीति । अन्यत्र सत्ताप्रतिषेधः सिद्धोऽस्ति प्रतिपन्नो-पाधावपि सत्वनिषेधे क्रियमाणे प्रपञ्चस्यात्यन्तासत्वमेव प्राप्तमिति आश्रयासिद्ध्यादि प्रत्यावृत्तिर् अतद्गुणसंज्ञानबहुव्रीहिणाऽपसिद्धान्तप्रत्या-वृत्तिरिति भावः । एतेनासत्वसाध्यत्वपक्षे आश्रयासिद्धेर्दूषणात्वाभावेन तत्प्रत्यावृत्यभिधानं नानिष्टमिति परास्तम् । अतस्तर्हि प्रागुक्त एव पक्षे सत्वनिषेध एवेति ॥ उत्तरं शङ्कते । असत्वमिति । अस्तु तावदिति । सत्वविरहस्यानाश्रयत्वे प्रयोजकत्वसन्देहोऽ स्त्वित्यर्थः । व्यर्थं चेति ॥ सत्वे वाऽन्तरवैजात्याभावेन विशेषणं व्यर्थमित्यर्थः । सत्तामङ्गीकृत्येति सूत्रकारोक्तमिति शेषः । एतेन सत्तामङ्गीकृत्य तन्निषेधे व्याघातस्यैव वक्तव्यत्वेन अपसिद्धान्ताभिधानमनुपपन्नमिति परास्तम् अपसिद्धान्त-परिहारमाशङ्कते ॥ पारमार्थिकत्वमेवेति ॥ सूत्रकाराभिमतं व्यावहारिक-सत्वमङ्गीकृत्य तदनभिमतं पारमार्थिकसत्वं निषिध्यते । अतो नापसिद्धान्त इति भावः । बाधलक्षणे प्रतिपन्नोपाधौ त्रैकालिकसत्ताप्रतिषेधरूपे सत्ताशब्देन सर्वसत्ता विवक्षितेति पक्षे दोषमाह ॥ कुत इति ॥ सत्ताशब्देन पारमार्थिकी सत्ता विवक्षितेति पक्षे दोषमाह ॥ इतरेतराश्रयेति ॥ बाधज्ञाने बाध्यस्वरूपपारमार्थिकतत्त्वज्ञानतद्भावने च तन्निषेधरूपबाधज्ञानमिति इतरेतराश्रय इत्यर्थः ।

सत्तां विना प्रतीतिगोचरत्वस्यैव आश्रयत्वप्रयोजकत्वशङ्का तन्निरासश्च

टीका

ननु प्रतीतिगोचरतामात्रेण आश्रयतोपपत्तौ किं सत्तया ? सुरभितासाधने तु गगनारविन्दस्य नाश्रयता सत्ताविरहात् । अपि तु निरुपाख्यत्वादिति चेन्न । तथा सति शब्दाद्गगनारविन्दादिसत्ता-प्रतीतौ तत्र सुरभितासाधने नाश्रयासिद्धिरुद्भाव्येत । अस्त्वेवम्, अङ्गान्तरवैकल्यं तत्र भविष्यतीति चेन्न । काल्पनिकाङ्गसाकल्यस्य सर्वत्र सौलभ्यात् । तथा च न साधनतदाभासनियमः स्यात् । वाद्याद्यभ्युपगमेन नियम इति चेन्न । कथाभासप्रसङ्गेन असत्साधन-दूषणयोरपि सत्वप्रसङ्गात् । किं चैवं सति प्रकृतानुमानस्यापि न तत्वावेदकत्वं स्यात् ।

सत्तां विना अपरोक्षप्रतीतिगोचरत्वस्यैव

आश्रयत्वप्रयोजकत्वशङ्का तन्निरासश्च ।

गगनारविन्दस्यापरोक्षप्रतीतिर्नास्तीति चेत् तथा सत्यतीन्द्रिय प्रपञ्चभागस्य अनाश्रयत्वं स्यादिति ।

मन्दारमञ्जरी

अरविन्दत्वहेतावाश्रयासिद्ध्यनुद्भावनमस्त्वित्याह ॥ अस्त्विति ॥ कथं तर्हि तस्य दुष्टत्वम् ? इत्यत आह ॥ अङ्गान्तरेति ॥ काल्पनिकाङ्गेति ॥ अकाल्पनिकाङ्गसाकल्यं तु तव कुत्रापि नास्तीति शेषः । एवं च सर्वमपि दुष्टं स्याद् अदुष्टं वा । न तु किञ्चिद्दुष्टं किञ्चिद-दुष्टमिति विभागः स्यादित्याह ॥ तथा चेति ॥ कथाभासेति ॥ यद्यङ्गसाकल्यस्य काल्पनिकत्वेऽपि यत्राङ्गसाकल्यं वादिप्रतिवादिप्राश्निकाभ्युपगतं तत्साधनं सत्साधनमन्यदसदिति नियमस् तदा भ्रान्तवाद्यारब्धकथाभासे अङ्गसाकल्य-वत्तया तदभ्युपगतस्य वस्तुतो दुष्टस्य साधनस्यादुष्टत्वं स्यात् । अविद्य-मानाभ्युपगन्तुर्वादित्वमेव नास्तीति चेत्तर्हि अङ्गसाकल्यस्य काल्पनिकत्वेऽपि वाद्याद्यभ्युपगमेन नियम इत्यसङ्गतं स्यादिति भावः । एतच्चान्यत्रास्माभिः प्रपञ्चितम् ॥ किं चैवं सतीति ॥ दृश्यत्वानुमानाङ्गसाकल्ये उभय-वादिसंमतिश्चेत् तत्प्रामाण्येऽपि उभयवादिसम्मतिरस्तु । वस्तुतस्तु प्रामाण्यं न स्यात् । वस्तुतोऽङ्गसाकल्याभावात् । अङ्गसाकल्यं च व्यावहारिकमस्तीति चेत्तर्हि प्रामाण्यमपि व्यावहारिकमेवास्तु । न तत्वावेदकत्वलक्षणं पारमार्थिकम् । प्रयोजकानुरोधित्वात्प्रयोजनस्य । अन्यथा प्रातिभासिकाङ्ग-साकल्येन व्यावहारिकावेदकत्वलक्षणं व्यावहारिकं प्रामाण्यं स्यादिति भावः।

श्रीनिवासतीर्थीयटिप्पणी

नन्वित्यनन्तरं प्रपञ्चस्येति शेषः । नन्वनुमानाश्रयत्वे प्रतीतिविषयत्व-मात्रस्यैव प्रयोजकत्वमङ्गीकृत्य सत्ताया अप्रयोजकत्वाङ्गीकारे गगनारविन्दं सुरभि अरविन्दत्वात् सरोजारविन्दवदित्यनुमाने गगनारविन्दस्यापि प्रतीति-विषयत्वोपपत्त्या आश्रयस्य सत्वाभावेनाश्रयासिद्धिरुद्भाव्यते सा नोद्भाव्येतेति चेन्न । तत्र प्रतीतिविषयत्वस्याभावेनैवाश्रयासिध्युद्भावनासम्भवेन सत्ता-विरहस्याप्रयोजकत्वादित्याह ॥ सुरभितासाधन इति । निरुपाख्यत्वा-दिति । उपाख्या प्रतीतिस्तद्विषयत्वाभावादित्यर्थः ॥ अस्त्वेवमिति । अरविन्दत्वहेतावाश्रयासिध्यनुद्भावनमस्त्वित्यर्थः । तथा चेष्टापत्तिरिति भावः । ननु तर्ह्याश्रयासिद्ध्या दुष्टत्वाभावे अनुमितिरुत्पद्येतेति तत्राह ॥ अङ्गान्तरेति । अनुमानस्य द्वे ओ व्याप्तिः पक्षधर्मता चेति । तथा चारविन्दत्वहेतोः सुरभित्वं विना म्लानारविन्देऽपि सद्भावेनानैकान्तिकतया व्याप्तिरूपाङ्गवैकल्यादित्यर्थः ॥ काल्पनिकाङ्गेति । अकाल्पनिकाङ्गसाकल्यं तु तव कुत्रापि नास्तीति वाक्यशेषः । एवं च सर्वमपि साधनं समीचीनं वा स्यादाभासो वा न तु किञ्चित्साधनं समीचीनं किंचिदाभासरूपमिति विभागः स्यादित्याह ॥ तथा चेति । यत्राङ्गसाकल्यं वाद्यादिनाभ्युपगतं तत्साधनमदुष्टम् । अन्यदाभासरूपमिति नियमो भविष्यतीत्याशङ्कते ॥ वाद्यादीति ॥ कथाभासेति । भ्रान्तवाद्याद्यारब्धकथाभासे अङ्गसाकल्य-वत्तया तदभ्युपगतस्य वस्तुतो दुष्टस्यापि साधनस्यादुष्टत्वं स्यात् । अङ्गसाकल्यवत्तया तदनभ्युपगतस्य वस्तुतोऽदुष्टस्यापि साधनस्याभासत्वं स्यादित्यर्थः ॥ किं चैवं सतीति । वाद्याद्यभ्युपगमेन साधनतदाभास-नियमाङ्गीकारे प्रकृतस्य प्रपञ्चमिथ्यात्वसाधकस्य दृश्यत्वानुमानस्याप्य-तत्वावेदकत्वं स्यात् । आभासत्वं स्यादिति यावत् । वादिना त्वया तत्राङ्गान्तरसाकल्याङ्गीकारेऽपि प्रतिवादिना मयाऽङ्गान्तरवैकल्याङ्गीकारादिति भावः । शङ्कते ॥ गगनारविन्दस्येति । अपरोक्षप्रतीतिविषयत्वमेवानुमाने आश्रयत्वप्रयोजकम् । तच्चास्ति प्रकृते प्रपञ्चस्यापरोक्षप्रतीतिविषयत्वात् । गगनारविन्दस्य च तदभावाद् युक्ता तत्राश्रयासिद्धिरित्यर्थः ॥ अनाश्रयत्वं स्यादिति । आश्रयत्वप्रयोजकीभूतापरोक्षप्रतीतिविषयत्वस्य तत्राभावादिति भावः ।

श्रीगुरुराजीयटिप्पणी

किञ्चाङ्गसाकल्यस्य काल्पनिकत्वेऽपि वादिप्रतिवादिभ्यामभ्युपगतत्व-मात्रेण साधनस्यादुष्टताव्यवस्थापने यत्र वादिप्रतिवादिनोरङ्गसाकल्य-ताऽभ्युपगमस् तत्रैव साधनस्यादुष्टता स्यात् । न तु दृश्यत्वानुमानस्य तदङ्गसाकल्यस्य त्वयाऽभ्युपगमेऽपि मयाऽनभ्युपगमेन तस्य वादि-प्रतिवादिसम्मतत्त्वाभावादित्याशयवानाह ॥ किञ्चैवं सतीति ॥ अस्माक-मदोष इति ॥ अस्माकं मते न दोष इत्यर्थः । आश्रयसाध्य-व्यधिकरणासिद्धयो न दूषणमित्युक्तेरिति भावः ।

मिथ्यात्वानुमानखण्डनपरशुः

अङ्गान्तरवैकल्यमिति ॥ अबाधितविषयत्वरूपाङ्गान्तरवैकल्यं तत्र दूषणं भविष्यतीति भावः ॥ काल्पनिकाङ्गेति ॥ यदि सत्ताविधुरस्यापि जगतः सदितिप्रतीतिमात्रेण सत्वापत्त्याऽश्रयत्वलाभः । तर्हि व्याप्त्यादि-विधुराणामपि अनुमानानामत्र व्याप्त्यादिकमस्तीति केनचिदुक्तौ तच्छाब्ध-बोधमात्रेण व्याप्त्यादिलाभः स्यात् । ततश्च साध्वसाधुविभागो न स्यदिति भावः ॥ किं चैवं सतीति ॥ प्रतिवादिना व्याप्त्याद्यनङ्गीकाराद् इति भावः । प्रतीतिविषयमात्रेणाश्रयत्वोपपत्तिरिति पक्षोक्तदूषणं परिहरति ॥ गगनारविन्दस्येति ॥ अपरोक्षप्रतीतिविषयत्वमेवाश्रयत्वे प्रयोजकमित्यभि-मतमिति भावः ।

असतोऽपि निषेधाश्रयत्वे व्यावहारिकसत्ताङ्गीकारवैयर्थ्यसाधनम्

टीका

यदप्युक्तं ‘‘निषेधं प्रति असतोऽप्याश्रयत्वं सम्भवति । यथा ‘वन्ध्यासुतो न वक्ता’ इति । अन्यथा स्ववचनव्याघातादिदोष-प्रसङ्गः । किमु व्यवहारसतः प्रपञ्चस्य’’ इति । तदनुपपन्नम् । तथा सति प्रपञ्चस्य व्यावहारिकसत्तास्वीकारवैयर्थ्यप्रसङ्गात् । निषेधं प्रत्याश्रयत्वे विधिं प्रति तत्कस्मान्न स्यात् । न हि विधि-निषेधयोर्वस्तुत्वे कश्चिद्विशेषः ।

मन्दारमञ्जरी

अन्यथा स्ववचनेति ॥ ‘निषेधं प्रति असन् नाश्रयः’ इति निषेधाश्रयत्वनिषेधं प्रति असत आश्रयत्वमङ्गीकृतं चेत्पुनस्तन्निषेधे स्ववचनव्याघातः । नाङ्गीकृतं चेन्निषेधाश्रयत्वनिषेधं प्रति अनाश्रयत्वे निषेधाश्रयत्वापात इत्यर्थः ॥ तथा सतीति ॥ अनुमानाश्रयत्व-वदर्थक्रियान्तरस्यापि व्यावहारिकसत्तां विनैवोपपत्तेर्व्यावहारिकसत्ता व्यर्था स्यात् । न च वाच्यं प्रयोजनवशान्न तदङ्गीकारः । किं तु ? ‘सन् घटः’ इत्यादिप्रमाणबलादिति । ‘सद्गन्धर्वनगरम्’ इत्यादिवत्तस्य प्रातिभासिक-सत्ताविषयत्वेनाप्युपपत्तेः । न च वाच्यं सत्त्वेन व्यवहारातिरिक्तं व्यावहारिकं सत्त्वमेव मया न स्वीकृतम् । कस्य वैयर्थ्यमापाद्यते ? इति । असञ्जातबाधभ्रमविषयरूप्येऽपि चिरकालमबाधितसद्व्यवहारसम्भवेन तस्य, गगनारोपितनैल्यादेश्च व्यावहारिकतापातादिति भावः । नन्वसतोऽवस्तुरूप-त्वादवस्तुभूतनिषेधं प्रत्याश्रयत्वं युक्तम् । न तु विधिं प्रति । तस्य वस्तुत्वेन तदाश्रयस्यासतोऽपि वस्तुत्वप्रसङ्गादित्याशङ्क्य विधिनिषेधयोः स्वरूपसत्त्वरूपवस्तुत्वे न कश्चिद्विशेषः । अभावोऽस्तीति प्रतीतेस्तस्यापि स्वरूपसत्त्वादित्याह ॥ न हि विधीति ॥ वस्तुत्व इति विषयसप्तमी । न च निषेधाश्रयत्वे ‘वन्ध्यासुतो न वक्ता’ इत्यनुभव एव विशेषः । ‘वन्ध्यासुतोऽभिधेयः’ इति विध्याश्रयत्वेऽपि तद्भावात् । तथा च निषेधग्रहणं व्यर्थमित्यर्थः ।

श्रीनिवासतीर्थीयटिप्पणी

यथेति । वक्तृत्वनिषेधं प्रति असतोऽपि वन्ध्यासुतस्याश्रयत्वादिति भावः ॥ अन्यथेति । निषेधरूपधर्मं प्रति असत आश्रयत्वानङ्गीकार इत्यर्थः ॥ स्ववचनव्याघातादीति । असतो निषेधं प्रत्याश्रयत्वं नास्तीत्युक्ते निषेधाश्रयत्वनिषेधं प्रत्येवासत आश्रयत्वप्राप्त्या पुनस्तन्निषेधे स्ववचनव्याघातः । निषेधाश्रयत्वनिषेधं प्रति असत आश्रयत्वानङ्गीकारे च निषेधाश्रयत्वमेवापतितमिति पुनर्व्याघात एवेत्यर्थः । निषेधाश्रयत्वावगाह्यनु-भवविरोध आदिशब्दार्थः ॥ किम्विति । यदि निषेधं प्रत्यसतोऽप्याश्रयत्व-मस्ति तदा सत्ताप्रतिषेधरूपमिथ्यात्वं प्रति व्यावहारिकसत्वोपेतप्रपञ्च-स्याश्रयत्वं भविष्यतीति किमु वक्तव्यमित्यर्थः ॥ तथा सतीति । निषेधं प्रत्यसतोऽप्याश्रयत्वांगीकारे प्रपञ्चस्याप्यसत्वमेवाङ्गीक्रियताम् । असतोऽपि प्रपञ्चस्य सत्तानिषेधरूपमिथ्यात्वं प्रति आश्रयत्वसम्भवात् । अत आश्रयत्वोपपत्त्यर्थं प्रपञ्चस्य व्यावहारिकसत्तास्वीकारो व्यर्थ एवापद्यत इत्यर्थः । निषेधं प्रति असतोऽप्याश्रयत्वं सम्भवतीति परोक्तं प्रसङ्गा-द्दूषयति ॥ निषेधं प्रतीति । न च वाच्यम् असतो निषेधाश्रयत्वे वन्ध्या-सुतो न वक्तेत्यनुभव एव प्रमाणमिति । घटः वन्ध्यासुतो नेति प्रतियोगित्व रूपविध्याश्रयत्वेऽपि तद्भावात् । अतो निषेधग्रहणमिति द्रष्टव्यम् ।

ननु निषेधस्यावस्तुत्वाद् अवस्तुभूतं निषेधं प्रति असतोऽप्याश्रयत्वं युक्तं न तु विधिं प्रति । तस्य वस्तुत्वेन तदाश्रयस्याप्यसतो वस्तुत्वप्रसङ्गा-दित्याशङ्क्य विधिनिषेधयोः स्वरूपसत्वरूपवस्तुत्वविषये न कश्चिद्विशेषः । अभावोऽस्तीति प्रतीतेस् तस्यापि स्वरूपसत्वात् । एवं च निषेधस्यापि वस्तुत्वेन तदाश्रयस्याप्यसतो वस्तुत्वं प्रसज्ज्यत एवेत्येवं त्वदुक्तदूषण-पिशाची त्वामेवास्कन्दयतीत्याशयेनाह ॥ न हि विधिनिषेधयोरिति । वस्तुत्व इति विषयसप्तमी ।

मिथ्यात्वानुमानखण्डनपरशुः

यद्यप्युक्तमिति ॥ स्वग्रन्थ इति शेषः ॥ अन्यथेति ॥ अन्यथा असतो निषेधं प्रत्याश्रयत्वं नास्तीत्युक्तौ स्ववचनविरोधः स्यादित्यर्थः ।

तत्वप्रदीपिकाकारोक्तमिथ्यात्वनिरासः

टीका

एतेन स्वात्यन्ताभावसमानाधिकरणतया प्रतीयमानत्वं मिथ्यात्व-मिति निरस्तम् । तदेतदपाकृतासत्त्वानिर्वचनीयत्त्वाभ्यां न बहिर्भूत-मिति न पृथगाशङ्क्य दूषितम् ।

आश्रयासिद्धेरदोषत्वशङ्का तन्निरासश्च

नन्वाश्रयासिद्धिरस्माकं न दोषः । परोऽपि तथा अङ्गीकुरुते । ‘निरुपाख्यमप्याश्रय एव’ इत्युक्तत्वात् । तत्कथं तदुद्भावनम् ? इत्थम् । यद्यपि परो वैयात्यमात्रेण तथागतमतमनुसृत्य तथाऽह । तथापि नासौ तत्सिद्धान्तः । तथात्वे निरुपाख्यस्यापि प्रतीत्यङ्गीकार प्रसङ्गात् । प्रपञ्चस्य व्यावहारिकसत्तास्वीकारवैयर्थ्यापत्तेश्चेति ।

मन्दारमञ्जरी

आश्रयासिद्धिप्रसङ्गेनैव तत्वप्रदीपिकाकारोक्तमिथ्यात्वनिर्वचनं निरस्त-मित्याह ॥ एतेनेति ॥ स्वात्यन्ताभावसमानाधिकरणत्वमित्येवोक्ते व्याघातः स्यात् । भावतदत्यन्ताभावयोरेकाधिकरणत्वायोगात् । अतस्तथा प्रतीय-मानत्वमित्युक्तम् । एवं च न व्याघातः । भावाधिकरणतया भ्रान्तिसिद्धस्य वस्तुतोऽभावाधिकरणत्वस्योपपत्तेः । एवं च स्वाधिकरणतया प्रतीयमान-निष्ठात्यन्ताभावप्रतियोगित्वं मिथ्यात्वमिति बोद्धव्यम् ॥ तदेतदिति ॥ अभावप्रतियोगित्वं स्वरूपेण यदि तदा असत्त्वापत्तिः । शशविषाणादेरपि स्वरूपेणात्यन्ताभावप्रतियोगित्वातिरिक्तासत्त्वाभावात् । यदि त्वसद्विलक्षण-स्वरूपानुपमर्देन सत्त्वाकारेण तदा अनिर्वचनीयत्वापत्तिरित्यर्थः ।

तथागतमतमनुसृत्येति ॥ परेण निरुपाख्यस्याश्रयत्वमुपपाद्य स्वोक्तार्थे ।

तदुक्तं,

विधानं प्रतिषेधं च मुक्त्वा शाब्दोऽस्ति नापरः ।

व्यवहारः स चासत्सु नेति प्राप्ताऽत्र मूकता ॥

इति धर्मकीर्तिसम्मतिकथनादित्यर्थः ॥ तथात्व इति ॥ अप्रतीते धर्मिणि कस्यापि निषेद्धुमशक्यत्वान् निरुपाख्ये धर्मिणि किञ्चिन्निषेधता तत्प्रतीतिर्वाच्या । न च वक्तुं शक्या । निरुपाख्यस्य ख्यात्ययोगादित्यर्थः ।

श्रीनिवासतीर्थीयटिप्पणी

तत्वप्रदीपिकाकारोक्तमिथ्यात्वनिर्वचनमाशङ्क्य निराकरोति ॥ एतेनेति । स्वात्यन्ताभावसमानाधिकरणत्वमित्येवोक्ते व्याघातः स्यात् । भावतदत्यन्ता भावयोरेकाधिकरणत्वायोगात् । अतः प्रतीयमानत्वमित्युक्तम् । एवं च न व्याघातः भावाधिकरणतया भ्रान्तिसिद्धस्य वस्तुनोऽभावाधिकरणत्वो-पपत्तेः । एवं च स्वाश्रयतया प्रतीयमानाधिकरणनिष्ठात्यन्ताभाव-प्रतियोगिकत्वं मिथ्यात्वमिति विवक्षितमिति भावः । एतेनेत्युक्तं विश-दयति । तदेतदिति । यद्यत्यन्ताभावप्रतियोगित्वं स्वरूपेण विवक्षितं तदाऽसत्वापत्तिः । शशविषाणादेरपि स्वरूपेणात्यन्ताभावप्रतियोगित्वा-न्यस्यासत्वस्याभावात् । यदि चासद्विलक्षणस्वरूपानुपमर्देन पारमार्थिकत्वा-कारेणात्यन्ताभावप्रतियोगित्वं विवक्षितं तदा सदसद्वैलक्षण्यप्राप्त्या अनिर्वचनीयतापत्तिरित्यर्थः ।

शिष्यः शङ्कते ॥ नन्विति ॥ न दोष इति । आश्रयसाध्य-व्यधिकरणासिद्धयो न दूषणमिति भगवत्पादवचनादिति भावः । परो मायावादी । तथा अदोषतया । तत्र तदीयवचनं ज्ञापकमाह ॥ निरुपाख्यमपीति । असदपीत्यर्थः । वन्ध्यासुतो न वक्तेत्यादौ दर्शनादिति भावः । वैयात्यम् औद्धत्यम् । तथागतमतं बौद्धमतं तन्मते आश्रया-सिद्धेरदोषत्वादिति भावः ॥ तथाऽहेति । आश्रयासिद्धेरदोषतामाहेत्यर्थः । असौ अदोषता ॥ तथात्व इति । निरुपाख्यरूपासतोऽप्याश्रयत्व-मङ्गीकृत्याश्रयासिद्धेरदूषणत्वाङ्गीकारे इत्यर्थः ॥ प्रतीतीति । सद्भ्यामधिकरण-प्रतियोगिभ्यामभावो निरूप्यत इति वचनात् । अप्रतीते धर्मिणि कस्यापि धर्मस्य निषेद्धुमशक्यत्वेन निरुपाख्यरूपासद्रूपे धर्मिणि किञ्चिन्निषेधायावश्यं तत्प्रतीतिर्वाच्या । न च सा वक्तुं शक्या । निरुपाख्यस्य ख्यात्ययोगा-दित्यर्थः ॥ वैयर्थ्यापत्तेश्चेति । आश्रयासिद्धेरदोषत्वेन प्रपञ्चस्यासत्वेऽप्याश्रय-त्वोपपत्तेस्तदुपपत्त्यर्थं प्रपञ्चस्य व्यावहारिकसत्तास्वीकारो व्यर्थ एवापन्न इत्यर्थः ॥

मिथ्यात्वानुमानखण्डनपरशुः

एतेनेति ॥ एतेन सिद्धसाधनत्वेन स्वात्यन्ताभावसमानाधिकरणतया प्रतीयमानत्वं मिथ्यात्वमिति निरस्तम् । वस्तुतस्तु स्वात्यन्ताभाव-समानाधिकरणस्यापि जगतः स्वात्यन्ताभावसमानाधिकरणं जगदिति मायावादिप्रतीतिविषयत्वस्यास्माभिरङ्गीकारात् । न च स्वात्यन्ताभाव-समानाधिकरणतया प्रतीयमानत्वं मिथ्यात्वमिति विवक्षितमिति वाच्यम् । त्वन्मते जगत्स्वरूपस्य प्रतिपन्नोपाधौ सत्वेन तत्र तदत्यन्ताभावा-सम्भवाद् भावाभावयोः सामानाधिकरण्यप्रतीतेः प्रमा(तृ) त्वायोगात् । योगे च संयोगादिवद् अव्याप्यवृत्तित्वप्रसङ्गेनार्थान्तरत्वात् । ननु मूलकारेण सद्वैलक्षण्यसदसद्वैलक्षण्यपक्षावेवाशङ्क्य दूषितौ सद्वैलक्षण्येन सहासद्वैलक्षण्यमित्यादयः पक्षा अनाशङ्क्यैव दूषिताः । तत्कुतो वैषम्य-मित्यत आह ॥ तदेतदिति ॥ ननु निरुपाधिकमप्याश्रय एवेति परो मनुते किमु सद्वैलक्षण्यस्याश्रयत्वं मनुत इति वक्तव्यमिति भावेनाह ॥ परोऽ-पीति ॥ यथात्वस्याश्रयासिद्धिदोषः न प्राप्नोति तथाऽङ्गीकुरुत इत्यर्थः । सद्विलक्षणस्याश्रयत्वाङ्गीकाराद् आश्रयासिद्धिर्न प्राप्नोतीति भावः । वैयात्य-मात्रेणेति ॥ वैयात्यमात्रेण धैर्यमात्रेण तथागतमतं बौद्धमतमनुसृत्य तथाऽहेत्यर्थः ॥ तथात्व इति ॥ असतोऽप्याश्रयत्वेनेन्द्रियसंनिकर्ष-सम्भवेनापरोक्षप्रतीतिप्रसङ्गादित्यर्थः ॥

प्रतिज्ञानिराकरणसमाप्तिर् हेतुनिराकरणारम्भः

टीका

प्रतिज्ञानिराकरणानन्तरं हेतुनिरासावसरः । तत्रादौ लिङ्ग-दर्शनं ततो व्याप्तिस्मृतिर् अथावसरविचारस्ततोऽनुमितिरिति तेनैव क्रमेण हेतुमाभासीकरिष्यन्नसिद्धिं तावदाह–

मिथ्यात्वानुमानखण्डनम्

दृश्यत्वाभावादसिद्धो हेतुः

टीका

हेतुरिति तदर्थो लिङ्गमुच्यते । परेण हेतुतया अभिधीयमानत्व-मेवास्य हेतुत्वं न तु वास्तवमिति न व्याघातः ।

दृश्यत्वस्य सत्वाभावे असत्वप्रसङ्गेनासिद्धत्वोपपादनं

दृश्यत्वं हि परेण वियदादिप्रपञ्चस्य न तावत्सत्यमङ्गीकर्तुं शक्यम् । तत्र दृश्यत्वस्य वृत्तावनैकान्तिकत्वप्रसङ्गात् । अवृत्ताव-ज्ञानासिद्धिप्रसक्तेः । अतस्तदसदेवेति वाच्यम् । तथा च दृश्यत्वा-भावादसिद्धो हेतुः स्यात् ।

दृश्यत्वस्यानिर्वचनीयत्वे अन्यतरासिद्धिः

मा भूत्सत्यं दृश्यत्वम् । अनिर्वचनीयं तु विद्यत एव । अतो नासिद्धिरित्यत आह ।

मिथ्यात्वानुमानखण्डनम्

अनिर्वचनीयासिद्धेरेव

टीका

अनिर्वचनीयदृश्यत्वस्य प्रपञ्चे अस्माकमसिद्धेरसिद्धिरेव ।

दृश्यत्वसामान्यस्य हेतुत्वे अन्यतरासिद्धिः

न ब्रूमो वयं सत्यमनिर्वचनीयं वा दृश्यत्वं हेतुरिति । येनान्यतरा सिद्धिः स्यात् । किं नाम ? दृश्यत्वसामान्यम् । तच्चास्त्येव वियदादौ वादिप्रतिवादिसंमतमिति कथमसिद्धिः स्यात् । साधारण- प्रयुक्तहेतोश्च विशेषविकल्पेन निरासे सर्वानुमानभङ्गः । तथा च धूमाद्धूमध्वजसाधनेऽप्यनेतद्देशकालसंलग्नो धूमो हेतुः ? किं वैत-द्देशकालसंलग्नः ? इति विकल्प्य असिद्धिराद्ये, द्वितीये साधन-शून्यं निदर्शनमिति शक्यते वक्तुम् । तत्र च अविवक्षितविशेषं धूममात्रं हेतुरित्येव परिहारः । स तु समः प्रकृतेऽपीति । तत्राप्ये-तदेवोत्तरम् । तथा हि, स्यादयं धूमानुमाने परिहारः धूमद्वयेऽपि धूमत्वसामान्यस्य वादिप्रतिवादिसंमतत्वात् । न च सत्या-निर्वचनीयदृश्यत्वयोर्द्दश्यत्वसामान्यं वादिप्रतिवादिसंमतम् । येनात्र तथा परिहारः स्यात् । अनिर्वचनीयस्य स्वरूपत एवास्माकम-सिद्धेः । न चासिद्धाश्रयं सामान्यं सिद्धं भवति ।

मन्दारमञ्जरी

अथावसरविचार इति ॥ सति प्रतिप्रमाणे अनुमानानुदयात्तदभाव लक्षणावसरोऽप्यनुमित्सता विचार्यत इत्यर्थः । लिङ्गवचनं हेतुः । तच्च सिद्धमेवेति कथम् असिद्धो हेतुरित्याचार्येणोक्तम् ? इति । अत आह ॥ हेतुरिति तदर्थ इति ॥ अस्यार्थसम्बन्धरूपलक्षणाबीजमुच्यत इति वचन-वृत्तिं च कथयतोऽयमभिप्रायः । ‘धूमो हेतुः’ इत्यादिप्रयोगदर्शनाल्लिङ्गं हेतुशब्दवाच्यमिति कृत्वा अत्रापि वचनवृत्त्या लिङ्गं हेतुशब्देनोच्यते । यदि तु कश्चिद्ब्रूयात् ‘प्रतिज्ञाहेतूदाहरणानि’ इत्यादौ हेतुशब्दस्य लिङ्गवचने प्रयोगात् तदेव हेतुशब्दार्थः ‘धूमो हेतुः’ इत्याद्यपि लक्षणयोपपन्नमिति तदा प्रकृतेऽपि लक्षणया तद्वल्लिङ्गं प्रतिपाद्यतामिति । यद्वा उच्यत इति प्रतिपादनमात्रं विवक्षितं नाभिधावृत्तिः । अथ वा तदर्थ इति न लक्षणाबीजं कथ्यते । किं तर्हि ? वचनस्य सिद्धत्वेऽपि तदर्थो हेतुरसिद्ध इत्यसिद्धिरिति । असिद्धस्य हेत्वाभासत्वेन हेतुत्वाभावाद् असिद्धो हेतुरिति कथमुक्तम् ? इत्यत आह ॥ परेणेति ॥ तत्र दृश्यत्वस्येति ॥ हेतोरेव साध्यशून्यतया विपक्षत्वेन तत्र हेतुवृत्तावनैकान्तिकतेत्यर्थः ॥ अवृत्ताविति ॥ दृश्यत्वे दृश्यत्वस्यावृत्तौ दृश्यत्वहेतोरज्ञानविषयतया अज्ञानासिद्धिस्स्यादित्यर्थः ॥ तत्राप्येतदेवोत्तरमिति ॥ अनिर्वचनीय-दृश्यत्वरूपविशेषस्यात्यन्ताभावं प्रतिपादयता अनिर्वचनीयासिद्धेरेव इत्यनेन ग्रन्थेनार्थादनुगतसामान्यभावस्यापि प्रतिपादितत्वादित्यर्थः । न चासिद्धाश्रयं सामान्यं सिद्धं भवतीति ॥ यद्यसिद्धाश्रयं सामान्यं सिद्ध्येत् तदा वन्ध्यासुतेऽपि सुतत्वं बाष्पारोपितधूमेऽपि धूमत्वं च स्यात् । न च तद्युक्तं मातृजन्यत्वविशेषस्य अग्निव्याप्यत्वविशेषस्य च तत्रायोगात् । अथ वह्निव्याप्यताविशेषः सत्यधूमत्वम् । धूमत्वमात्रं तु धूमतया प्रतीयमानत्वं तथा व्यवह्रियमाणत्वं वा । तच्च तत्राप्यस्तीति चेद् धूमतयेत्यत्र धूमशब्देन किं वह्निव्याप्यतोच्यते ? किं वा धूमतया प्रतीयमानत्वादिः ? आद्ये सैव धूमता स्यात् । द्वितीये धूमताशब्देन किं वह्निव्याप्यतेत्यादिपूर्वोक्त-विकल्पापर्यवसानादनवस्था स्यात् । किं च प्रकृतेऽपि तर्हि दृश्यत्वमात्रं तथा व्यवह्रियमाणत्वं वाच्यम् । न च वक्तुं शक्यम् । आत्मनोऽपि दृश्यतया मया व्यवह्रियमाणत्वादिति तात्पर्यम् ।

श्रीनिवासतीर्थीयटिप्पणी

अथावसरविचार इति । प्रतिबन्धकजिज्ञासाविच्छेदो ह्यवसरः । तथा च व्याप्तिस्मृत्यनन्तरम् अनुमितिप्रतिबन्धकीभूतबाधसत्प्रतिपक्षाभावरूपा-वसरोऽप्यनुमित्सता विचार्यत इत्यर्थः । यथोक्तं मणिकृता लिङ्गपरामर्शा-नन्तरमपि बाधसत्प्रतिपक्षावतारशङ्कया मुहूर्तं विलम्ब्यानुमानावतार इति । ननु लिङ्गप्रतिपादकं वचनं हेतुस् तच्च सिद्धमेवेति कथमसिद्धो हेतुरित्युच्यते इत्यत आह ॥ हेतुरितीति । लक्षणाबीजभूतमुख्यार्थसम्बन्धोपपादनाय तदर्थ इत्युक्तम् । वचनप्रतिपाद्यमित्यर्थः । तथा च प्रतिपाद्यप्रतिपादक-भावसम्बन्धो लक्षणाबीजमित्युक्तं भवति ।

ननु व्याप्तिबलेनार्थगमकस्य लिङ्गस्य हेतुत्वेन तस्यादुष्टतया असिद्ध-त्वोक्तिर्व्याहतेत्यत आह ॥ परेणेति ॥ अभिधीयमानत्वमेवेति । आभिमानिकमेवेति यावदित्यर्थः । दृश्यत्वे दृश्यत्वमस्ति न वा । आद्ये आह ॥ तत्रेति । दृश्यत्वरूपहेतावित्यर्थः ॥ अनैकान्तिकत्वेति । सत्यत्वाङ्गीकारेण मिथ्यात्वरूपसाध्याभावादित्यर्थः । द्वितीयेऽप्याह ॥ अवृत्ताविति । दृश्यत्वे दृश्यत्वस्यावृत्तौ दृश्यत्वहेतोर्ज्ञानाविषयत्व-प्राप्त्याऽज्ञानासिद्धिप्रसङ्गादित्यर्थः । शङ्कते ॥ मा भूदिति ॥ विद्यत एवेति । पक्ष इति शेषः । पुनः शङ्कते ॥ न ब्रूम इति ॥ अन्यतरा-सिद्धिरिति । सत्यभूतं दृश्यत्वं ममासिद्धम् । अनिर्वचनीयदृश्यत्वं भवतामसिद्धमित्यन्यतरासिद्धिरित्यर्थः ॥ असिद्धिरिति । एतद्देशकाल-संलग्नधूमस्यैव पर्वते सत्वेनानेतद्देशकालसंलग्नधूमस्य पक्षेऽभावादसिद्धि-रित्यर्थः ॥ साधनवैकल्यमिति । पर्वतदेशादिसम्बन्धस्य महानसेऽ-भावादित्यर्थः ॥ धूमद्वयेऽपीति । एतद्देशकालानेतद्देशकालसंलग्नधूमद्वयेऽ-पीत्यर्थः । अनिर्वचनीयस्य दृश्यत्वस्य । असिद्ध आश्रयो यस्य तदसिद्धाश्रयमिति बहुव्रीहिः ।

मिथ्यात्वानुमानखण्डनपरशुः

अवसरविचार इति ॥ आभासोद्धारप्रकारचिन्तेत्यर्थः । जगति परमते सत्यदृश्यत्वस्याभावादसिद्धो हेतुः । सत्यदृश्यत्वाङ्गीकारपक्षेऽपि दृश्यत्वे दृश्यत्वाङ्गीकारेऽनैकान्तिकत्वप्रसङ्गेन दृश्यत्वाङ्गीकारायोगात् । अज्ञानसिद्धौ हेतुरिति द्वेधा मूलयोजनामभिप्रेत्य वाद्यसिद्विमुपपादयितुमुपक्रमते ॥ दृश्यत्वं हीति ॥ सत्यं दृश्यत्वं न मया हेतुत्वेन विवक्षितम् । किंत्व-निर्वचनीयम् । तच्च विद्यत एवेति नासिद्धिरिति शङ्कते ॥ मा भूत्सत्य-मिति । तत्राप्येतदेवेति । दृश्यत्वसामान्यमेव हेतुर् अतो नासिद्धिरिति शङ्कायामपि एतदेवानिर्वचनीयासिद्धेरेवेति मूलमेवोत्तरमित्यर्थः ।

दृग्जन्यफलाश्रयत्वस्य दृश्यत्वे असिद्ध्यादिदोषाः

टीका

अथ वा दृग्जन्यफलाश्रयत्वं दृश्यत्वं परेण वक्तव्यम् । वृत्ति-व्याप्यत्वस्य साधारणस्य च दृश्यत्वस्य आत्मनि विपक्षेऽप्यङ्गी-कृतत्वेन अनैकान्तिकत्वापातात् । ज्ञाततालक्षणफलस्यान्यत्र निराकृतत्वेन अस्मन्मते दृश्यत्वाभावादसिद्धो हेतुः स्यात् ।

ज्ञातताङ्गीकारेऽपि अतीतादावतीन्द्रियेषु च दृश्यत्वाभावाद्भागा- सिद्धिः । असिद्धो हेतुरिति च योगविभागः कर्तव्यः । तेन आश्रया-सिद्धिसङ्ग्रहोऽपि भवति । उपपत्तिस्तु पूर्वोक्तैवानुसन्धेयेति ।

ननु दृश्यत्वाभावातिरिक्तं न तस्यासिद्धत्वं नाम । अतः कथं हेतुहेतुमद्भावः ? मैवं, सामान्यविशेषभावेन वृक्षत्वशिंशुपात्व-योरिवोपपत्तेः । व्यवहारो वा अत्र साध्य इत्यदोषः । एवमुत्तर-त्रापि वेदितव्यम् ।

मन्दारमञ्जरी

दृग्जन्यफलाश्रयत्वमिति ॥ अन्तःकरणवृत्तिरूपदृग्जन्यज्ञातता-शब्दवाच्यमभिव्यक्तस्फुरणसम्बन्धरूपं यत्फलं तदाश्रयत्वमित्यर्थः ॥ वृत्तिव्याप्यत्वस्येति ॥ अन्तकरणवृत्तिविषयत्वस्येत्यर्थः । साधारण-स्येति ॥ फलव्याप्यवृत्तिव्याप्यानुगतस्य व्यवहारविषयतालक्षणसामान्य-स्येत्यर्थः ॥ अङ्गीकृतत्वेनेति ॥ प्रमाणजनितान्तःकरणवृत्तिव्याप्यत्वेन विषयताङ्गीकार इति परेण वृत्तिव्याप्यतारूपविशेषस्य अङ्गीकृतत्वा-द्विशेषस्य सामान्यं विना अयोगादर्थान्तरस्याप्यङ्गीकृतत्वादित्यर्थः । ज्ञाततामङ्गीकुर्वतोऽपि वादिनो भागासिद्धो हेतुरित्येतदर्थपरतया दृश्यत्वा-भावादित्येतद्व्याचष्टे ॥ ज्ञातताङ्गीकारेऽपीति ॥ तेनाश्रयासिद्धीति ॥ आश्रयासिद्धः पक्ष इत्यत्र बाधरूपः प्रतिज्ञादोष उक्तः । अत्र त्वाश्रय-शून्यतालक्षणं हेतुदूषणमुच्यत इति न पौनरुक्त्यम् ॥ सामान्यविशेष-भावेनेति ॥ यथा शिंशुपात्वं वृक्षत्वसामान्ये हेतुस् तेन तदनुमानदर्शनात् तथा दृश्यत्वाभावरूपो विशेषोऽसिद्धत्वसामान्ये हेतुः । सामान्यविशेष-भावश्च असिद्धत्वस्य शब्दपक्षीकारेण प्रयुक्तचाक्षुषत्वादावपि भावात् । दृश्यत्वाभावस्य तु दृश्यत्वमात्रसम्बन्धित्वादिति भावः । अन्ये तु दृश्यत्वस्य स्वरूपेणाभावो हेतुः । तस्य हेतुत्वाकारेणाभावो हेतुमानिति व्याचक्षते । पक्षान्तरमाह ॥ व्यवहारो वेति ॥ असिद्धत्वं हेतुः, असिद्ध इति व्यवहारः साध्य इति तयोर्भेद इत्यर्थः ।

श्रीनिवासतीर्थीयटिप्पणी

कुत इत्यत आह ॥ वृत्तिव्याप्यत्वस्येति । वृत्त्या विशेषेण आप्यत्वं प्राप्यत्वं विषयत्वमिति यावत् । तथा च वृत्तिविषयत्वस्येत्यर्थः ॥ साधारणस्येति । दृग्जन्यफलाश्रयत्ववृत्तिव्याप्यत्वसाधारणस्य दृश्यत्व-मात्रस्येत्यर्थः ॥ अङ्गीकृतत्वेनेति । अन्यथा वेदान्तानां वैयर्थ्यापत्तिरिति भावः । दृग्जन्यफलाश्रयत्वमेव दृश्यत्वं परेण वक्तव्यमित्युपपाद्य तत्र दूषणमाह ॥ ज्ञाततेति ॥ अन्यत्रेति । ज्ञानव्यतिरिक्तज्ञाततायां प्रमाणा-भावादित्यादिना प्रमाणलक्षणादावित्यर्थः ॥ दृश्यत्वाभावादिति । दृग्जन्यज्ञाततालक्षणफलाश्रयत्वाभावादित्यर्थः । एवमनिर्वचनीयदृश्यत्वपक्षे दृग्जन्यज्ञाततारूपफलाश्रयत्वरूपदृश्यत्वपक्षे चास्मन्मतानुसारेण संपूर्णा-सिद्धिपरत्वेन मूलं व्याख्यायाधुना ज्ञाततामङ्गीकुर्वन्तं वादिनं प्रति भागा-सिद्धो हेतुरित्येवंपरत्वेनापि व्याख्याति ॥ ज्ञातताङ्गीकारेऽपीति । अतीतादावित्यादिपदेनानागतग्रहणम् । असति धर्मिणि धर्मजननायोगा-दिति भावः ॥ अतीन्द्रियेष्विति । ऐन्द्रियकेष्वेव पदार्थेषु ज्ञानेन तज्जननाङ्गीकारादिति भावः ॥

योगविभाग इति । योगो वाक्यं दृश्यत्वाभावादित्येकं वाक्यम् । असिद्धो हेतुरित्यपरं वाक्यमित्यर्थः ॥ तेनेति । विभक्तेनासिद्धो हेतुरिति वाक्येनेत्यर्थः ॥ आश्रयासिद्धिसङ्ग्रहोऽपीति । एकवाक्यतापक्षे प्रागसिद्धि-सङ्ग्रहार्थतया व्याख्यातत्वादपिशब्दः । पूर्वं साध्यधर्मं प्रति आश्रयाभावे-नाश्रयासिद्धिः प्रतिज्ञादूषणत्वेनोक्ता । इदानीमसिद्धाश्रयकत्वम् असदाश्रय-कत्वमिति यावत् । हेतुदूषणत्वेनोच्यत इत्यर्थः । कथमसदाश्रयकत्वं हेतोरित्यत आह ॥ उपपत्तिस्त्विति । जगतो भावादित्युक्तेत्यर्थः । जगतो भावात् सद्वैलक्षण्येनाङ्गीकृतत्वेनासत्वप्राप्तेर्हेतोरसदाश्रयकत्वमितिभावः ॥ कथमिति । साध्याविशिष्टत्वादिति भावः । हेतुमत् साध्यम् ॥ सामान्येति । यथाऽयं वृक्षः शिंशुपात्वादित्यत्र शिंशुपात्वं वृक्षत्वसामान्य-हेतुस्तथा दृश्यत्वाभावरूपो विशेषोऽसिद्धत्वसामान्ये हेतुरिति न साध्या-विशिष्टतेत्यर्थः । शब्दो नित्यश्चाक्षुषत्वाद् इत्यादौ चाक्षुषत्वादावपि असिद्धत्वस्य विद्यमानत्वादसिद्धत्वं सामान्यं दृश्यत्वाभावस्तु तद्विशेष इति भावः ॥ व्यवहारो वेति । दृश्यत्वाभावाद्धेतुरसिद्ध इति व्यवहर्तव्य इति व्यवहारस्य साध्यत्वात्तयोर्भेद इत्यर्थः ॥ एवमुत्तरत्रापीति । सपक्षाभावा-द्विरुद्ध इत्यादावपि सामान्यविशेषभावेन वा व्यवहारस्य साध्यत्वमङ्गीकृत्य वा हेतुहेतुमद्भावस्समर्थनीय इत्यर्थः ॥

श्रीगुरुराजीयटिप्पणी

दृग्जन्यफलाश्रयत्वमिति ॥ अन्तःकरणवृत्तिरूपदृग्जन्यफलाश्रयत्व-मित्यर्थः । दृश्यत्वस्य वृत्तिव्याप्यत्वमात्ररूपताया दृग्विषयत्वमात्ररूप-ताया अपि सम्भवात् किमिति तत्परित्यागेनात्र दृग्जन्यफलाश्रयत्व-पर्यन्तधावनमित्यतस् तन्मात्रस्य हेतुत्वानुपपत्तेरिति तामुपपादयति ॥ वृत्तीति ॥ प्रमाणजनितान्तःकरणपरिणामरूपवृत्तिविषयत्वस्येत्यर्थः ॥ साधारणत्वस्येति ॥ अविवक्षितविशेषस्य दृग्विषयत्वस्येत्यर्थः ॥ अङ्गीकृतत्वेनेति ॥ अनुभूतेः प्रमाणजन्यस्फुरणाश्रयतया स्फुरणकर्मतया वा घटादिवद् विषयभावाभावेऽपि प्रमाणजनितान्तःकरणवृत्तिव्याप्यत्वे विषयत्वाङ्गीकारेण स्वप्रकाशत्वाविरोधादिति चित्सुखोक्तेरिति भावः । यद्यप्यनेन वृत्तिविषयत्वाङ्गीकारस्यैव सिद्धिर् न तु दृग्विषयत्वाङ्गीकार-स्यापि । तथापि वृत्तिविषयत्वाङ्गीकारसिद्धौ ब्रह्मण्यविवक्षितविशेषस्य दृग्विषयत्वस्यापि वृत्तिविषयत्वरूपविशेषमादाय पर्यवसन्नतया तदङ्गी-कारस्यापि सिद्धिरिति द्रष्टव्यम् । अस्तु तर्हि वृत्तिजन्यफलाश्रयत्व-मित्यतोऽत्र फलं किं मद्रीत्या व्यवहारोऽभिमतः भट्टरीत्या ज्ञातता त्वद्रीत्या वृत्तिप्रतिफलितचैतन्यं वा तदभिव्यक्तं विषयाधिष्ठानचैतन्यं वेति विकल्पात् । नाद्यः । आदानादेर्गगनादावभावेन भागासिद्ध्यापातात् । अभिलापस्य चात्मान्यपि सद्भावादनैकान्त्यापातादिति । आद्यपक्षदूषणं च मनसि निधाय द्वितीयं पक्षं दूषयति ॥ ज्ञाततेति ॥ अन्यत्रेति ॥ न च प्रमाणतोऽन्या स्यात् प्रमितिर्नाम कुत्रचिदित्यादिनाऽनुव्याख्यानादावित्यर्थः ॥ दृश्यत्वा-भावात् ॥ दृग्जन्यज्ञाततारूपफलाश्रयत्वाभावात् ॥ अतीतादाविति ॥ असति धर्मिणि धर्मजननायोगाद् अतीतानागतयोर्दृग्जन्यज्ञातताश्रयत्वा-भावाद् भागासिद्धिरित्यर्थः । नन्वतीतादेरपि स्वसत्ताकाले दृग्जन्यज्ञात-ताश्रयत्वान् न भागासिद्धिरित्यत आह ॥ अतीन्द्रियेषु चेति ॥ नित्यातीन्द्रियेष्वित्यर्थः ।

तृतीयचतुर्थयोरपि निराकरणार्थमेतदेव वाक्यम् ॥ ज्ञाततालक्षण-स्येति ॥ तत्र ज्ञाततापदं चैतन्यपरम् । ततश्च चैतन्यरूपफलस्यान्यत्र निराकृतत्वेनास्मिन् मते वृत्तिप्रतिफलितचैतन्यं प्रति तदभिव्यक्तविषया-धिष्ठानचैतन्यं प्रति वा विषयत्वस्य प्रपञ्चेऽभावादसिद्धिः स्यादित्यर्थः ।

अस्तु तर्हि त्वद्रीत्यैवायं हेतुरित्यतस्तथा सत्यतीतादौ तदभावा-द्भागासिद्धिः स्यादित्याह ॥ ज्ञातताङ्गीकारेऽप्यतीतादाविति ॥ तदपि स्वसत्ताकाले फलव्याप्यमिति नासिद्धिरित्यतस्तथापि नित्यातीन्द्रिये तदभावादसिद्धिरेवेत्याह ॥ अतीन्द्रियेषु चेति ॥ न च तस्यापि योगिनं प्रति फलव्याप्यत्वान्नासिद्धिरिति वाच्यम् । चित्सुखेन ‘न च योगि-प्रत्यक्षगम्यतयाऽपरोक्षत्वं धर्मादीनां चोदनैकप्रमाणगम्यत्वात्’’ इत्युक्तत्वेन तद्विरोधापातादित्याशयात् ॥ अतः कथं हेतुहेतुमद्भाव इति ॥ अभेदे उभयोरपि ज्ञातत्वस्यैवाज्ञातत्वस्यैव वा प्रसङ्गेन हेतुहेतुमद्भावप्रयोजक-ज्ञाताज्ञातविभागासम्भवादिति भावः ।

तत्रैवेति ॥ तद्ग्रन्थव्याख्यानावसर एवेत्यर्थः ॥ वक्ष्याम इति ॥ रजतज्ञानस्य शुक्तिसन्निकृष्टेनेन्द्रियेण जातत्वाच्छुक्तिविषयत्वेऽप्यसता रजतेनेन्द्रियस्य सन्निकर्षासम्भवेन रजतसन्निकृष्टेनेन्द्रियेणाजातत्वाद् यत्स-न्निकृष्टकरणेन यज्ज्ञानं जन्यते स तस्य विषय इत्येवंरूपदृग्विषयत्वा-भावाच्छुक्तिरजतादेर्दृश्यत्वाभाव उत्तरग्रन्थार्थः । दृग्विषयत्वाभावेऽपि दृग्व्यावर्तकतामात्रस्यासत्यपि रजते सत्त्वात् तदभ्युपगमेन शुक्तिरजतादे-र्दृश्यत्वसद्भाव एतद्ग्रन्थार्थ इति न विरोध इति वक्ष्याम इत्यर्थः ।

मिथ्यात्वानुमानखण्डनपरशुः

दृश्यात्वाभावादसिद्धो हेतुरिति मूलं प्रकारान्तरेण योजयति । अथ वेति । वृत्तिव्याप्यत्वस्येति । वृत्तिव्याप्यत्वरूपविशेषधर्मावच्छिन्नस्य दृश्यत्वरूपसाधारणधर्मावच्छिन्नस्य चात्मनि व्यभिचारेण हेतुं कर्त्तुम-शक्यत्वाद् इत्यर्थः । एतेनात्मनि वृत्तिव्याप्तत्वस्य साधारणस्य सत्वाभि-धानमयुक्तम् । वृत्ति व्याप्यत्वातिरिक्तस्य साधारणस्यादर्शनादिति निरस्तम् । वृत्तिव्याप्यत्वमेव वृत्तिव्याप्यत्वरूपविशेषधर्मावच्छिन्नं दृश्यत्व-रूपसामान्यं धर्मावच्छिन्नं भवति । तच्च विपक्षगामीति द्वयोरपि हेत्वो-र्व्यभिचार इत्याशयात् । दृग्जन्यफलं ज्ञाततैवेति पक्षे बाधकमाह ॥ ज्ञाततालक्षणफलस्येति ॥ भागासिद्धिपरतया मूलं योजयति ॥ ज्ञात-ताङ्गीकारोऽपीति ॥ उपपत्तिस्त्विति ॥ जगतोभावादिति पूर्वोक्तैवो-पपत्तिरनुसन्धेयेत्यर्थः । जगतः सत्वविरहाङ्गीकारादाश्रयताप्रयोजकसत्ता-शून्यस्याश्रयत्वायोगाद् आश्रयासिद्धो हेतुरिति भावः । इतःपरं टीकायां श्रूयमाणानां ‘ननु दृश्यत्वाभावातिरिक्तं न तस्यासिद्धत्वं नाम । अतः कथं हेतुहेतुमद्भावः । मैवम् । सामान्यविशेषाभावेन वृक्षत्वशिंशुपात्वयोरिवो-पपत्तेः । व्यवहारो वा साध्य इत्यदोषः । एवमुत्तरत्रापि वेदितव्यमिति’ व्यवहितवाक्यानामर्थो मया न बुद्धः ॥

व्यप्तिभङ्गभेदवताम् असिद्धादीनां दुष्टत्वक्रमनिरूपणम्

टीका

व्याप्तिभङ्गभेदा विरुद्धानैकान्तिकानध्यवसिताः । तत्र विरुद्धो विपरीतनिश्चयं करोति । अनैकान्तिकः सन्देहमुत्पादयति । अनध्यवसितस्तु ज्ञानमेव न जनयति । तदेवं दुष्टत्वक्रमानुरोधेन व्याप्त्यभावमुद्भावयिष्यन् विरुद्धं तावदाह–

दृश्यत्वहेतोर्विरुद्धत्वसमर्थनम्

मिथ्यात्वानुमानखण्डनम्

अनिर्वचनीयासिद्धैरेव सपक्षाभावाद्विरुद्धः

टीका

हेतुरिति सर्वत्रानुवर्तते । ननु साध्यविपरीतव्याप्तो हेतुर्विरुद्ध उच्यते । न तु सपक्षशून्यः । तथा सति केवलव्यतिरेकिणो हेतो-रनध्यवसितविशेषस्यापि विरुद्धत्वप्राप्तेः । तत्कथमुक्तं ‘सपक्षाभावा-द्विरुद्धः’ इति ? कथं च अनिर्वचनीयासिद्धेः सपक्षाभावः ? न ह्यनिर्वचनीयता मिथ्यात्वम् इति परेणोक्तमिति । मैवम्, एवं हीदं विज्ञायते । यावन्तो हि मिथ्यात्वविकल्पास्ते सर्वे नासत्त्वा-निर्वचनीयत्वाभ्यां बहिर्भूता इत्युपपादितम् । तत्रासत्यत्वमप-सिद्धान्तादिभयान्न परेणाङ्गीकृतमिति वाचनिकविन्यासभेदेनाप्य-निर्वचनीयत्वमेव परस्याभिप्रायव्याप्तम् । ततोऽनिर्वचनीयेनैव सपक्षेण भाव्यम् । तथा च यथा अनिर्वचनीयासिद्धेरप्रसिद्ध-विशेषणत्वाद्युक्तम् एवं तत एव सपक्षाभावाद्वियदादिव्यतिरिक्तं सर्वं विपक्ष इति शुक्तिरजतादौ विपक्षे वर्तमानत्वात्साध्यविपरीतव्याप्त्या विरुद्धो हेतुरिति ।

मूले पूर्वापरविरोधशङ्का तत्परिहारश्च

ननु ‘रजतं दृष्टमिति भ्रममात्रत्वात्’ इति शुक्तिरजतादे-र्दृश्यत्वाभावं वक्ष्यति । अतः कथं न विरोधः ? सत्यं, यथा न विरोधस्तथा तत्रैव वक्ष्यामः ।

दृश्यत्वहेतोः साध्याभावेन व्याप्तिसमर्थनम्

अथ वा ‘आत्मनोऽपि दृश्यत्वात्’ इति वक्ष्यमाणमत्रापि सिंहावलोकनन्यायेन सम्बद्ध्यते । तत्र ‘सपक्षाभावात्’ इत्यनेन साध्यसम्बन्धाभाव उपपादितः । ‘आत्मनोऽपि दृश्यत्वात्’ इत्यनेन तदभावसम्बन्धः समर्थितः । तथा च विपरीतव्याप्तिरेव सिद्धा भवतीति ।

मन्दारमञ्जरी

व्याप्तिभङ्गभेदा इति ॥ साध्याभावमात्रसम्बन्धसाध्यतदभाव-सम्बन्धानुभयसम्बन्धरूपाणां व्याप्तिभङ्गानां क्रमेण विरुद्धादिनिष्ठत्वाद् विरुद्धादयो व्याप्तिभङ्गविशेषवन्त इत्यर्थः । यद्वा विरुद्धादिशब्दानां भाव-प्रधानत्वाद्विरुद्धत्वादयो व्याप्तिभङ्गविशेषा इत्यर्थः ॥ तत्र विरुद्ध इत्यादि ॥ विरुद्धस्य स्वव्यापको यः साध्याभावस् तन्निश्चायकत्वाद्विपरीतनिश्चय-जनकत्वम् । अनैकान्तिकस्य स्वसहचरितसाध्यतदभावलक्षणकोटि-द्वयस्मरणद्वारा संशयहेतुत्वम् । अनध्यवसितस्य तु साध्यासहचरितस्य तदबोधकत्वमित्यर्थः ॥ दुष्टत्वक्रमेति ॥ लोके हि कर्तव्याकरणम-कर्तव्यकरणं चेति दोषः । प्रकृते च कर्तव्या साध्यप्रमा । अकर्तव्या च तदभावप्रमा । तत्रानध्यवसितस्य कर्तव्याकरणमात्रम् । इतरयोश्चाकर्त-व्यकरणविशिष्टम् । तत्राप्यनैकान्तिकजन्या संशयरूपा च या अप्रमा सा साध्यमप्यवलम्बते । विरुद्धजन्या साध्याभावनिश्चयरूपा प्रमा न साध्यगन्धं सहत इति विरुद्धस्यातितरां दुष्टत्वमनैकान्तिकस्यातिदुष्टत्वम् अनध्यवसितस्य दुष्टत्वमात्रमिति क्रम इत्यवगन्तव्यम् ।

अन्ये तु विरुद्धो विपरीतनिश्चयमित्यस्य ग्रन्थस्य विरुद्धः साध्या-भावव्याप्तत्वात् साध्याभाववति साध्यविषयकविपर्ययं जनयतीत्यर्थः । अनैकान्तिकस्तु सन्देहमित्यादेः पूर्वोक्त एवार्थ इति वदन्तस्तदनुसारेण दुष्टत्वक्रमेत्येतमपि ग्रन्थं विरुद्धस्य विपर्ययजनकत्वादतितरां दुष्टत्वम् अनैकान्तिकस्य सन्देहजनकत्वादतिदुष्टत्वम् अनध्यवसितस्तु ज्ञानमेव न जनयतीति तस्य दुष्टतामात्रमिति व्याचक्षते ।

अनध्यवसितविशेषस्येति ॥ अविद्यमानसपक्षविपक्षस्य ‘सर्वमनित्यं सत्त्वात्’ इत्यादेः, विद्यमानविपक्षस्य अविद्यमानसपक्षस्य ‘सर्वं कार्यं प्रधानान्वितं कार्यत्वात्’ इत्यादेरनध्यवसितस्येत्यर्थः । ‘भूर्नित्या गन्ध-वत्त्वात्’ इति विद्यमानसपक्षानध्यवसितव्युदासाय विशेषग्रहणम् ।

परेण विरुद्धतापरिहारानुपयोगितया पश्चादाशङ्कितमपि सपक्षसद्भावं सपक्षाभावादिति मूलग्नन्थोक्तसपक्षाभावरूपहेतोरसिद्धिकथनार्थत्वेन अत्यन्त मूलग्रन्थविरोधितया प्रथमं निषेधति ॥ यावन्तो हीति ॥ विपरीतव्याप्त्या विरुद्ध इति ॥ आचार्येण विपरीतव्याप्त्युपपादनाय सपक्षाभाव उक्तो न तु विरुद्धलक्षणतयेति भावः ॥ वक्ष्यतीति ॥ तथा च तेन अस्य शुक्तिरूप्या-देर्दृश्यत्वमङ्गीकृत्य प्रवृत्तस्य विरोध इति शेषः ॥ तथा चेति ॥ तद-सम्बन्धित्वे सति तदभावसम्बन्धिनस्तदभावव्याप्तिरिति नियमाद्विपरीत-व्याप्तिसिद्धिरिति भावः ।

श्रीनिवासतीर्थीयटिप्पणी

विरुद्धेत्यादि । साध्यसम्बन्धाभावे सति तदभावेनैव सम्बन्धसाध्य-तदभावोभयसम्बन्धोभयसम्बन्धाभावसंज्ञा विरुद्धानैकान्तिकानध्यवसिता इत्यर्थः । दुष्टत्वक्रममुपपादयति ॥ तत्र विरुद्ध इत्यादिना ॥ दुष्टत्व-क्रमेति । विपरीतनिश्चयो दुष्टतमः संशयो दुष्टतरः ज्ञानाजननं दुष्टमात्रमिति क्रमो द्रष्टव्यः ॥ सर्वत्रेति । विरुद्धोऽनैकान्तिक इत्यादौ उत्तरत्र सर्वत्रेत्यर्थः। ननु सपक्षशून्यत्वमेव विरुद्धत्वं किन्न स्यादित्यत आह ॥ तथा सतीति ॥ केवलव्यतिरेकीति । जीवच्छरीरं सात्मकं प्राणादिमत्त्वादित्यत्र प्राणादि-मत्त्वहेतोरपीत्यर्थः ॥ अनध्यवसितविशेषस्येति । अविद्यमानसपक्षविपक्षस्य सर्वमनित्यं सत्वादित्यस्येत्यर्थः । भूर्नित्या गन्धवत्त्वादिति विद्यमान-सपक्षानध्यवसितव्युदासाय विशेषस्येत्युक्तमिति ज्ञातव्यम् ।

सपक्षशून्यत्वं न विरुद्धलक्षणत्वेनाभिप्रेतं येनोक्तदोषः स्यात् । किं नामाभिप्रायान्तरमस्तीत्याशयेन परिहरति ॥ मैवमित्यादिना । इदं मूल-वाक्यम् ॥ वाचनिकेति । मिथ्यात्वमिति वाचनिकव्यवहारविशेषेणेत्यर्थः ॥ वर्तमानत्वादिति । दृश्यत्वहेतोरिति शेषः । ननु दृश्यत्वहेतोः शुक्ति-रजतादौ विपक्षे वर्तमानत्वमङ्गीकृत्य विरुद्धत्वोक्तौ उत्तरग्रन्थविरोधमाशङ्क्य परिहरति ॥ नन्वित्यादिना ॥ तत्रैव वक्ष्याम इति । दृग्विषयत्वाभावेऽपि दृग्व्यावर्तकत्वमात्रम् असतोऽपि रजतस्यास्तीति तदभ्युपगमेन न विरुद्धादि-वादविरोध इति वक्ष्याम इत्यर्थः । तत्रेत्यनन्तरम् अनिर्वचनीयासिद्धेरेवेति पूरणीयम् ॥ तथा चेति । तदसम्बन्धित्वे सति तदभावसम्बन्धिनस् तदभावव्याप्तिनियमाद्विपरीतव्याप्तिसिद्धिरिति भावः ॥

मिथ्यात्वानुमानखण्डनपरशुः

व्याप्तिभङ्गादिति । भङ्गशब्दोऽत्र भावसाधनः । व्याप्तेर्भङ्गो ऽभावो यस्मिन्निति विग्रहवता बहुव्रीहिणा व्याप्तिभङ्गशब्देन व्याप्तिशून्यमुच्यते । व्याप्तिशून्यश्च विरुद्धोऽनैकान्तिकोऽनध्यवसितश्चेति त्रिविधो भवतीत्यर्थः ॥ विरुद्ध इति ॥ विरुद्धत्वज्ञानाभावे विपक्षे साध्यमस्तीति भ्रमे विरुद्धस्य साध्येन व्याप्तिग्रहे विरुद्धभ्रमरूपानुमितिं जनयति । विरुद्धत्वज्ञाने साध्या-भावनिश्चयं जनयतीत्यर्थः । सन्देहमुत्पादयतीति ॥ अनैकान्तिकत्व-ज्ञानाभावे सन्देहहेतुकानुमितिमुत्पादयतीत्यर्थः ॥ अयं भावः । वस्तुतो ऽनैकान्तिकस्य साध्येन व्याप्तिग्रहे साध्यवति प्रमाऽनुमितिः साध्याभाववति भ्रमानुमितिर्भवति । इदमेव अनुमित्योः संशयरूपत्वं यत् सम्भूय प्रमा प्रमारूपत्वम् अनैकान्तिकत्वज्ञाने तत्साध्यसन्देहमुत्पादयतीति द्रष्टव्यम् । अनध्यवसित इति सर्वस्यापि पक्षत्वेन व्याप्तिग्रहणस्थलाभावात् । व्याप्ति-प्रमाभ्रमयोः प्रायशोऽभावेन सहकारिविरहाज् ज्ञानमेव न जनयतीत्यर्थः । एतेन परोपदेशेन व्याप्तिग्रहे भ्रमप्रमान्यतरानुमितिजनकत्वसद्भावाज्ज्ञानमेव न जनयतीत्ययुक्तमिति परास्तम् । प्रायशो नानुमितिजनकत्वमित्यत्र तात्पर्यात् । विरुद्धं तावदाहेति ॥ धर्मविचारमपहाय हेतुकृद्धृश्यत्वमात्रस्य सत्वाद्विरुद्धतां तावदाहेत्यर्थः । एतेन विरुद्धत्वं किमनिर्वचनीयं दृश्यत्वस्योच्यते । उत सत्यं दृश्यत्वस्य । नाद्यः । तस्य त्वया सत्वाङ्गी-कारेण विरुद्धत्वाभिधानायोगात् । न ह्यसन्साध्याभावव्याप्यश्चेति सम्भवति । न द्वितीयः । तस्य परेण हेतुत्वानभिधानादिति परास्तम् । अनध्यवसितविशेषस्यापीति । सर्वमभिधेयं प्रमेयत्वादित्यादेरपि विरुद्धत्व-प्राप्तेरित्यर्थः ॥ वाचनिकविन्यासभेदेनेति ॥ क्वचित्सदसद्विलक्षण-शब्देनानिर्वचनीयमुच्यते । क्वचित्तु सदसत्वानधिकरण शब्देन क्वचिद-निर्वचनीयशब्देन क्वचिच्छब्दान्तरेणानिर्वचनीयमुच्यत इत्यर्थः ॥

सपक्षाभावादिति । ननु सपक्षाभावात् पक्षातिरिक्तं सर्वं विपक्ष एवेत्ययुक्तम् ॥ शुक्तिरजतादौ साध्यविप्रतिपत्तिसद्भावेन पक्षत्व-स्यौचित्यात् । अत एव परेण विमतिविषयत्वमात्रस्य पक्षत्वलाभाय विमतमित्येव पक्षनिर्देशः कृतः । यस्य तु शुक्तिरजतादौ साध्यं सिद्धं तं प्रति तस्य सपक्षत्वमित्यभिप्रेत्य यथा सम्प्रतिपन्नमित्युक्तम् । यथा वादिप्रतिवादिनोः साध्यवत्तया संमतः सपक्ष एवं साध्याभाववत्तया द्वयोः संमत एव पक्षविपक्षः । एवं च शुक्तिरजतादावनिर्वचनीयत्वाभाव-स्योभयसम्प्रतिपन्नत्वाभावान्न तस्य विपक्षत्वमिति चेदुच्यते । सत्यत्व-मिथ्यात्वाभ्यां वादिप्रतिवादिविमतिविषयस्यैव पक्षत्वेन शुक्तिरजतादौ चास्माभिः सत्यत्वानङ्गीकारेण विप्रतिपत्यभावान् न पक्षेऽन्तर्भाव उचितः । यद्यपि शुक्तिरजतादिकमनिर्वचनीयं नेत्यस्माभिरङ्गीकारात् परेण चा-निर्वचनीयत्वाभ्याम् अङ्गीकारादनिर्वचनीयाभ्यां विप्रतिपत्तिरस्ति तथापि न सा पक्षत्वप्रयोजिका । किन्तु सत्यत्वानिर्वचनीयत्वाभ्यां विप्रतिपत्तिरेव पक्षता-प्रयोजिका इति न पक्षान्तर्भावसम्भवः । यद्यपि चोक्तं साध्याभाववत्तयो-भयवादिसंमतस्यैव विपक्षत्वेन शुक्तिरजतादौ तदभावान्न विपक्षत्वमिति । तदपि न । शुक्तिरजतगतं साध्यं मिथ्येति वदता विप्रतिपन्नोपाधौ तदत्यन्ताभावस्याङ्गीकृतत्वेन साध्याभाववत्तया उभयसंमत्यपरिहारात् । असदेवेदं रजतं प्रत्यभादित्यनुभवबलेन परेणापि शुक्तिरजतादौ अनिर्वच-नीया(त्वा)भावमङ्गीकारयिष्यामीति भावेन विपक्षत्वाभिधानमित्येके ।

दृश्यत्वहेतोरनैकान्तिकतासमर्थनम्

मिथ्यात्वानुमानखण्डनम्

आत्मनोऽपि दृश्यत्वादनैकान्तिकः

टीका

न केवलं सपक्षस्य शुक्तिरजतादेः । किं तु ? विपक्ष-स्यात्मनोऽपीति योजना । नन्वेतद्विरुद्धम् । प्रागनिर्वचनीयाभावा-त्सपक्षाभाव उक्तः । इदानीं तु तद्भावः । न हि तदभावे तत्र दृश्यत्वस्य वृत्तिः सम्भवतीति । सत्यम्, अभ्युपगमवादोऽय-मित्यदोषः । वाद्यनैकान्तिको वा । आत्मनि दृश्यत्वस्य तं प्रति समर्थनात् ।

अथ वा मिथ्यात्वं नाम असत्वं वा अनिर्वचनीयत्वं वा सद्वि-विक्तत्वं वा वक्तव्यम् । तत्र अनिर्वचनीयत्वे साध्ये विरुद्धत्व-मुक्त्वा असत्वसद्विविक्तत्वयोरनैकान्तिकत्वमनेनोच्यते । एतेन लक्षणविरोधोऽपि परिहृतः ।

मन्दारमञ्जरी

वाद्यनैकान्तिको वेति । वस्तुतः सपक्षाभावेऽपि परेण सपक्षस्य तस्मिंश्च हेतुवर्तनस्य चाङ्गीकृतत्वादित्यर्थः । तर्हि परेण विपक्षवृत्तित्वस्यानङ्गीकारान् न तद्रीत्या अनैकान्तिकत्वमित्याशङ्क्य युक्तिबलात्परेण तदङ्गीकार्यमित्याह ॥ आत्मनीति ॥ एतेनेति ॥ विरुद्धानैकान्तिकत्वयोः पक्षभेदेन व्यवस्थितत्वेन लक्षणविरोधः साध्यतदभावसम्बन्धतदभावमात्रसम्बन्धगर्भयोरनैकान्तिक-विरुद्धलक्षणयोर्विरोधः परिहृत इत्यर्थः ।

श्रीनिवासतीर्थीयटिप्पणी

शुक्तिरजतादेरिति । दृश्यत्वमिति शेषः ॥ तद्भाव इति । सपक्ष-सद्भाव अपिपदेनोपपादित इत्यर्थः । कथमित्यतस्तदुपपादयति ॥ न हीति । तदभावे सपक्षाभावे ॥ अभ्युपगमवादोऽयमिति । सपक्षसद्भाव-मङ्गीकृत्यात्मनोपीत्युक्तमित्यर्थः ॥ वाद्यनैकान्तिको वेति । वस्तुतः सपक्षाभावेऽपि परेण सपक्षस्याङ्गीकृतत्वात् । न केवलं शुक्तिरजतादेः सपक्षस्य दृश्यत्वं किं तु विपक्षभूतस्यात्मनोऽपि दृश्यत्वाद्वाद्यनैकान्तिक इत्यर्थः । ननु परेण विपक्षभूतस्यात्मनो दृश्यत्वानङ्गीकारेण हेतोरेवाभावान् न व्यभिचार इत्यत आह ॥ आत्मनीति ॥ समर्थनादिति । ब्रह्मज्ञानाय प्रवृत्तानां वेदान्तानां वैयर्थ्यापत्त्यादिरूपयुक्तिभिरित्यर्थः ॥ उक्त्वेति । सपक्षाभावेनेति शेषः ॥ असत्वसद्विविक्तत्वयोरिति । साध्यत्वपक्ष इत्यर्थः ।

नन्वेकस्यैव दृश्यत्वहेतोर्विरुद्धत्वानैकान्तिकत्वे विरुद्धे । तथाहि । साध्यसम्बन्धाभावे सति तदभावेनैव सम्बन्धवान् विरुद्धः साध्यतदभावोभय सम्बन्धवान् अनैकान्तिक इति विरुद्धानैकान्तिकलक्षणयोः परस्परं विरुद्धत्वादित्यत आह ॥ एतेनेति । यदाऽनिर्वचनीयत्वं साध्यं तदा सपक्षाभावेन विरुद्धत्वं यदा चासत्वं सद्विविक्तत्वं वा साध्यं तदाऽ-नैकान्तिकत्वम् इत्येवं विरुद्धत्वानैकान्तिकत्वयोः पक्षभेदेन व्यवस्थितत्वाद् लक्षणविरोधोऽपि परिहृत इत्यर्थः ॥

मिथ्यात्वानुमानखण्डनपरशुः

इदानीमिति ॥ आत्मनोऽपीत्यपिशब्देन न केवलं सपक्षस्य शुक्ति-रजतादेः । किं त्वात्मनोऽपीति समुच्चयपरेणोक्तं तद्भाव उक्तप्राय इत्यर्थः ॥ वाद्यनैकान्तिको वेति ॥ न वस्तुगत्या हेतुरनैकान्तिकः । किं तु वादिना सपक्षाङ्गीकारात् तद्रीत्यैवायं हेतुरनैकान्तिक इत्यर्थः ॥ वादिनाऽत्मनि दृश्यत्वानङ्गीकारात् कथं वाद्यनैकान्तिक इत्यत आह ॥ आत्मनीति । एतेनेति ॥ साध्यभेदेन विरुद्धत्वमनैकान्तिकत्त्वं च भवतीति प्रतिपादनेन विरुद्धस्यैवानैकान्तिकत्वाभिधाने पक्षत्रयवृत्तिरनैकान्तिक इति लक्षणविरोधः ।

आत्मनः स्वप्रकाशत्वेन दृश्यत्वाभावशङ्का

टीका

आह, नात्मनो दृश्यत्वं युक्तम् । तस्यापराधीनप्रकाशत्वात् । तथाहि, ममेदमनुकूलं प्रतिकूलमिति वा विज्ञानस्य अवच्छिन्न-प्रकाशत्वेन अवच्छेदकात्मप्रकाशनान्तरीयकत्वाद् अवश्यमात्मा प्रकाशत इत्यङ्गीकार्यम् । तस्य च मानसवेदनीयतायां वृत्तिविरोधात्, संवित्कर्मतामन्तरेणापरोक्षस्य संविदधीनप्रकाशताविरोधात् परिशेषतः स्वप्रकाशतासिद्धिरिति ।

आत्मनो दृश्यत्वसमर्थनं

तत्रेदं वक्तव्यं, किमात्मनो निरुपाधिकरूपमपराधीनप्रकाशम् ? उत सोपाधिकमपि ? आद्ये किमनेनानुकूलप्रतिकूलसम्बन्धिनः सोपाधिकस्यापराधीनप्रकाशताप्रतिपादनेन । द्वितीये तु ज्ञानमात्र-स्यात्मन्यवृत्तिप्रसङ्गात् ।

सर्वप्रत्ययवेद्ये च ब्रह्मरूपे व्यवस्थिते

इत्यादिस्ववचनविरोधश्च स्यात् । किं च ‘आत्मा न पराधीन-प्रकाशः’ इति वृत्तिविषयो न वा ? आद्ये दृश्यत्वापत्तिः । मूकोऽह- मितिवत्स्वक्रियाविरोधश्च । द्वितीये व्यतिरेकासिद्ध्या सन्दिग्धा-नैकान्तिकः ।

सोपाधिकस्य दृश्यत्वव्यतिरेकावच्छिन्नस्य दृश्यत्वं स्यादेवेति आनन्दबोधोक्तिनिरासः ।

नन्वात्मनो निरुपाधिकं रूपमेवापराधीनप्रकाशम् । सोपाधिकं तु पराधीनप्रकाशमपि । तेन स्वप्रकाशत्वेऽपि व्यतिरेकावच्छिन्नस्य स्यादेव दृश्यतेति चेन् न । व्यतिरेकावच्छिन्नस्य सत्यत्वे अनैकान्त्य-तादवस्थ्यात् । मिथ्यात्वे किमनेन सिद्धेनापि व्यतिरेकेण । प्रत्युत तस्य पक्षतया भागासिद्धिश्च स्यात् ।

दृश्यत्वव्यतिरेकावच्छिन्नं दृश्यमिति विप्रतिषिद्धं च । अत एव ‘यतो वाचः’ इत्यादिश्रुतयोऽप्यन्यथा योजनीयाः । निरुपाधिकरूपे पुनस्तदवस्थो व्यतिरेकानिश्चयः ।

मन्दारमञ्जरी

आत्मनः स्वप्रकाशतामुपपादयितुं प्रकाशमात्रं तावदुपपादयति ॥ ममेदमिति । ‘ममेदमनुकूलम्’ इत्यादिज्ञानस्य अहमर्थविशिष्टानुकूलादि-वस्तुप्रकाशत्वेन अवच्छेदकात्मप्रकाशोऽङ्गीकार्यः । दण्ड्यादिलक्षणा-वच्छिन्नप्रकाशस्य दण्डादिलक्षणावच्छेदकप्रकाशसाहित्यनियमदर्शनादित्यर्थः। एवमात्मनः प्रकाशमात्रमुपपाद्य तस्यापराधीनप्रकाशत्वसिद्धये नैयायि-काङ्गीकृतां मानसवेद्यतां तावन्निषेधति ॥ तस्येति ॥ आत्मनो मनोजन्य-स्वनिष्ठज्ञानवेद्यत्वे स्वनिष्ठक्रियायाः स्वस्मिन्विषये वृत्तिरापद्येत । सा चायुक्ता । देवदत्तगताया गतेस्तद्विषयत्वादर्शनादित्यर्थः । नन्वस्त्वात्मनो मानसवेदनीयत्वाभावः । तथाप्यपराधीनता आत्मप्रकाशस्य कुतः ? ज्ञानाश्रयत्वेनाप्यात्मनः प्रकाशोपपत्तेरिति भास्करस्य शङ्कां निरस्यति ॥ संवित्कर्मतामिति ॥ अयमर्थः, आत्मा न संविदधीनप्रकाशः संवित्कर्मता-मन्तरेणापरोक्षत्वात् संवेदनवत् । घटादौ धर्माधर्मादौ च व्यभिचार-परिहारार्थं हेतुगतं विशेषणद्वयम् । न च नैयायिकादीन्प्रति

विशेषणासिद्धिः । संवित्कर्मत्वे वृत्तिविरोधस्योक्तत्वात् । न च निदर्शनस्य साध्यवैकल्यम् । संविदः संविदन्तराधीनप्रकाशत्वे अनवस्थानादिति ।

परिहरति ॥ तत्रेदमिति ॥ आद्यं दूषयति ॥ आद्य इति ॥ निरुपाधिकस्यैवापराधीनप्रकाशत्वे ममेदमित्यादिना अनुकूलादिविशिष्टस्य अन्तःकरणसम्बन्धिचैतन्यरूपस्य अहमर्थस्य स्वयंप्रकाशत्वसाधनमसङ्गत-मित्यर्थः । द्वितीयं दूषयति ॥ द्वितीय इति ॥ निरुपाधिकरूपवत्सोपाधिक रूपस्याप्यपराधीनप्रकाशत्वाङ्गीकारे आत्मनि ज्ञानमात्रं निषिद्धं स्यात् । तथा चापसिद्धान्तः स्यात् ।

सर्वप्रत्ययवेद्ये च ब्रह्मरूपे व्यवस्थिते ।

प्रपञ्चस्य प्रविलयः शब्देन प्रतिपाद्यते ॥

इति मण्डनमिश्रादिभिस्तस्य वेद्यताभिधानादित्यर्थः । दोषान्तरमाह ॥ किं चेति ॥ ‘आत्मा न पराधीनप्रकाशः’ इत्येवंप्रकारवृत्तिविषयो न वेति विकल्पार्थः ॥ स्वक्रियाविरोध इति ॥ यथा मूकोऽहमिति वचनक्रियया मूकपदोक्तवचननिषेधो विरुद्ध्यते तथा ‘आत्मा पराधीनप्रकाशो न’ इति आत्मसम्बन्धित्वेन पराधीनप्रकाशनिषेधकात्मविषयकज्ञानक्रियया नेति-पदोक्तस्तन्निषेधो विरुद्ध्यत इत्यर्थः ॥ द्वितीय इति ॥ यत्र मिथ्यात्वा-भावस्तत्र दृश्यत्वाभाव इति व्यतिरेकोऽस्ति न वा ? आद्ये आत्मन्येव स दर्शयितव्यः । अत्यन्तासति सद्विविक्तत्वरूपमिथ्यात्वस्य पराधीनप्रकाशत्व-रूपदृश्यत्वस्य च सद्भावेन तत्र व्यतिरेकासम्भवात् । न चात्मनि स शक्यो दर्शयितुम् । ‘आत्मा न पराधीनप्रकाशः’ इति पराधीनप्रकाशत्वरूप-दृश्यत्वाख्यसाधनाभावविषयकज्ञानं प्रत्यात्मनो विषयत्वाभावेन तन्निष्ठतया व्यतिरेकस्य ज्ञातुमशक्यत्वात् । द्वितीये सन्दिग्धानैकान्तिकता । निश्चित साध्याभाववति साधनाभावनियमानिश्चयेन तत्र साधनसन्देहादित्यर्थः ।

ननु ‘आत्मा न पराधीनप्रकाशः’ इति वृत्तिविषय इत्याद्यः पक्षोऽङ्गीक्रियते । तर्हि दृश्यत्वं स्यादिति चेत् किं निरुपाधिकस्य ? किं वा सोपाधिकस्य ? नाद्यो ऽपराधीनप्रकाशत्वविशिष्टस्यैव तत्र स्फुरणा-न्निरुपाधिकस्य तत्रास्फुरणात् । न द्वितीयः सोपाधिकस्य दृश्यत्वाङ्गी-कारादिति चोदयति ॥ नन्विति ॥ निरुपाधिकं रूपमेवापराधीनप्रकाशं सोपाधिकं तु तदेव रूपं पराधीनप्रकाशमपीत्यपिशब्दो योज्यः । एवं च निरुपाधिकस्यापराधीनप्रकाशत्वेऽपि दृश्यत्वाभावावच्छिन्नस्य दृश्यत्वसिद्धौ सिद्धो व्यतिरेक इत्याह ॥ तेनेति ॥ तत्रेदं वक्तव्यं, किं सोपाधिके व्यतिरेकः प्रदर्श्यते ? किं वा निरुपाधिके ? आद्ये सोपाधिकं सत्यं मिथ्या वा । आद्यं दूषयति ॥ न व्यतिरेकावच्छिन्नस्येति ॥ व्यतिरेका-वच्छिन्नस्यादृश्यत्वे तन्निष्ठतया व्यतिरेकस्य ज्ञातुमशक्यत्वात् सत्यस्य दृश्यत्वावश्यम्भावाद्व्यभिचार इत्यर्थः । द्वितीयं दूषयति ॥ मिथ्यात्व इति ॥ अनेन दृश्यत्वरूपसाधनस्य व्यतिरेकेण किमपि । मिथ्यात्वरूप-साध्यव्यतिरेकाभावेन व्यतिरेकव्याप्तेरदर्शितत्वादित्यर्थः ॥ भागासिद्धि-रिति ॥ सोपाधिकस्य मिथ्यात्वे तस्यापि पक्षीकर्तव्यतया दृश्यत्वस्य तत्रावृत्तौ भागासिद्धिरित्यर्थः ।

एवं विशिष्टस्य मिथ्यात्वाद् विशिष्टे साध्यव्यतिरेको नास्तीत्युक्तम् । इदानीं साधनव्यतिरेको वा तज्ज्ञानं वा त्याज्यम् । साधनव्यतिरेको हि सोपाधिकस्य दृश्यत्वव्यतिरेकावच्छिन्नत्वमपेक्षते । सोपाधिकावच्छिन्नतया साधनव्यतिरेकज्ञानं तु सोपाधिकस्य दृश्यत्वमपेक्षते । न च दृश्यत्व-व्यतिरेकावच्छिन्नत्वयोरेकत्रावस्थानं युक्तं विरोधात् । एवं च ‘व्यतिरेका-वच्छिन्नस्य स्यादेव दृश्यता’ इति आनन्दबोधोक्तिश्च व्याहतेत्याह ॥ दृश्यत्वव्यतिरेकेति ॥

दृश्यत्वदृश्यत्वाभावयोः सामानाधिकरण्यशङ्का तन्निरासश्च

ननु भावाभावयोः सामानाधिकरण्ये हि विप्रतिषेधः स्यात् । न त्वेतदस्ति । स्वरूपमात्रे दृश्यत्वाभावः, स्वरूपमात्राद्भिन्ने दृश्यत्व-व्यतिरेकावच्छिन्ने दृश्यत्वमित्यधिकरणभेदाङ्गीकारादिति चेत् । मैवम् । दृश्यत्वव्यतिरेकाश्रयस्य दृश्यत्वव्यतिरेकावच्छिन्नतया दृश्यतासिद्ध्यर्थं दृश्यत्वव्यतिरेकदृश्यत्वयोः सामानाधिकरण्यस्यावश्यकत्वात् । अन्यथा एकत्र व्यतिरेको ऽपरत्र दृश्यत्वव्यतिरेकाभाव इत्युक्तौ यत्र व्यतिरेकमात्रं तत्र स्वरूपमात्रसिद्धावपि तदवच्छिन्नतया व्यतिरेकज्ञानासम्भवः । न हि तस्याज्ञाने तदवच्छिन्नतया किञ्चिज्ज्ञातुं शक्यम् । यत्र दृश्यत्वमात्रं तत्र तद्व्यतिरेकस्यैव असम्भव इति दूरे तदवधारणमिति ।

श्रुतिभिरपि सर्वथा दृश्यत्वं निषिद्ध्यते चेद् ब्रह्मसम्बन्धित्वेनैव तन्निषेद्धव्यम् । न च ब्रह्मणोऽज्ञाने तत्र दृश्यत्वं निषेद्धुं शक्यम् । अज्ञाते धर्मिणि धर्मनिषेधायोगात् । एवं च सर्वथा दृश्यत्वनिषेधे व्याघातादेव अन्यपरत्वं तासामित्याह ॥ अत एवेति ॥ एवं ताव-दवच्छिन्नस्य दृश्यत्वेन तन्निष्ठतया व्यतिरेकस्य शक्यज्ञानत्वेऽपि अवच्छिन्नस्य मिथ्यात्वाद्दृश्यत्वाच्च साध्यसाधनयोर्व्यतिरेकस्वरूपमेव तत्र न सम्भवतीति सोपाधिके व्यतिरेकः प्रदर्श्यत इति पक्षो दूषितः । इदानीं

निरुपाधिके व्यतिरेकः प्रदर्श्यत इति पक्षं दूषयति ॥ निरुपाधिक इति ॥ निरुपाधिकस्यात्मनः सत्यत्वेन तत्र साध्यव्यतिरेकस्य अदृश्यत्वेन साधनव्यतिरेकस्य च स्वरूपतः सद्भावेऽपि निरुपाधिकस्य अदृश्यतया तन्निष्ठत्वेन व्यतिरेकनिश्चयो न सम्भवतीति तत्र तन्निश्चयं वदता तस्य दृश्यत्वं वक्तव्यमित्यनैकान्तिकत्वमित्यर्थः ।

आत्मस्वरूपस्यादृश्यत्वेऽपि दृश्यत्वाभाववैशिष्ट्यस्य दृश्यत्वशङ्का तन्निरासश्च

अत्र केनचित्प्रलपितं, स्वयंप्रकाशत्वेन प्रकाशमाने आत्मनि ‘यतो वाचो निवर्तन्ते’ इत्यादिवाक्याददृश्यत्वाकारा बुद्धिरुत्पद्यते । तस्यां चाभिव्यक्तो दृगात्मा स्वाध्यस्तं दृश्यत्वाभाववैशिष्ट्यं साधयति । एवं चात्मस्वरूपेऽदृश्येऽपि दृश्यत्वाभाववैशिष्ट्यं दृश्यं भविष्यति । न च वाच्यं दृश्यत्वाभाववैशिष्ट्यस्य मिथ्यात्वे दृश्यत्वं वास्तवं स्यादिति । स्वप्ने भावतद्विपर्यययोरध्यस्तता दर्शनादिति । तत्तुच्छम् । तथा हि, अदृश्यत्वाकारबुद्धिः किमात्मावच्छिन्नमदृश्यत्वं बोधयति ? उता-नवच्छिन्नम् ? आद्ये अवच्छेदकात्मनोऽपि ज्ञानं स्यात् । द्वितीये कथं दृश्यत्वाभावविशिष्टस्यात्मीयतासिद्धिः ? वाक्यादुत्पन्नायाश्च वृत्तेरध्यस्त-दृश्यत्वविषयकत्वेन कथं वाक्याप्रामाण्यापातः । किं चैवमारोपितो दृश्यत्वव्यतिरेक आत्मनीव प्रपञ्चेऽप्यस्तीत्यसिद्धिः । प्रपञ्चे दृश्यत्व-मारोपितमस्तीति नासिद्धिरिति चेत् तर्ह्यात्मन्यप्यध्यस्तं तदस्तीति व्यभिचारः । किं च दृश्यत्वाभावस्याध्यस्तत्वे तदभावरूपेण दृश्यत्वेन बाधगोचरेण भवितव्यम् । बाधविषयस्य चाध्यस्तत्वे बाधस्याप्रामाण्य-प्रसङ्गात्सत्यतासिद्धिः । अत एव स्वप्नदृष्टान्तोऽप्यसम्प्रतिपन्न इत्यलं दुर्बलहिंसया ।

श्रीनिवासतीर्थीयटिप्पणी

दृश्यत्वमिति । वृत्त्यधीनप्रकाशत्वरूपवृत्तिविषयत्वाख्यं दृश्यत्व-मित्यर्थः । कुत इत्यत आह ॥ तस्येति । अपराधीनप्रकाशत्वात् । पराधीनप्रकाशत्वाभावात् । स्वप्रकाशत्वादित्यर्थः । आत्मनः स्व-प्रकाशत्वमुपपादयितुं प्रकाशमात्रं तावदुपपादयति ॥ ममेदमित्यादिना अङ्गीकार्यमित्यन्तेन ॥ अवच्छिन्नप्रकाशत्वेनेति । अहमर्थविशेषण-कानुकूलादिवस्तुविशेष्यकविशिष्टज्ञानत्वेनेत्यर्थः ॥ अवच्छेदकेति । विशेषणीभूतेत्यर्थः । नान्तरीयकत्वात् । नियतत्वात् । दण्डीत्यादि-विशिष्टज्ञानस्य दण्डादिरूपविशेषणज्ञानसापेक्षत्वदर्शनादित्यर्थः । एव-मात्मनः प्रकाशमात्रमुपपाद्य तस्य अपराधीनप्रकाशत्वरूपस्वप्रकाशत्व-सिद्धयेऽपराधीनप्रकाशत्वपक्षे किं नैयायिकरीत्या मानसवेद्यत्वम् अङ्गीक्रियते उत प्राभाकररीत्या स्वप्रकाशज्ञानाश्रयतया आत्मप्रकाश इति विकल्प्याद्यं निषेधति ॥ तस्येति । अहमिति मानसवेद्यत्वाङ्गीकार इत्यर्थः ॥ वृत्ति-विरोधादिति । स्वनिष्ठायाः क्रियायाः स्वविषयत्वे विरोधात् । क्रियाश्रयः कर्ता क्रियाविषयः कर्म, तथा च कर्तृत्वकर्मत्वयोरेकत्र वृत्तिविरोधा-दित्यर्थः । तथाहि । मनोजन्यं ज्ञानम् आत्मनिष्ठम् । तथा चात्मनो मनोजन्यस्वनिष्ठज्ञानवेद्यत्वे स्वनिष्ठाया ज्ञानरूपक्रियायाः स्वस्मिन् विषये वृत्तिरापद्येत । न च सा युक्ता । ग्रामादिरूपगम्यविषयकदेवदत्तगते-र्देवदत्तविषयकत्वादर्शनादिति भावः ।

द्वितीयं प्रतिषेधति ॥ संवित्कर्मतामिति ॥ संविदधीनेति । संविदाश्रयतयेत्यर्थः । तथाहि । आत्मांशस्वात्मांशवेद्यांशरूपत्रिपुटी-प्रत्यक्षवादी हि प्राभाकरः । तन्मते घटमहं जानामीति ज्ञानाकारः । तत्र घटमिति वेद्यांशो भासते अहमित्यात्मांशः जानामीति स्वात्मांशः । तत्र चात्मा स्वप्रकाशज्ञानाश्रयतया प्रकाशत इत्युच्यते तदयुक्तम् । आत्मा, संविदाश्रयतया न संविदधीनप्रकाशः । संवित्कर्मतामन्तरेण अपरोक्षत्वा-त्संवेदनवदित्यनुमानविरोधादित्यर्थः । संवित्कर्म(तामन्तरेणाय)त्वेना-परोक्षस्यैव घटादेः संविदधीनप्रकाशत्वं दृष्टम् । आत्मनश्च संवित्कर्मत्वा-भावेऽप्यपरोक्षत्वात्संविदधीनप्रकाशत्वं नास्तीत्यर्थः । अत्र घटादौ व्यभिचार वारणाय संवित्कर्मतामन्तरेणेत्युक्तम् । संवित्कर्मत्वशून्यत्वादित्येवोक्तौ धर्मादौ व्यभिचारः स्यादतोऽ परोक्षत्वादित्युक्तम् ।

न च नैयायिकादीन्प्रति विशेषणासिद्धिरिति वाच्यम् । मनोजन्याया आत्मनिष्ठायाः संविद आत्मकर्मकत्वे वृत्तिविरोधस्यैवोक्तत्वात् । न च दृष्टान्तस्य साध्यवैकल्यं शङ्क्यम् । संविदः संविदन्तराधीनत्वाङ्गीकारे अनवस्थापत्तेरिति । इत्याहेति सम्बन्धः । परिहरति ॥ तत्रेदमिति । निरुपाधिकं देहेन्द्रियान्तःकरणरूपोपाध्यविशिष्टं शुद्धम् ॥ सोपाधिकम-पीति । निरुपाधिकं सोपाधिकं चेत्युभयमप्यपराधीनप्रकाशमित्यर्थः ॥ आद्य इति । निरुपाधिकस्यैवापराधीनप्रकाशत्वे अनुकूलादिसम्बन्धिनश् चिदचित्संवलनात्मकाहमर्थविशिष्टस्य ममेदमित्यादिनाऽपराधीनप्रकाशत्व-रूपस्वप्रकाशत्वसाधनमसङ्गतमित्यर्थः ॥ आत्मनीति । विषयसप्तमीयम् । तथा च निरुपाधिकरूपवत्सोपाधिकरूपस्याप्यपराधीनप्रकाशत्वाङ्गीकारे आत्मनि ज्ञानमात्रं निषिद्धं स्यात् । आत्मनो ज्ञानविषयत्वमेव निषिद्धं स्यादिति यावत् । अस्तु को दोष इति चेत्तत्राह ॥ सर्वेति । प्रपञ्चस्य प्रविलयः शब्देन प्रतिपाद्यत इति वाक्यशेषो द्रष्टव्यः । तथा च मण्डन-मिश्रेण तस्य वेद्यत्वाभिधानात्तदनङ्गीकारे अपसिद्धान्तः स्यादिति भावः । दोषान्तरमाह ॥ किञ्चेति । वृत्तिविषयो न वेति । आत्मा न पराधीन-प्रकाश इति वाक्यजन्यज्ञानविषयो न वेत्यर्थः ॥ दृश्यत्वापत्तिरिति । तथा च व्यभिचार इति भावः ॥

स्वक्रियाविरोधश्चेति । मूक इति वचनक्रियाभावं विधत्ते मूकोऽह-मिति वचनक्रियां च करोति । तथा च यथा मूकोऽहमिति वचनक्रियया मूकपदोक्तवचननिषेधो विरुध्यते तथा आत्मा पराधीनप्रकाशो नेत्यात्म-सम्बन्धित्वेन पराधीनप्रकाशत्वनिषेधकात्मविषयकज्ञानक्रियया नेति पदोक्त- स्तन्निषेधो विरुध्यत इत्यर्थः ॥ व्यतिरेकासिद्ध्येति । दृश्यत्वहेतौ यत्र मिथ्यात्वाभावस् तत्र दृश्यत्वाभाव इति व्यतिरेकव्याप्तिस्तावदस्ति न वा । आद्ये सा नात्यन्तासति प्रदर्शयितुं शक्या । तत्र सद्विविक्तत्वरूप-मिथ्यात्वस्य पराधीनप्रकाशत्वरूपदृश्यत्वस्य च सद्भावेन (तत्र) व्यतिरेका सम्भवात् । तस्मादात्मन्येव सा दर्शयितव्या । न तत्र सा दर्शयितुं शक्या । तथा हि । पराधीनप्रकाशत्वरूपं यद्दृश्यत्वं तद्रूपं यत्साधनं तदभावविषयकं यज्ज्ञानम् आत्मा न पराधीनप्रकाश इति वृत्तिरूपं ज्ञानं तत्प्रत्यात्मनो विषयत्वानङ्गीकारेण अधिकरणज्ञानाभावेन तन्निष्ठतया व्यतिरेकस्य ज्ञातु-मशक्यत्वात् । द्वितीये सन्दिग्धानैकान्तिकता । निश्चितसाध्याभाववति आत्मनि हेतोः सन्दिग्धत्वादित्यर्थः ।

ननु आत्मा न पराधीनप्रकाश इति वाक्यजन्यवृत्तिविषय इत्याद्यपक्ष एवाङ्गीक्रियते तर्हि दृश्यत्वं स्यादिति चेत् । किं निरुपाधिकस्य स्यादि-त्युच्यते किं वा सोपाधिकस्य । नाद्यः । अपराधीनप्रकाशविशिष्टस्यैव तस्यां वृत्तौ स्फुरणेन निरुपाधिकस्य तत्र अस्फुरणात् । न द्वितीयः । इष्टापत्तेः । सोपाधिकस्य दृश्यत्वाङ्गीकारादिति शङ्कते ॥ नन्विति । निरुपाधिकस्वरूपमेवापराधीनप्रकाशं सोपाधिकं तु तदेव स्वरूपं पराधीन प्रकाशमपीति योज्यम् । एवञ्च निरुपाधिकस्य अपराधीनप्रकाशत्वेऽपि दृश्यत्वाभावावच्छिन्नस्य दृश्यत्वनिषेधो व्यतिरेक इत्याह ॥ तेनेति ॥ व्यतिरेकावच्छिन्नस्येति । दृश्यत्वव्यतिरेकावच्छेदेनेत्यर्थः । अयमभि-सन्धिः । यथा हि स्वरूपेणापरिच्छिन्नं यद्गगनं तदेव घटाद्यवच्छेदेन परिच्छिन्नमुच्यते । एवं स्वरूपेणापराधीनप्रकाशं यन्निरुपाधिकं रूपं तस्यैव दृश्यत्वव्यतिरेकावच्छेदेन दृश्यत्वादधिकरणज्ञानसम्भवेन युक्तस्तत्र व्यतिरेकव्याप्तिग्रह इति ।

तत्रेदं वक्तव्यम् । किं सोपाधिके व्यतिरेकः प्रदर्श्यते किं वा निरुपाधिके । आद्ये तत्सोपाधिकं सत्यं मिथ्या वा । आद्यं दूषयति ॥ व्यतिरेकावच्छिन्नस्य सत्यत्व इति । व्यतिरेकावच्छिन्नस्यादृश्यत्वे अधिकरणज्ञानाभावेन तन्निष्ठतया व्यतिरेकस्य ज्ञातुमशक्यत्वेन तदर्थं सत्यस्य तस्य दृश्यत्वावश्यंभावाद्व्यभिचार इत्यर्थः । द्वितीयं दूषयति ॥ मिथ्यात्व इति । अनेन दृश्यत्वरूपसाधनव्यतिरेकेण सिद्धेनापि किं प्रयोजनं न किमपि । तत्र मिथ्यात्वरूपसाध्यव्यतिरेकाभावेन व्यतिरेक-व्याप्तेः प्रदर्शयितुमशक्यत्वादित्यर्थः ॥ भागासिद्धिरिति । सोपाधिकस्य मिथ्यात्वे तस्यापि पक्षीकर्तव्यतया दृश्यत्वस्य तत्रावृत्तौ भागा-सिद्धिरित्यर्थः ॥

विप्रतिषिद्धं चेति । ननु भावाभावयोः सामानाधिकरण्ये हि विरोधः-स्यान् न चैतदस्ति । स्वरूपमात्रे दृश्यत्वाभावः । स्वरूपमात्राद्भिन्ने दृश्यत्वव्यतिरेकावच्छिन्ने सोपाधिके दृश्यत्वमित्यधिकरणभेदांगीकारादिति चेन्मैवम् । स्वरूपस्यैव दृश्यत्वव्यतिरेकावच्छिन्नत्वेन दृश्यत्वोक्तौ तदवच्छेदेन तस्यैव दृश्यत्वव्यतिरेकदृश्यत्वयोरैकाधिकरण्यप्राप्त्या विरोधः स्यादेवेत्याशयात् । नन्वात्मनो दृश्यत्वाङ्गीकारे यतो वाचो निवर्तन्ते । यत्तदद्रेश्यमित्यादिवेदाद्यज्ञेयत्वप्रतिपादकश्रुतिविरोधः स्यादिति चेत्तत्राह ॥ अत एवेति । श्रुतिभिरपि ब्रह्मसम्बन्धित्वेनैव दृश्यत्वं निषेद्धव्यम् । न चाधिकरणभूतस्य ब्रह्मणोऽज्ञाने तत्र दृश्यत्वं निषेद्धुं शक्यम् । अज्ञाते धर्मिणि धर्मनिषेधायोगात् । सद्भ्यामधिकरणप्रतियोगिभ्यामभावो निरूप्यत इत्युक्तत्वात् । एवञ्च सर्वथा दृश्यत्वनिषेधे व्याघातप्रसङ्गादेव साकल्येना-ज्ञेयत्वपरतया श्रुतयो योज्या इत्यर्थः ।

एवं साध्यसाधनयोर्व्यतिरेकस्य सोपाधिकेऽसम्भवात् सोपाधिके व्यतिरेकः प्रदर्श्यत इति पक्षो दूषितः । इदानीं निरुपाधिके व्यतिरेकः प्रदर्श्यत इति पक्षं दूषयति ॥ निरुपाधिकरूप इति । निरुपाधिकस्यात्मनः सत्यत्वेन तत्र साध्यव्यतिरेकस्य (अदृश्यत्वे) सद्भावेन साधनव्यतिरेकस्य च स्वरूपतः सद्भावेऽपि तज्ज्ञानार्थं तदधिकरणीभूतस्य ज्ञातव्यत्वेन दृश्यत्व प्राप्त्या अनैकान्तिकत्वमित्यर्थः ॥

श्रीगुरुराजीयटिप्पणी

इति वा विज्ञानस्येति ॥ अनेन विप्रतिपन्नं विज्ञानमवच्छेदकी-भूतात्मप्रकाशपूर्वकं तदवच्छिन्नविषयकज्ञानत्वात् । यद्यदवच्छिन्नविषयकं विज्ञानं तत्तदवच्छेदकप्रकाशपूर्वकम् । यथा दण्डी देवदत्त इति दण्डा-वच्छिन्नदेवदत्तविषयकं विज्ञानमवच्छेदकदण्डप्रकाशपूर्वकमित्यनुमानमुक्तं भवति । न चोक्तरूपज्ञानसद्भावे मानाभावादाश्रयासिद्धिरनुकूलविषयक-प्रवृत्तेः प्रतिकूलविषयकनिवृत्तेश्चोक्तरूपज्ञानसाध्यतया तदभावेऽसम्भवेन तदन्यथानुपपत्त्यैव तत्सिद्धेरिति भावः ॥ परिशेषत इति ॥ प्रसक्त-प्रतिषेधेऽन्यत्राप्रसङ्गात् परिशिष्यमाणे सम्प्रत्ययः परिशेषः । एतदुक्तं भवति । विद्यते तावदात्मप्रकाशः । अन्यथा ममेदमनुकूलमित्यादिविशिष्ट-ज्ञानासम्भवात् । स च न मानसप्रत्यक्षः । नापि विषयसंविन्निबन्धनः । न चानुमानिको ऽपरोक्षावभासत्त्वात् । न च भ्रान्त्या बाधकाभावात् । न चान्यद्गत्यन्तरमस्तीति स्वत एव वाच्य इति ॥ किमात्मन इति ॥ आत्मनोऽपि निरूपाधिकरूपमेवापराधीनप्रकाशमित्येतत्कल्पार्थः । अत एवोत सोपाधिक मपीत्युभयोरपि स्वप्रकाशत्वद्योतकोऽपिशब्दः सङ्गच्छते । अन्यथा उत सोपाधिकमित्येवावक्ष्यदिति द्रष्टव्यम् । आद्य इत्यादिको ग्रन्थश् चिरन्तनटीकायां स्पष्टः ।

मिथ्यात्वानुमानखण्डनपरशुः

सपक्षशून्यस्य पक्षाश्रयवृत्तित्वाभावादिति परास्तमित्यर्थः । अनैकान्त्य-परिहारं शङ्कते ॥ आहेति । नात्मन इति ॥ नन्वात्मन दृश्यत्वा-भावव्युत्पादनायानुमानप्रयोगोऽनुपपन्नः । अस्यानुमानस्य तदसाधकत्वात् । तत्साधकत्वाङ्गीकारे आत्मन एतज्जन्यज्ञानविषयत्वेन दृश्यत्वापातात् । न ह्यनुमानं स्वजन्यज्ञानविषयकस्य चिदर्थस्य साधकं वा भवति । अन्यथाऽति प्रसङ्गात् । अपराधीनप्रकाशत्वेऽपि बाधकाभावेन दृश्यत्वसम्भवादप्रयोजकं चानुमानमिति चेदुच्यते । एवं परो मन्यते । नात्मा एतदनुमानजन्य-ज्ञानविषयः । येनोक्तदोषः स्यात् । किं नाम एतदनुमानाभिव्यक्तात्मरूप-प्रकाशविषयः वृत्तिविषये प्रयुज्यमानमनुमानं वृत्तिजनकम् । तदविषये प्रयुज्यमानं स्वरूपज्ञानाभिव्यञ्जकम् । एवं च दृश्यत्वव्यतिरेक-साधकत्वादनुमानप्रयोग उपपन्नः । न चाप्रयोजकता । यत्स्वप्रकाशं तन्न दृश्यमिति व्याप्तेः ॥ स्वरूपप्रकाशेनैव सिध्या हेतुमङ्गीकृत्य साध्यानङ्गीकारे हेतुछेदस्यैव बाधकत्वान् न हि व्यापकाभावे व्याप्तं सम्भवतीति ॥ ममेदमिति ॥ ननु परिशेषेण स्वप्रकाशत्वसाधनाय ममेदमनुकुलं प्रतिकूल-मिति अवच्छिन्नप्रकाशोपन्यासो न युक्तः परिशेषाभावप्रसङ्गात् । न हि ममेदमनुकूलं प्रतिकूलमिति मानसज्ञानविषयत्वमभ्युपगम्य तस्य मानस-वेदनीयताया वृत्तिविरोधादिति तन्निषेधो युज्यते । किं च ममेदमनुकुलं प्रतिकूलमिति वृत्तिविषयत्वरूपदृश्यत्वस्यावर्जनीयत्वात् स्वप्रकाशसाधन-वैयर्थ्यम् । न हि वृत्तिविषयत्वमुपजीव्यसिद्धं स्वप्रकाशकत्वं वृत्तिविषयत्व-प्रतिक्षेपायालं यतः स्वप्रकाशसाधनं सार्थकं स्याद् इति चेदुच्यते । एवं हि पूर्वपक्षी मन्यते । विषयविशिष्टज्ञानं विशिष्टस्यैव दृश्यत्वापादकम् । न विशेषणस्य विशिष्टज्ञानत्वात् । अन्यथा पटज्ञानप्रयुक्तं दृश्यत्वं घटस्यापि स्यात् । न च विशिष्टज्ञानं विशेषणस्यापि ज्ञानं विशिष्टज्ञातमिति प्रसिद्धि-वद् विशेषणज्ञानमित्यपि प्रसिद्धिप्रसङ्गात् । कथं तर्हि विशिष्टज्ञाने विशेषणस्य प्रकाशप्रवाद इति चेद् उच्यते । विशिष्टज्ञानं विशेषणज्ञानं नान्तरीयकमिति ज्ञानयोर्विवेकाग्रहात् । विशिष्टज्ञाने विशेषणं भासत इति प्रवादः । न चैवं सति मानसवेद्यत्वप्रतिषेधानुपपत्तिर्भवति । मानसविशिष्ट-ज्ञानविषयत्वानङ्गीकारात् । तदिदमुक्तम् । अवच्छेदकात्मप्रकाश-नान्तरीयकत्वादिति । अत एव न स्वप्रकाशत्वसाधनवैयर्थ्यम् । तस्य दृश्यत्वमुपजीव्याप्रवृत्तत्वेन तत्प्रतिक्षेपकत्वसम्भवात् ॥ तस्य च मानस-वेदनीयतायामिति ॥ मानसवेदनीयतायां मानसज्ञानस्यात्मनिष्टत्वं न स्यात् । न हि स्वविषयकक्रियायाः स्वनिष्ठत्वं (स्ववृत्तित्वं) सम्भवति । देवदत्तनिष्ठाया गमनादिक्रियाया अन्यविषयत्वस्य नियमेन दर्शनादित्यर्थः । घटमहं जानामीत्यादिज्ञानमात्मांशवेद्यांशस्वात्मांशानां प्रकाशरूपम् । एवं च घटादिसर्वज्ञानेषु आत्मा प्रकाशते । न तु स्वप्रकाश इति मतं दूषयति ॥ संविदिति ॥ कस्यापि संवित्कर्मतामन्तरेण सुषुप्तिकाल इति शेषः । सुषुप्तिकाले कस्यापि संवित्कर्मतामन्तरेण घटादिविषयकवृत्तिज्ञाना-भावेऽपीति यावत् । स्वप्रकाशमानस्यात्मनः वृत्तिज्ञानाश्रयतया प्रकाशाभि-धानं न युज्यते । वैय्यर्थ्याख्यविरोधापातादित्यर्थः ॥ किमनेनेति ॥ निरुपाधिकस्य स्वप्रकाशतासिद्ध्यर्थं प्रयतमानस्य तदसाधकेन सोपाधिकस्य तत्साधकेन किं प्रयोजनमित्यर्थः ॥ द्वितीये त्विति ॥ उभयोरपि स्वप्रकाशत्वेन ज्ञानानां मध्ये कस्यापि ज्ञानत्वं न स्यात् । ततश्च वचनविरोधः स्यादिति भावः । उपलक्षणमेतत् । दृश्यत्वस्य निरुपाधिके ब्रह्मणि व्यभिचारे चोदिते दृश्यत्वनिरासाय तस्यैव स्वप्रकाशत्वस्य समर्थनीयत्वेन तद्विहाय विशिष्टस्य स्वप्रकाशत्वसमर्थनमसङ्गतमित्यपि द्रष्टव्यम् ॥ मूकोऽहमितिवदिति ॥ यथा मूकोऽहमिति वचनक्रियया मूकपदोक्तवचनाभावो विरुध्यते । एवमात्मवृत्तिविषयो नेति वृत्तेरात्म-विषयीकरणं व्यापारेण नञर्थो बाध्यते इत्यर्थः ॥

द्वितीये व्यतिरेकासिद्ध्या ॥ ननु व्यतिरेकासिद्ध्या सन्दिग्धा-नैकान्तिक इत्युक्तम् । व्यतिरेकसंदेहस्यैव सन्दिग्धानैकान्त्यप्रयोजन-वत्वेनासिद्धिमात्रस्य तदप्रयोजकत्वात् ॥ न च व्यतिरेकसन्देहोऽस्त्विति वाच्यम् । सन्देहप्रयुक्तदृश्यत्वस्यावर्जनीयत्वेनानैकान्त्यस्यैव दृश्यत्वा (वक्तव्यत्वा) पातात् ॥ किञ्च न पराधीनप्रकाश इति ॥ वृत्ति-विषयत्वाभावे घटादिवत् पराधीनप्रकाशं स्यात् । पराधीनप्रकाशविषयत्व-मन्तराधीनप्रकाशविषयो नेति वृत्तिविषयत्वनिषेधायोगात् । अपि च आत्मा न पराधीनप्रकाश इति वृत्तिविषयो नेति वृत्तिविषयत्वेनैव दृश्यत्वम-वर्णनीयम् । अपि च साध्याभाववत्तया निश्चयेनैव दृश्यत्वं प्राप्तमिति सन्दिग्धानैकान्त्यचोदनमयुक्तमिति चेदुच्यते । न ब्रूमो वयं सन्दिग्धा-नैकान्त्यमेवेति । येनोक्तदोषः स्यात् । किन्तु सन्दिग्धानैकान्त्यमपीति । तथाहि । पूर्वमात्मनि दृश्यत्वं नास्तीत्युक्तम् । पश्चादात्मा वृत्तिविषयो नेति वृत्तिविषयत्वं निषिद्धम् । तद्वाक्यश्राविणामज्ञानिनां निर्णायकाभावात् संशयो भवति । किमात्मनि दृश्यत्वमस्ति न वेति । ततश्च सन्दिग्धा-नैकान्त्यम् । प्राज्ञानां तु त्वदुक्तरीत्या दृश्यत्वनिश्चयसम्भवेन निश्चिता-नैकांत्यमेवेति ।

निश्चितानैकान्त्ये वक्तव्ये यत्सन्दिग्धानैकान्त्यवचनं तदज्ञानमपि परानुमाने दोषस्फूर्तिर्भवति । किमु ज्ञानमिति सूचनायेति बोध्यम् । निरुपाधिकस्यात्मनः न पराधीनप्रकाश इत्येवमाकारकवृत्तिविषयत्वा-भावेऽपि न निरुपाधिकनिष्ठदृश्यत्वव्यतिरेकासिद्धिः । व्यतिरेकावच्छिन्नस्य पूर्वोक्तवृत्तिविषयत्वेन तयैव शुद्धनिष्ठदृश्यत्वव्यतिरेकविषयीकरणात्तद्यथा प्रथमक्षणावच्छिन्नस्य नीरूपस्याचाक्षुषत्वेऽपि रूपावच्छिन्नस्य चाक्षुष-त्वात् । तेनैव नीरूपगतघटत्वासिद्धिरिति भावेन शङ्कते ॥ नन्विति ॥ व्यतिरेकावच्छिन्नस्येति ॥ यन्निष्ठतया व्यतिरेकस्य सिद्धिर्भवति । तस्य सत्यत्वदृश्यत्वव्यतिरेकनिश्चयार्थं दृश्यत्वस्याङ्गीकर्तव्यत्वेनानैकान्त्य-तादवस्थ्यमित्यर्थः ॥ किमनेनेति ॥ सत्ये व्यभिचारपरिहारार्थदृश्यत्व-व्यतिरेकस्य व्युत्पादनीयत्वेन मिथ्याभूते तद्व्युत्पादने न किमपि प्रयोजनमित्यर्थः । उपसंहरति ॥ निरुपाधिकरूप इति ॥

प्रकारान्तरेण आत्मनो दृश्यत्वसमर्थनम्

टीका

एवमात्मैकत्वज्ञानमपि सोपाधिकविषयं चेन् न मोक्षसाधनं स्यात् । निरुपाधिकविषयत्वे दृश्यत्वापत्तिः ।

व्यतिरेकावच्छिन्नस्य स्यादेव दृश्यतेति

परवाक्येनैवाऽत्मनो दृश्यत्वसमर्थनं

किं च यथा दण्डिनो दर्शने देवदत्तोऽपि दृष्ट एव एव-मवच्छिन्नात्मनो दृश्यत्वेऽप्यात्मा दृष्ट एवेति किमनेन ? तथापि शुद्धेन रूपेण न दृश्यत इति चेन् मा दर्शि । सत्येऽप्यात्मनि गतं दृश्यत्वम् । अनैकान्तिकं स्थितमेव । सोऽपि मिथ्येति चेत् तर्हि किमत्र व्यतिरेकग्रहणेन ? इत्युक्तम् । अपि चैवं घटोऽप्य-पराधीनप्रकाश इति भागासिद्धत्वं स्यात् ।

मन्दारमञ्जरी

प्रकारान्तरेणाप्यात्मनो दृश्यत्वमुपपादयति ॥ एवमिति ॥ सोपाधि-केति ॥ मिथ्याभूतसोपाधिकविषयभ्रान्तिज्ञानस्याविद्यानिवर्तकत्वायोगा-दित्यर्थः । ‘व्यतिरेकावच्छिन्नस्य स्यादेव दृश्यता’ इति परोक्त्यैव अवच्छेद्यस्यात्मनोऽपि दृश्यतामुपपादयति ॥ किञ्चेति ॥ शुद्धेन रूपे-णेति ॥ विशेषणानवच्छिन्नस्वरूपेणेत्यर्थः । अत्र प्रष्टव्यं, किं ज्ञान-विषयत्वमात्रं दृश्यत्वम् ? किं वा शुद्धेन रूपेण ज्ञानविषयत्वम् ? आद्यं दूषयति ॥ मा दर्शीति ॥ सोऽपीति ॥ यद्यप्यवच्छेद्यस्यात्मस्वरूपस्य परेण सत्यत्वमङ्गीक्रियते । अन्यथा शून्यवादप्रसङ्गात् । तथाऽप्य-नैकान्तिकतापरिहाराभिनिविष्टचेतसो विस्मृतसिद्धान्तस्येदं चोद्यमिति बोद्धव्यम् । सोऽपि मिथ्या चेत्साध्यव्यतिरेकाभावेन तथापि शुद्धेन रूपेण न दृश्यते इति वाक्यप्रतिपादितं दृश्यत्वव्यतिरेकावधारणं निष्प्रयोजन-मित्याह ॥ तर्हीति ॥ द्वितीयं दूषयति ॥ अपि चेति ॥ एवमपि च बुद्धिस्थद्वितीयपक्षाङ्गीकारेऽपि च । घटादेरपि घटत्वाद्यवच्छेदेन दृश्यत्वा-द्यङ्गीकारात्स्वरूपेणैव दृश्यत्वं भागासिद्धमित्यर्थः ।

टीकागतं घटादौ दृश्यत्वस्य भागासिद्धिकथनमयुक्तमिति शङ्का तत्परिहारश्च

ननु घटादेः सर्वस्यापि यत्किञ्चिद्विशेषणावच्छेदेनैव प्रतीयमानतया सम्पूर्णासिद्धिसम्भवे किमिति भागासिद्धिरुक्ता ? न चैवं घटत्वादेर-वच्छेदकस्याप्यवच्छेदकान्तरावच्छेदेन प्रतीतावनवस्थाप्रसङ्गः । घटा-द्यवच्छेदकं घटत्वादिकं प्रति तदवच्छेद्यस्य घटादेरेवावच्छेदकतया अवच्छेदकान्तरानपेक्षणात् । विशिष्टज्ञाने हि विशेषणविशेष्ये परस्परा-वच्छिन्ने एव प्रतीयेते इति चेत्सत्यम् । तथापि निर्विकल्पकवादे गोत्वादेरेकदापि विशेषणान्तरावच्छेदेनाप्रतीतेस् तदभ्युपगमेन भागा-सिद्धिरुक्तेत्यदोषः ।

श्रीनिवासतीर्थीयटिप्पणी

प्रकारान्तरेणाप्यात्मनो दृश्यत्वमुपपादयति ॥ एवमिति ॥ न मोक्षसाधनं स्यादिति ॥ मिथ्याभूतसोपाधिकविषयकज्ञानस्य भ्रमत्वे(न तेना)नाविद्यानिवृत्त्ययोगादिति भावः । निरुपाधिकविषयत्व इत्यत्र आत्मैकत्वज्ञानस्येति विभक्तिविपरिणामेनानुवर्तते । व्यतिरेकावच्छिन्नस्य स्यादेव दृश्यतेति परोक्त्यैव विशेष्यभूतात्मनो दृश्यत्वं प्राप्तमिति सदृष्टान्त-मुपपादयति ॥ किञ्चेति ॥ किमनेनेति । व्यतिरेकावच्छिन्नस्य दृश्यत्व-वचनेन किमित्यर्थः ॥ शुद्धेन रूपेणेति । विशेषणानवच्छिन्न-स्वरूपेणेत्यर्थः । तथा च स्वरूपेण दृश्यत्वमेव हेतुत्वेन विवक्षितमिति भावः । अत्र प्रष्टव्यम् । किं ज्ञानविषयत्वमात्रं दृश्यत्वं शुद्धेन रूपेण ज्ञानविषयत्वं वा । आद्यं दूषयति ॥ मा दर्शीति । शुद्धेन रूपेण ज्ञानविषयत्वं माऽस्त्वित्यर्थः ॥ आत्मनीति । विशेषणानवच्छिन्नात्म-नीत्यर्थः । विशेषणावच्छिन्नस्वरूपेण तावद्दृश्यत्वं प्राप्तमेवेत्यर्थः ॥ सोऽपीति । विशेषणावच्छिन्नस्वरूपात्मेत्यर्थः । तथा च सत्येऽप्यात्म-नीत्युक्तमसदिति नानैकान्तिकमिति भावः ॥ तर्हीति । सोऽपि मिथ्या चेत् । तर्हि तत्र साध्यव्यतिरेकाभावेन शुद्धेन रूपेण न दृश्यत इति दृश्यत्वरूपहेतुव्यतिरेकावधारणं व्यर्थम् । साध्यव्यतिरेकाभावे हेतु-व्यतिरेकमात्रेण व्यतिरेकव्याप्त्यसिद्धेरित्यर्थः । द्वितीयं दूषयति ॥ अपि चेति । एवमपि च बुद्धिस्थद्वितीयाङ्गीकारेऽपीत्यर्थः ॥ घटोऽपीति । घटस्यापि घटत्वावच्छेदेन विशिष्टरूपेणैव दृश्यत्वाङ्गीकारात् । शुद्धेन रूपेण ज्ञानविषयत्वरूपं दृश्यत्वं भागासिद्धमित्यर्थः । यद्यपि निर्विकल्पकाङ्गीकारेण घटादौ भागासिद्धिः परिहर्तुं शक्या । तथापि निर्विकल्पकानङ्गीकाराभि-प्रायेणेदमित्यवगन्तव्यम् । तदङ्गीकारे तु धर्माद्यतीन्द्रियपदार्थेषु भागा-सिद्धिर्द्रष्टव्या । तत्र निर्विकल्पकस्याप्रवृत्त्या विशिष्ट रूपेणैव तेषां दृश्यत्वेन शुद्धेन रूपेण दृश्यत्वाभावादिति ॥

मिथ्यात्वानुमानखण्डनपरशुः

निरुपाधिकस्य दृश्यत्वमुपपादयति ॥ किञ्चेति । सोऽपीति ॥ यत्र दृश्यत्वं गतं सोऽपि मिथ्येति न व्यभिचार इत्यर्थः । तर्हीति ॥ यदि सोऽपि मिथ्येति न व्यभिचारः । तर्हि दृश्यत्वस्य व्यभिचारपरिहाराय दृश्यत्वातिरेक ग्रहणार्थकत्वदीयप्रयत्नस्य वैयर्थ्यं स्यादित्यर्थः ॥ अपि चैवमिति ॥ निर्विकल्पकाभावात् । पराधीनप्रकाशे च विशिष्टस्यैवाभावेन विशिष्ट एव दृश्यत्वम् । न शुद्धघट इत्यापातेन भागासिद्धो हेतुः स्यादित्यर्थः ।

आत्मनो वृत्तिविषयत्वेऽपि दृश्यत्वाभावशङ्का तत्परिहारश्च

टीका

अपर आह, आत्मनो वृत्तिविषयत्वेऽपि न दृश्यत्वमनैकान्तिकम् । न हि दर्शनप्रतियोगितामात्रं दृश्यत्वं हेतुः । अपि तु स्वव्यवहारे स्वातिरेकिदर्शनापेक्षानियतिः । न चात्मनि स्वप्रकाशे साऽस्तीति । तदप्यसत् । स्वप्रकाशत्वाद्वितीयत्वादि रूपेण आत्मव्यवहारस्य स्वातिरेकिसंवित्सापेक्षतानियमात् । औपाधिकात्मविकल्पे तदुप-नायकप्रमाणापेक्षानियमेऽपि न स्वरूपमात्रव्यवहृतौ तदपेक्षेति चेत्तर्हि सममेतद्धटादाविति भागासिद्धिः स्यादित्युक्तम् । अथ घटे विशिष्ट-व्यवहारातिरिक्तो व्यवहार एव नास्तीति चेत् तुल्यमात्मनि । सुषुप्त्यादावस्तीति चेत् । कुतः सिद्धः ? ‘एतावन्तं कालं सुखमहं सुप्तोऽस्मि’ इत्युत्तरकालपरामर्शादिति चेत् तर्हि तत एव विशिष्ट-व्यवहारसिद्धिरिति तूष्णीमास्व ।

मन्दारमञ्जरी

दर्शनप्रतियोगितामात्रमिति ॥ वृत्तिज्ञानं प्रति विषयतया सम्बन्धित्व-मात्रमित्यर्थः । आत्मनोऽपि स्वव्यवहारे स्वरूपसंविदपेक्षा नियतेत्यत उक्तं स्वातिरेकीति । कदाचित्तस्यैव अद्वितीयत्वादिव्यवहारे ‘एकमेवाद्वितीयं’ इत्यादिवाक्यजन्यवृत्तिसापेक्षत्वान्नियतिग्रहणम् ।

किं व्यवहारशब्देन विशिष्टव्यवहारो विवक्षितः ? स्वरूपमात्रव्यवहारो वा ? इति विकल्पं हृदि निधाय आद्यं प्रत्याह ॥ स्वप्रकाशत्वेति ॥ स्वप्रकाशत्वादिव्यवहारे ‘अत्रायं पुरुषः स्वयं ज्योतिः’ इत्यादिवाक्य-जन्यवृत्तिसापेक्षत्वादनैकान्तिकतेत्यर्थः । सोपाधिकात्मविषयविशिष्ट-व्यवहारे उपाध्युपनायकप्रमाणापेक्षानियमेऽपि न स्वरूपमात्रव्यवहार इति द्वितीयमाशङ्कते ॥ औपाधिकेति ॥ सुषुप्त्यादाविति ॥ सुषुप्तिमूर्छादौ स्वरूपमात्रस्फुरणापरपर्यायाभिज्ञारूपो व्यवहारोऽस्तीत्यर्थः ॥ तर्हि तत एवेति ॥ परामर्शस्य सुखकालादिविशिष्टविषयतया तन्मूलाभिज्ञाया अपि तद्विषयकत्वं वाच्यम् । तयोः समानविषयकत्वनियमादित्यर्थः ।

श्रीनिवासतीर्थीयटिप्पणी

दर्शनप्रतियोगितामात्रमिति । वृत्तिज्ञानं प्रति विषयतया सम्बन्धित्व-मात्रमित्यर्थः । येनात्मनोऽपि वृत्तिरूपज्ञानविषयत्वरूपदृश्यत्वसद्भावेन हेतुरनैकान्तिकः स्यादिति भावः ॥ स्वव्यवहार इति । घटादिप्रपञ्चे अस्तीदम् । घटादिव्यवहारे घटाद्यतिरिक्तसंवित्सापेक्षत्वनियमात् । नास्ति चात्मनि । आत्मनः स्वप्रकाशत्वेन तद्व्यवहारे स्वातिरिक्तसंवित्सापेक्षत्व-नियमाभावादिति ज्ञातव्यम् । अत्र स्वातिरिक्तपदाभावे आत्मन्यतिव्याप्तिः स्यात् । आत्मनोऽपि स्वस्वरूपव्यवहारे स्वाख्यसंवित्सापेक्षतानियमात् । अत उक्तं स्वातिरिक्तेति । नियतिपदाभावे पुनरात्मन्यतिव्याप्तिः स्यात् । कदाचित्तस्यैवाद्वितीयत्वादिविशिष्टव्यवहारे स्वातिरिक्तविशेषणोपनायक-मानापेक्षासद्भावेऽपि स्वरूपव्यवहारे तदभावान्नियतिग्रहणेन तद्व्या-वृत्तिरिति पदकृत्यं द्रष्टव्यम् ॥ सेति । स्वातिरिक्तसंवित्सापेक्षेत्यर्थः । अत्र व्यवहारशब्देन विशिष्टव्यवहारो विवक्षितः स्वरूपमात्रव्यवहारो वेति विकल्पं हृदि निधायाद्यं निराकरोति । स्वप्रकाशत्वेति । स्व-प्रकाशत्वादिविशिष्टव्यवहारस्वस्वप्रकाशत्वादिविशेषणोपनायकात्रायं पुरुषः स्वयंज्योतिरित्यादिवेदान्तवाक्यजन्यवृत्तिसापेक्षत्वनियमादनैकान्तिकतेत्यर्थः । सोपाधिकात्मविषयकविशिष्टव्यवहारे उपाध्युन्नायकप्रमाणापेक्षानियमेऽपि न स्वरूपमात्रव्यवहारे तदपेक्षेति द्वितीयमाशङ्कते ॥ औपाधिकेति ॥ सममेतदिति । घटादिप्रपञ्चेऽपि घटत्वादिविशिष्टव्यवहार एव विशेषणोप-नायकमानापेक्षानियमेऽपि न घटस्वरूपमात्रे तदपेक्षेत्यपि वक्तुं शक्यत्वेन भागासिद्धिः स्यादित्यर्थः ॥ उक्तमिति । अपि चैवमित्यादिनोक्त-मित्यर्थः ॥ व्यवहारः । स्वरूपमात्रव्यवहारः । तथाच विशिष्टव्यवहारे स्वातिरिक्तसंवित्सापेक्षत्वनियतिसद्भावान् न भागासिद्धिरिति भावः ॥ तुल्यमिति । तथा चात्मन्यपि विशिष्टव्यवहारातिरिक्तस्वरूपमात्र-व्यवहाराभावेनोक्तरूपदृश्यत्वसद्भावाद्व्यभिचार इति भावः ॥ सुषुप्ता-विति । सुषुप्तौ स्वरूपमात्रस्फुरणापरपर्यायाभिज्ञारूपो व्यवहारोऽस्तीत्यर्थः । सुषुप्त्यादाविति पाठे आदिपदेन मूर्छाग्रहणम् ॥ कुत इति । सुषुप्तौ स्वरूपमात्रव्यवहारोऽस्तीति कुतः प्रमाणात्सिद्धमित्यर्थः । परामर्शः स्मरणम् । तत एव परामर्शबलादेव ॥ विशिष्टेति । तथा च परामर्शस्य सुखकालादिविशिष्टविषयकतया तन्मूलाभिज्ञाया अपि तद्विषयकत्वं वाच्यम् । तयोः समानविषयकत्वनियमादित्यर्थः ॥ तूष्णीमास्वेति । हेतोर्व्यभिचारस्य दृढत्वादिति भावः ॥

श्रीगुरुराजीयटिप्पणी

औपाधिकात्मेति ॥ स्वप्रकाशत्वं नाम प्रकाशाभावोपाधिकं रूपम् । अद्वितीयत्वं नाम द्वैताभावोपाधिकं रूपम् । तत्प्रतिभासे तत्समर्पकस्य ‘अत्रायं पुरुषः स्वयं ज्योतिरिति एकमेवाद्वितीयम्’ इति प्रमाणस्यापेक्षाया-मपि तादृशप्रमाणव्यतिरेकेणापि स्वरूपमात्रस्य स्फुरणान्न स्फुरणमात्र-व्यवहृतावपेक्षत्वमित्यर्थः ॥ उक्तमिति ॥ उक्तप्रायमित्यर्थः । नन्वात्मनि विशिष्टव्यवहारेऽपि न विशेष्यांशे स्वातिरिक्तसंविदपेक्षा । स्वप्रकाशत्वात् । घटादौ तु घटांशेऽपीति नानैकान्त्यं नापि भागासिद्धिरित्यतस्तथा सति नियतपदवैयर्थ्यं स्यादित्याशयेनाह ॥ तूष्णीमास्वेति ॥

मिथ्यात्वानुमानखण्डनपरशुः

न चात्मनीति ॥ स्वरूपं संविदात्मव्यवहारदशायां स्वातिरेकि-संविदपेक्षाभावाद् आत्मनि स्वातिरेकिसंज्ञापेक्षानियतिर् नास्तीति भावः ॥ स्वप्रकाशत्वाद्वितीयेति । अस्तु आत्मप्रकाशस् तथापि न स्वरूपसंविदा आत्मव्यवहारो भवति आत्मव्यवहारमात्रस्य विशिष्टव्यवहारत्वेन विशेषणोपनायकप्रमाणेन विनाऽयोगात् । तथा च स्वव्यवहारस्वातिरेकि-संविदपेक्षारूपदृश्यत्वमवर्जनीयमिति भावः । स्वरूपमात्रव्यवहारोऽ-प्यात्मनो (प्यसिद्ध) इति भावेन शङ्कते ॥ औपाधिकात्मविकल्प इति । तर्हीति ॥ यदि विना प्रमाणम् आत्मनि स्वरूपमात्रव्यवहारः स च स्वरूपज्ञानेनैव भवतीत्यङ्गीक्रियते तर्हि घटादावपि स्वरूपव्यवहारोऽस्ति । न च घटाद्यात्मक प्रकाशे नैतत् साध्य इत्यङ्गीक्रियताम् । अप्रामाणिक-कल्पनाया निरङ्कुशत्वादिति भावः ॥ उत्तरकालपरामर्शादिति ॥ उत्तरकालीनानुभवः सुषुप्तिकालीनार्थं विषयीकरणात् । तस्य चोपनाय-कान्तरायोगे तदुपनायकस्वरूपप्रत्ययसिद्धिः । प्रत्ययस्य व्यवहार-जनकत्वनियमात् । तज्जन्यस्वरूपमात्रव्यवहारसिद्धिरिति भावः ॥ तर्हीति ॥ उत्तरकालीनपरामर्शविशिष्टार्थोल्लेखात् सुषुप्तिकाले विशिष्टान-भुवो विशिष्टव्यवहारश्च सिद्ध्येन् न स्वरूपमात्रव्यवहार इति भावः ॥

फलव्याप्यत्वाभावेनात्मनो न दृश्यत्वमिति शङ्का तन्निरासश्च

टीका

अन्यस्त्वाह, वृत्तिविषयस्याप्यात्मनोऽनाधेयातिशयत्वात्प्रकाश रूपे प्रकारान्तरानुदयात्फलव्याप्यत्वाभावेन न दृश्यत्वमनैकान्तिक- मिति । तदेतदसिद्धिप्रसङ्गेन प्रागेव निरस्तमित्यलम् ।

मन्दारमञ्जरी

अन्यस्त्वाहेत्यादि ॥ फलव्याप्यत्वाभावे हेतुर् अनाधेयातिशय-त्वादिति । तत्र हेतुः प्रकाशरूप इति । यथा घटादौ तदाकारवृत्त्या स्फुरणरूपोऽतिशय आधीयते नैवमात्मनि । तस्यैव स्फुरणरूपत्वादित्यर्थः । परेणापि परोक्षवृत्तौ न तदाधेयं स्फुरणमङ्गीकृतम् । परोक्षवृत्तेरेव तत्र ज्ञानत्वाभ्युपगमात् । अन्यथा स्फुरणस्यापरोक्षैकरसत्वेनाभिव्यक्ता-परोक्षैकरसस्फुरणसम्बन्धेन परोक्षवृत्तिविषयस्याप्यतीतादेरपरोक्षत्व प्रसङ्गः । एवं च परोक्षवृत्तेरिवापरोक्षवृत्तेरेव ज्ञानत्वोपपत्तौ तदाधेय स्फुरणम-प्रामाणिकमिति असिद्धो हेतुरिति भावेनाह ॥ तदेतदिति ॥

श्रीनिवासतीर्थीयटिप्पणी

वृत्तिविषयस्यापीत्यादि । अत्रेयं परप्रक्रिया । यथा तटाकोदकं कुल्यात्मना बहिर्निर्गत्य केदारान् प्रविश्य तदाकारं भवति । एवं सावयवं तैजसमन्तःकरणं चक्षुरादिद्वारा बहिर्निर्गत्य विषयं व्याप्य तदाकारं भवति । सेयं वृत्तिः । अस्यां च वृत्तौ ज्ञातृचैतन्यं प्रतिफलति । चैतन्य-प्रतिफलनाभावे केवलया वृत्त्या विषयाधिष्ठानचैतन्यगताज्ञाननिवृत्त्ययोगात् । केवलाया वृत्तेः केवलस्य चैतन्यस्य वाऽज्ञानानिवर्तकत्वेन वृत्त्युपारूढ-चैतन्यस्यैव तथात्वात् । अयःपिण्डसमारूढाग्नेः रोगनिवर्तकत्ववत् । उक्तञ्च ‘‘तृणादेर्भासिकाप्येषा सूर्यदीप्तिस्तृणं दहेत् । सूर्यकान्तमुपारुह्य तन्न्यायं चिति योजयेत्’’ इति । तथा च वृत्तिप्रतिबिम्बितचैतन्येन घटाधिष्ठान-चैतन्यगताज्ञाने निरस्तेऽधिष्ठानचैतन्यमभिव्यक्तं सद् वृत्त्युपारूढचैतन्ये-नैकीभूतं भवति । अनन्तरं मया ज्ञातोऽयं घट इति ज्ञानमुत्पद्यते । तत्र वृत्तिर्ज्ञायतेऽनया चैतन्यमिति करणव्युत्पत्त्या ज्ञानमित्युच्यते । वृत्ति-प्रतिबिम्बितचैतन्याभिव्यक्ताधिष्ठानचैतन्यमेव च ज्ञप्तिर्ज्ञानमिति भाव-व्युत्पत्त्या मुख्यतो ज्ञानशब्दवाच्यम् । तदेतत्सर्वं संगृह्योक्तं कारिकायां वेदान्तिभिः । ‘‘स्वच्छेऽन्तःकरणेऽशनिप्रसृमरे नेत्रादिमार्गोद्गते तत्तद्बाह्य-चयात्मना परिणते बिम्बीभवन्ती चितिः’’ । ‘‘एकाऽप्यर्थमनोविशेषक-वशाद्द्वैतं प्रपन्ना हरत्यज्ञानं प्रकटीकरोति विषयान् ज्ञातं मयेदं त्विति’’ इति ॥ फलव्याप्यत्वेति । वृत्तिप्रतिबिम्बितचैतन्याभिव्यक्ताधिष्ठानचैतन्यं फलम् । तद्व्याप्यत्वं नाम तद्विषयत्वं तदभावेनेत्यर्थः । फलव्याप्यत्वाभावे हेतुरनाधेयातिशयत्वादिति । यथा घटादौ तदाकारया वृत्त्या तदधिष्ठान-चैतन्येनाज्ञाने निरस्ते चैतन्यविषयत्वरूपोऽतिशय आधीयते । एवं वृत्त्या आत्मनि आधेयोऽतिशयो नास्तीत्यर्थः । तत्र हेतुः प्रकाशरूप इति । स्फुरणरूप इत्यर्थः ॥ प्रकाशान्तरेति ॥ स्फुरणरूपचैतन्यविषयत्व-रूपेत्यर्थः ॥ तदेतदिति । अत्र फलं किं ज्ञातता चैतन्यं वा । नाद्यः । तस्या अन्यत्र निराकृतत्वात् । भावेऽप्यतीतादावतीन्द्रियेषु च तदभावेन भागासिद्धेः । न द्वितीयः । तथाहि । परेणापि परोक्षवृत्तौ न तदाधेयं स्फुरणरूपं चैतन्यमङ्गीकृतम् । परोक्षवृत्तेरेव तत्र ज्ञानत्वाभ्युपगमात् । अन्यथा स्फुरणरूपचैतन्यस्याऽपरोक्षैकरसत्वेनाभिव्यक्तापरोक्षचित्सम्बन्धेन परोक्षवृत्तिविषयस्याप्यतीतादेर्धर्मादेश्चापरोक्षत्वप्रसङ्गः । एवं च परोक्ष-वृत्तेरिवापरोक्षवृत्तेरेव ज्ञानत्वोपपत्तौ तदाधेयस्फुरणरूपचैतन्यस्या-प्रामाणिकत्वेन हेतोरसिद्धत्वादिति भावः ।

श्रीगुरुराजीयटिप्पणी

असिद्धिप्रसङ्गेनेति ॥ घटादौ तदाकारवृत्त्या चैतन्यरूपातिशयाधानस्य ममासम्मतत्त्वेन वृत्तिजन्यचैतन्यरूपफलव्याप्यत्वस्य तत्राभावादित्यर्थः ॥ नन्वेवं घटादेः प्रकाश एव न स्यात् । अपरोक्षवृत्त्युपरागादिमतश्चैतन्यस्यैव तत्प्रकाशत्वात् त्वया च तदनभ्युपगमाद् विषयापरोक्ष्यं च न सिध्येत् । अभिव्यक्तापरोक्षैकरसचैतन्यसम्बन्धस्यैव तत्सम्पादकत्वादित्यत आह ॥ अलमिति ॥ अयं भावः । तत्तदाकारपरोक्षवृत्तेरेव घटादिप्रकाशत्वो-पपत्तावपरोक्षवृत्त्युपरागादिमतश्चैतन्यस्य तत्प्रकाशकत्वकल्पनायोगात् । न च परोक्षवृत्तेरेव न तद्विषयप्रकाशकत्वं किन्तु तदभिव्यक्तचैतन्यस्यैवेति नायं दृष्टान्त इति वाच्यम् । तथा सति चैतन्यस्यापरोक्षैकरसत्वेनाभिव्यक्ता परोक्षैकरसचिदुपरागेण परोक्षवृत्तिविषयस्याप्यपरोक्षप्रसङ्गेन तत्र वृत्ति-मात्रस्यैव प्रकाशताया वाच्यत्वात् । नाप्यपरोक्षत्वानुपपत्तिः । चैतन्याभि-व्यञ्जनार्थमावश्यकेनेन्द्रियजन्यत्वप्रयुक्तेन वृत्तिगतेन साक्षात्कारत्वरूप-विशेषेणैव चैतन्याविषयस्यापि घटादेरापरोक्ष्यसम्भवादिति ।

मिथ्यात्वानुमानखण्डनपरशुः

नन्वस्ति सुषुप्तिकालीनो विशिष्टव्यवहारस् तथापि तत्र वृत्तिरूप-ज्ञानाभावेन वृत्तिरूपज्ञानं विनैव स व्यवहारो भवतीति वाच्यम् । ततश्च स्वातिरेकिसंविदपेक्षानियतिरूपदृश्यत्वाभावः प्राप्त इति चेन्न । सुषुप्तिकाले स्वरूपानुभव एवास्ति न तु स्वरूपव्यवहार इत्यत्र तात्पर्यात् ॥ अनाधे-यातिशयत्वादिति ॥ ज्ञाततास्वरूपातिशयेन तद्विवक्षया न फलाव्यर्थत्वं सम्भवतीति भावः ॥ ननु माभूज्ज्ञाततया फलव्याप्यत्वम् । वृत्तिप्रतिफलित चैतन्याभिव्यक्तविषयाधिष्ठानचैतन्यरूपफलेन फलव्याप्यत्वं भविष्यतीत्यत आह ॥ प्रकाशरूप इति ॥ भवेद्घटादीनामप्रकाशरूपाणि प्रकाशस्य वृत्तिमात्रेणायोगात् तदर्थं वृत्तिफलितचैतन्यं तदधिष्ठानं चैतन्यं चाभ्युपगन्त-व्यमिति । तल्लक्षणफलेन फलव्याप्यत्वम् । न त्वात्मनस् तस्य प्रकाशरूप-त्वेन वृत्तिमात्रेण तत्प्रकाशसंभवे वृत्तिप्रतिफलितचैतन्यरूपप्रकाशान्तरस्य तदभिव्यक्तविषयाधिष्ठानं चैतन्यस्य चाकल्पत्वेन न तेनापि फलेन फल-व्याप्यत्वमिति भावः ॥ असिद्धिप्रसङ्गेनेति ॥ अस्मिन्मते घटादावपि फलव्याप्यत्वाभावेनेति भावः ।

मिथ्यात्वानुमाने अनध्यवसितत्वदोषप्रतिज्ञा

मिथ्यात्वानुमानखण्डनम्

जगतोऽभावेऽनुमानस्याप्यभाव इति तर्कबाधितत्वेनानध्यवसितः ।

जगतोऽभाव इति जगदसत्वानुवादानुपपत्तिशङ्का तत्परिहारश्च

टीका

नन्वत्र जगतोऽनिर्वचनीयत्वं सद्विविक्तत्वं वा साध्यम् । तत्कथं जगतोऽभाव इत्यनुवादः ? सत्यं, तथापि अनिर्वचनीयत्वस्या प्रसिद्धत्वात् सद्विविक्तस्य अनिर्वचनीयासदन्यतरत्वानिस्तारादसत्व-मेव सिद्धवत्कृत्यायमनुवाद इत्यदोषः । जगतः सत्वाभाव इति वा व्याख्यातव्यम् ।

जगतोऽभावेऽनुमानस्याप्यभाव इति तर्के व्याप्त्युपपादनं

तथापि व्याप्त्यभावात्कथमिदमापादनम् ? इति चेन्न । ‘यदि जगन्मिथ्या स्यात्तदा तदन्तर्गतमनुमानमपि मिथ्या स्यात् । गन्धर्व-नगरान्तर्गतभवनवत्’ इति वा ‘यदि दृश्यत्वं जगति वर्तमानं तन्मिथ्यात्वं प्रतिपादयेत्तदा अनुमानस्यापि मिथ्यात्वं प्रतिपादयेद-विशेषात्’ अन्यथा व्यभिचारापत्तेरिति वा आपादनात् ।

जगतोऽभावे इति मूलस्य असिद्ध्यादिपरत्वेन वैयर्थ्यशङ्का तत्परिहारश्च

नन्वनेन असिद्धिरेवोक्ता स्यात् । सा च प्रागेवोक्तेति किमनेन ? न च वाच्यं लिङ्गाभावमात्रमसिद्धिः । साध्यलिङ्गव्याप्तीना-मनुमानाङ्गानामभावोऽत्रापाद्यत इति भेद इति । तथात्वेऽपि व्याप्यत्वासिद्ध्याद्यनिस्तारादिति । मैवम्, अनुमानाङ्गानामसत्त्वा-पादनमुखेन असाधकत्वस्यात्रापाद्यमानत्वात् । तदिदमुक्तम् ‘इति-तर्कबाधितत्वेनानध्यवसितः’ इति । न विद्यते अध्यवसितम् अध्यवसायः साध्यसिद्धिर्यस्मात्स तथोक्त इति । एतेन अनुमान- मिथ्यात्वं परस्येष्टमेव । तत्कथमापादनम् ? इत्यपि निरस्तम् ।

मन्दारमञ्जरी

अनिर्वचनीयासदन्यतरत्वानिस्तारादिति ॥ सद्विविक्तस्यासद्वि-विक्तत्वेन विशेषितत्वविवक्षायां सद्विविक्तत्वमनिर्वचनीयत्वेऽन्तर्भवति । अन्यथा त्वसत्व इत्यर्थः ॥ सत्त्वाभाव इति ॥ सत्त्वस्य साधकताप्रयोज-कत्वेन असाधकत्वमत्यन्तासत्त्व इव सत्त्वाभावेऽप्यापततीति भावः ॥ व्याप्त्यभावादिति ॥ ‘यत्र जगतोऽभावस्तत्रानुमानाभावः’ इत्यत्र निदर्शनादर्शनादित्यर्थः । ‘यन्मिथ्या तत्समानयोगक्षेमं तदन्तर्गतमपि मिथ्या यथा सम्प्रतिपन्नम्’ इति व्याप्तिरस्तीति परिहरति ॥ न यदि जगदिति ॥ पक्षान्तरमाह ॥ यदि दृश्यत्वमिति ॥ ननु व्याप्त्यभावस्तदवस्थः । ‘यत्र जगन्मिथ्यात्वप्रतिपादकत्वं तत्रानुमानमिथ्यात्वप्रतिपादकत्वम्’ इत्यत्र निदर्शनाभावादित्यत आह ॥ अविशेषादिति ॥ ‘यद् यत्साधनप्रयोजक-विशिष्टं सद्यत्रास्ति तत्तत्र तत्साधयति यथा संमतम्’ इति सामान्य-व्याप्तिरस्ति । ततश्च जगति वर्तमानतामात्रेण तन्मिथ्यात्वप्रतिपादकं दृश्यत्वं स्वात्मनि वर्तमानं स्वमिथ्यात्वं साधयेदित्यर्थः ॥ तदिदमुक्तमिति तर्कबाधितत्वेनेति ॥ बाधितत्वेनेति तृतीयया व्याप्त्याद्यभावस्य साधकत्वे द्वारत्वं कथयता न व्याप्त्याद्यभावमात्रपर्यवसानमिति सूचितमित्यर्थः ।

श्रीनिवासतीर्थीयटिप्पणी

साध्यमित्यनन्तरं परस्याभिमतं नासत्त्वमिति शेषः । तथा च जगतोऽनिर्वचनीयत्वे सद्विविक्तत्वे वाऽनुमानस्याप्यभाव इत्यनुवादः कर्तव्य इति भावः । तथा चापादकासिद्धिरिति हृदयम् ॥ तत्कथमिति । तथा चासदनुवादोऽयम् । अभावशब्दस्यासत्त्वार्थकत्वादिति भावः ॥ सद्विविक्तत्वस्येत्यादि । असद्विलक्षणस्वरूपानुपमर्देन यदि सद्विविक्तत्वं साध्यते तदाऽनिर्वचनीयत्वम् । यदि च सद्विविक्तत्वमात्रं साध्यते तदाऽसत्त्वमित्यर्थः ॥ व्याख्यातव्यमिति । जगतोऽभाव इत्यत्राभाव-पदमित्यर्थः । तथा च जगतो सत्त्वाभावस्यानिर्वचनीयत्ववादिना परेणा-प्यङ्गीकारान् नासदनुवादोऽयमिति भावः । तथा च नापादकासिद्धिरिति हृदयम् ॥ व्याप्त्यभावादिति । यत्र जगतोऽभावस् तत्रानुमानस्याभाव इत्यत्र दृष्टान्ताभावेन व्याप्त्ययोगादित्यर्थः ॥ यदि जगदिति । तथा च यन्मिथ्या तत्समानयोगक्षेमं तदन्तर्गतमपि मिथ्या । यथा गन्धर्वनगरगतं भवनमिति सामान्यव्याप्तिसम्भवादिति भावः । सायंकाले मेघादिकं रक्तवर्णं सन् नगराकारेण भ्रान्त्या प्रतीयते तद्गन्धर्वनगरमित्युच्यते । प्रकारान्तरमप्याह ॥ यदि दृश्यत्वमिति ॥ अनुमानस्यापीति । स्वस्यापीत्यर्थः । नन्वथापि व्याप्त्यभावस्तदवस्थः । ‘यत्र जगन्मिथ्यात्वप्रतिपादकत्वं तत्रानुमानस्य मिथ्यात्वप्रतिपादकत्वम्’ इत्यत्रदृष्टान्ताभावादित्यत उक्तम् ॥ अविशेषा-दिति । दृश्यत्वाधिकरणत्वाविशेषात् । स्वात्मनि वर्तमानं दृश्यत्वं स्वस्यापि मिथ्यात्वं प्रतिपादयेत् साधयेदित्यर्थः । ननु दृश्यत्वं स्वात्मनि विद्यमानमपि स्वमिथ्यात्वं न साधयतीति चेत्तत्राह ॥ अन्यथेति । दृश्यत्वे दृश्यत्वं तावदस्ति । अन्यथा हेत्वज्ञानासिद्धेः । तत्र च मिथ्यात्वं नास्तीति दृश्यत्वहेतोः स्वस्मिन्नेव व्यभिचारः स्यादित्यर्थः । तथा च स्वस्मिन्नेव भग्नव्याप्तिकत्वान् न जगतो मिथ्यात्वं साधयेदिति भावः ॥ नन्वनेनेति । जगतोऽभावेऽनुमानस्याप्यभाव इति दृश्यत्वरूपहेत्वभावापादनेनेत्यर्थः । असिद्धिः स्वरूपासिद्धिः ॥ प्रागेवोक्तेति । दृश्यत्वाभावादसिद्धो हेतुरिति मूलवाक्येनेत्यर्थः ॥ किमनेनेति । जगतोऽभावादिति मूलवाक्येन किमधिकमुच्यते न किमपि । तथा च पुनरुक्तिरिति भावः ॥ असिद्धि-रिति । सा पूर्वं दृश्यत्वाभावादिति मूलवाक्येनोक्तेत्यर्थः । अत्र जगतोऽ-भावादिति मूलवाक्ये । तथा चानुमानस्याप्यभाव इत्यत्रानुमानपदमुप-लक्षकमिति ज्ञातव्यम् ॥ भेद इति । तथा च जगदभावे तदन्तर्गत-साध्यलिङ्गव्याप्तीनामनुमानाङ्गानाम् अभावोऽत्रापाद्यत इति प्रमेयभेदान्न पुनरुक्तिरित्यर्थः ॥ व्याप्यत्वासिध्यादीति । आदिपदेन स्वरूपासिद्धि-बाधग्रहणम् । लिङ्गाभावेन स्वरूपासिद्धिः प्रागुक्ता । व्याप्त्यभावेन व्याप्यत्वासिद्धिर्विरुद्धानैकान्तिकयोरुक्त्या प्रागुक्तैव । साध्याभावोक्त्या बाध उक्तः । स च वक्ष्यत इति पुनरुक्त एवेत्यर्थः ॥ असाधकत्वस्येति । साध्यासाधकत्वस्येत्यर्थः । तथा च प्राक् व्याप्त्याद्यभावकथनमात्रे तात्पर्यम् । अत्र तु जगतोऽभावे अनुमानस्याप्यभावापत्त्या साध्यासाधकत्वं स्यादित्येव-मनुमानाङ्गानामसत्त्वापादनमुखेन साध्यासाधकत्वस्य अधिकस्यात्रा-पाद्यमानत्वादपुनरुक्तिरित्यर्थः ।

ननु साध्यासाधकत्वमत्राधिकमापाद्यत इत्येतज् जगतोऽभाव इति मूले न प्रतीयत इत्यतोऽत्र ज्ञापकमाह ॥ तदिदमुक्तमिति तर्कबाधितत्वे-नेति । तृतीयया व्याप्त्याद्यभावस्यासाधकत्वे द्वारत्वं कथयता न व्याप्त्याद्य-भावमात्रपर्यवसानमिति सूचितमित्यर्थः । कथमनध्यवसितशब्देनायमर्थो लब्ध इत्यत आह ॥ न विद्यत इति । भावे क्त इत्यभिप्रायेणाध्यवसाय इत्युक्तम् । यस्माद्धेतोः ॥ तथोक्त इति । अनध्यवसित इत्युक्त इत्यर्थः । साध्यासाधक इति यावत् ॥ परस्येष्टमिति । ब्रह्मातिरिक्तस्य सर्वस्यापि जगतो मिथ्यात्वेनानुमानस्यापि तदन्तर्गतत्वात् तदभावापादनं परस्येष्ट-मित्येतदपि एतेन निरस्तम् । असाधकत्वस्याधिकस्यात्रापाद्यमानत्वात् । तच्च परस्यानिष्टमित्यर्थः ।

श्रीगुरुराजीयटिप्पणी

एतेनेति ॥ मिथ्यात्वेऽसाधनत्वापादनेनेत्यर्थः ॥

मिथ्यात्वानुमानखण्डनपरशुः

अत्र मूलं जगतोऽभावेऽनुमानस्याप्यभाव इति तर्कबाधितत्वेना-नध्यवसित इति । अस्य यदि जगदभावः स्याज् जगतः सत्वं न स्यात् तर्हि अनुमानस्यापि अनुमानकल्पितब्रह्मणोऽप्यभावः स्यात् ॥ दृश्यत्वा-विशेषादिति ॥ तर्कबाधितत्वेन तर्कप्रतिरुद्धत्वेन । न विद्यते अध्यवसायो यस्मादित्यनध्यवसितः साध्यासाधक इत्यर्थः । अत्र ब्रह्मण इति वक्तव्येऽनुमानस्येति वचनं ब्रह्मणो दृश्यत्वसूचनायेति बोध्यम् । अयमर्थः शिष्यबुद्धिपरीक्षार्थं टीकाकारैर्नोक्तः । मूलकारेण जगतोऽभाव इत्यनेन जगतोऽसत्वमित्युक्तमिति मन्यमानः शङ्कते ॥ नन्वत्र जगत इति ॥ कस्यचिन्मते अनिर्वचनीयत्वं साध्यम् । कस्यचिन्मते सद्विविक्तत्वं साध्यमिति भावः । एतेन द्वयोरन्यतरत्साध्यं स्यात् । कथमनिर्वचनीयत्वं सद्विविक्तत्वं वा साध्यमिति अनिश्चयेन साध्याभिधानमिति परास्तम् ॥ इतः परं टीकायां श्रूयमाणं ‘‘सत्यम् ॥ तथापि अनिर्वचनीयस्याप्रसिद्ध-त्वात् । सद्विविक्तस्य अनिर्वचनीयासदन्यतरत्वानिस्तारादसत्वमेव सिद्ध-वत्कृत्यायमनुवाद इत्यदोषः । जगतः सत्वाभाव इति वा व्याख्यातव्यं’’ इति वाक्यद्वयं प्रक्षिप्तं न टीकावाक्यम् । मैवम् । अभावशब्देन सत्वा-भावाभिधानादिति । अवश्यं चैतदेवं विज्ञेयम् । मिथ्यापदेनासत्पदेना-सत्परेणोक्तमिति सिद्धवत्कृत्यजगतो भाव इति तदनुवादेऽपि अन्यथानु-वादापरिहारात् । अनूदितस्यासत्वस्य परेणानभिधानात् । अनिर्वचनीयत्व-पक्षवत्सद्विविक्तपक्षवच्च । असत्वपक्षे दूषणसद्भावेऽपि नासत्वं परेणोक्त-मिति सिद्धवत्कारायोगाच्च । केनचित् स्वग्रन्थपरेण मिथ्यात्वं नाम अनिर्वचनीयत्वमपरेण सद्विविक्तमिति व्याख्यातत्वेन अनिर्वचनीयत्व-मुक्तम् । सद्विविक्तत्वमुक्तमिति निश्चयस्यैवोचितत्वाच्च । जगतः सत्वाभाव इति व्याख्यातव्यमित्यस्यानन्वयाच्च ॥ तथापीति ॥ अन्यथानुवादाभावेऽपि आपादनमिदमयुक्तम् । व्याप्त्यभावात् । नहि सर्वैर्भावैरेकविधैर्भाव्यमिति नियमोऽस्ति । अन्यथा घटादीनामचेतनत्वादात्मापि तथा स्यादिति भावः ॥

मिथ्यात्वानुमाने अनध्यवसितत्वदोषोपपादनम्

टीका

नन्वेवं व्याख्याने हेतोः को दोष उक्तः स्यात् ? अनध्यवसित इति ब्रूमः । तदर्थम् ‘इत्यनध्यवसितः’ इत्यस्य आवृत्तिर्व्याख्यायते । तर्हि ‘तर्कबाधितत्वेन’ इति कथम् ? तथात्वे कालात्ययापदिष्टत्व-प्रसङ्गादिति चेन्न । बाधितशब्दस्य विरुद्धार्थत्वात् ।

अनध्यवसितलक्षणस्य मिथ्यात्वानुमानगतत्वसमर्थनं

ननु साध्यासाधकः पक्ष एव वर्तमानोऽनध्यवसितः । न चायं तथेति कथम् अनध्यवसितः ? इति चेन्न । तथा सति बाधिते सत्प्रतिपक्षे च केवलव्यतिरेकिण्यतिप्रसङ्गात् । साध्यासाधकत्वं नाम तत्प्रतीत्यजनकत्वम् । बाधितसत्प्रतिपक्षौ तु विपर्ययसन्देहजनका-विति चेत् तथा सति विरुद्धादिव्युदासस्य तत एव सिद्धेः ‘पक्ष एव वर्तमानः’ इत्यस्य वैयर्थ्यप्रसङ्गात् । असिद्धिपरिहारार्थम् इति चेन्न । एवकारवैयर्थ्यात् । तथा चासिद्धातिरिक्तः साध्यासाधक इति लक्षणार्थः स्यात् । स च समः प्रकृतेऽपीति कथं नानध्यवसितः ?

मन्दारमञ्जरी

आवृत्तिर्व्याख्यायत इति ॥ तर्कबाधितत्वेन अनध्यवसितः साध्यासाधक इति कृत्वा अनध्यवसितो नाम हेत्वाभास इति व्याख्यायत इत्यर्थः । केवलव्यतिरेकिणीत्यनेनैव पक्ष एव वर्तमानत्वे सिद्धे साध्या-साधकतासिद्ध्यर्थं केवलव्यतिरेकिणं विशेषणद्वयेन विशिनष्टि ॥ बाधिते सत्प्रतिपक्षे चेति ॥ तथा सतीति । विरुद्धादेः साध्याभावप्रतीत्यादि-जनकत्वेन प्रतीत्यजनकत्वरूपसाध्यासाधकत्वविशेषणेनैव तद्व्युदास-सिद्धेरित्यर्थः ॥ एवकारेति ॥ पक्षे वर्तमानग्रहणेनैवासिद्धावतिव्याप्ति-परिहारादित्यर्थः । तर्हि एवकारस्त्यज्यतामित्यत आह ॥ तथा चेति ॥ स च सम इति ॥ ‘सर्वमनित्यं सत्त्वात्’ इत्यादेर्हेतोः साध्यासहचरितत्वा-त्प्रतीत्यजनकत्वम् । दृश्यत्वस्य तु असत्त्वात् । तथा चोपपादकभेदेऽपि प्रतीत्यजनकत्वं समम् । दृश्यत्वस्यासिद्धातिरिक्तत्वं तु त्वयैवाभ्युपेतमिति अनध्यवसितलक्षणं प्रकृतेऽपि विद्यत इत्यर्थः ।

श्रीनिवासतीर्थीयटिप्पणी

एवं व्याख्यान इति । अनध्यवसितपदस्य साध्यासाधकत्वपरतया व्याख्याने सतीत्यर्थः ॥ को दोष इति । हेत्वाभासानां मध्ये को हेत्वाभासरूपो दोष उक्त इत्यर्थः । अनध्यवसितपदस्यान्यार्थत्वादिति भावः । उत्तरमाह ॥ अनध्यवसित इतीति । अनध्यवसितरूपो हेत्वाभास इत्यर्थः । नन्वनध्यवसितशब्दस्योक्तरीत्या अन्यार्थत्वात् कथमनध्यवसित- रूपहेत्वाभासार्थकत्वं तस्येत्यत आह ॥ तदर्थमिति । अनध्यवसित-रूपहेत्वाभासकथनार्थमित्यर्थः ॥ आवृत्तिर्व्याख्यायत इति । तर्कबाधित-त्वेनानध्यवसितः साध्यासाधक इति कृत्वा अनध्यवसितोऽनध्यवसितनामा हेत्वाभास इत्येवं योगरूढिमाश्रित्य आवृत्तिरूपं व्याख्यानं क्रियत इत्यर्थः ॥ तर्हीति । आवृत्त्या अनध्यवसितरूपहेत्वाभासकथनपरत्व इत्यर्थः । ननु तर्कबाधितत्वेनेत्युक्ते को दोष उक्तः स्यादित्यत आह ॥ तथात्व इति । तथा च तर्करूपबलवत्प्रमाणबाधितत्वोक्त्या कालात्ययापदिष्टत्वाख्यबाधित-विषयत्वरूपहेत्वाभास उक्तः स्यान्नानध्यवसितरूपो हेत्वाभासः । ‘कालातीतो बलवता प्रमाणेन प्रबाधितः’ इति वचनादित्यर्थः । तथा च प्रत्यक्षादिविरुद्धत्वादित्यनेन कालात्ययापदिष्टत्वस्योत्तरत्र वक्ष्यमाणत्वात्पुन-रुक्तिरिति भावः ॥ विरुद्धार्थत्वादिति । तथा च तर्कबाधितत्वेनेत्यस्य बलवत्प्रमाणबाधितत्वमर्थतया नाभिप्रेतम् । येन कालात्ययापदिष्टत्वप्रसङ्ग इति परिचोदना स्यात् । किं तु तर्कस्य बलवत्त्वमनङ्गीकृत्य बाधितशब्दस्य विरुद्धार्थत्वं चाङ्गीकृत्य तर्कविरुद्धत्वेनानध्यवसितरूपो हेत्वाभासः कथ्यत इत्यर्थः । वर्तमान इत्यनन्तरं हेतुरिति शेषः ॥ न चायं तथेति । अयं दृश्यत्वहेतुः । तथा पक्ष एव वर्तमानो न भवति । मायिरीत्या सपक्षे शुक्तिरजतेऽपि सत्त्वात् । सिद्धान्तिरीत्या विपक्षेऽपि सत्त्वादित्यर्थः । अस्य लक्षणस्य निष्कृष्टमर्थमुक्त्वा स च समो दृश्यत्वहेतावपीत्यनध्यवसित एवेति वक्तुं त्वदुक्तं यथावस्थितमेवैतन्नानध्यवसितलक्षणमित्याह ॥ नेति । कुतो नेदं लक्षणमिति चेन्न । तथात्वे केवलव्यतिरेक्यनुमानेऽतिव्याप्तिप्रसङ्गा-दित्याह ॥ तथात्व इति । ‘असपक्षं विपक्षेभ्यो व्यावृतं पक्षभूमिषु । सर्वासु वर्तमानं यत्केवलव्यतिरेकि तत्’ इति वचनात्केवलव्यतिरेकिणी-त्यनेनैव पक्ष एव वर्तमानत्वे सिद्धे साध्यासाधकत्वरूपविशेषणोपपादनाय बाधिते सत्प्रतिपक्षिते वा केवलव्यतिरेकिणीति केवलव्यतिरेकिणो विशेषण-द्वयमुक्तमिति ज्ञातव्यम् ।

ननु साध्यासाधकत्वाभावान् न बाधिते सत्प्रतिपक्षिते वा केवल-व्यतिरेकिण्यतिव्याप्तिरित्यभिप्रेत्य साध्यासाधकत्वं निर्वक्ति ॥ साध्या-साधकत्वं नामेति ॥ तदिति । साध्येत्यर्थः ॥ विपर्ययेति । बाधितं विपर्ययजनकं सत्प्रतिपक्षितं तु विरुद्धोभयपरामर्शरूपत्वात् सन्देहजनक-मित्यर्थः ॥ विरुद्धादीति । आदिपदेनानैकान्तिकबाधसत्प्रतिपक्षग्रहणम् । अयमर्थः । साध्यासाधकः पक्ष एव वर्तमानो हेतुरनध्यवसित इति अनध्यवसितलक्षणे साध्यासाधकोऽनध्यवसित इत्युक्ते विरुद्धादावतिव्याप्तिः स्यात् । तत्परिहारार्थं पक्ष एव वर्तमान इत्युक्तम् । विरुद्धादीनां पक्ष एव वर्तमानत्वाभावान्नातिव्याप्तिरिति पदकृत्यं वाच्यम् । तन्न सम्भवति । तथाहि । यदि साध्यासाधकत्वं नाम साध्यप्रतीत्यजनकत्वं विवक्षितं स्यात् । तदा विरुद्धादावतिव्याप्तिप्रसक्तिरेव नास्ति । विरुद्धबाधितयोर्विपरीत-प्रतीतिजनकत्वादनैकान्तिकसत्प्रतिपक्षयोः सन्देहरूपप्रतीतिजनकत्वेन साध्या साधकपदेनैव विरुद्धादावतिव्याप्तिव्युदासस्य सिद्धत्वात्पक्ष एव वर्तमान इति विशेषणस्य वैयर्थ्यमेव स्यादिति ।

ननु पक्ष एव वर्तमान इति विशेषणस्य न वैयर्थ्यम् । साध्यासाधक इत्युक्ते असिद्धे चाक्षुषत्वहेतावतिव्याप्तिः । तस्य शब्दे नित्यत्वरूप-साध्यप्रतीत्यजनकत्वेन साध्यासाधकत्वात् । अतः पक्ष एव वर्तमान इत्युक्तमित्याशङ्कते ॥ असिद्धीति । तर्हि पक्षे वर्तमान इत्यनेनैवा-सिद्धेऽतिव्याप्तेः परिहृतत्वात् । एवकारो व्यर्थः स्यादित्याह ॥ एव-कारेति । तर्ह्येवकारस्त्यज्यतामिति चेत्तत्राह ॥ तथा चेति । पक्षे वर्तमान इत्यनेनासिद्धस्य व्यावर्तितत्वात्तदभिप्रायकथनमसिद्धातिरिक्त इति ॥ स चेति । अनध्यवसितलक्षणार्थ इत्यर्थः । प्रकृते दृश्यत्वहेतौ । अयं भावः । सर्वमनित्यं सत्त्वादिति ह्यनध्यवसितस्योदाहरणम् । तत्र सर्वस्यापि पक्षत्वेन निदर्शनाभावेन साध्यासहचरितत्वात्सत्वहेतोः प्रतीत्यजनकत्वम् । दृश्यत्वस्य तु असत्वात् प्रतीत्यजनकत्वम् । तथा चैवमुपपादकभेदेऽपि प्रतीत्यजनकत्वं सत्वदृश्यत्वहेत्वोः समम् । दृश्यत्वहेतोरसिद्धातिरिक्तत्वं त्वयैवाभ्युपेत-मित्येवम् असिद्धातिरिक्तत्वे सति प्रतीत्यजनकत्वरूपसाध्यासाधकत्वरूपा-नध्यवसितलक्षणं प्रकृते दृश्यत्वहेतावप्यस्तीत्यनध्यवसितो भवत्येवेति ।

मिथ्यात्वानुमानखण्डनपरशुः

नन्वेवं व्याख्यान इति ॥ अनध्यवसितपदस्यासाधकत्वपरतया व्याख्याने दोषवाचकपदाभावेन को दोष उक्तः स्यान्न कोऽपीत्यर्थः । आवृत्तिर्व्याख्यायत इति । अनध्यवसितपदस्यावृत्तिर् मूलाभिप्रेतेत्यस्माभिः साध्यत इत्यर्थः । अनध्यवसितलक्षणाभावान् नायमनध्यवसित इत्याशयेन शङ्कते ॥ ननु साध्यासाधक इति ॥ न चायमिति ॥ पक्षमात्रवृत्ती नेत्यर्थः । विपक्षे दृश्यत्वस्य त्वयाऽनङ्गीकारात् । शुक्तिरजतादावस्माकं साध्यसंमत्यभावात् । तस्य पक्षे विपक्षे वाऽवश्यंभावेन हेतोः पक्षमात्र-वृत्तित्वादनध्यवसितलक्षणमस्त्येवेति समाधानं शिष्यैरेवोह्यतामिति भावेन समाधानान्तरमाह । तथात्वे बाधिते सत्प्रतिपक्षे वेत्यादिना इत्यास्ता-मित्यन्तेन । तदाऽनध्यवसित इति भेद इति । इतः परं टीकायां श्रूयमाणं ‘‘प्रकृते तर्कस्यासिद्धिपुरस्कारेण प्रवृत्तेर्दोषद्वयमपि । न चैवं सर्वत्रेत्य-सङ्कीर्णता च सिद्धेति’’ वाक्यद्वयं प्रक्षिप्तम् । न टीकावाक्यम् । प्रकृते तर्कस्यासिद्ध्यापादनपुरस्कारेण प्रवृत्तेन दृश्यत्वहेतोरसिद्धिः । किं त्वनध्यवसितत्वमेवेति वाक्यमुच्छिन्नम् । अवश्यं चैतदेवं विज्ञेयम् । असिद्धातिरिक्तः साध्यासाधकोऽनध्यवसित अनध्यवसितलक्षणस्योक्तत्वेन दृश्यत्वहेतुरसिद्धोऽनध्यवसितश्चेत्युक्तेर्व्याहतत्वात् ।

असिद्धानध्यवसितयोर्लक्षणोदाहरणभेदसमर्थनम्

टीका

असिद्धिबहिर्भावोऽस्य कथम् ? इति चेत् । इत्थं, यदा वादि-प्रतिवादिनोरन्यतररीत्या लिङ्गाभावस्तदाऽसिद्धिः । यदा सामर्थ्य-विघटनं तदा अनध्यवसित इति भेदः । प्रकृते तर्कस्यासिद्धि-पुरस्कारेण प्रवृत्तेर्दोषद्वयमपि । न चैवं सर्वत्रेत्यसङ्कीर्णता च सिद्धेति ।

मन्दारमञ्जरी

ननु यद्यपि मया असिद्धातिरिक्ततेष्यते । तथाप्यसाधकत्वं तु नेष्यते । त्वया त्वसाधकत्वाङ्गीकारेऽपि असिद्धिबहिर्भावो नेष्यते । तथा च कथमनध्यवसिततेति शङ्कते ॥ असिद्धिबहिर्भावोऽस्य कथमिति ॥ किं दृश्यत्वहेतोरसिद्धिबहिर्भावो नास्तीत्युच्यते ? किं वा सामान्यतोऽ-नध्यवसितमात्रस्य ? नाद्यस् त्वया तस्य तत्राङ्गीकृतत्वेन त्वदङ्गीकारे कारणस्य पररीत्या दूषणमभिदधता त्वया वक्तव्यत्वेन मां प्रति तत्प्रश्ना-योगात् । असाधकत्वस्य च त्वां प्रति साधनात् । द्वितीयेऽपि किं लक्षणभेदो नास्तीत्युच्यते ? किं वा उदाहरणभेदो नास्तीति ? विकल्पं हृदि निधायाद्यं दूषयति ॥ इत्थमिति ॥ असति लिङ्गे ज्ञानजनकता-लक्षणसामर्थ्यवैधुर्यमसिद्धलक्षणमित्याह ॥ यदेति ॥ सत्यपि लिङ्गे ज्ञान-जनकतालक्षणसामर्थ्यवैधुर्यम् अनध्यवसितलक्षणमित्याह ॥ यदा सामर्थ्येति ॥ न द्वितीय इत्याह ॥ प्रकृते तर्कस्येति ॥ दृश्यत्वानुमाना साधकतासाधकतर्कस्यासिद्धिपुरस्कारेण प्रवृत्तेर्दोषद्वयम् । ‘सर्वमनित्यं सत्त्वात्’ इत्यादौ त्वसाधकत्वं नासिद्धिपुरस्कारेण प्रवर्तत इति तत्रा-नध्यवसितत्वमेवास्ति न त्वसिद्धिरित्युदाहरणभेदसिद्धिरित्यर्थः ।

प्रकारान्तरेण असिद्धानध्यवसितयोर्वैलक्षण्योपपादनं

यद्वा नन्वसिद्धिबहिर्भावोऽस्य कथम् इत्यादेर्ग्रन्थस्यायमर्थः । ननु पक्ष एव वर्तमानः साध्यासाधकोऽनध्यवसित इति लक्षणे अनध्यवसितस्यासिद्धि दूषकताबीजात्पक्षेऽवर्तमानत्वाद्भिन्नं पक्षादन्यत्रावर्तमानत्वं दूषकताबीजं सिद्ध्यति । एवकारत्यागे तु न सिद्ध्यति । तथा हि, अनध्यवसितस्य किं पक्षे वर्तमानत्वं दूषकताबीजम् ? किं वा प्रतीत्यजनकत्वरूपं साध्या-साधकत्वम् ? यद्वा पक्षे वर्तमानत्वविशिष्टं साध्यासाधकत्वम् ? नाद्यस् तस्य सदनुमानसाधारणतया गुणत्वेन दूषकताबीजत्वाभावात् । न द्वितीयस् तस्यासिद्धसाधारण्यात् । न तृतीयः ‘इदं साध्यप्रमितिजनकं न भवति पक्षे वर्तमानत्वे सति साध्यप्रतीत्यजनकत्वात्’ इत्यसाधकतानुमाने व्यर्थ-विशेषणत्वात् । तस्माद् एवकारत्यागे दूषकताबीजभेदासिद्धिः । न च दूषकताबीजभेदं विना हेत्वाभासभेदसिद्धिरित्यनध्यवसितस्यासिद्धिबहिर्भावो न युक्त इति एवकारः कर्तव्यः । तथा च दृश्यत्वस्य नानध्यवसितता । विपक्षेऽपि वर्तमानत्वस्य त्वयोक्तत्वादिति शङ्कते ॥ असिद्धिबहिर्भावोऽ-स्येति ॥ परिहरति ॥ इत्थमिति ॥ वादिप्रतिवादिनोरन्यतररीत्या हेतु-स्वरूपाभावोऽसिद्धस्य दूषकताबीजम् । साध्यप्रतीतिजननसामर्थ्याभावस्त्व-नध्यवसितस्य दूषकताबीजमिति भेदसिद्धिरित्यर्थः । अन्यतरासिद्ध्यादावपि दूषकताबीजानुगत्यर्थं वादिप्रतिवादिनोरन्यतररीत्येत्युक्तम् ।

नन्वनध्यवसितदूषकताबीजं हेतुस्वरूपासत्त्वं विनापि सिद्ध्यति न वा ? आद्ये प्रकृतेऽपि तथैव सिद्ध्युपपत्तेरनध्यवसित एव स्यात् । न त्वसिद्ध इति दोषद्वयानुपपत्तिः । द्वितीये असिद्धिरहितस्यानध्यवसितोदाहरण-स्याभावात्साङ्कर्यमित्यत आह ॥ प्रकृत इति ॥ प्रकृतानुमाने अनध्यवसित-दूषकताबीजं हेतुस्वरूपासत्त्वं विना न सिद्ध्यतीति दोषद्वयम् । ‘सर्व-मनित्यं सत्त्वात्’ इत्यादौ न तथेति न सङ्कीर्णतेति ।

श्रीनिवासतीर्थीयटिप्पणी

शङ्कते ॥ असिद्धीति ॥ अस्येति । अनध्यवसितत्वरूपदोषस्येत्यर्थः । असिद्धे चाक्षुषत्वहेतौ अनध्यवसिते सत्त्वहेतौ चेत्युभयत्रापि साध्य-प्रतीत्यजनकत्वरूपसाध्यासाधकत्वसाम्यान्नायमनध्यवसितत्वरूपो दोषोऽ-सिद्धेः पृथग्वाच्य इत्याशयः । अन्यतरासिद्धिसङ्ग्रहाय वादिप्रतिवादिनो-रन्यतररीत्येत्युक्तम् । तथा च वादिप्रतिवादिनोरुभयोरपि रीत्या लिङ्गाभाव-स्तयोरन्यतररीत्या च लिङ्गाभाव इति व्याख्येयम् ॥ सामर्थ्यविघटनमिति । सामर्थ्यं व्याप्तिः । सत्यपि लिङ्गे व्याप्तिविघटनमित्यर्थः । सत्त्वहेतोः पक्षीभूते सर्वस्मिन् विद्यमानत्वेऽपि निदर्शनाभावेन व्याप्तिविघटनमस्तीति द्रष्टव्यम् । तथा च पक्षधर्मताया अभावेन प्रतीत्यजनकत्वमसिद्धिः । सत्यपि लिङ्गे व्याप्त्यभावेन प्रतीत्यजनकतायामनध्यवसितत्वमिति विवेक इति परिहाराभिप्रायः ।

नन्वेवमपि असिद्धे दृश्यत्वहेतौ असिद्धातिरिक्तत्वगर्भोक्तानध्यवसित-लक्षणाभावात्कथमनध्यवसितत्वं तस्येति चेन्न । असिद्धातिरिक्तः साध्या-साधक इति लक्षणस्य असिद्धिप्रयुक्तोक्तासाधकताभिन्नासाधकता यस्य हेतोः सोऽनवध्यवसित इत्यत्र तात्पर्यात् ॥ भेद इति । अनध्यवसितत्व रूपदोषस्यासिद्धेर्भेदो बहिर्भाव इत्यर्थः । तथा चायं पृथग्वाच्य एवेति भाव इति सम्प्रदायः । प्रकृते दृश्यत्वहेतौ । दोषद्वयम् असिद्धिरनध्यवसितश्चेति दोषद्वयम् । तत्कथमित्यतस्तदुपपादनायोक्तम् ॥ तर्कस्येति । जगतोऽ-भावेऽनुमानस्य दृश्यत्वस्य तदङ्गभूताया व्याप्तेश्चाभाव इति तर्कस्यासिद्धि-पुरस्कारेण प्रवृत्तेर्लिङ्गाभावेनासिद्धिप्रयुक्ता साधकताऽस्ति । व्याप्त्यभाव-प्रयुक्ता चासाधकताऽस्तीति दोषद्वयमपीत्यर्थः । नन्वेवम् असिद्धिरहितस्या-नध्यवसितोदाहरणस्यासङ्कीर्णस्याभावात् तयोः साङ्कर्यमित्यत आह ॥ न चैवमिति । प्रकृतानुमाने अनध्यवसितत्वं लिङ्गस्वरूपासत्त्वं विना न सिध्यतीति दोषद्वयम् । सर्वमनित्यं सत्वादित्यादौ तु न तथेत्य-नध्यवसितस्यासिद्ध्यसङ्कीर्णोदाहरणवत्ता च सिद्धेत्यर्थः ।

श्रीगुरुराजीयटिप्पणी

उदाहरणभेदो नास्तीति प्रश्नाभिप्राय इत्यत आह ॥ प्रकृत इति ॥ यद्यपि प्रकृते तर्कपुरस्कारेण प्रवृत्तेर्दोषद्वयम् । तथापि सर्वत्र तर्क-पुरस्कारेणानध्यवसितस्याप्रवृत्या तत्रानध्यवसितमात्रप्राप्त्याऽसङ्कीर्णो-दाहरणता च सिद्धेति । यद्यपि तथापीत्यध्याहारेण योजनीयम् ।

असत्वस्यैवासाधकत्वोपयोगितासमर्थनम्

टीका

ननु कथमसत्यस्यासाधकत्वम् ? तथा सति धूमाभासस्यापि साधकत्वप्रसङ्गादिति ब्रूमः । अथ धूमाभासस्यासाधकता ना-सत्त्वात् । अपि तु अव्याप्तत्वात् । बहुलोर्ध्वतादिवद् आभास-विवेकस्यापि व्याप्त्युपयोगादिति मन्येत । तदा वक्तव्यं, किमेवं लोकानुभवात्कल्प्यते ? उतासतोऽपि साधकत्वाभिमानात् ? न प्रथमस् तदभावात् । लौकिका हि ‘महाह्रदोऽग्निमान्धूमवत्त्वात्’ इति प्रयुक्ते असिद्धिमुद्भावयन्ति । न द्वितीयः निर्मूलत्वात् । असत्यस्यापि प्रतिबिम्बादेर् बिम्बादिसिद्धावङ्गतोपलम्भान्नेति चेन्न । प्रतिबिम्बाद्यसत्यताऽसिद्धेरन्यत्रोपपादितत्वात् ।

मन्दारमञ्जरी

बहुलोर्ध्वतादिवदिति ॥ यथा धूममात्रस्य शान्ताग्नावपि विद्यमानत्वेन बहुलतादिर्व्याप्त्युपयोगी तथा आभाससाधारणधूमस्य ह्रदे व्यभिचारात् ‘यत्र अनाभासो धूमस्तत्राग्निः’ इति व्याप्त्युपयोग्येव अभासविवेक इत्यर्थः ।

धूमाद्यनुमाने आभासविवेकस्य व्याप्त्युपयोगितानिरासः

आभासविवेकस्य व्याप्त्युपयोगित्वेऽप्यारोपिताभासविवेकधूमवति ह्रदे व्यभिचारो दुर्वारः । आभासविविक्त एव आभासविवेको व्याप्त्युपयोगीति चेन्न । आभासविवेकतोऽपि आभासविवेकस्यारोपितस्य तत्र वक्तुं शक्यत्वा-द्व्यभिचारापरिहारात् । आभासविवेकविशेषणीभूताभासविवेकेनाप्याभास-विविक्तेन भाव्यमिति चेद् एवं तर्ह्याभासविवेकविशेषणपरम्पराया अपर्यवसितत्वेन जन्मशतेनापि हेतुरनिरूपितः स्यात् ।

किं च ह्रदे न धूममात्रमप्यस्ति । किं तु ? तद्गतस्य बाष्पस्य तथा प्रतीतिरेव । न च भ्रान्त्यनुसारेणार्थाङ्गीकारो युक्तः । भ्रान्तेः प्रमाणत्वा-पातात् । न चास्माभिर्धूमवत्तया प्रतीयमानत्वं हेतूकृतम् । किं तु ? धूमवत्त्वम् । ततो नाभासविवेको व्याप्त्युपयोगीति । किं च आरोपित-दृश्यत्वस्य ब्रह्मण्यपि सम्भवाद्दृश्यत्वेऽपि व्याप्त्युपयोगितयैवाभासविवेकोऽङ्गी कार्य इति परिहारे स्थितेऽपि परिहारान्तरमाह ॥ तदा वक्तव्यमिति ॥ प्रतिबिम्बाद्यसत्यतासिद्धेरिति ॥ छायावत् प्रतिध्वनिवत् प्रतिसूर्यवच्च प्रतिबिम्बादेः सत्यत्वादिति भावः ।

श्रीनिवासतीर्थीयटिप्पणी

जगतो भाव इति वाक्येन दृश्यत्वहेतोरसत्वापादनमुखेनासाधकत्व-मापाद्यत इत्युक्तम् । तदुपर्याशङ्कते ॥ ननु कथमसत्यस्येति । तथाच दृश्यत्वहेतोरसत्यस्यापि मिथ्यात्वसाधकत्वमस्त्विति भावः । सिद्धान्ती शङ्कते ॥ तथासतीति । असत्यस्यापि साधकत्वे सतीत्यर्थः ॥ धूमाभास-स्यापीति । बाष्पारोपितधूमस्यापीत्यर्थः ॥ साधकत्वेति । हृदे वह्नि-साधकत्वप्रसङ्गादित्यर्थः । पूर्वपक्षी उत्तरमाह ॥ अथेति ॥ अव्याप्त-त्वादिति । व्याप्तिशून्यत्वादित्यर्थः । तदुपपादयति ॥ बहुलेति ॥ ऊर्ध्व-तेति । अविच्छिन्नमूलाभ्रंलिहेत्यर्थः । यथा धूममात्रस्य शान्ताग्नावपि सत्वेन वह्निसाधकत्वाभावाद् बहुलोर्ध्वतादिविशिष्टो धूमो यत्र तत्राग्नि-रित्येवं बहुलोर्ध्वतादिर्व्याप्त्युपयोगी तथा धूमाभासस्य ह्रदेऽपि सत्वेन व्यभिचाराद् वह्निसाधकत्वं नास्ति । अतो यत्रानाभासो धूमस्तत्राग्नि-रित्येवमाभासविविक्तत्वस्यापि व्याप्त्युपयोगित्वमस्त्येवेत्यर्थः ॥ एवमिति । आभासविवेकस्यापि व्याप्त्युपयोगित्वमित्यर्थः ॥ तदभावादिति । लोकानु-भवाभावादित्यर्थः । लोकानुभवमेवोपपादयति ॥ लौकिका हीति ॥ असिद्धिमिति । धूम एवासौ न भवतीति प्रतिवक्तारो भवन्ति नत्वाभास-विवेकस्यापि व्याप्त्युपयोगित्वेन तदभावादि(ती)त्यर्थः ॥ निर्मूलत्वादिति । असतः साधकत्वाभिमानस्यैव निर्मूलत्वादित्यर्थः । तथाचासतः साधकत्वे सिद्धे तर्हि धूमाभासस्यापि साधकत्वप्रसङ्गे चोदिते आभासविविक्तत्व-विशेषणस्य व्याप्त्युपयोगित्वसिद्धिः । तत्सिद्धौ धूमाभासस्य साधकत्वा-पादनरूपातिप्रसङ्गाभावेनासतः साधकत्वसिद्धिरित्यन्योन्याश्रयादित्यर्थः । यथोक्तं न्यायामृते । अस्याः कल्पनाया असतः साधकत्वसिद्धिसापेक्षत्वे नान्योन्याश्रयादिति । शङ्कते ॥ असत्यस्यापीति । प्रतिबिम्बादेरित्यादि-पदेन स्वाप्नार्थग्रहणम् । बिम्बादीत्यादिपदेन शुभाशुभग्रहणम् । तथाचायं प्रदेशो बिम्बवान् प्रतिबिम्बवत्त्वाद् इत्येवमसत्यमपि प्रतिबिम्बबिम्बसाधकम् असत्योऽपि स्वाप्नार्थः शुभाशुभसाधको दृष्ट इत्यर्थः ॥ नेतीति । दृश्यत्व-हेतोरसत्यत्वादसाधकत्वमिति यदुक्तं तन्नेत्यर्थः ॥ प्रतिबिम्बाद्यसत्यता-सिद्धेरिति । आदिपदेन स्वाप्नार्थग्रहणम् । छायावत्प्रतिध्वनिवत्सूर्यस्य पार्श्वे प्रतिसूर्यवच्च प्रतिबिम्बस्य सत्यतायाः स्वाप्नार्थस्य वासनोपादानकस्य सत्यतायाश्चान्यत्र तत्वनिर्णयादावुपपादितत्वादित्यर्थः ।

श्रीगुरुराजीयटिप्पणी

यदि चानुमानं मिथ्या स्यात्तदा साधकं न स्यादिति तर्के मिथ्यात्व-मस्त्वसाधकत्वं मास्त्वित्यप्रयोजकत्वमाशङ्कते ॥ नन्विति ॥ किमत्रा-सत्यस्यापि साधकत्वे बाधकाभावादप्रयोजकत्वमित्यत्र तात्पर्यम् ? किं वा सतः साधकत्वे साधकाभावादसत्यस्यापि साधकत्वमस्त्विति विकल्पद्वयं मनसि निधाय नाद्यः यदि मिथ्याभूतस्याप्यनुमानस्य साधकत्वं स्यात्तदा धूमाभासस्यापि तत्स्यादिति विपक्ष बाधकतर्कसद्भावान्ना-प्रयोजकत्वमित्या-शयेनाह ॥ तथा सतीति ॥ नन्वत्र दृष्टान्ताभावान्न विशेषव्याप्तिः सम्भवति । व्याप्तिभावाभावाभ्यां विशेषान्नाविशेषलक्षणापि सेति व्याप्ति-विकलत्वेन तर्काभासत्वान्नेदं विपक्षे बाधकमित्यभिप्रेत्य धूमाभासस्या-व्याप्ततयाऽसाधकत्वमाशङ्कते ॥ अथेति ॥ प्रतिबिम्बादौ व्यभिचारेण यन्मिथ्या तन्न साधकमिति तर्कमूलभूतव्याप्तेरेवाभावान्न तदुपजीवनेन दृश्यत्वानुमानस्यासाधकत्वापादनं सम्भवतीत्यभिप्रायेण शङ्कते ॥ असत्य-स्यापि प्रतिबिम्बादेरिति ॥ आदिपदेन स्वाप्नार्थपरिग्रहः । बिम्बादे-रित्यादिपदेन शुभाशुभपरिग्रहः । यद्यपि प्रतिबिम्बमिथ्यात्वस्य वादि-प्रतिवाद्यसम्मतत्वान्न तदुपन्यासोऽत्रोचितः । तथापि परमते स्वरूपेण सत्यत्वेऽपि तस्य बिम्बैक्येन साध्याविशिष्टतया बिम्बसाधकत्वानुपपत्या विच्छेदोपेतस्यैव साधकत्वे वक्तव्ये विच्छेदस्य मिथ्यात्वात्तदुदाहरणम् । यद्वात्र प्रतिबिम्बशब्दस्तद्विच्छेदपरः । बिम्बशब्दश्च तद्व्यवस्थाविशेषपरः । ततश्च नेक्षेतोद्यन्तमादित्यमित्युद्यदादित्यदर्शननिषेधेऽपि तत्प्रतिबिम्बदर्शना-निषेधः । वारिस्थसूर्यदर्शननिषेधेऽपि गगनस्थतद्दर्शनानिषेधः । प्रतिबिम्ब-दर्शनेऽपि दृष्ट्वा स्नायादिति शास्त्रार्थाननुष्ठानम् । बिम्बस्यावदातत्वेऽपि प्रतिबिम्बस्य श्यामत्वमित्यादिव्यवस्थाया विच्छेदकत्वात् । तस्य च मिथ्यात्वात्तदनुपन्यास इति गुरुचरणाः । बिम्बप्रतिबिम्बयोरैक्ये प्रमाण-निराकरणेन भेदे यथैषा पुरुषेच्छेत्याद्यागमोदाहरणेन विच्छेदस्य सत्यताया अत एवोपमेत्यधिकरणेऽर्थज्ञानात्मकस्वप्नसत्यतायाश्च स्वप्नाधिकरणे विशेष्यतया तत्त्वनिर्णयादौ च समर्थितत्वेन विच्छेदादेर्मिथ्यात्वस्यैवाभावान्न तत्र व्यभिचार इत्याशयेनाह ॥ प्रतिबिम्बाद्यसत्यताऽसिद्धेरिति ॥

अर्थावच्छिन्नं ज्ञानमिति पक्षे अवच्छिन्नस्य हेतुत्वे अवच्छेदकस्यापि हेतुत्वमित्यादिव्याप्तिभङ्गः

टीका

सवितृसुषिरादिना अनिष्टानुमानं कथम् ? इति चेन्न । तत्रापि तज्ज्ञानस्यैव साधकत्वात् । ज्ञेयभेदानवच्छिन्नस्य ज्ञानमात्रस्याति-प्रसङ्गित्वात्तदवच्छिन्नस्य सिध्यङ्गतायां तस्याप्यङ्गत्वमिति चेन् न । दोषवशात्सत्यतद्विषयज्ञानसदृशस्य ज्ञानस्याङ्गताङ्गीकारात् । नन्वेवं सति प्रकृतेऽप्यनुमानाङ्गानां प्रतीतिसद्भावात्किं तत्सत्यतया ? इति चेन्न । प्रतीतेरपि परेण सत्तानभ्युपगमात् ।

किं च अस्त्ययं विभागः । किञ्चित्स्वरूपेण सज् ज्ञाततया अनुमानाङ्गम् । कस्यचिज् ज्ञानमेवेति । अथ सतः साधकत्वं कुतः ? इति चेत् । असतोऽसाधकत्वादर्शनादित्यास्तां विस्तरः ।

मन्दारमञ्जरी

अर्थावच्छिन्नं ज्ञानमङ्गमिति पक्षोऽस्तु । तथात्वे अवच्छेदकार्थस्यापि सिद्ध्यङ्गत्वं स्यादिति चेत् । किम् अवच्छिन्नस्य यद्भवति तद् अवच्छेद-कस्यापि भवतीति सामान्यव्याप्तिः ? किं वा अवच्छिन्नस्य हेतुत्वे अवच्छेदकस्यापि हेतुत्वम्’ इति विशेषव्याप्तिः ? नाद्यः । ब्रह्मज्ञानस्य वेदान्तसाध्यत्वेऽपि त्वया ब्रह्मणस्तत्साध्यतानभ्युपगमात् । न द्वितीयः । ब्रह्मज्ञानस्य जगदुपादानत्वे ब्रह्मणोऽपि तत्प्रसङ्गात् । निर्विकारे च तस्मिंस्तस्यायोगात् । आत्मज्ञानस्याविद्यानिवृत्तिहेतुत्वे आत्मनोऽप्य-विद्यानिवृत्तिहेतुत्वप्रसङ्गाच्च । तस्य च ज्ञानस्फोरकत्वेन तदनिवर्तकत्वात् ।

आरोपितस्यापि ज्ञेयस्य ज्ञानव्यावर्तकत्वात्साधकतेति शङ्कानिरासः

नन्वथापि ज्ञेयस्य ज्ञानव्यावर्तकत्वाद् व्यावर्तकत्वस्य च व्यावृत्ति-ज्ञानहेतुत्वात्मकत्वाद् आरोपितस्यापि हेतुत्वसिद्धिरिति चेत् । स्यादेतदेवं, यदि व्यावृत्तिज्ञानहेतुत्वं व्यावर्तकत्वं स्यात् । न चैवम् । किं तु ? व्यावृत्तिज्ञानहेतुज्ञानविषयत्त्वमेव व्यावर्तकत्वम् । कुत एतत् ? सत्यपि दण्डे दण्डाज्ञाने व्यावृत्त्यज्ञानात् । मया च आरोपितस्य हेतुता-नभ्युपगमेऽपि व्यावृत्तिधीहेतुभूतज्ञानविषयत्वस्याभ्युपगतत्वेन आरोपितस्य व्यावृत्तिज्ञानहेतुज्ञानविषयत्वापरपर्यायव्यावर्तकतोपपत्तेः ।

नन्ववच्छेदकस्य आरोपिततया तदवच्छिन्नमप्यारोपितमेवेति पुनरप्या-रोपि तस्य हेतुता प्राप्तेति चेन्न । अज्ञानस्यावच्छेदकस्यानिर्वचनीयत्वेऽपि तदवच्छिन्नाज्ञानहानेर्ब्रह्माभिन्नायाः पञ्चमप्रकाराया वा सदसद्वैलक्षण्य-लक्षणानिर्वचनीयत्वाभावात् । द्वैतस्यासत्यत्वेऽपि तदवच्छिन्नस्य द्वैता-भावरूपस्याद्वैतस्य सत्यतायास्त्वया अभ्युपगमाच्च । तत्र अज्ञानद्वैते तटस्थे इति चेत् । अत्रापि ज्ञेयं तथेति अवच्छिन्नं पक्षमाश्रित्य केचित्परिहरन्ति ।

स्वयं तु अनवच्छिन्नं पक्षमेवाश्रित्याह ॥ न दोषेति ॥ अयमर्थः । अर्थावच्छिन्नमेव सुषिरज्ञानं हेतुः । न च असुषिरज्ञानस्यापि हेतुताप्रसङ्गः । विषयावच्छेदमन्तरेण धर्मान्तरेणैव असुषिरज्ञानाद्व्यावृत्तेः । तथा हि, सा किं सत्यसुषिरज्ञानस्य नेत्युच्यते ? किं वा असत्यसुषिरज्ञानस्य ? नाद्यः ‘सत्यसुषिरज्ञानम् असुषिरज्ञानाद्व्यावर्तकधर्मोपेतं ततो व्यावृत्तत्वात्संमतवत्’ इति तदनुमानात् । न च विषयेणार्थान्तरता तस्य अतद्धर्मत्वात् । नापि विषयसम्बन्धेन । ज्ञानज्ञेययोः संयोगादेरसम्भवात् । स्वरूपप्रत्यासत्तेश्च ज्ञानस्वरूपानतिरिक्तत्वेन तद्व्यावर्तकत्वायोगात् ।

किं च ‘सत्यसुषिरज्ञानं विषयोपाधिमनपेक्ष्य असुषिरज्ञानाद्विलक्षणं तज्जनकविलक्षणजनकजन्यत्वात् परोक्षज्ञानजनकविलक्षणजनकजन्यापरोक्ष ज्ञानवत्’ । न चासिद्धिः । असुषिरज्ञानजनको योऽसुषिरेन्द्रियसंयोगस् तद्विलक्षणसुषिरेन्द्रियसम्प्रयोगजन्यत्वात् सुषिरज्ञानस्य । न च दृष्टान्तस्य साध्यवैकल्यम् एकविषययोरपि परोक्षत्वापरोक्षत्वलक्षणवैलक्षण्यदर्शनेन अपरोक्षत्वस्य विषयोपाधिकत्वाभावात् । न च विलक्षणजनकजन्यत्वं सुषिराख्यविषयसम्बन्धरूपवैलक्षण्येनैवोपपन्नमिति तदतिरिक्तवैलक्षण्य-साधने अप्रयोजकता ? यवबीजविलक्षणकलमबीजजन्यत्वस्यापि कदाचिद्देव दत्तादिसम्बन्धरूपवैलक्षण्येनैवोपपत्त्या कलमबीजजन्याङ्कुरस्य यवबीजाङ्कुरा त्स्वतो वैलक्षण्यरूपकलमाङ्कुरत्वस्य कदाचिदभावप्रसङ्गात् ।

अपि च ‘सत्यसुषिरज्ञानम् असुषिरज्ञानादन्यसम्बन्धमनपेक्ष्य विलक्षणम् असुषिरज्ञानजनितार्थक्रियाविलक्षणार्थक्रियाकारित्वाद् यवबीजात्कलमबीज-वत् । न च सुषिरसम्बन्धरूपवैलक्षण्येनैव विलक्षणार्थक्रियाकारित्वोपपत्त्या स्वतो वैलक्षण्येऽप्रयोजकता । तथात्वे देवदत्तसम्बन्धेन विलक्षणस्य यवबीजस्य कदाचित्कलमाङ्कुरोत्पादकत्वप्रसङ्गात् ।

घटाभावादीनां प्रतियोगिसम्बन्धमनपेक्ष्यैव स्वाभाविकवैलक्षण्यसमर्थनं

नन्वेवं घटाभावस्यापि घटसम्बन्धमनपेक्ष्यैव पटाभावादिभ्यो वैलक्षण्यं स्यादिति चेत् स्यादेव, अन्यथा पटसम्बन्धेनापि विलक्षणं न स्यात् । न हि स्वतोऽविलक्षणमन्यसम्बन्धमात्रेण विलक्षणं भवति । एकस्यैव सत्तादेरीश्वरज्ञानादेश्च विलक्षणानेकसम्बन्धेन वैलक्षण्यप्रसङ्गात् । एकस्यैव दृशोऽनेकदृश्यसम्बन्धेन वैलक्षण्यापाताच्च । देवदत्तादेरपि न दण्डादिना वैलक्षण्यम् । किं तु ? स्वत एव । दण्डादिना तु दण्ड्यादि-रूपं विशिष्टाख्यं वस्त्वन्तरमेवोत्पद्यत इति न कश्चिद्दोषः । काकातिरेकेण गृहे संस्थानविशेषवत् क्षीरसम्बन्धातिरेकेण क्षीरमाधुर्ये गुडादिमाधुर्या-द्वैलक्षण्यवच्च घटसम्बन्धातिरेकेण घटाभावस्यापि पटाभावादितो विलक्षण-स्वभावविशेषस्य घटनिरूपणाधीननिरूपणविषयस्य विलक्षणकारणजन्य-त्वस्य विलक्षणकार्यकरत्वस्य वा अनुभवसिद्धत्वात् । स्वतोऽविलक्षणस्य च नान्यसम्बन्धमात्रेण विलक्षणकारणजन्यत्वं विलक्षणकार्यकरत्वं चेत्युक्तम् । तस्मादज्ञानवदभावादिरपि स्वत एवान्यस्माद्विलक्षणः । व्यवहारसमये तु अनुभवसिद्धस्यापि तस्याभावस्वभावविशेषस्य क्षीरमाधुर्यादिवद्विशिष्या-ख्यातुमशक्तः क्षीरपदवत्तदुपलक्षकं घटपदमेव प्रयुङ्क्ते घटो नास्तीति । अलं प्रसक्तानुप्रसक्त्या ।

न द्वितीयः । असत्यसुषिरज्ञानस्यापि सत्यसुषिरज्ञानवद्विषयोपाधि मनपेक्ष्य व्यावृत्तेरङ्गीकार्यत्वात् । तदेतदाह ॥ सत्यतद्विषयज्ञानसदृश-स्येति ॥ न च क्लृप्तसुषिरेन्द्रियसम्प्रयोगादिसुषिरज्ञानसामग््रयजन्यस्यास्य कथं विषयोपाधिमनपेक्ष्यासुषिरज्ञानाद्व्यावृत्तत्वाकारेण सुषिरज्ञानसदृशत्वमिति वाच्यम् । दोषवशात्तदुपपत्तेः । अन्यथा तवापि असत्यसुषिरज्ञानस्य सुषिरविषयावच्छेदकस्याप्यभावप्रसङ्गादित्याह ॥ दोषवशादिति ॥ सत्तानभ्युपगमादिति ॥ वृत्तिरूपायास्तत्प्रतिबिम्बितचैतन्यरूपाया वा प्रतीतेः परेण सत्यत्वानभ्युपगमात् पक्षादिप्रतीतेरप्यङ्गता वक्तुम् अशक्ये-त्यर्थः ॥ किञ्चास्तीति ॥ व्याप्त्यादिकं स्वरूपेण सज् ज्ञाततया अनुमानाङ्गम् । व्याप्तिप्रतीतिमात्रस्य व्यभिचारेऽपि सम्भवात् । पक्षादिकं तु ज्ञाततयैव । भ्रान्तिप्रतिपन्नरजतादिकं पक्षीकृत्य तत्तद्वादिभिरसत्त्वादि-साधनात् । एवं चानुमानाङ्गं सर्वं प्रतीतिद्वारा अङ्गमिति अव्याप्त्यादेः स्वरूपसत्त्वमङ्गीकार्यमित्यर्थः ।

असतोऽपि साधकत्वस्य प्रकारान्तरेण शङ्का तन्निरासश्च

ननु ‘‘असतोऽपि साधकत्वमस्ति अनुत्पन्नस्यापि कार्यस्य कारणगत-शक्त्यवच्छेदकतादर्शनात् । कालान्तरे सत्त्वं नोपयोगि’’ इत्यादिशङ्काप्राप्तौ, ‘‘मैवं शक्त्यवच्छेदकता हि शक्तिविषयता । सा च शक्तिसाध्यतेति साध्यत्वमेवानुत्पन्नस्य । न तु साधकत्वम् । साध्यत्वं च नात्यन्तासतः । किं तु ? प्रागभावप्रतियोगिनः’’ इत्यादिकं समाधानं यद्यपि वक्तव्यमस्ति तथापि ग्रन्थगौरवभयात्सङ्क्षिप्यत इत्याह ॥ आस्तां विस्तर इति ॥

श्रीनिवासतीर्थीयटिप्पणी

सवित्रिति । दृश्यत्वहेतोरसत्यस्यासाधकत्वाङ्गीकार इति शेषः । सवितृसुषिरस्यासत्यत्वादिति भावः । सुषिरादिनेत्यादिपदेन छिद्रां वा छायां पश्येदिति श्रुत्युक्तं ग्राह्यम् ॥ अनिष्टेति । न चिरमिव जीविष्यतीति विद्यादिति श्रुत्युक्तमरणरूपानिष्टेत्यर्थः ॥ तज्ज्ञानस्यैवेति । सवितृ-सुषिरज्ञानस्यैवेत्यर्थः । अत एव श्रुतौ अथापि यत्र छिद्र इवादित्यो दृश्यत इति दृशि ग्रहणं कृतमिति ज्ञातव्यम् । ज्ञानं तु सत्यमेवेति सत्यस्यैव साधकत्वमिति भावः । असत्यस्यैव साधकत्वमङ्गीकार्यमिति शङ्कते ॥ ज्ञेयभेदेति । सुषिरादिरूपविषयविशेषेत्यर्थः ॥ अतिप्रसङ्गित्वादिति । घटादिरूपसुषिरज्ञानसाधारण्यादित्यर्थः ॥ तदवच्छिन्नस्येति । सुषिरादि-रूपविषयावच्छिन्नस्येत्यर्थः ॥ सिध्यङ्गतायामिति । मरणरूपानिष्ट-साधकत्वमित्यर्थः ॥ तस्यापीति । सुषिरादिरूपविषयस्यापीत्यर्थः ॥ अङ्गत्वमिति । अनिष्टसाधकत्वं प्राप्तमित्यर्थः । तथा चासत्यस्यैव साधकत्वं प्राप्तमिति द्रष्टव्यम् । अयं भावः । यदुक्तं तत्रापि तज्ज्ञानस्यैव साधक-त्वादिति तत्र पृच्छामः । किं विषयानवच्छिन्नं ज्ञानमात्रं मरणरूपा-निष्टसाधकं किं वा सुषिरादिरूपविषयावच्छिन्नं ज्ञानम् । नाद्यः । घटादिरूपासुषिरज्ञानस्यापि ज्ञानत्वेनानिष्टसाधकत्वप्रसङ्गात् । न द्वितीयः । सुषिरादिरूपविषयावच्छिन्नस्य ज्ञानास्यानिष्टसिद्ध्यंङ्गत्वे सुषिरादिरूप-विषयस्यापि अनिष्टसाधकत्वापत्तेः । अवच्छिन्नस्य यद्भवति तदवच्छेदक-स्यापि भवतीति नियमस्य लम्बकर्णमानयेत्यादौ दर्शनादिति । अर्था-नवच्छिन्नज्ञानमेव साधकमिति पक्षमाश्रित्य परिहरति ॥ दोषवशा-दित्यादिना ॥ सत्यतद्विषयज्ञानेति । सत्यसुषिरविषयकज्ञानेन सदृशं यज्ज्ञानम् असत्यसुषिरज्ञानं तस्येत्यर्थः । अयं भावः । अर्थानवच्छिन्नं सुषिरज्ञानम् अनिष्टसाधकम् । न चासुषिरज्ञानस्यापि हेतुत्वप्रसङ्ग इति वाच्यम् । तदभावात् । तथाहि सत्यसुषिरज्ञानं तावदसुषिरज्ञानात्स्वत एव व्यावृत्तम् असुषिरज्ञानजनितार्थक्रियाविलक्षणार्थक्रियाकारित्वात् । यवबीज-कलमबीजवत् । न चाप्रयोजकता । तत्रापि विषयस्यैव व्यावर्तकत्वो-पपत्तेरिति वाच्यम् । विषयस्य ज्ञानधर्मत्वाभावात् । न च ज्ञाने विषय-सम्बन्ध एव व्यावर्तक इति वाच्यम् । ज्ञानज्ञेययोः संयोगादेरसम्भवात् । स्वरूपसम्बन्धस्य ज्ञानस्वरूपानतिरिक्तत्वेन तद्व्यावर्तकत्वायोगात् । एवमेवासत्यसुषिरज्ञानस्यापि असुषिरज्ञानाद्विषयसम्बन्धमनपेक्ष्य स्वत एव व्यावर्तकत्वान्नातिप्रसङ्गः । न च सत्यसुषिरज्ञानस्य सुषिरेन्द्रियसन्निकर्ष-रूपसामग्रीजन्यत्वात् । असत्यसुषिरज्ञानस्य चासता सुषिरेणेन्द्रियस्य सन्निकर्षायोगेन तज्जन्यत्वासम्भवात् कथमसत्यसुषिरज्ञानस्य विषयसम्बन्ध-मनपेक्ष्य सुषिरज्ञानसदृशत्वमिति वाच्यम् । दोषवशादुपपत्तेः । तथा चासुषिरज्ञानात्सत्यसुषिरज्ञाने विषयातिरिक्तो व्यावर्तको धर्मविशेषः समीचीनसामग््रया जातो ऽसत्यसुषिरज्ञाने तु दोषघटिततया सामग््रयेति युक्तमेव सादृश्यमिति न कश्चिद्दोष इति । सुषिरादिरूपार्थावच्छिन्नस्य ज्ञानस्यानिष्टसाधकत्वपक्षाङ्गीकारेऽपि न कश्चिद्दोषः ॥ ननु तर्हि अवच्छेदकीभूतसुषिरादिरूपार्थस्यापि साधकत्वं स्यादिति चेद् अत्र प्रष्टव्यम् । किम् अवच्छिन्नस्य यद्भवति तदवच्छेदकस्यापि भवतीति सामान्यव्याप्तिः । किं वाऽवच्छिन्नस्य हेतुत्वे अवच्छेदकस्यापि हेतुत्वमिति विशेषव्याप्तिः । नाद्यः । अदृष्टत्वात् । लम्बकर्णमानयेत्यादौ दर्शनादिति चेत् । चित्रगुमानयेत्यादौ व्यभिचारोऽपि किं न दृष्टः । न द्वितीयः । ब्रह्माज्ञानस्य जगदुपादानत्वे ब्रह्मणोऽपि तत्प्रसङ्गात् । निर्विकारे च तस्मिन् तस्यायोगात् । आत्मज्ञानस्याविद्यानिवृत्तिहेतुत्वे आत्मनोऽपि तन्निवृत्ति-हेतुत्व प्रसङ्गाच्च । तस्याज्ञानस्फोरकत्वेन तदनिवर्तकत्वात् । नन्वथापि सुषिररूपज्ञेयस्य ज्ञानव्यावर्तकत्वाद्व्यावर्तकत्वस्य व्यावृत्तिज्ञानहेतुत्व-रूपत्वाद् आरोपितसुषिरस्यापि हेतुत्वसिद्धिरिति चेत् । स्यादेतदेवम् । यदि व्यावृत्तिज्ञानहेतुत्वं व्यावर्तकत्वं स्यात् । न चैवम् । किं तु व्यावृत्तिज्ञान-हेतुभूतज्ञानविषयत्वमेव । कुत इति चेत् । सत्यपि दण्डे दण्डाज्ञाने देवदत्ते अदण्डिव्यावृत्त्यज्ञानात् । तथा चारोपितस्य व्यावृत्तिहेतुत्वानभ्युपगमेऽपि व्यावृत्तिज्ञानहेतुभूतं यज्ज्ञानं तत्रोल्लिख्यमानत्वरूपतद्विषयत्वस्याभ्युपगत-त्वेनारोपितस्य व्यावृत्तिज्ञानहेतुभूतज्ञानविषयत्वापरपर्यायव्यावर्तकत्वोपपत्तेः । व्यावृत्तिहेतुभूतं ज्ञानं तु सत्यमेवेति न कश्चिद्दोषः ॥

ननु अवच्छेदकस्य सुषिरस्यारोपितत्वात्तदवच्छिन्नं ज्ञानमप्यारोपितमेवेति पुनरप्यारोपितस्य हेतुताप्राप्तेरिति चेन्न । अज्ञानरूपावच्छेदकस्या-निर्वचनीयतया आरोपितत्वेऽपि तदवच्छिन्नाज्ञाननिवृत्तेः पञ्चमप्रकाराया-स्तदभावात् । द्वैतस्यासत्यत्वेऽपि तदवच्छिन्नस्य द्वैताभावरूपाद्वैतस्या-सत्यत्वाभ्युपगमाच्च । तत्राज्ञानद्वैते तटस्थे इति चेत् । तर्ह्यत्रापि तथेति संतोष्टव्यमिति द्रष्टव्यम् ॥ एवं सतीति । ज्ञानस्यैव साधकत्वाङ्गीकार इत्यर्थः ॥ प्रकृतेति । दृश्यत्वानुमानाङ्गभूतानां व्याप्त्यादीनामित्यर्थः ॥ प्रतीतीति । तस्याश्च भवद्भिः सत्यत्वाङ्गीकारादिति भावः ॥ परेणेति । सत्यं मन्मते तथेति त्वया तु वृत्तिरूपायास् तत्प्रतिबिम्बितचैतन्यरूपाया वा प्रतीतेः सत्यत्वानभ्युपगमेन पक्षादिप्रतीतेरपि सत्यत्वाभावादिति भावः ॥ किं चास्तीत्यादि । व्याप्त्यादिकं स्वरूपेण सदेव ज्ञाततया अनुमानाङ्गं न प्रतीतिमात्रेण । व्याप्तिप्रतीतिमात्रस्य व्यभिचारेऽपि सम्भवात् । लिङ्ग-प्रतीतिमात्रस्य स्वरूपासिद्धेऽपि साम्यात् । पक्षादिकस्य तु ज्ञानमेवानु-मानाङ्गम् । न तु तत्सत्ता आवश्यकी । भ्रान्तिप्रतिपन्नं रजतादिकं पक्षीकृत्य तत्तद्वादिभिरसत्वादिसाधनात् । त्वयैव मिथ्यात्वसाधने दृष्टान्तीकरणाच्च । एवं चानुमानाङ्गं सर्वं प्रतीतिमात्रेणैवांगमित्यस्यायुक्त-त्वात् । लिङ्गव्याप्त्यादेः स्वरूपसत्वमङ्गीकार्यम् । तथा च जगदन्तःपातित्वेन लिङ्गव्याप्त्यादेरसत्त्वादसाधकत्वेनानध्यवसितत्वकथनं युक्तमेवेति भावः ॥ असतोऽसाधकत्वादिति । परस्परविरुद्धयोरन्यतरनिषेधस्यान्यतर-विधिनान्तरीयकत्वादिति भावः ॥

श्रीगुरुराजीयटिप्पणी

तथापि स्थलान्तरे व्यभिचारामूलशैथिल्यमित्याशयेन शङ्कते ॥ सवितृसुषिरादिनेति ॥ आदिपदेन रज्जुसर्पादिपरिग्रहः । सर्पभ्रमादावपि हि ज्ञानमस्त्येव तादृशम् । तदेवार्थक्रियाकारि तत्सदेवार्थकारकमित्यनुव्याख्यानं मनसि निधायोक्तव्यभिचारं परिहरति ॥ तत्रापीति ॥ तज्ज्ञानस्यैवेति ॥ सुषिरादिज्ञानस्येत्यर्थः । तस्य च सत्यत्वान्नेदं मिथ्याभूतस्यासाधकत्वे व्यभिचारस्थलमिति हृदयम् । न च भ्रमत्वाज् ज्ञानमप्यसत्यमिति वाच्यम् । नाभूदत्र सुषिरं नाभूदत्र सर्प इतिवच्च न सुषिरज्ञानं ममाभून्न सर्पज्ञानं ममाभूदिति च कस्यचिद्बाधज्ञानानुदयात् । बाधोत्तरकालमपि सुषिरज्ञान-मभूत् सर्पज्ञानमभूदित्येवानुवृत्तेः । भ्रमत्वस्य च विषयवैपरीत्येनैवोपपत्तेः । अर्थस्यासत्वेऽपि भ्रमस्य सत्यत्वसम्भवादिति भावः ।

ननु चात्र सवितृसुषिरानवच्छिन्नमेव ज्ञानमनिष्टादिसाधकमित्यभिप्रायः । किं वा तदवच्छिन्नं ज्ञानं तत्साधकमिति विकल्पद्वयं मनसि निधायाद्यं दूषयति ॥ ज्ञेयेति ॥ अतिप्रसङ्गित्वादिति ॥ ज्ञानमात्रस्यैवारिष्टादि-साधकत्वे घटज्ञानस्यापि ज्ञानत्वेनारिष्टादिसाधकत्वं स्यादित्यतिप्रसङ्गा-दित्यर्थः । अतिप्रसङ्गादित्यतः परमरिष्टादिसिध्यङ्गत्वानुपपत्तेरिति शेषः । द्वितीयं दूषयति ॥ तदवच्छिन्नस्येति ॥ यद्विशिष्टस्य यस्य यद्भवति तद्विशेषणस्यापि भवतीति व्याप्तेरर्थावच्छिन्नस्य ज्ञानस्यारिष्टादिसिध्यङ्गत्वेऽ-वच्छेदकस्यार्थस्यापि तदङ्गत्वावश्यम्भावादिति भावः । न दोषवशादित्ये-तच्चिरन्तनटीकायामेव स्पष्टम् । तत एव प्रतिपत्तव्यम् ॥ एवं सतीति ॥ अर्थस्यासत्त्वेऽपि ज्ञानस्य सत्वात्तत एवोदाहृतस्थले सिध्युपपादन इत्यर्थः । सतः साधकत्वे साधकाभावादसत्यस्यापि साधकत्वमस्त्विति शङ्काभिप्राय इति प्राग्विकल्पितद्वितीयपक्षमाशङ्कते ॥ अतः सत इति ॥ परिहरति ॥ असत इति ॥ उपलक्षणं चैतत् । सत्यस्यापि साक्षिणो ज्ञानादिसाधकत्वस्य त्वत्सम्मतत्वाच्चेत्यपि द्रष्टव्यम् । ननु साक्ष्यप्यविद्यावृत्तिप्रतिबिम्बित एवाज्ञानादिसाधक इत्याशङ्क्य साक्षिगतसाधकताया अज्ञानाधीनत्वेऽ-पारमार्थिकतया प्रातिभासिकस्याज्ञानसत्वस्य साक्षिणा सिद्धिं विनाऽयोगा-दन्योन्याश्रयादित्याशयवानाह ॥ आस्तां विस्तर इति ॥

विश्वमिथ्यात्वानुमानस्य प्रबलप्रमाणबाधोपपादनम्

टीका

अनुमानस्यानवसरो द्वेधा प्रमाणबाधस्तत्प्रतिरोधश्च । तत्राद्यः प्रबल इति तमेवादौ दर्शयति ।

मिथ्यात्वानुमानखण्डनम्

***प्रत्यक्षादिविरुद्धत्वात् ‘विश्वं सत्यम्’ ***

इत्यादिवाक्यविरुद्धत्वाच्च कालात्ययापदिष्टः

यथायथं प्रत्यक्षानुमानागमसिद्धान् पदार्थान् खलु पक्षीकृत्य तन्मिथ्यात्वमनुमातव्यम् । प्रमाणानि च तत्सत्यतावगाहीनीति तद्बाधितत्वात्कालात्ययापदिष्टो भवति ।

प्रपञ्चे त्रैकालिकाबाध्यत्वस्य आगमसिद्धत्वोपपादनं

ननु केयं सत्यता ? या प्रत्यक्षादिगोचरा ब्रह्मणि परेणाङ्गी-क्रियते सैवेति ब्रूमः । कालत्रयाबाध्यतालक्षणा सा न प्रत्यक्षादि-गोचरा इति चेत् । तर्हि ब्रह्मणोऽपि कुतः सिद्धा ? ‘तत्सत्यम्’ इत्याद्यागमादिति चेत् । तर्हि तत्प्रकृतेऽपि सममिति तद्विरोधा-त्कालातीत एव । तदिदमुक्तं ‘विश्वं सत्यम्’ इत्यादिना । अन्यथा प्रत्यक्षादीत्यादिपदेन वाक्यस्यापि गृहीतत्वात्पुनर्ग्रहणं व्यर्थं स्यात् ।

प्रपञ्चे त्रैकालिकाबाध्यत्वस्य प्रत्यक्षादिसिद्धत्वोपपादनम्

अङ्गीकारवादश्चायम् । यथा च त्रैकालिकाबाध्यत्वलक्षणं सत्यत्वं प्रत्यक्षादिनैव सिद्धं तथोपपादितमन्यत्रेति ।

मन्दारमञ्जरी

प्रत्यक्षादीनां प्राबल्यसिद्धये तेषामनुमानोपजीव्यतामाह ॥ यथायथ-मित्यादिना ॥ तदिदमुक्तमिति ॥ प्रत्यक्षादीत्यादिशब्दोपात्तमपि वाक्य-मादरात्पुनरुपादानेन ‘प्रत्यक्षवदागमस्य विवक्षितसत्ताग्राहित्वं न प्रयास-साध्यम् । किं तु अनायाससिद्धम्’ इति सूचितमित्यर्थः । प्रबल-प्रत्यक्षविरोधेनाङ्गीकार्याप्रामाण्यानुमानादिविरोधात् स्वतः प्राप्तप्रत्यक्ष-प्रामाण्यत्यागायोगाच्च प्रत्यक्षप्रामाण्यं तावदङ्गीकार्यम् । तत्प्रामाण्यं च यत्कालाद्यवच्छेदेन स्वविषयो गृहीतस् तत्कालाद्यवच्छिन्नतया तस्यासत्वे नोपपद्यत इति तत्कालाद्यवच्छिन्नतया प्रत्यक्षविषयस्य सत्त्वमङ्गीकार्यम् । तथा चाविद्यमानस्य तत्कालाद्यवच्छेदेनासत्त्वस्य केनापि प्रमाणेन गृहीतु-मशक्यत्वात् कालान्तरादिभाविनोऽपि तत्कालाद्यवच्छेदेन तदसत्त्वग्राहि-प्रमाणस्याभावनिश्चयात् प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वलक्षणं बाध्यत्वं कदाऽपि नास्तीत्यत्यन्ताबाध्यतासिद्धिः । प्रत्यक्षेण यत्कालाद्य-वच्छेदेन स्वविषयो गृहीतस् तदतिरिक्तकालाद्यवच्छेदेनासत्त्वं तु घटादे-र्मयाऽप्यङ्गीक्रियते परिच्छिन्नत्वात्तस्य । तथा च प्रत्यक्षस्यापि कालत्रयाबाध्यत्वरूपसत्यताग्राहित्वमस्त्येव । आचार्यैस्त्वङ्गीकारवादः कृत इति अभिप्रेत्याह ॥ अङ्गीकारवादश्चेति ॥

श्रीनिवासतीर्थीयटिप्पणी

अनवसर इति । प्रतिबन्धकजिज्ञासाविच्छेदो ह्यवसरः । तदभावोऽ-नवसरः । लिङ्गपरामर्शानन्तरमपि बाधसत्प्रतिपक्षावतारशङ्कया मुहूर्त-मा(त्रंविलं)त्रमवलम्बते अनुमानावतार इत्यभियुक्तवचनादिति भावः । प्रत्यक्षादीनां प्राबल्यसिद्धये तेषामनुमानोपजीव्यत्वं दर्शयति ॥ यथायथ-मिति । यथायोग्यमित्यर्थः ॥ अनुमातव्यमिति । अन्यथा आश्रयासिद्धिः स्यादिति भावः ॥ कालात्ययापदिष्ट इति । धर्मिग्राहकप्रमाणबाध इत्यर्थः । प्रश्नस्यासङ्गतिपरिहारायाह ॥ येति । उत्तरमाह ॥ ब्रह्मणीति । परेण मायावादिना । कालत्रयेति ॥ पारमार्थिकत्वरूपेत्यर्थः । लक्षणेत्यनन्तरं ब्रह्मण्यङ्गीकृतेति शेषः ॥ न प्रत्यक्षादिगोचर इति । प्रत्यक्षस्य वर्तमान-मात्रग्राहित्वादिति भावः ॥ कुत इति । कालत्रयाबाध्यत्वलक्षणसत्यता कुतः प्रमाणात्सिद्धेत्यर्थः ॥ तदिति । कालत्रयाबाध्यत्वलक्षणसत्यत्व-स्यागमसिद्धत्वमित्यर्थः । प्रकृते पक्षीभूते जगति ॥ अन्यथेति ॥ ब्रह्मप्रतिबन्धात्त्त्रैकालिकाबाध्यत्वलक्षणसत्यत्वं जगत्यामेव सिद्धमिति वक्तुं विश्वं सत्यमित्यादिमूलं प्रवृत्तमित्यभिप्रायाभावे इत्यर्थः ॥ व्यर्थं स्यादिति । प्रत्यक्षादीत्यादिपदेनैव वाक्यस्याप्युपात्तत्वात् । विश्वं सत्यमिति यदा वाक्यं पुनः पृथगुपात्तं तेनेदमुक्तं भवति । प्रत्यक्षवदागमस्य त्रैकालिकाबाध्यता-लक्षणसत्ताग्राहित्वं न प्रयाससाध्यं किं त्वनायाससाध्यमिति ॥ अङ्गीकार-वादश्चायमिति । प्रत्यक्षस्य वर्तमानमात्रग्राहित्वमङ्गीकृत्य त्रैकालिका-बाध्यत्वरूपसत्यत्वं जगति न प्रत्यक्षसिद्धं किं त्वागमेनेति यदुक्तं भगव-त्पादैः सोऽयमङ्गीकारवाद इत्यर्थः । वस्तुतत्वं कथमित्यत आह ॥ यथा चेति । तथाहि । अनुमानेन जगति त्रैकालिकसत्ताप्रतिषेधरूपमिथ्यात्वं साध्यते प्रतिपन्नोपाधौ वर्तमानकाले सत्यत्वरूपप्रतियोगिग्राहकेण प्रत्यक्षेण तत्र तदा तदत्यन्ताभावरूपमिथ्यात्वग्राहकानुमानं विरुध्यत एव । प्रतियोगिनः सत्वस्य स्वात्यन्ताभावाभावरूपत्वेन तद्ग्राहकप्रत्यक्षस्य साक्षा-द्ग्राह्याभावावगाहित्वात् । अत्र वदन्ति । नात्र साक्षाद्विरोधः । वर्तमान-कालीनसत्वस्य त्रैकालिकसत्ताप्रतिषेधविरहव्याप्यत्वेन साक्षात्तद्विरह-रूपत्वाभावात् । न हि विशेषणाभावो विशिष्टाभावरूपः किं तु तद्व्याप्य एवेति । न च तद्व्याप्यत्वेनैव विरोधोऽस्त्विति वाच्यम् । तथात्वे अनुमानविरोधप्राप्त्या प्रत्यक्षविरोधकथनायोगादिति । तन्न । तथात्वे वह्निरनुष्ण इत्यत्रापि कालत्रये औष्ण्याभावस्य साध्यत्वात् । प्रत्यक्षेण च वर्तमानकाल एवौष्ण्यग्रहणात् । त्रैकालिकानौष्ण्याभावाभावव्याप्यभूत-वर्तमानकालीनौष्ण्यग्राहकत्वेनैव विरोधप्राप्त्या साक्षाद्ग्राह्याभावावगाहित्वेन प्रत्यक्षस्यानुमानबाधकत्वं सर्वसंमतं न स्यादिति बाधोच्छेद एव स्यादिति । अत्र ब्रूमः । त्रैकालिकसत्ताप्रतिषेध इत्यत्र कालत्रयस्य सत्ताप्रतिषेध-विशेषणत्वेन निषेध्यकोटौ प्रवेशो न विवक्षितः । किंतु तदधिकरणतयोप-लक्षणत्वमेव । तथा च कालत्रये यः सत्ताप्रतिषेधस्तदत्यन्ताभाव इति यावत् । तद्विरहरूपत्वं कादाचित्कस्यापि प्रतियोगिनोऽस्त्येव । कथमन्यथा कादाचित्कस्य घटादेस्त्रैकालिकप्रतिषेधरूपस्वात्यन्ताभावविरहरूपत्वमिति । उक्तं चैतदभिप्रायेणैव न्यायामृते । ‘‘स्वकाले ह्यस्तितां गृह्णन् साक्षात्कार-स्त्रिकालगम् । प्रतिषेधं निरुन्धानो गृह्णात्येवात्यबाध्यताम्’’ इति । उक्तं च भक्तिपादीयसुधायाम् । घटादिसत्ताप्रतिषेधरूपस्य बाधस्य तत्सत्ताग्राहिणा प्रत्यक्षेण विरोधावश्यम्भावादिति ॥ व्याख्यातं चैतद्गुरुचरणैः कुत्रापि कदापि घटादेः सत्ता नास्तीत्येवमात्यन्तिकसत्ताप्रतिषेधरूपस्य बाधस्य कुत्रचित् कदाचित्तत्सत्ताग्राहिणा प्रत्यक्षेण साक्षाद्ग्राह्याभावावगाहित्वेन विरोधावश्यंभावादित्यर्थ इति । चक्षुरादिबाह्यप्रत्यक्षाभिप्रायेणेदमुपपादितम् । अतीतानागतवर्तमानरूपकालत्रयावगाहिसाक्षिप्रत्यक्षं तु स्वविषयस्य गगनादेस् त्रिकालाबाध्यत्वरूपं सत्त्वं साक्षादेव गृह्णाति । एवं मानसप्रत्यक्षमपि न वर्तमानग्राहि । यथोक्तमनुव्याख्याने । ‘‘प्रत्यक्षं मानसं चैव यदाऽतीतार्थ-गोचरम् । तदा स्मृतिप्रमाणत्वम्’’ इति ॥

श्रीगुरुराजीयटिप्पणी

ननु प्रत्यक्षादीनां दृश्यात्वानुमानापेक्षया प्राबल्यानिर्णयात् कथं तद्बाधकत्वम् । प्राबल्येऽपि वा प्रत्यक्षादीनां प्रपञ्चस्वरूपमात्रविषयत्वा-द्दृश्यत्वानुमानस्य च तन्मिथ्यात्वविषयकत्वाद्भिन्नविषयतया परस्परवार्ता-नभिज्ञयोः कथं बाध्यबाधकभाव इत्याशङ्क्य प्राबल्यं तावदुपपादयति ॥ यथायथमिति ॥ अन्यथाऽश्रयहीनत्वप्रसङ्गादिति भावः । विरुद्धार्थतामुप-पादयति ॥ तानि चेति ॥ यद्यपि स्तम्भोऽयमित्यादिप्रतीतिर्न सदित्येव-माकारा । तथापि स्तम्भादीनां सद्विशेषत्वान्न सत्तां व्यभिचरति । अस्ति च सदित्यपि प्रतीतिः । अतः सर्वथा प्रत्यक्षादिभिः प्रतीयमानं वस्तु सदित्येव प्रतीयत इति प्रत्यक्षादिविरोधोऽनुमानस्येति भावः । ननु मिथ्यात्वानुमानस्य न प्रत्यक्षादिविरोधः । प्रत्यक्षादिगृहीतसत्वस्यानुमान-गृहीतप्रपञ्चमिथ्यात्वाविरोधित्वाद् अनुमानगृहीतमिथ्यात्वविरोधि सत्वस्य च प्रत्यक्षादिनाऽग्रहादित्यभिप्रायेण सत्वमाक्षिपति ॥ नन्विति ॥ इयं सत्ता का ? न कापीत्यर्थः । तथाहि किं सत्ता परजातिरुतासद्विलक्षणत्वमर्थ-क्रियाकारित्वं वाऽबाध्यत्वं वा । नाद्यः । तथा सति मिथ्यात्ववादिना मया प्रपञ्चेत्यभ्युपगतपरजात्यादिरूपसत्ताया एव प्रत्यक्षादिना ग्रहणेन प्रत्यक्षा-देरनुमानगृहीतमिथ्यात्वविरोधिसत्वग्राहकत्वाभावेन प्रत्यक्षादेरनुमान-बाधकत्वाभावापत्तेः । न चतुर्थः । बाधस्य प्रतिपन्नोपाधौ त्रैकालिकसत्य-तन्निषेधरूपत्वेन सत्यतानिरूप्यत्वात् । अबाध्यत्वरूपसत्यतायाश्च बाध-निरूप्यत्वेनान्योन्याश्रयापातात् । वर्तमानमात्रग्राहिप्रत्यक्षस्य तात्कालिका-बाधग्राहकत्वेऽपि त्रिकालाबाध्यत्वाग्राहकतयाऽनुमानबाधकत्वानुपपत्तेश्चेति शङ्काभिप्रायः । परेण ब्रह्मण्यङ्गीकृतायास्त्रिकालाबाध्यत्वलक्षणसत्यताया एव मयापि प्रपञ्चे तत्वेनाङ्गीकारात् । प्रतिपन्नोपाधौ त्रैकालिकनिषेधमात्रस्य वा विज्ञानेन निवृत्तेरेव वा बाधत्वाभ्युपगमेन तस्य सत्ताघटितत्वाभावेना-न्योन्याश्रयाप्रसङ्गात् । तादृशसत्तायाश्चानुमानगृहीतमिथ्यात्वविरोधित्वेन तद्ग्राहकप्रमाणबाधो दृश्यत्वानुमानस्य न दुष्परिहार एवेत्याशयवान् परकीयब्रह्मणि त्रिकालाबाध्यत्वरूपसत्यताङ्गीकारं परमुखेनैव वाचयितुं गूढाभिसन्धिरुत्तरमाह ॥ ब्रह्मणीति ॥ या यादृशी सा तादृशी । ‘‘यादृशं ब्रह्मणस्सत्वं तादृशं स्याज्जगत्यपि’’ इति वचनादित्याशयः । आशय-मजानानः शङ्कते ॥ त्रिकालेति ॥ ब्रह्मणि त्रिकालाबाध्यत्वलक्षणा सत्यता मयाङ्गीक्रियते । न च सैव च त्वया जगत्यङ्गीकर्तुं शक्यते । तथा सति तस्य वर्तमानमात्रग्राहिप्रत्यक्षग्राह्यत्वाभावेन दृश्यत्वानुमानस्य प्रत्यक्षेण बाधाभावप्रसङ्गादित्यर्थः । प्रत्यक्षस्य वर्तमानमात्रग्राहित्वेन त्रिकाला-बाध्यत्वाग्राहकत्वेन दृश्यत्वानुमानाभावस्य प्रत्यक्षेण बाधाभावेऽपि नास्माकं काचित् क्षतिः । आगमस्यैव ब्रह्मणीव प्रपञ्चेऽपि त्रिकालाबाध्यत्व-ग्राहकत्वेन दृश्यत्वानुमानस्यागमबाधितताया अवर्जनीयत्वादित्यभिप्रेत्या-गमस्य त्रिकालाबाध्यताग्राहकतां परमुखेनैव वाचयितुं ब्रह्मणि तादृश-सत्ताग्राहकं प्रमाणमाक्षिपति ॥ न हीति ॥ कुतः सिद्धेति ॥ न कुतोऽपि । प्रत्यक्षादिभिस्तत्सिद्धेरसम्भवादन्यस्य च साधकस्याभावा-दित्यर्थः । न च प्रत्यक्षादेस्सर्वस्य त्रिकालाबाध्यत्वाग्राहकतां ब्रूमः । येनोक्तदोषः प्रसज्येत । किन्नाम, वर्तमानमात्रग्राहित्वात् प्रत्यक्षस्य तद्ग्राहकत्वं नास्तीति । आगमस्य तु त्रिकालाबाध्यत्वग्राहकत्वमभ्युपगम्यत एव । ततश्च ब्रह्मणः प्रत्यक्षेणोक्तरूपसत्यतासिध्यसम्भवेऽपि आगमेनैव तत्सिद्धिसम्भवान्न तदसिद्धिप्रसङ्ग इत्याशयेन शङ्कते ॥ तत्सत्यमित्यादि-वाक्यादिति ॥ हन्तैवं प्रत्यक्षेण प्रपञ्चस्योक्तरूपसत्वसिध्यसम्भवेऽपि ब्रह्मवदागमेन तत्सिद्धिसम्भवादागमबाधो दृश्यत्वानुमानस्येति यदिष्ट-सिद्धिरिति स्वाशयं सिद्धान्त्युद्घाटयति ॥ तदिति ॥ विवक्षितार्थे मूलकारीय ज्ञापकमाह ॥ तदिदमुक्तमिति ॥ तस्यान्वयोपपत्तिशङ्कानिरासेनोक्तार्थ-ज्ञापकतामुपपादयति ॥ अन्यथेति ॥

ननु कुतोऽत्र प्रत्यक्षबाधपरित्यागाश्रयणम् । प्रत्यक्षस्य वर्तमानमात्र-ग्राहित्वेन त्रिकालाबाध्यत्वासम्भवादेवेति चेन्न । प्रत्यक्षस्य वर्तमानमात्र-ग्राहकत्वनियमस्यैवासिद्धेः । स हि किं चक्षुरादिप्रत्यक्षमधिकृत्य वाऽभिमतः मानसप्रत्यक्षं वा साक्षिप्रत्यक्षं वा । नाद्यः । मानत्वं प्रत्यभिज्ञाया अपि सर्वानुभूतिगम् । अतीतवर्तमानत्वधर्मिणी सा न दृश्यत इत्यादिना भक्तिपादे चक्षुरादिप्रत्यक्षस्य वर्तमानमात्रग्राहकत्वनियमाभावस्याचार्यैरुपपादितत्वेन तदसम्भवात् । न द्वितीयः । ‘प्रत्यक्षं मानसं चैव यदाऽतीतार्थगोचरम् । तदा स्मृतिप्रमाणत्वमतीतत्वविशेषितम्’ इत्यादिना तत्रैव मानसप्रत्यक्षस्यापि तन्नियमाभावस्य समर्थनात् । न तृतीयः ॥ तच्चेन्नोत्तरगोचरम् । कथ-मेवोत्तरः कालस्तद्गो मोक्षस्य गृह्यत इत्यादिनाऽतो न वर्तमानैकनियमः स्याद्ग्रहेक्षज इत्यन्तेन ग्रन्थेन साक्षिप्रत्यक्षस्य तन्नियमनिराकरणेन तदसिद्धेः । तस्मादुक्तनियमो न स्वसम्मतः । नापि परसंमतः । तथा सति रूप्यादेः प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वरूपमिथ्यात्वस्याप्रत्यक्षत्व-प्रसङ्गात् । तस्मात्स्वपरासम्मतेरुक्तनियम एवासिद्धः । अस्तु वा तन्नियमः । तथापि प्रत्यक्षबाधोऽवर्जनीय एव । वर्तमानमात्रावगाहित्ववादिनाऽपि प्रत्यक्षस्य वर्तमानकालीनबाधाभावावेदकस्याभ्युपगमादनुमानस्य च वर्तमानकालीनविश्वबाधग्राहकत्वात् । ततश्च विरुद्धार्थयोः प्रबलदुर्बलयोश्च प्रत्यक्षानुमानयोः कथं न बाध्यबाधकभावः । अथानुमानमागामिनमेव विश्वस्य बाधं बोधयति । न त्वधुनातनम् । प्रत्यक्षं चेदानीन्तनमेव बाधा-भावं गृह्णाति । न त्वागामिनम् । न च भिन्नविषययोर्विरोधोऽस्ति । तथा सतीदानीन्तनघटाभावग्राहिणा प्रत्यक्षेण भविष्यति घट इत्यनुमानस्यापि विरोधप्रसङ्गात् । तत्कथं बाध्यबाधकभाव इति चेन्न । बाधस्य प्रतिपन्नोपाधौ त्रैकालिकसत्तानिषेधरूपत्वात् तन्निषेधस्य च वर्तमान-कालीनसत्ताग्राहिणा प्रत्यक्षेण विरुद्धत्वावश्यम्भावेन तद्बोधकस्यानुमानस्य प्रत्यक्षबाधापरिहारः स्यात् । साक्षिणः साक्षात्स्वविषयगगनादिबाधाभाव-ग्राहकतया विषयबाधमनन्तर्भाव्य प्रामाण्यग्रहणानुपपत्तेर्निर्दोषतद्धीप्रामाण्य-ग्रहणद्वारा स्वविषयघटादिबाधाभावग्राहकतायाः ‘सत्यत्वं गगनादेश्च साक्षि-प्रत्यक्षसाधितम्’ इत्यादिना बहुषु स्थलेषु व्युत्पादनाच्च । तत्कथमेतदित्यतः सत्यमेवं वस्तुगतिः । यत्प्रत्यक्षं त्रिकालाबाध्यत्वग्राहकमेवेति । अयं तु ग्रन्थः प्रत्यक्षस्य वर्तमानमात्रग्राहित्वनियमं तत एव च प्रत्यक्षस्य त्रिकाला-बाध्यत्वग्राहकत्वं चाङ्गीकृत्य प्रवृत्त इत्यविरोध इत्याशयेनाह ॥ अङ्गीकार-वादश्चायमिति ॥ अन्यत्रानुव्याख्यानप्रमाणलक्षणादावित्यर्थः ।

मिथ्यात्वानुमानखण्डनपरशुः

अनुमानस्यानवसर इति । संज्ञैषा पूर्वाचार्यस्य प्रमाणबाध-तत्प्रतिरोधयोः ॥ एतेन बाधप्रतिबाधयोरिवासिद्ध्यादेरपि अनुमानावसर-विघातकत्वेन अनुमानस्य अनवसरत्वाद् अनुमानस्यानवसर द्वैविध्यकथन-मयुक्तमिति परास्तसंज्ञायाः पुरुषेच्छाधीनत्वेन सर्वेषामपीयं संज्ञा स्यादिति शङ्कानवकाशात् ॥ ब्रह्मणीति ॥ ब्रह्मणि या स्वरूपसत्ताऽङ्गीकृता सैव तत्सदृशस्वरूपसत्तेत्यर्थः । एतेन परेण ब्रह्मणो निर्धर्मत्वाङ्गीकाराद् ब्रह्मणि या अङ्गीकृता इत्यनुपपन्नम् । तथा धर्माणां प्रातिस्विकत्वात् सैवेत्यनु-पपन्नमिति चोद्यं परास्तम् । न प्रत्यक्षादिगोचर इति । धर्मिग्राहक-प्रत्यक्षानुमानागमागोचरो न भवतीत्यर्थः । कालत्रयाबाध्यत्वलक्षणेति-विशेषणं वर्तमानमात्रग्रहणस्वभावत्वान्न प्रत्यक्षस्य तद्ग्राहकत्वम् । यज्जन्यं महत्वाधिकरणं तत् कालत्रयाबाध्यं सर्वावयवारब्धमिति व्याप्तिग्रहाभावात् । प्रत्युत निर्विशेषेण सावयवारब्धत्वेन व्याप्तिग्रहणात् । अनुमानं न कालत्रयाबाध्यत्वग्रहजनकम् । स्वर्गादिस्वरूपप्रतिपादकं वाक्यं कालत्रया-बाध्यत्वबोधकपदाभावान् न कालत्रयाबाध्यत्वग्रहजनकमिति सूचनायेति दृष्टव्यम् ॥ तर्हीति यदि सत्ता न धर्मिग्राहकमानगोचरा तर्हि ब्रह्मणोऽपि कुतः सिद्धेत्यर्थः । न ब्रह्मणो धर्मिग्राहकमानेन सत्ता सिद्धा भवति । किन्तु तटस्थेनागमेनेति शङ्कते ॥ तत्सत्यमित्यादीति ॥ तटस्थागमेनैव बाधात् कालात्ययापदिष्टमनुमानं भवति । किं धर्मिग्राहकस्य सत्ताग्राहकता-व्युत्पादनप्रयासेनेति भावेनाह ॥ तत्प्रकृत इति ॥ उपपादितमन्यत्रेति ॥ ‘सत्यत्वं गगनादेश्च साक्षिप्रत्यक्षसाधितम्’ इमत्यादावित्यर्थः ।

विश्वमिथ्यात्वानुमाने प्रकरणसमदोषः

टीका

प्रतिरोधोऽपि द्विविधस् तेनैव हेतुना हेत्वन्तरेणेति । तत्राद्य-स्यान्तरङ्गत्वात्प्रथमं तमाह–

मिथ्यात्वानुमानखण्डनम्

‘रजतं दृष्टम्’ इति भ्रममात्रत्वात् ‘विमतं सत्यं दृश्यत्वादात्मवत्’ इत्यपि प्रयोज्यत्वात् प्रकरणसमः

टीका

‘विमतम्’ इति पूर्ववद्व्याख्येयम् । सत्यं कालत्रयाबाध्यम् । आत्मनोऽपि दृश्यत्वस्योपपादितत्वान्न दृष्टान्तः साधनविकलः । ‘इत्यपि प्रयोज्यत्वात्’ प्रपञ्चमिथ्यात्व इव तत्सत्यत्वेऽपि दृश्यत्वस्य प्रयोक्तुं शक्यत्वात् ।

शुक्तिरजते दृग्विषयत्वरूपदृश्यत्वाभावसमर्थनं

ननु मिथ्याभूतेऽपि शुक्तिरजते वर्तमानं दृश्यत्वं कथं प्रपञ्च-सत्यतासिद्धौ प्रयोक्तुं शक्यते ? इति । अत उक्तं ‘रजतम्’ इत्यादि । इदमत्राकूतम् । दृग्विषयत्वं हि दृश्यत्वमत्राभिमतम् । ‘यत्सन्निकृष्टकरणेन यज्ज्ञानमुत्पद्यते स तस्य विषयः’ इति अनित्य ज्ञाने व्यवस्था । रजतज्ञानं च शुक्तिसन्निकृष्टेन्द्रियेण जातमिति सैव तस्य विषयः ।

दृग्व्यावर्तकत्वरूपदृगुल्लेख्यत्वमेव शुक्तिरजतस्येति समर्थनम्

अत एव ‘अन्यद् अन्यात्मना अवगाहते’ इति भ्रमः । तथा च ‘रजतं दृष्टम्’ इति योऽयमनुव्यवसायः स च भ्रम एव । न च भ्रान्तिकल्पितेन विपक्षवृत्तित्वेन लिङ्गस्य व्यभिचारो भवति । तथा सति सर्वानुमानोच्छेदप्रसङ्गात् ।

शुक्तिरजते दृग्विषयत्वरूपदृश्यत्वाभावे विरोधाद्युद्भावनानुपपत्तिशङ्का तन्निरासश्च

दृग्विषयत्वाभावेऽपि दृग्व्यावर्तकत्वमात्रमसतोऽपि शुक्ति-रजतस्यास्तीति तदभ्युपगमेन न विरुद्धादिवादविरोध इति । नन्वनैकान्त्यं दृष्टान्तस्य साधनवैकल्यं चानाश्रित्य न प्रकरण-समप्रवृत्तिरिति ताभ्यामेवालम् । किमनेन ? मैवं तथा सति हेतु-दोषमनाश्रित्य दृष्टान्तदोषाप्रवृत्तेः सोऽप्यनुपसङ्ख्येयः स्यात् । स्फुट-प्रतिभासवशात्तत्परिग्रहे प्रकृतेऽपि समानम् । वस्तुतस्तु नेय-माचार्यप्रक्रिया । विरुद्धानैकान्तिकादिवत् परपरिकल्पितरीत्या व्यवहार इति ।

मन्दारमञ्जरी

अन्तरङ्गत्वादिति ॥ दूष्यानुमानातिरिक्तहेतुनिरपेक्षत्वादित्यर्थः । ननु ‘प्रयोग्यत्वात्’ इति वक्तव्यम् । ‘चजोः कु घिण्यतोः’ इति कुत्व-विधानादिति । अत उक्तं ‘प्रयोक्तुं शक्यत्वात्’ इति । ‘प्रयोज्यनियोज्यौ शक्यार्थे’ इति शक्यार्थे प्रयोज्यशब्दस्य निपातितत्वात्साधुत्वमित्यभिप्रायः ।

ननु सिद्धान्तिनाऽपि वस्तुतो रजतस्य दर्शनाङ्गीकारात् कथं तस्य भ्रान्तिसिद्धत्वमुक्तम् ? इति । अत आह ॥ इदमत्राकूतमिति ॥ नित्यज्ञानस्योत्पत्त्ययोगान्नित्यज्ञानविषये अव्याप्तिनिरासाय नित्यज्ञान इत्युक्तम् ॥ शुक्तिसन्निकृष्टेति ॥ आरोपितस्य रजतस्य इन्द्रिय-सन्निकर्षायोगादित्यर्थः ।

ननु रजतज्ञानं कथं शुक्तिविषयं स्यात् ? अन्यज्ञानस्यान्य-विषयत्वायोगादिति चेद् रजतज्ञानमिति कोऽर्थः ? किं रजतसम्बन्धि-ज्ञानमिति ? किं वा रजतसन्निकृष्टकरणजन्यज्ञानमिति ? यद्वा रजतोल्लेखिज्ञानमिति ? नाद्यश् चक्षुरादिजन्यतया जन्यजनकभावसम्बन्धेन चक्षुरादिसम्बन्धिनोऽपि ज्ञानस्य रूपादिविषयत्वोपलम्भात् । न द्वितीय आपादकासिद्धेरुक्तत्वात् । तृतीयं दूषयति ॥ अत एवेति ॥ अत एव उल्लेख्येन्द्रियसन्निकृष्टयोर्भेदादेव अन्यद् इन्द्रियसन्निकृष्टं शुक्त्यादि अन्यात्मना इन्द्रियासन्निकृष्टरजतात्मना अवगाहते उल्लिखतीति कृत्वा भ्रमत्वम् । इन्द्रियसन्निकृष्टस्यैवोल्लेख्यत्वे सन्मात्रोल्लेखित्वेन भ्रान्तित्वा-योगादित्यर्थः ।

एतेन ‘‘रजतस्याविषयत्वे ‘रजतस्य ज्ञानम्’ इति षष्ठ्यर्थो न निरूपितः स्यात् । विषयविषयिभावातिरेकेण षष्ठ्यर्थस्य सम्बन्धस्याभावात्’’ इति निरस्तम् । उल्लेख्योल्लेखिभावसम्बन्धस्य षष्ठ्यर्थत्वात् । न च तद्विषय-त्वातिरिक्तं तदुल्लेख्यत्वं नास्तीति युक्तम् । उक्तरूपविषयताहीनस्यापि रजतस्य व्यावर्तकतामात्ररूपोल्लेख्यत्वानुभवात् । न च ‘मया हेतूकृतं दृश्यत्वं न दृग्जनककरणसन्निकृष्टत्वम् । किं तु ? तदुल्लेख्यत्वमेव । त्वयाऽपि सत्यत्वे तदेव हेतूकर्तव्यम् । अन्यथा प्रकरणसमत्वायोगात् । न ह्यर्थभेदेऽपि शब्दैक्यमात्रेण प्रकरणसमता । तथा च सत्यत्वसाधक-दृश्यत्वहेतोः शुक्तिरूप्ये व्यभिचारः’ इति साम्प्रतम् । यदि दृश्यत्वं दृग्जनककरणसन्निकृष्टत्वं तदा प्रकरणसमता । यदा दृग्व्यावर्तकत्वमात्रं तदा विरुद्धत्वादिरिति पक्षभेदेन प्रकरणसमताभिधानात् । अत एव वक्ष्यति तदभ्युपगमेन न विरुद्धादिवादविरोध इति । दृग्व्यावर्तकत्वमात्र-स्यात्मन्यपि विद्यमानतया त्वया तस्य हेतूकर्तुमशक्यत्वाच्च ।

‘रजतं दृष्टम्’ इत्यनुव्यवसायस्य बाधकाभावेन भ्रान्तित्वानुपपत्तिशङ्का तन्निरासश्च

स च भ्रम एवेति ॥ ननु कथमेतत् ? बाधकं विना भ्रान्तित्वायोगात् । न चारोपितस्य करणसन्निकर्षो नास्तीति युक्तिर्बाधिका । प्रत्यक्षविरोधेन युक्त्यप्रामाण्यस्यैव न्याय्यत्वात् । स्वमते अनुव्यवसायस्य नियतप्रामाण्य-साक्षिरूपत्वेन तदप्रामाण्येऽपसिद्धान्तश्च । क्वचिज्ज्ञानगतप्रामाण्ये सन्देहा-दिना तस्य मानसत्वेऽपि ज्ञानमात्रे क्वचिदपि सन्देहाद्यभावेन तस्य सर्वत्र साक्षिवेद्यतानियम इति हि स्वसिद्धान्त इति चेन् मैवं, भावानवबोधात् । ‘रजतं दृष्टम्’ इति रजतावच्छिन्नं दर्शनमेवानुभूयते । न तु दर्शनस्य रजतसन्निकृष्टेन्द्रियजन्यत्वम् । जन्यजनकभावस्य सर्वत्रान्वय-व्यतिरेकावसेयत्वेन तस्याप्रत्यक्षत्वात् । अथापि स साक्षिवेद्य इत्यङ्गीकारे निरवकाशयुक्त्या सावकाशसाक्षिणो बाधिततया जन्यजनकभावे अनु-व्यवसायो भ्रमः स्यादित्यापादनं ह्यत्राभिप्रेतमिति न कोऽपि दोष इति ॥ नन्वनैकान्त्यमिति ॥ एतदनुमाने सपक्षस्य ब्रह्मणो दूष्यानुमानविपक्षत्वाद् अस्य सपक्षवृत्तित्वं दूष्यानुमानस्य विपक्षवृत्तित्वं विना नोपपद्यते’ इति दूष्यानुमानानैकान्तिकत्वमस्योपजीव्यम् । तथैतदनुमानविपक्षस्य शुक्तिरूप्यस्य दूष्यानुमानदृष्टान्ततया अस्य विपक्षाद्व्यावृत्तिर्दूष्यानुमान-दृष्टान्तस्य साधनवैकल्यं विना नोपपद्यते’ इति दूष्यानुमानदृष्टान्तसाधन-वैकल्यमस्योपजीव्यमित्यर्थः ॥ हेतुदोषमिति ॥ साध्यवैकल्यं हि दृष्टान्तस्य साधारणानैकान्तिकतामाश्रित्य प्रवर्तते । साध्यविकलदृष्टान्तस्यैव विपक्षतया तद्वृत्तेर्हेतोरनैकान्तिकतावश्यम्भावात् । साधनवैकल्यं तु असाधारणा-नैकान्तिकतामाश्रित्य प्रवर्तते । दृष्टान्ते साधनाभावे विपक्षादिव सपक्षादपि व्यावृत्त्यवश्यम्भावादित्यादेरिति भावः ॥ सोऽप्यनुपसङ्ख्येयस्स्यादिति ॥ उपसङ्ख्यातश्च भासर्वज्ञादिभिरिति शेषः । नैयायिकैकदेशिभिरुदाहरणाभासः पृथङ्नोपसङ्ख्यातः । तान्प्रति व्याप्यत्वासिद्धिमनाश्रित्य विरुद्धाद्यप्रवृत्तेर् विरुद्धाद्यपि न पृथगुपसङ्ख्येयं स्यादिति वक्तव्यम् ॥ वस्तुतस्तु नेयमिति ॥ आचार्यमते असिद्ध्यव्याप्त्योरेव हेतुदोषत्वादिति भावः ।

श्रीनिवासतीर्थीयटिप्पणी

अन्तरङ्गत्वादिति । दूष्यानुमानातिरिक्तहेतुनिरपेक्षत्वादित्यर्थः ॥ पूर्ववदिति । विमतं मिथ्येत्यत्र विमतपदव्याख्यानन्यायेनेत्यर्थः । तथाहि । सर्वं सत्यमित्युक्ते शुक्तिरजतादौ बाधो ब्रह्मणि सिद्धसाधनता च स्यात् । अतो विमतमित्युक्तम् । विमतेरनेकविधत्वेऽपि साध्यविशेषोपादानात्त-द्विशेषसिद्धिः । तथा च सत्यत्वमिथ्यात्वाभ्यां विप्रतिपत्तिविषयीभूतं वियदादीत्युक्तं भवति । तथा यदि वियदादिरूपविश्वमेव न स्यात्तदा किमाश्रयिणी विप्रतिपत्तिः स्यात् । यदि च तत्सत्यत्वं सिद्धं भवेत्तदा कथं विप्रतिपत्तिः स्यात् । एककोटेर्निश्चितत्वात् । यदि वा सत्यत्वमप्रसिद्धं भवेत्तदापि कथं विप्रतिपत्तिः स्यात् । कोटेरप्रसिद्धत्वादित्येवमाश्रया-सिद्धिसिद्धसाधनताऽप्रसिद्धविशेषणत्वरूपप्रतिज्ञादोषोद्धारोऽपि विमतग्रहणेन सूचित इत्यपि द्रष्टव्यम् । व्यावहारिकसत्यत्वस्य परेणाप्यङ्गीकृतत्वादाह ॥ सत्यं कालत्रयाबाध्यमिति ॥ दृष्टान्तभूते आत्मनि दृश्यत्वस्य परेणा-नङ्गीकारात्साधनवैकल्यमित्यत आह ॥ आत्मनोऽपीति ॥ प्रयोज्यत्वादिति पदं व्याख्याति ॥ प्रयोक्तुं शक्यत्वादिति । प्रयोज्यनियोज्यौ शक्यार्थ इति सूत्रेण शक्यार्थे प्रयोज्यशब्दनिपातनादिति भावः । मिथ्याभूत इति । विपक्ष इत्यर्थः । तथा च व्यभिचरितत्वान्न सत्यत्वसाधकत्वमिति भावः ।

ननु शुक्तिरजते दृश्यत्वहेतोरभावान्न व्यभिचार इत्यत्रोच्यते । प्रागनिर्वचनीयासिद्धेरेव सपक्षाभावाद्विरुद्ध इति ग्रन्थेनानिर्वचनीयस्या-प्रसिद्धत्वेन सपक्षाभावाद्वियदादिव्यतिरिक्तं सर्वं विपक्ष इति दृश्यत्वस्य शुक्तिरजतादौ विपक्षे वर्तमानत्वेन साध्यविपरीतव्याप्त्या दृश्यत्वहेतुर्विरुद्ध इति दृश्यत्वस्य शुक्तिरजते सत्वमुक्तं तथा आत्मनोऽपि दृश्यत्वादनै-कान्तिकता चेत्यनैकान्तिकत्वोक्त्या च तत्रापिशब्देन दृश्यत्वस्य सपक्षभूतशुक्तिरजतादौ सत्वस्योक्तत्वात् । अतः पूर्वोत्तरग्रन्थविरोध इत्यत आह ॥ इदमत्राकूतमिति । दृग्विषयत्वं ज्ञानविषयत्वं किं तद्विषयत्व-मित्यत आह ॥ यत्सन्निकृष्टेति । नन्वेवं तर्हि नित्यज्ञानविषये अति-व्याप्तिरित्यत उक्तम् ॥ अनित्यज्ञान इति । अनित्यज्ञानविषयस्यैवेदं लक्षणमिति नातिव्याप्तिरित्यर्थः ॥ रजतज्ञानं चेति । रजतोल्लेखिज्ञान-मित्यर्थः ॥ शुक्तिसन्निकृष्टेनेति । आरोपिततया अत्यन्तासता रजते-नेन्द्रियस्य सन्निकर्षायोगादिति भावः । तस्य ज्ञानस्य ॥ अत एवेति । अत एव उल्लेख्येन्द्रियसन्निकृष्टयो रजतशुक्तिकाशकलयोर्भेदादेव । अन्यद् इन्द्रियसन्निकृष्टशुक्तिकाशकलम् अन्यात्मना इन्द्रियासन्निकृष्टरजतात्मनाऽव-गाहते उल्लिखतीति कृत्वैव रजतज्ञानस्य भ्रमत्वम् । इन्द्रियसन्निकृष्टस्यैवो-ल्लेख्यत्वे सन्मात्रोल्लेखित्वप्रसङ्गेन भ्रमत्वायोगादित्यर्थः ।

नन्वेवं सति रजतस्य ज्ञानविषयत्वाभावे रजतं दृष्टमिति रजतज्ञानस्य रजतसन्निकृष्टेन्द्रियजन्यत्वावगाह्यनुव्यवसायविरोधः । तेन रजतस्य ज्ञान-विषयत्वप्राप्तेरित्यतो रजतं दृष्टमिति भ्रममात्रत्वादित्यंशः प्रवृत्त इत्यभि-प्रेत्याह ॥ तथा चेति । दृष्टं ज्ञानविषयीकृतमित्यर्थः ॥ अनुव्यवसाय इति । रजतस्य ज्ञानविषयत्वावगाहीत्यर्थः । ज्ञानज्ञानमनुव्यवसायशब्दार्थः ॥ स भ्रम एवेति ।

ननु पराभिमतानुव्यवसाय एवास्माकं साक्षी तस्याव्यभिचारितया प्रामाण्यनियमेन तस्य भ्रमत्वोक्तावपसिद्धान्त इति चेत् । उच्यते । इदं रजतमिति ज्ञानस्वरूपमात्रमेव साक्षिवेद्यं तत्र क्वचिदपि संदेहाभावेन तस्य सर्वत्र साक्षिवेद्यतानियमात् । तस्य ज्ञानस्य दृष्टमिति रजतसन्निकृष्ट-करणजन्यत्वेन रजतविषयत्वावगाही योऽनुव्यवसायः स मानस एव । न साक्षिरूपः । यत्क्वचिद्व्यभिचारि स्याद्दर्शनं मानसं हि तत्’ इत्यनुव्याख्या-नोक्तेरिति ज्ञातव्यमिति सम्प्रदायः । एतादृशानुव्यवसायस्य साक्षिरूपत्वेऽपि न दोषः । आरोपितस्य करणसन्निकर्षायोगादिति निरवकाशयुक्त्या साक्षिणो बाधिततया रजतसन्निकृष्टेन्द्रियजन्यत्वांशे साक्षिणो भ्रमत्वमेवेत्याहुः ।

ननु यथाकथंचिद् दृग्विषयत्वरूपदृश्यत्वस्य शुक्तिरजते सत्वाद्व्यभिचार इति चेत्तत्राह ॥ न चेति ॥ सर्वानुमानेति । भ्रान्तिकल्पितस्य धूमस्य ह्रदेऽपि सत्वादिति भावः । नन्वेवं सति प्राक् शुक्तिरजतस्यापि दृश्यत्व-मङ्गीकृत्य विरुद्धत्वोक्तिविरोध इत्यतस्तं परिहरति ॥ दृग्विषयत्वा-भावेऽपीति । तत्सन्निकृष्टकरणजन्यत्वरूपज्ञानविषयत्वाभावेऽपीत्यर्थः ॥ दृग्व्यावर्तकत्वमात्रमिति । दृगुल्लेख्यत्वरूपं यद् दृग्व्यावर्तकत्वं तन्मात्ररूपं दृश्यत्वमित्यर्थः । ननु व्यावर्तकत्वं नाम व्यावृत्तिप्रत्ययजनकत्वम् । तच्च पूर्ववृत्तित्वरूपेण सत्तागर्भम् । तथा चासतो रजतस्य एतादृशं व्यावर्तकत्वं कथमिति चेत् । उच्यते । व्यावर्तकत्वं नाम न व्यावृत्तिप्रत्ययजनकत्वं किं तु व्यावृत्तिधीजनकज्ञानविषयत्वमेव । कुत इति चेत् । देवदत्ते दण्डे सत्यपि तदज्ञाने दण्डिव्यावृत्त्यज्ञानात् । व्यावृत्तिधीजनकं ज्ञानं तु सत्यमेव । तथा चासतोऽपि रजतस्य व्यावृत्तिधीहेतुभूतज्ञाने उल्लेख्यमानत्व-रूपविषयत्वसद्भावेन तद्व्यावर्तकत्वं युक्तमिति न कश्चिद्दोषः ॥ तदभ्युप-गमेनेति । एतादृशं दृश्यत्वमङ्गीकृत्य पूर्वं विरुद्धानैकान्तिकत्वे अभिहिते ।

अतो न विरुद्धादिवादविरोधः । विरुद्धानैकान्तिकत्वोक्तिविरोधो नास्तीत्यर्थः ।

ननु प्रपञ्चमिथ्यात्वसाधनाय मयोपन्यस्तं दृश्यत्वं न दृग्जनक-करणसन्निकृष्टत्वरूपं विवक्षितम् । किंतु भवदुक्तरीत्या दृग्व्यावर्तकत्वरूपं तदुल्लेख्यत्वमेव । भवद्भिरपि सत्यत्वे तदेव हेतूकर्तव्यम् । अन्यथा तेनैव हेतुना प्रतिरोधरूपप्रकरणसमाभिधानायोगात् । न चार्थभेदेऽपि शब्दैक्य-मात्रेण प्रकरणसमतोक्तेति वाच्यम् । शब्दसाम्येन चेत्पृथिव्या गोत्वात् शृृङ्गं समापतेत् । अतः सत्यत्वसाधकस्य दृग्व्यावर्तकत्वरूपं यद्दृगुल्लेख्यत्वं तद्रूपस्य दृश्यत्वस्य शुक्तिरूप्ये (सत्वात्) व्यभिचारः प्राप्त एवेति चेन्न । अस्मदनुमाने व्यभिचारदानाय दृश्यत्वस्यास्मदुक्तरीत्या निर्वचनाङ्गीकारे ब्रह्मण्यपि एतादृशदृश्यत्वस्य सद्भावेन व्यभिचारप्राप्त्या मिथ्यात्वसाधनाय हेतूकर्तुमशक्यत्वाद् इत्यालोचनीयम् ॥

नन्वनैकान्त्यमिति । विमतं मिथ्या दृश्यत्वादित्यनुमानस्य विमतं सत्यं दृश्यत्वादिति तेनैव हेतुना प्रकरणसमरूपं यत्प्रतिरोधानुमानं तत्र दूष्यानु-माने ब्रह्मणो विपक्षत्वेन तत्र दृश्यत्वसद्भावादनैकान्तिकत्वमायाति । तस्यैव ब्रह्मणः प्रकरणसमानुमाने सपक्षत्वात्तद्वृत्तित्वं दृश्यत्वस्य वक्तव्यम् । तथा च दूष्यानुमाने हेतोर्विपक्षवृत्तित्वं विना सत्प्रतिपक्षानुमाने सपक्षवृत्तित्वं नोपपद्यत इति दूष्यानुमाने अनैकान्तिकत्वं प्रकरणसमानुमानस्योपजीव्यम् । तथा दूष्यानुमाने सपक्षीभूतस्य शुक्तिरजतरूपदृष्टान्तस्य साधनवैकल्ये प्राप्ते प्रकरणसमानुमाने तस्य विपक्षतया हेतोस्तद्व्यावृत्तिः सिध्यति । अतो दूष्यानुमाने दृष्टान्तस्य साध्यवैकल्यं विना प्रकरणसमानुमानस्य विपक्षा-द्व्यावृत्तिर्न सिध्यतीति दूष्यानुमाने दृष्टान्तस्य साधनवैकल्यं प्रकरणसमानु-मानस्योपजीव्यमित्यनैकांत्यसाधनवैकल्याभ्यामेवालम् । मिथ्यात्वानुमानस्य दुष्टत्वमस्त्विति यावत् । किमनेन प्रकरणसमकथनेनेत्यर्थः । यो दोषो यद्दोषोपजीवनेन प्रवर्तते तस्यैव दोषत्वेन गणनां कृत्वा स एव वक्तव्यो न तदुपजीवी अन्य इत्यङ्गीकारे अतिप्रसङ्गमाह ॥ तथा सतीति । अनैकान्तिको द्विविधः । साधारणानैकान्तिकोऽसाधारणानैकान्तिकश्चेति । पक्षादित्रयवृत्तिहेतुः साधारणानैकान्तिकः । पक्षमात्रवृत्तिहेतुरसाधारणा-नैकान्तिकः । तत्र शब्दोऽनित्यः प्रमेयत्वादित्यत्र प्रमेयत्वहेतोर्विपक्ष-भूतगगनादिवृत्तित्वेनानैकान्तिकत्वे प्राप्ते सति तत्र साध्यवैकल्यं प्राप्तमेव तथा भूर्नित्या गन्धवत्त्वादित्यत्र गन्धवत्त्वस्य पक्षवृत्तित्वेन सपक्षे गगनादि-वृत्तित्वेनानैकान्तिकत्वे प्राप्ते सति तत्र साध्यवैकल्यं प्राप्तमेव तथा भूर्नित्यागन्धवत्त्वादित्यत्र गन्धवत्त्वस्य पक्षवृत्तित्वेन सपक्षे गगनादावसत्व-प्राप्त्या साधनवैकल्यं प्राप्तमेवेत्येवं साधारणानैकान्तिकत्वादिरूपं हेतुदोष-माश्रित्यैव साध्यवैकल्यादिरूपदृष्टान्तदोषप्रवृत्तेर्हेतुदोषेणैवालं किं दृष्टान्त-दोषेणेति दृष्टान्तदोषोप्यनुपसंख्येयः स्यात् । पृथग्गणनीयो न स्यात् । न चेष्टापत्तिः । भासर्वज्ञादिभिः पृथगुपसंख्यातत्वादिति भावः ।

ननूक्तरीत्या हेतुदोषाश्रयणेन दृष्टान्तदोषप्रवृत्तावपि दृष्टान्तदोषस्यैवादौ स्फुटं प्रतिभासमानत्वात्तस्यैव परिग्रहो न हेतुदोषस्येति चेत्समं प्रकृतेऽपि । उक्तरीत्या अनैकान्त्याद्याश्रयणेन प्रकरणसमप्रवृत्तावपि प्रकरणसमरूप-दोषस्यैवादौ स्फुटं प्रतिभासमानत्वात्स एवोक्त इत्यभिप्रेत्याह ॥ स्फुट-प्रतिभासेति ॥ नेयमिति । बाधप्रकरणसमयोर्हेतुदोषत्वोक्तिराचार्यप्रक्रिया तत्सिद्धान्तो न भवतीत्यर्थः । असिध्यव्याप्त्योरेव हेतुदोषत्वात् । बाध-सत्प्रतिपक्षयोः प्रतिज्ञादोषत्वेन हेतुदोषत्वाभावादिति भावः । ननु स्वप्रक्रियात्वाभावे आचार्याणां तदुक्तिर्व्यर्थेत्यत आह ॥ विरुद्धेति । विरुद्धानैकान्तिकयोर् यथा हेतुदोषत्वम् एवं बाधसत्प्रतिपक्षावपि तद्दोषाविति परकल्पितरीतिस्तथेत्यर्थः । तेन विरुद्धानैकान्तिकयोः कथं पररीत्या कल्पितत्वमिति शङ्कानवकाशः । आचार्यप्रक्रिया त्वित्थम् । त्रिविधोऽनु-मानविरोधः । प्रतिज्ञाविरोधहेतुविरोधदृष्टान्तविरोधभेदेन । प्रतिज्ञाविरोधो द्विविधः । प्रमाणविरोधः स्ववचनविरोधश्च । प्रमाणविरोधोऽपि द्विविधः । प्रबलप्रमाणविरोधः समबलप्रमाणविरोधश्चेति । समबलप्रमाणविरोधोऽपि द्विविधः । तेनैव हेतुना हेत्वन्तरेण चेति । हेतुविरोधोऽपि द्विविधः । असिद्धिरव्याप्तिश्चेति । अव्याप्तिस्त्रिविधा । लिङ्गस्य साध्येन तदभावेन च सम्बन्धः । साध्यसम्बन्धाभावे सति तदभावेनैव सम्बन्धः । उभयसम्बन्धा-भावश्चेति । एवं प्रक्रियायां सत्यामपि विरुद्धानैकान्तिकानध्यवसितानां यथापररीत्योक्तिः । एवं कालात्ययापदिष्टसत्प्रतिपक्षयोरपि हेतुदोषत्वं परपरिकल्पितरीत्यैवाङ्गीकृत्योक्तम् । स्वसिद्धैः साधनं परसिद्धैर्दूषणम् । स्वन्यायैः साधनं कार्यं परन्यायैस्तु दूषणमिति भगवत्पादैरेवोक्तत्वादिति द्रष्टव्यम् । विमतं सत्यमिति मूलस्य हेत्वन्तरेण प्रतिरोधमाहेत्यवतारिकायाः स्पष्टत्वादनुक्तिरिति ज्ञातव्यम् ।

श्रीगुरुराजीयटिप्पणी

यत्सन्निकृष्टकरणेति ॥ ज्ञानासाधारणकारणनिष्ठासाधारणकरण-सन्निकर्षप्रतियोगित्वं विषयत्वमिति लक्षणमत्र विवक्षितमिति स्वामिनः । अत्र सन्निकर्षस्य कारणत्वविवक्षयाऽऽकाशादिसन्निकृष्टचक्षुरादिजन्य-रूपादिज्ञानेऽऽकाशादेरपि रूपादिज्ञानकरणचक्षुरादिनिष्ठसन्निकर्ष-प्रतियोगित्वाद्विषयत्वप्रसङ्गनिरासः । चक्षुरादेराकाशादिना सन्निकर्षस्य रूपादिज्ञानकारणत्वाभावेन ज्ञानकारणसन्निकर्षप्रतियोगित्वस्य तत्राभावात् । करणासाधारणत्वविवक्षया चात्मसन्निकृष्टमनोजन्यरूपादिज्ञानेऽऽत्ममनः-सन्निकर्षस्य कारणत्वेन करणनिष्ठज्ञानकारणसन्निकर्षप्रतियोगित्वादात्मनो विषयत्वप्रसङ्गनिरासः । मनसो रूपादिज्ञानकरणत्वेऽपि साधारणत्वेना-साधारणकरणत्वाभावात् । सन्निकर्षासाधारण्यविवक्षया च मनःसन्निकृष्ट-चक्षुर्जन्यरूपज्ञाने चक्षुषोऽसाधारणकरणत्वेन तन्निष्ठज्ञानकरणमनःसंयोग-प्रतियोगित्वान्मनसो विषयत्वप्रसङ्गनिरासः । न चात्ममनःसन्निकर्षस्य साधारणकारणत्वात् सन्निकर्षासाधारण्यविवक्षयैव मनोजन्यरूपप्रतीतेरात्म-विषयकत्वासिद्धेः करणासाधारण्यविवक्षा वैयर्थ्यमिति वाच्यम् । चाक्षुष-ज्ञानत्वावच्छिन्ने चक्षुर्मनःसन्निकर्षस्याप्यसाधारणत्वेन चक्षुःसन्निकृष्टमनोजन्य रूपज्ञाने चक्षुषोऽविषयत्वाय करणासाधारण्यस्याप्यवश्यं विवक्षणीयत्वात् । न च तत्तदिन्द्रियमनःसंयोगानां तत्तज्ञानकारणत्वकल्पनस्यानेककारण-तदवच्छेदककल्पनया गौरवकारणत्वेन चाक्षुषज्ञानत्वावच्छिन्ने चक्षुर्मनः-संयोगस्याकारणत्वान् नायमतिप्रसङ्ग इति वाच्यम् । तथा सति गौरवादेव रूपचक्षुःसन्निकर्षादेरसाधारणकारणस्याकल्पनीयतया सन्निकर्षासाधारण्य-विवक्षायां रूपप्रतीते रूपविषयत्वाभावप्रसङ्गात् । न च यत्किञ्चिद्दण्डेन यत्किञ्चिद्घटवद् यत्किञ्चिदर्थेन्द्रियसन्निकर्षेणान्यविषयकज्ञानापत्त्या प्राग-भावस्येव तत्तदिन्द्रियार्थसन्निकर्षस्य तत्तज्ज्ञानहेतुताया अवश्यमङ्गी-कार्यत्वेऽप्यर्थसन्निकृष्टेन्द्रिये मनःसन्निकर्षस्य हेतुताभ्युपगमेऽतिप्रसङ्गाभावे-नात्र विशिष्य हेतुहेतुमद्भावस्य न कल्पना युक्ता । अन्यथा दण्डादावपि विशिष्य तत्कल्पनापत्तेरिति वाच्यम् । अर्थसन्निकर्षे स्वार्थसन्निकृष्टे चक्षुषि मनःसन्निकर्षाभावेऽपि तेन स्वार्थज्ञानापत्तिरूपातिप्रसङ्गस्यात्रापि सत्वात् । विस्तरस्तु वाक्यार्थचन्द्रिकायां द्रष्टव्यः ।

नन्वेवमपि प्रत्यभिज्ञाया इन्द्रियस्य तत्तया, लिङ्गज्ञानस्य लिङ्गिना, वाक्यज्ञानस्य च वाक्यार्थेनासन्निकर्षात्तत्राव्याप्तिरिति चेन्न । प्रत्यभिज्ञाया-मिन्द्रियस्य तत्तया संस्कारस्य, लिङ्गज्ञानस्य लिङ्गिना च तद्व्याप्तलिङ्ग-विषयत्वस्य, वाक्यज्ञानस्य वाक्यार्थेन च तत्परवाक्यविषयत्वस्यैव सन्नि-कर्षत्वेन तत्तादावप्युक्तलक्षणसद्भावात् । न चात्माश्रयः । तद्व्याप्त-विषयकत्वादेरसन्निकर्षत्वेनैव लक्षणशरीरप्रवेशाभ्युपगमादिति ध्येयम् ॥ दृग्व्यावर्तकत्वमात्रमसतोऽपि रजतस्यास्तीति ॥ ननु व्यावर्तकत्वमप्यसतो नाङ्गीकर्तुं शक्यम् । तद्धि व्यावृत्तिजननशक्तिमत्वं व्यावृत्तिबुद्धिजननशक्ति-मत्वं वा । न च शक्तिमतोऽभावे शक्तिः सम्भवतीति चेदत्र स्वामिनः । यथा ह्यतीताद्यर्थस्य न व्यावृत्तिजननशक्तिमत्वं व्यावृत्तिबुद्धिजननशक्तिमत्वं वाऽभ्युपगम्यते । किन्तु ज्ञानेऽन्यस्माद्व्यावृत्तिस्तज्जननशक्तिर्ज्ञानहेतुष्वेव । ज्ञानमन्यस्माद्व्यावृत्तमिति व्यावृत्तिबुद्धिजननशक्तिस्तु ज्ञानहेत्वा-सादितेऽवश्याभ्युपगमनीये ज्ञाननिष्ठस्वाभाविकविशेष एव । एवं च तदुभय-विधं व्यावर्तकत्वं ज्ञानहेतुज्ञानगतस्वाभाविकविशेषयोरेव । अतीताद्यर्थे तु ज्ञानहेतुजन्यव्यावृत्तिविशिष्टज्ञाने वा ज्ञानहेत्वासादितस्वाभाविकविशेषेण जन्यव्यावृत्तिबुद्धौ चोल्लेखित्वमात्रं व्यावर्तकत्वं विषयत्वप्रयोजकत्वेनाभ्युप-गम्यते । तथोक्तरूपे द्विविधे ज्ञानेऽसतो रजतस्योल्लेखमात्रम् । तच्च न तत्सत्तासापेक्षमिति को दोषः ? न चातीतादिज्ञानस्य प्रमात्वेन जन्यज्ञाने भानोपयुक्ततत्तानुभवजन्यसंस्कारादेः सामग्रीकोटौ निवेशनेन तत्र हेतु-सामर्थ्यादिकल्पनसंभवेऽप्यसत्ज्ञानरूपत्वेन जन्यज्ञानेऽसज्ज्ञानोपयुक्त-तत्सन्निकर्षादेव सम्भवेन तस्य सामग्रीकोटावनिवेशनेन तत्रैतत्कल्पना न सम्भवतीति वाच्यम् । अतीतादिज्ञानस्य प्रमात्वात्समीचीनसामग््रयुत्पादित-ज्ञाने तादृशसामग््रयुत्पादितस्वाभाविकविशेषजन्यव्यावृत्तिबुद्धौ वोल्लेखित्व-मित्येतावन्मात्रविशेषसद्भावेऽपि स्वसामर्थ्यासादितज्ञानोल्लेखित्वमात्रस्य व्यावर्तकत्वादिरूपतया ज्ञानसामग्रीसमीचीनत्वादेरकिञ्चित्करत्वात् । शुक्ति-सन्निकर्षसादृश्यादेरेव जन्यज्ञानेऽसद्भानोपयुक्तस्य भ्रमसामग्रीकोटावपि प्रवेशेन तादृशव्यावर्तकत्वस्य असत्त्यप्युपपन्नत्वादिति । नन्वनैकान्त्य-मित्यादिको ग्रन्थश्चिरन्तनटीकायामेव स्पष्टः । तत एवानुसन्धेयः ।

मिथ्यात्वानुमानखण्डनपरशुः

ननु परोक्तानिर्वचनीयदृश्यत्वस्यात्मन्यभावात् साधनविकलो दृष्टान्त इत्यत आह । आत्मनोऽपीति ॥ अनिर्वचनीयत्वविचारमपहाय परोक्त-दृश्यत्वं स्वपक्षे आत्मन्युपपादितत्वादित्यर्थः । अत एवासिद्धिः परास्ता । पराभिप्रेतधर्मविशिष्टतया जगति दृश्यत्वाभावेऽपि तदुक्तदृश्यत्वरूपस्वरूप- मात्रस्य सत्त्वात् । ननु न च शुक्तिरजादौ व्यभिचारेण प्रतिपाद्यानुमानस्य हीनबलत्वात् प्रकरणसमत्वभङ्ग इत्याशङ्कते ॥ ननु मिथ्याभूत इति ।

विश्वमिथ्यात्वानुमाने सप्रतिसाधनदोषः

मिथ्यात्वानुमानखण्डनम्

‘विमतं सत्यं प्रमाणदृष्टत्वाद् यदित्थं तत्तथा यथा आत्मा’ इति प्रयोगात् सप्रतिसाधनः

प्रमाणदृष्टत्वाद् इत्यत्र प्रमाणपदवैयर्थ्यशङ्का तत्परिहारश्च

टीका

नन्वत्र दृष्टत्वमात्रस्य व्यभिचारोऽस्ति न वा ? आद्ये पूर्वानुमान मसत्स्यात् । तत्र तन्मात्रस्य प्रयोगात् । द्वितीये प्रमाणविशेषण-वैयर्थ्यमिति । मैवं प्रमाणदृष्टत्वपदेन प्रामाणिकत्वमात्रस्याभिमत-त्वात् । अथवा दृग्व्यावर्तकत्वमेवात्र दृष्टत्वमभिमतम् । तच्च शुक्तिरजतादावस्तीति सफलं विशेषणम् ।

अनुमानप्रयोगे व्याप्त्यभिधाननियमाभावसूचनम्

टीका

पूर्वानुमाने व्याप्तिमनभिधायात्र यदित्थं तत्तथेति तामभिदधता तदभिधाननियमो नास्तीति सूचितम् । आत्मनः प्रमाणदृष्टत्वा-नङ्गीकारे वेदान्तवैयर्थ्यं स्यात् ।

प्रमाणदृष्टत्वहेतुं विकल्प्य दूषणं तन्निरासश्च

नन्वत्र तत्त्वावेदकप्रमाणदृष्टत्वं हेतुः ? उत अतत्त्वावेदक-प्रमाणदृष्टत्वम् ? आद्येऽसिद्धिः । द्वितीये विरोध इति । मैवम्, ‘अतत्त्वावेदकं प्रमाणम्’ इति च विप्रतिषिद्धमेतत् ।

प्रमाणदृष्टत्वानुमाने असिद्धिशङ्का तन्निरासश्च

एवं तर्हि असिद्धिरेवास्त्विति चेन् न । ‘प्रपञ्चमिथ्यात्वसिद्धौ प्रत्यक्षादीनामप्रामाण्यसिद्धिस् तत्सिद्धौ च तत्सिद्धिः’ इति परस्पराश्रयप्रसङ्गात् ।

मन्दारमञ्जरी

प्रामाणिकत्वमात्रस्येति ॥ तस्यैकरूपत्वान्न विशेषणमस्ति येन तद्वैयर्थ्यं चोद्येत ।

प्रामाणिकत्वहेतावपि प्रमाणपदवैयर्थ्यशङ्का तत्परिहारश्च

नन्वथापि प्रामाणिकत्वं प्रमाणज्ञातत्वम् । तथा च ज्ञातत्वेनैव पूर्णत्वात्प्रमाणग्रहणं व्यर्थमेव । ननु चैवमवयवार्थविचारेण वैयर्थ्याभिधाने ‘मानविषयत्वं मेयत्वम् । तत्र विषयत्वमात्रेणालम् । किं मानग्रहणेन ?’ इत्यादेर्वक्तुं शक्यत्वादतिप्रसङ्गः । तत्र प्रमेयपदेनैव सर्वमुपात्तम् । न तु विशेषणोपादानार्थमधिको यत्नः कृतोऽस्ति यस्य वैयर्थ्यं शङ्क्यत इति चेत् । मैवं, प्रकृतेऽपि प्रामाणिकग्रहणेनैव सर्वस्योपात्तत्वेन परिहारसाम्यात् । किं च न प्रामाणिकत्वं प्रमाणज्ञातत्वम् । किं तु ? प्रमाणविषयत्वम् । तथा च पूर्वोक्तदृश्यत्वस्यात्र प्रवेश एव नास्तीति दृष्टत्वमात्रस्य व्यभिचारोऽस्ति न वेति विकल्प एव न सम्भवति । न चात्रापि प्रमाणग्रहणं व्यर्थम् । आरोपितरजतस्येष्टत्वेनेच्छाविषये तस्मिन्विषयत्वमात्रस्य व्यभिचारादिति भावः ।

यद्येवं तर्हि प्रामाणिकत्वादित्येव वक्तव्यम् । लक्षणाश्रयणे प्रयोजना भावात् । प्रमाणदृष्टत्वादिति ह्युक्तम् । एवं च प्रमाणग्रहणवैयर्थ्यं तदवस्थमित्यपरितोषात् पक्षान्तरमाह ॥ अथवेति ॥

द्वितीये विरोध इति ॥ अतत्त्वावेदकप्रमाणदृष्टत्वस्य सत्त्वाभावेनैव व्याप्तत्वादिति भावः ॥ विप्रतिषिद्धमिति ॥ तत्त्वावेदकस्यैव प्रमाणशब्दार्थ त्वादिति भावः । असिद्धिरेवास्त्विति ॥ प्रत्यक्षादेः प्रामाण्यस्यैवाभावा-त्प्रमाणदृष्टत्वमसिद्धमिति भावः । प्रत्यक्षादीनामप्रामाण्ये कारणान्तरा-भावात्प्रपञ्चमिथ्यात्वमेव तत्र कारणमिति वाच्यम् । प्रत्यक्षादिप्रमाणसिद्ध-प्रपञ्चमिथ्यात्वं च कुतः ? इत्युक्ते तद्ग्राहिप्रत्यक्षादीनामप्रामाण्यादिति वक्तव्यम् । तथा चान्योन्याश्रय इत्याह ॥ न प्रपञ्चेति ॥

श्रीनिवासतीर्थीयटिप्पणी

हेतौ प्रमाणपदवैयर्थ्यमाशङ्क्य परिहरति ॥ नन्वत्रेत्यादिना । दृष्टत्व-मात्रस्य दृश्यत्वमात्रस्य ॥ पूर्वानुमानमिति । विमतं सत्यं दृश्यत्वादिति प्रतिपक्षानुमानमित्यर्थः । कुत इत्यत आह ॥ तत्रेति । प्रतिपक्षानुमाने निर्विशेषेण दृश्यत्वमात्रस्यैव प्रयोगात् ॥ प्रामाणिकत्वेति । तस्य चैकरूपत्वान् न तत्र विशेषणमस्तीति न तद्विशेषणवैयर्थ्यशङ्कावकाशः । एकस्मिन्धर्मिणि लघुगुरुधर्मद्वयसमावेशे लघुना व्याप्त्यवच्छेदे गुरो-रनावश्यकत्वरूपव्यर्थविशेषणताबीजाभावादिति भावः । अवयवार्थ-विचारमकृत्वा हेतुः कृतस् तत्रापि अवयवार्थविचारे विशेषणवैयर्थ्यमाया-त्येव । तथा हि । प्रामाणिकत्वं नाम प्रमाणजन्यज्ञानविषयत्वं तत्र ज्ञानविषयत्वेनैवालं प्रमाणग्रहणवैयर्थ्यं तदवस्थमेवेत्यपरितोषात्पक्षान्तर-माह ॥ अथवेति ॥ अस्तीति । तथा च तत्र व्यभिचारपरिहाराय प्रमाण-विशेषणं सार्थकमित्यर्थः । दृष्टान्ते साधनवैकल्यं परिहरति ॥ आत्मन इति । ब्रह्मज्ञानजननायैव तेषां प्रवृत्तत्वादिति भावः ॥ असि-द्धिरिति । प्रपञ्चावेदकप्रमाणानां प्रत्यक्षादीनां तत्त्वावेदकत्वाभावेन तत्त्वावेदकप्रमाणदृष्टत्वं प्रपञ्चे स्वरूपासिद्धमित्यर्थः ॥ विरोध इति । अतत्त्वावेदकप्रमाणदृष्टत्वस्य सत्यत्वाभावेनैव व्याप्तत्वादिति भावः ॥ विप्रतिषिद्धमिति । यथावस्थितार्थज्ञेयविषयीकारित्वस्य प्रमाणशब्दार्थत्वात् । अतत्त्वावेदकप्रमाणेत्युक्ते स्वव्याहतिः स्यात् । अतो विकल्प एवानुपपन्न इत्यर्थः ॥ एवं तर्हीति । व्याहतत्वेन उक्तविकल्पाभ्यां दूषणानुपपत्ता-वपीत्यर्थः ॥ असिद्धिरेवेति । प्रत्यक्षादेः प्रामाण्याभावात् । प्रमाण-दृष्टत्वहेतोः स्वरूपासिद्धिरेवास्त्वित्यर्थः ॥ प्रपञ्चमिथ्यात्वसिद्धाविति । उक्तानुमानेन प्रपञ्चस्य मिथ्यात्वे सिद्धे तदन्तर्गतत्वात् प्रत्यक्षादीनाम-प्रामाण्यसिद्धिरित्यर्थः ॥ तत्सिद्धौ च तत्सिद्धिरिति । प्रत्यक्षादीनाम-प्रामाण्ये सिद्धे प्रमाणदृष्टत्वहेतोः स्वरूपासिद्धत्वेन प्रतिपक्षानुमानस्य दुष्टतया तद्विरोधाभावेन उक्तानुमानात्प्रपञ्चमिथ्यात्वसिद्धिरित्यर्थः ॥

श्रीगुरुराजीयटिप्पणी

विकल्पप्रश्नेन दूषणमुक्तम् । तत्र स्वव्याहतत्वाद् विकल्पप्रश्न एव नोपपद्यते । दूरे दूषणाभिधानमित्याशयेन व्याहतिमुपपादयति ॥ अतत्त्वा-वेदकमिति ॥

मिथ्यात्वानुमानखण्डनपरशुः

प्रमाणदृष्टत्वपदेनेति ॥ प्रमाणदृष्टपदेन प्रामाणिकत्वरूपोऽखण्डो धर्मः हेतुतया उक्त इत्यर्थः । न च शुक्तिरजताविति । ननु यथा शुक्ति-रजतादौ यथा दृग्व्यावृत्तकत्वमस्ति तथैव नेदं रजतप्रमाणजन्यदृक्-व्यावृत्तकत्वमस्त्येवेति व्यभिचारवारकत्वाद् व्यर्थमेवेदं विशेषणमिति चेन्न । रजतस्य नेदं रजतमिति ज्ञानोल्लेख्यत्वेऽपि तद्व्यावृत्तकत्वेन व्यभिचार-परिहारसम्भवात् । न हीदं रजतमिति विभ्रमं यथा रजतज्ञानत्वेन व्यवहरन्ति तथा नेदं रजतमिति विज्ञानं रजतज्ञानत्वेन व्यवहरन्ति । किन्तु रजताभावज्ञानत्वेन येन तद्व्यावर्तकत्वं रजतस्य स्यात् । द्वितीय इति ॥ अतत्त्वावेदकप्रमाणदृष्टस्यासत्त्वेन भाव्यत्वात् । सत्यमिति । साध्याभिधाने व्याघात इत्यर्थः ॥ एवं तर्हीति । अतत्त्वावेदकं प्रमाणमित्यस्य व्याहतत्वेन प्रमाणदृष्टत्वेन हेतुः स्यात् । स चासिद्ध एवेति भावः ॥ परस्पराश्रय-त्वेति ॥ ननु प्रपञ्चस्य सत्यत्वसिद्धौ प्रत्यक्षादिप्रामाण्यसिद्धिः । तत्सिद्धौ तत्सिद्धिरिति भवतामन्योन्याश्रय एवेति चेन्न । प्रामाण्यस्य स्वतस्त्वेन विषयसिद्ध्यधीनत्वाभावात् ॥

प्रमाणदृष्टत्वानुमाने शंकितस्यात्मत्वोपाधेर्विकल्पेन निरासः ।

टीका

आत्मत्वमत्रोपाधिरिति चेन्न । तस्यैवानिरूपणात् । न ताव-ज्ज्ञानत्वमात्मत्वम् । ज्ञातृज्ञेयशून्यस्य ज्ञानस्यापि शून्यत्वात् । नापि ज्ञानाश्रयत्वं निर्गुणत्वाङ्गीकारात् । न च सामान्यविशेष आत्मत्वम् । सामान्यस्यापि वास्तवस्य परेणानङ्गीकारात् । कल्पितस्य तु देहादावपि सद्भावात् ।

प्रपञ्चस्य सत्यत्वे दृग्दृश्श्यसम्बन्धाभावेन दृश्यत्वानुपपत्तिशङ्का

प्रपञ्चस्य सत्यत्वे दृग्दृश्ययोः सम्बन्धानुपपत्तेः कथं दृश्यत्वम् ? इति चेत् ।

दृग्दृश्यसम्बन्धं विनैव दृश्यत्वोपपादनम्

अन्तरेणैव सम्बन्धं दृश्यत्वमस्तु । अतिप्रसङ्गं च प्रतीति-रेवापाकरिष्यति ।

मन्दारमञ्जरी

ज्ञातृज्ञेयशून्यस्येति ॥ न तावदात्मैव ज्ञाता ज्ञेयो वा । परेणा-नङ्गीकारात् । नापि तदतिरिक्तम् । तस्य कल्पिततया मोक्षावस्थायाम-भावादित्यर्थः ॥ कल्पितस्येति ॥ ‘अन्योन्यस्मिन्नन्योन्यात्मकतामध्यस्य’ इति वदता परेण देहादावात्मत्वारोपस्याभ्युपगतत्वादित्यर्थः ॥ अतिप्रसङ्ग-मिति ॥ अयं भावः, दृश्यत्वनियामकत्वेन सम्बन्धो वाच्य इति हि त्वयोच्यते । यथोक्तं ‘न च दृक्सम्बन्धमात्रेण दृश्यत्वमिति युज्यते अतिप्रसङ्गात्’ इति । तदसङ्गतम् । तथात्वे हि तस्यापि नियामकान्तरं कल्प्यम् । एवं तस्य तस्यापीत्यनवस्था स्यात् । तथा च तत्परिहारार्थं ‘कश्चित्स्वनिर्वाहकः स्वभाव एव नियामकः । स च प्रतीत्युन्नेयः’ इति वाच्यम् । तथा च आदावेव तथाऽस्तु लाघवात् । न चैवम् इति स्वभाव-वादप्रसङ्गः । बहुधाऽन्वेषणेऽपि नियामकान्तरालाभे स्वभावस्वीकरणात् । प्रकृते च वास्तवसम्बन्धस्य भवतैव महता प्रयासेन निराकृततया तदलाभस्तावत्सिद्धः ।

आध्यासिकसम्बन्धस्य दृश्यत्वानिर्वाहकत्वम्

आध्यासिकसम्बन्धोऽपि स्वस्य दृश्यतानिर्वाहार्थमाध्यासिक सम्बन्धान्तरमपेक्षते, एवं तदपि सम्बन्धान्तरमपेक्षत इत्यनवस्थानान्न नियामकः । किं च आध्यासिकसम्बन्ध इति कोऽर्थः । किं यः कश्चित्सम्बन्ध एवाध्यस्त इति वा ? किं वा दृश्यस्य दृगध्यस्तत्वं नाम सम्बन्ध इति ? आद्ये सम्बन्धमात्रस्यैव मिथ्यात्वं लब्धं न दृश्यवर्गस्येति तवाभिमतासिद्धिः । न द्वितीयः दृष्टदृश्यत्वनिर्वाहार्थं तत्कल्पने दृष्टानेक-पदार्थहानिप्रसङ्गेन तस्याकल्पनीयत्वात् । न ह्यल्पस्य हेतोर्बहुत्यागो युक्त इति ।

आध्यासिकसम्बन्धं विनापि दृग्दृश्ययोः सम्बन्ध्यभिन्नं सम्बन्धमङ्गीकृत्य दृश्यत्वोपपादनम्

अथ वा अस्तु कश्चिद्दृग्दृश्ययोः सम्बन्धः । स च सम्बन्धिभ्यां न भिद्यते । येन सम्बन्धिभिन्नसम्बन्धस्य सम्बन्धिना सम्बन्धान्तरमङ्गीकार्यम् । एवं तस्य तस्यापीत्यनवस्था स्यात् । न चैवं सम्बन्धाभावप्रसङ्गः । ज्ञानाभेदमात्रेण आनन्दाभावप्रसङ्गेन मोक्षस्यापुमर्थता प्रसङ्गात् । अस्मन्मते अभेदेऽपि विशेषबलादेकतरपरिशेषाभावस्यान्यत्रोपपादितत्वाच्च ।

श्रीनिवासतीर्थीयटिप्पणी

आत्मत्वमिति । दृष्टान्तभूते आत्मनि सत्यत्वात्मत्वयोः सद्भावेन साध्यव्यापकत्वात् । प्रमाणदृष्टत्वरूपसाधनवति प्रपञ्चे आत्मत्वाभावेन साधनाव्यापकत्वाच्चेत्यर्थः ॥ तस्यैवेति । आत्मत्वस्यैवेत्यर्थः ॥ ज्ञातृज्ञेय-शून्यस्येति । लोके ज्ञानं ज्ञातृज्ञेयसापेक्षं दृष्टम् । आत्मस्वरूपज्ञानस्य ज्ञाता किं स्वयमेव वा परो वा । नाद्यः । क्रियाकर्त्रोरेक्यस्य बाधितत्वात् । न द्वितीयः । तदतिरिक्तपराभावात् । नापि ज्ञेयमस्ति । आत्मस्वरूपं ज्ञानं किं स्वविषयं परविषयं वा । नाद्यः । एकस्यां क्रियायां कर्तृकर्मणोरेकत्वस्य विरुद्धत्वात् । यथोक्तं भगवत्पादैः । ‘स्वविषयत्वं हि कर्तृकर्मविरोधा-त्तैर्नाङ्गीक्रियत इति’ । न द्वितीयः । परस्य मिथ्यात्वात् । संसारावस्थायां मिथ्याभूतज्ञातृज्ञेययोः सत्त्वेऽपि मोक्षावस्थायां तदुभयाभावात् तदानीं ज्ञानत्वं न स्यात् । तथा च ज्ञातृज्ञेयशून्यस्य ज्ञानस्यापि शून्यत्वाद-भावादित्यर्थः । यथोक्तं तत्त्वोद्योते । आत्मनः स्वविषयत्वाभावा-त्परविषयत्वाभावाच्चेति । विषयवर्जितः प्रकाश एव न भवति घटवदिति च । उक्तं चान्यत्र । ‘ज्ञातृज्ञेयविहीनं ते ब्रह्मज्ञानात्मकं यदि । भोक्तृ-भोज्यविहीनाऽपि भवेत्तर्हि भुजिक्रिया’ इति । सामान्यविशेष जाति-विशेषः ॥ अनङ्गीकारादिति । जातेरनेकानुगतत्वेन आत्मत्वस्य जातित्वे आत्मनां बहुत्वापत्तेः । तस्य च तवानिष्टत्वात् । तथा चैकव्यक्तित्वेन नात्मत्वं जातिरित्यर्थः ।

ननु कल्पितात्मनां बहूनां सत्त्वात्तन्निष्ठं यत्कल्पितम् आत्मत्वं तज्जाति-र्भविष्यतीत्याशङ्क्य निराकरोति ॥ कल्पितस्य त्विति । अन्योन्यस्मिन् अन्योन्यात्मकतामन्योन्यधर्मांश्चाध्यस्येति वदता परेण देहेन्द्रियादावप्यात्म-त्वारोपस्याभ्युपगतत्वादित्यर्थः । तथा च पक्षैकदेशाद्देहेन्द्रियादेरव्यावृतत्वेन साधनाव्यापकत्वाभावादात्मत्वं नोपाधिरिति भावः । अनुमानस्य तर्क-पराहतिमाशङ्कते ॥ प्रपञ्चसत्यत्व इति । यदि प्रपञ्चः सत्यः स्यात्तर्हि दृग्दृश्ययोः सम्बन्धानुपपत्त्या दृश्यत्वमेव न स्यात् । तथा हि । वृत्तिप्रति-बिम्बितचैतन्याभिव्यक्ताधिष्ठानचैतन्यरूपं यज्ज्ञानं तदेव दृगित्युच्यते । तस्या दृश्यस्य घटादेः प्रपञ्चस्य कः सम्बन्धः । न तावत्संयोगः । ज्ञानस्याद्रव्यत्वात् । नापि समवायः । आत्मधर्मस्य ज्ञानस्य घटादेश्चायुतसिद्धत्वाभावेन समवायायोगात् । विषयविषयिभावस्तु सम्बन्ध एव न भवति । सम्बन्धिभिन्नत्वाभावात् । अद्विष्ठत्वाच्च । तथा च प्रपञ्चस्य सत्यत्वे दृग्दृश्ययोः संयोगसमवायरूपसम्बन्धानुपपत्तेः प्रपञ्चस्य दृशि अध्यस्तत्वमेव सम्बन्ध इति वक्तव्यम् । आध्यासिकसम्बन्धश्च प्रपञ्चस्य सत्यत्वे न सम्भवतीति भवदनुमानस्य तर्कबाध इत्यर्थः ॥ अन्तरेणैव सम्बन्धमिति । दृग्दृश्ययोरिति वर्तते । ननु सम्बन्धमन्तरेण दृश्यत्वाङ्गीकारे घटज्ञानस्य पटोऽपि विषयः स्यादित्यतिप्रसङ्ग इति चेत्तत्राह ॥ अतिप्रसङ्गं चेति ॥ प्रतीतिरेवेति । घटज्ञानवानहमित्यनु-व्यवसायरूपप्रतीत्या घटज्ञानस्य घटविषयकत्वस्यैवावगाहनान्न पट-विषयकत्वमिति नातिप्रसङ्ग इति भावः ।

श्रीगुरुराजीयटिप्पणी

स्वरूपासिद्धिमाशङ्क्य निरस्य व्याप्यत्वासिद्धिमप्याशङ्क्य निरस्यति ॥ आत्मत्वमत्रोपाधिरिति चेदित्यादिना ॥ अनङ्गीकृतत्वादिति ॥ ततश्च साध्याव्यापकतेति भावः ॥ सद्भावादिति ॥ ततश्च साधनव्यापकतेति भावः ॥ सम्बन्धानुपपत्तेरिति ॥ आत्मगुणस्य ज्ञानस्य ज्ञेयेन संयोग-समवाययोरयोगाद्विषयविषयिभावस्य चाद्विष्टत्वेनासम्बन्धत्वादन्यस्य च सम्बन्धस्यासम्भवादिति भावः ।

मिथ्यात्वानुमानखण्डनपरशुः

ननु कल्पितमेवात्मत्वमुपाधिरित्यत आह ॥ कल्पितस्येति ॥ देहा-दावात्मत्वारोपासम्भवेन कल्पितस्य तत्र सद्भावादित्यर्थः । उपाधि-व्यतिरेकेण साध्यव्यतिरेकसाधनभागासिद्धौ हेतुः स्यादिति भावः । प्रपञ्च-सत्यत्व इति ॥ यदि प्रपञ्चः सत्यं तर्हि दृश्यत्वं न स्यात् । दृश्यत्वस्य दृग्दृश्यसम्बन्ध निबन्धत्वात् । सम्बन्धस्य च दृश्यारोपितत्वात् । अन्यस्याभावात् । तस्य त्वयाऽङ्गीकारादिति भावः । अन्तरेणैव सम्बन्धमिति । यथा सम्बन्धमन्तरेणैव सम्बन्धो भवति एवं सम्बन्धमन्तरेणैव दृश्यत्वमस्तु ॥ धर्मस्य सम्बन्धापेक्षनियमाभावादिति भावः । ननु यदि सम्बन्धमनपेक्ष्यैव दृश्यत्वं स्यात् तर्हि वह्निसम्बन्धं विनैव काष्ठादिना दाहः स्यात् । अविशेषादित्यत आह । अतिप्रसङ्गमिति । सम्बन्धं विना दाहादर्शनात् । सम्बन्धसापेक्षसम्बन्धं विनापि दृश्यत्व-दर्शनात् । दृश्यत्वं सम्बन्धनिरपेक्षधर्मः । ततश्च नातिप्रसङ्ग इति पराकरिष्यतीत्यर्थः ।

अध्यासिकसम्बन्धं विनापि दृग्दृश्ययोः संयोगसम्बन्धमङ्गीकृत्य दृश्यत्वोपपादनम्

टीका

संयोगो वाऽस्तु । गुणत्वान्नेति चेत् । त्यज्यतां गुणत्वम् । गुणत्वे वा गुणादिपञ्चकस्य निर्गुणत्वनिष्क्रियत्वपरिभाषा नादरणीया ।

मन्दारमञ्जरी

ननु स तर्हि सम्बन्धः संयोगः समवायो वा ? आद्यस्तावदस्त्वित्याह ॥ संयोगो वेति ॥ त्यज्यतां गुणत्वमिति ॥ ज्ञानस्येति शेषः । गुणत्वे वेति ॥ अयमभिप्रायः । गुणे क्रिया तावदङ्गीकार्या । पटे गच्छति तद्गतरूपेऽपि गतिदर्शनात् । पटगता सा रूपे प्रतीयत इति चेद् विपरीतं किं न स्यात् । पटावयवतन्तुगता गतिः पटे प्रतीयत इति वक्तुं शक्यत्वादतिप्रसङ्गाच्च ।

किं च गच्छत्पटनिष्ठमहारजनद्रव्ये गतिरस्ति न वा । न चेन्महारजनस्य देशान्तरेण सह संयोगो न स्यात् । असमवायिकारणाभावात् । न च पटनिष्ठक्रिया तदसमवायिकारणम् । कार्यैकार्थप्रत्यासत्तेः कारणैकार्थप्रत्या-सत्तेश्चाभावेन तस्याः समवायिकारणप्रत्यासत्त्यभावात् । नापि पटदेशान्तर संयोगः । देशान्तरेण पटस्य संयोगानन्तरं महारजनस्य देशान्तरेण सह संयोगप्रतीतिप्रसङ्गात् । तन्तुदेशान्तरसंयोगादेव पटस्य देशान्तरसंयोगसिद्धौ पटे क्रियाभावप्रसङ्गाच्च । न च क्रियावता पटेन महारजनसंयोगस्तद-समवायिकारणम् । क्रियाहीनस्य महारजनद्रव्यस्य क्रियावता पटेन संयोगानुपपत्तेः । क्रियावत्संयोगस्य संयोगप्रतिसम्बन्धिनि क्रियामुत्पादय-तस्तन्निष्ठक्रियाद्वारवतस्य देशान्तरसंयोगोत्पादकतानियमेन महारजने क्रिया-स्वीकारावश्यम्भावाच्च । तस्माद्गच्छत्पटनिष्ठमहारजने गतिरस्तीति पक्ष एवाश्रयणीयः । एवं च तद्रीत्या रूपादावपि क्रियासिद्धिः । अनुभवस्या-विशेषात् ।

एवं गुणे गुणोऽप्यङ्गीकार्यः । ‘एकं रूपं’ ‘चतुर्विंशतिर्गुणाः’ इति गुणेऽपि सङ्ख्यादिगुणप्रतीतेः । यद्यपि गुणे संयोगव्यवहारं ‘द्रव्ययोरेव संयोगः’ इति दर्शनाभ्यासवान्जनो न करोति तथापि घटपटयोः संयुक्तयोः सतोः ‘तद्गतरूपे अपि संयुक्ते’ इति लोकः करोत्येव । किं च ‘रूपेण युक्तो घटः’ इति सर्वेऽपि व्यवहरन्ति । तथापि ‘संयुक्तः’ इति न व्यवहरन्तीति चेन्न । ध्वंसप्रध्वंसशब्दयोरिवानयोरर्थभेदास्फुरणात् । ‘द्रव्याणां कर्म संयोगः’ इत्यादौ जैमिन्यादिभिः परीक्षकैरद्रव्यसम्बन्धेऽपि संयोगव्यवहाराच्च । तथा च ज्ञानस्य गुणत्वेऽपि तस्य विषयेण सह गुणात्मकः संयोगः सम्बन्धोऽस्तु । न च ज्ञाने संयोगासमवायिकारण-क्रियाभावात्संयोगानुपपत्तिः । रूपादौ क्रियासाधनप्रकारेण ज्ञानेऽपि तत्साधनात् । नन्वतीतेन विषयेण कथं संयोगः ? इति चेत् किमतीतादेः सम्बन्धमात्रं नाङ्गीक्रियते ? संयोग एव वा ? नाद्यः सम्बन्धाभाव-स्याप्यतीतसम्बन्धित्वाभावप्रसङ्गात् । प्रध्वंसादेरतीतादिसम्बन्धाभाव-प्रसङ्गाच्च । न द्वितीयः । तद्वत्संयोगस्याप्युपपत्तेः । न चास्माभिः संयोगो द्विष्ठ इत्यङ्गीक्रियते । येन विषयलक्षणाश्रयाभावे कथं तदाश्रित-संयोगोऽवतिष्ठेतेति चोद्येत । किं नाम ? सादृश्यादिवदेकाश्रितोऽन्यनिरूप्य इति । ‘संयोगः’ इत्यबाधितव्यवहारास्पदत्वं च संयोगलक्षणम् । न चैवमन्योन्याश्रयः । पूर्वपूर्ववृद्धकृतव्यवहारविषयत्वज्ञानेनोत्तरोत्तरेषां व्यवहारोपपत्तेः । ‘मन्त्रः’ इत्यभियुक्तप्रसिद्धिर्मन्त्रलक्षणम् इति मीमांसकै-रङ्गीकृतत्वाच्चेति ।

श्रीनिवासतीर्थीयटिप्पणी

अन्तरेणैव सम्बन्धं दृश्यत्वमस्त्वित्युक्तम् । अस्तु वा सम्बन्धः । स च संयोगः समवायश्चेति द्विविधः । तत्राद्यस्तावदस्त्वित्याह ॥ संयोगो वाऽस्त्विति ॥ गुणत्वादिति । ज्ञानस्येति शेषः । द्रव्ययोरेव संयोग इति भावः ॥ गुणत्वमिति । ज्ञानस्येति शेषः । तुष्यतु दुर्जन इति न्यायेनाह ॥ गुणत्वे वेति । ज्ञानस्य गुणत्वेऽपि घटादिना संयोग एव सम्बन्धोऽस्तु । ननु संयोगस्य द्विष्ठत्वाज् ज्ञानघटयोः संयोगसम्बन्धाङ्गीकारे ज्ञानेऽपि संयोगप्राप्त्या गुणादिपञ्चकस्य निर्गुणत्वपरिभाषाभङ्गः स्यात् । किञ्च ज्ञाने संयोगाङ्गीकारे तस्य क्रियाजन्यत्वात् साऽप्यङ्गीकार्या स्यादिति चेत्तत्राह ॥ गुणादिपञ्चकस्येति । गुणकर्मसामान्यविशेषसमवायरूपपदार्थपञ्चक-स्येत्यर्थः ॥ निर्गुणत्वेति । गुणे गुणोऽप्यङ्गीकार्यः । चतुर्विंशतिगुणाः, कर्माणि पञ्च, सामान्यं त्रिविधं, विशेषास्त्वनन्ताः, समवायस्त्वेक एवेति प्रतीत्या गुणादिपञ्चकस्यापि सगुणत्वसिद्धेर् गुणे संयोगस्याप्यङ्गीकार्यत्वात् । यद्यपि गुणे(पि) संयोगव्यवहारं द्रव्ययोरेव संयोग इति दुर्दर्शनाभ्यास वान्लोको न करोति । तथापि घटपटयोः संयुक्तयोः सतोस्तद्गतरूपे अपि संयुक्ते इति व्यवहारं लोकः करोत्येव । किञ्च रूपेण युक्तो घट इति सर्वेऽपि व्यवहरन्ति । तथापि संयुक्त इति न व्यवहरन्तीति चेन्न । ध्वंस-प्रध्वंसशब्दयोरिव युक्तसंयुक्तशब्दयोरप्यर्थभेदाननुभवात् । जैमिनिनाऽपि पूर्वमीमांसायां द्रव्याणां कर्मसंयोग इति सूत्रे द्रव्यकर्मसम्बन्धेऽपि संयोग-व्यवहाराच्च । एवमेव ज्ञानस्य गुणत्वेऽपि तस्य विषयेण सह संयोगोऽस्तु । न च ज्ञाने संयोगासमवायिकारणक्रियाभावात्संयोगानुपपत्तिरिति वाच्यम् । घटे चलति सति तद्गतरूपेऽपि चलनदर्शनेन गुणेऽपि क्रियाया अङ्गीकार्य-त्वात् । ननु घटगतमेव चलनं रूपे प्रतीयत इति चेन्न । वैपरीत्यस्यापि वक्तुं सुवचत्वात् । पटावयवतंतुगतमेव चलनं पटे प्रतीयत इत्यपि वक्तुं शक्यत्वाच्च । एवमेव देवदत्ते चलति सति तद्गतज्ञानस्यापि चलनसम्भवेन संयोगासमवायिकारणचलनक्रियाया ज्ञानेऽपि सम्भवेन संयोगोपपत्तेः । एतदर्थमेव निष्क्रियत्वग्रहणं कृतम् । अन्यथा प्रसङ्गाननुगुणत्वेन तद्ग्रहणस्या कर्तव्यत्वादित्यवधेयम् । प्रसङ्गादुक्तमित्यप्याहुः ।

श्रीगुरुराजीयटिप्पणी

ननु ज्ञानं गुणो ऽनित्यत्वे सत्येकेन्द्रियग्राह्यत्वाद् रूपवदित्यनुमानेन सिद्धस्य गुणत्वस्य कथं त्याग इत्यत अङ्गीकृत्य गुणत्वं संयोगमुपपादयति ॥ गुणत्वे वेति ॥

मिथ्यात्वानुमानखण्डनपरशुः

गुणत्वादिति । दृश्यगुणत्वादित्यर्थः ।

आध्यासिकसम्बन्धं विनापि दृग्दृश्ययोः समवायसम्बन्धमाश्रित्य दृश्यत्वोपपादनम्

टीका

समवायो वा अस्तु । प्रक्रिया तु प्रकारान्तरेण कल्प्यताम् ।

दृग्दृश्ययोः संयोगसमवायातिरिक्तवास्तवसम्बन्धमाश्रित्य दृश्यत्वोपपादनं

किं च गुणगुणिनोः संयोगानुपपत्तौ समवाय इव तन्तुद्वयस्य समवायासम्भवे संयोग इव च दृग्दृश्ययोः प्रसिद्धसम्बन्धानुपपत्तावन्य एव कश्चिद्वास्तवः किं न कल्पनीयः ? न हि प्रक्रियापरिक्षयो वस्तुपरिक्षयाद्गरीयान् ।

प्रपञ्चस्य मिथ्यात्वेऽपि दृश्यत्वानुपपत्तिसमर्थनं

किञ्च मिथ्यात्वेऽपि कथं दृश्यत्वम् ? गगन इव गन्धर्वनगरस्य दृशि प्रपञ्चस्यारोपितत्वादिति चेत् तर्हि सर्वेण सर्वं दृश्येत । न वा केनापि किञ्चित् । इन्द्रियसन्निकर्षादिकं नियामकमिति चेत् तर्हि किमने-नारोपितत्वेन ? करणसम्बन्धादिनिबन्धनो विषयविषयिभाव एवास्तु दृग्दृश्ययोः सम्बन्ध इति सङ्क्षेपः ।

मन्दारमञ्जरी

प्रकारान्तरेणेति ॥ संयोगातिरिक्तः सम्बन्धस्समवायः । स चानित्योऽ-नेकश्चेत्यादिः प्रकारान्तरशब्दार्थः ॥ अन्य एवेति ॥ उभयातिरिक्ते सम्बन्धेऽर्थापत्तिसिद्धे तस्योभयेतरत्वे सति सम्बन्धत्वलक्षणं नामान्तरं च करणीयमित्यर्थः । अधिष्ठानभूता दृक् संसारावस्थायां प्रकाशते न वा ? आद्ये दोषमाह ॥ तर्हि सर्वेणेति ॥ प्रकाशमानदृगध्यस्तत्वस्य सर्वान्प्रत्य-विशिष्टत्वादिति भावः । द्वितीयं दूषयति ॥ न वा केनेति ॥ अधिष्ठान-प्रकाशरूपस्याध्यस्तस्फुरणस्याभावान्न किञ्चिदपि प्रकाशेतेत्यर्थः ।

सङ्क्षेपशब्दसूचितार्थविवरणम्

इति सङ्क्षेप इति ॥ ‘‘इदमंशावच्छिन्ने चैतन्ये रजतमध्यस्तम् । अविद्यावृत्तिप्रतिबिम्बितसाक्षिचैतन्येन तु दृश्यते । एवं च यत्राध्यस्तं न तेन दृश्यम् । येन च दृश्यं न तत्राध्यस्तम् । अपि च नित्यानुमेयविषयस्य परोक्षवृत्तिज्ञानेऽध्यासस्त्वयापि नाङ्गीक्रियते । अथापि नित्यानुमेयं तेन दृश्यमित्यङ्गीकार्यम् । अन्यथा हेतोर्भागासिद्धिप्रसङ्गादिति न दृगध्यस्तत्वं दृश्यता प्रयोजकम् । किं च ‘यदि दृश्यं दृगध्यस्तं स्यात् तदा ‘दृघ्घटः’ इति तदनुविद्धतया प्रतीयेत’ । न च दृशि दृक्त्वादन्यः सामान्या-कारोऽस्ति । येन तदनुविद्धतया घटादिः प्रतीयेत, न तु दृग्रूपविशेषानु-विद्धतया इति चोद्येत’’ इत्यादि यद्यपि बहु वक्तव्यमस्ति । तथापि ग्रन्थगौरवभयादुपरम्यत इति भावः ।

श्रीनिवासतीर्थीयटिप्पणी

ननु ज्ञानघटयोः कथं समवायः । अयुतसिद्धत्वाभावात् । अयुतसिद्धयोः सम्बन्धः समवायः । स चैको नित्यश्चेति प्रक्रिया । तत्राह ॥ प्रक्रिया त्विति । संयोगातिरिक्तः सम्बन्धः समवायः, स चानित्योऽनेकश्चेति प्रकारान्तरेणेत्यर्थः । दृग्दृश्ययोर् ज्ञानज्ञेययोः ॥ प्रसिद्धेति । संयोगसमवाय-रूपप्रसिद्धसम्बन्धद्वयानुपपत्तावित्यर्थः । संयोगसमवायातिरिक्त आध्यासिकः सम्बन्धः कल्प्यत एवेत्यत उक्तं वास्तव इति । ननु यो वास्तवः सम्बन्धः कल्प्यते तस्य किं लक्षणं का च तस्य विशेषसंज्ञेति चेन्न । ज्ञानज्ञेययोः संयोगसमवायसम्बन्धानुपपत्त्या सिद्धे तदतिरिक्तसम्बन्धे लक्षणादि-जिज्ञासाया व्यर्थत्वात् । संयोगसमवायेतरत्वे सति सम्बन्धत्वमिति तल्लक्षणस्य वक्तुं शक्यत्वाच्च । विशेषसंज्ञायाश्च विषयविषयिभावरूपेण यथारुचि कल्पनीयत्वादिति द्रष्टव्यम् । नन्वेवं चेत्सम्बन्धो द्विविधः । संयोगः समवायश्चेति प्रक्रियाभङ्गः । संयोगसमवायान्यसम्बन्धकल्पने तस्य क्लृप्तपदार्थेष्वनन्तर्भावात्तदाधिक्यं च स्यादिति चेत्तत्राह ॥ न हि प्रक्रिया-परिक्षय इति । किं तु वस्तुपरिक्षय एव गरीयानित्यर्थः । प्रमितवस्त्वनु-सारेण हि प्रक्रिया कल्पनीया । न तु स्वकल्पितप्रक्रियानुरोधेन प्रमित-वस्तुत्यागः । प्रसिद्धसम्बन्धानुपपत्त्यैव तस्यापि सम्बन्धस्य प्रमितत्वात् । अत एवैतादृशसम्बन्धान्तर्भावेणैव पदार्था अपि गणनीया इति भावः । यदि जगन्मिथ्या स्यात्तदापि दृग्दृश्ययोः सम्बन्धो न स्याद् इति त्वां प्रत्यप्यापादयितुं शक्यत्वेन त्वदुक्ततर्कस्य अननुकूलत्वरूपाङ्गवैकल्यात्तर्का-भासत्वमित्यभिप्रेत्याह ॥ किं चेति ॥ शङ्कते ॥ गगन इवेति । यथा गन्धर्वनगरं गगन आरोपितम् एवं दृशि सर्वोऽपि प्रपञ्चोऽध्यस्त इत्या-ध्यासिकसम्बन्धसद्भावान्न प्रपञ्चस्य मिथ्यात्वे दृग्दृश्ययोः सम्बन्धानुपपत्ति-रित्यर्थः । त्वन्मते चैतन्यस्यैव दृक्त्वात्तत्र प्रपञ्चस्याध्यस्तत्वे पृच्छामः । अधिष्ठानभूतं चैतन्यमिदानीं प्रकाशते न वा । आद्ये दोषमाह ॥ तर्हि सर्वेणेति । आरोपाधिष्ठानभूतचैतन्यस्य सर्वान्प्रत्यविशिष्टत्वेन प्रकाश-मानत्वात् । तत्रारोपितं सर्वं सर्वेण दृश्येतेत्यर्थः । द्वितीयं दूषयति ॥ न वा केनापीति । अध्यस्तज्ञाने अधिष्ठानप्रकाशस्य कारणत्वात् तदभावे केनापि किंचिदपि न दृश्येतेत्यर्थः ।

ननु सर्वेण सर्वं दृश्येतेत्युक्तमयुक्तम् । यस्य सावयवं तैजसमन्तःकरणं चक्षुरादिद्वारा बहिर्निर्गत्य विषयं व्याप्य तदाकारं भवति । तत्र वृत्त्युपारूढं जीवचैतन्यं घटाधिष्ठानचैतन्येनैकीभूय तत्रत्याज्ञानं नाशयति । तस्यैव तत्राध्यस्तो घटः प्रकाशते नान्यस्येति नोक्तदोष इत्याशङ्कते ॥ इन्द्रियेति ॥ तर्हि किमनेनेत्यादि । इन्द्रियसन्निकर्षस्य नियामकत्वाङ्गीकारे दृग्दृश्ययोः किमाध्यासिकसम्बन्धाङ्गीकारव्यसनेन । विषयविषयिभाव एव तयोः सम्बन्धोऽस्त्वित्यर्थः । ननु ज्ञानज्ञेययोर् विषयविषयिभावसम्बन्धाङ्गीकारे घटज्ञानस्य पटोऽपि विषयः स्यादित्यतिप्रसङ्ग इत्याशङ्कापरिहारायोक्तम् । करणसम्बन्धादिनिबन्धन इति । यत्सन्निकृष्टेन करणेन यज्ज्ञानमुपजायते स तस्य विषय इत्यङ्गीकारान्नातिप्रसङ्ग इति भावः ।

श्रीगुरुराजीयटिप्पणी

नन्वयुतसिद्धत्वाभावात्कथं दृग्दृश्ययोः समवाय इत्यत आह ॥ प्रक्रियेति ॥ अयुतसिद्धयोः सम्बन्धः समवायेत्येतल्लक्षणपरित्यागेन संयोगान्यः सम्बन्धः समवाय इत्यनेन प्रकारेणेत्यर्थः । ननु संयोग-समवायातिरिक्तसम्बन्धकल्पनायां तस्य क्लृप्तपदार्थेष्वनन्तर्भावात्तदाधिक्यं स्यादिति क्लृप्तपदार्थप्रक्रिया सप्तैवेत्यादिरूपा भज्येतेत्यतः प्रमितवस्त्वनु-सारेणैव प्रक्रियायाः कल्पनीयत्वान्न स्वकल्पितप्रक्रियानुरोधेन प्रमित-वस्तुत्यागो युक्तः । अन्यथाऽतिप्रसङ्गादित्याशयवानाह ॥ न हीति ॥ किंचेति ॥ गुणत्वाज् ज्ञेयेन घटादिना संयोगस्यात्यगुणत्वाच्च समवायस्या-सम्भवात् । अन्यस्य च सम्बन्धस्याभावेन दृग्दृश्ययोः सम्बन्धानुपपत्ते-स्तुल्यत्वादिति भावः ॥ दृशि प्रपञ्चस्यारोपितत्त्वादिति ॥ तथा चाधिष्ठानाध्यस्तत्वसम्बन्धेन चित्प्रकाश्यत्वोपपत्तेर्न दृश्यत्वानुपपत्तिरिति भावः । अधिष्ठानभूता दृक् संसारावस्थायां प्रकाशते न वा ? आद्ये दोषमाह ॥ तर्हीति ॥ देवदत्तस्य घटज्ञानं यदा जायते तदा देवदत्तेनेव यज्ञदत्तादिभिरपि घट इव पटादिरपि तदेवान्यदाऽपीत्येवं सर्वेण सर्वं सर्वदाऽपि विज्ञायेतेत्यर्थः । प्रकाशमानदृगध्यस्तत्वस्य देवदत्तादीन् सर्वान् प्रति घटादीनां सर्वेषां सर्वदाऽविशिष्टत्वादिति भावः ॥ न चेति ॥ अधिष्ठानप्रकाशरूपाध्यस्तस्फुरणोत्पादकस्याभावाद्देवदत्तेनापि घटो न ज्ञायेतेत्यर्थः । ननु तत्तत्सन्निकृष्टेन्द्रियजन्यतत्तदाकारवृत्तिद्वारकस्या-नादृतदृक्सम्बन्धस्यैव विषयप्रकाशोपपादकत्वाभ्युपगमात् । एकदृगध्यस्त-त्वेऽपि कस्यचिदेव कञ्चिदेव प्रति कदाचिदेव च प्रकाशकः सम्भवतीत्या-शयेन शङ्कते ॥ इन्द्रियसन्निकर्षादिकमिति ॥ परिहरति ॥ किमारोपि-तत्त्वेनेति ॥ सत्यत्वेऽपि दृश्यत्वोपपत्तेर्न दृश्यत्वोपपत्त्यर्थमारोपितत्त्वमङ्गी-करणीयमित्यर्थः । तत्कथमित्यतः दृश्यत्वमित्यत्र दृक्शब्देन किं वृत्ति-र्विवक्षिता किं वा चैतन्यमिति विकल्पद्वयं मनसि निधायाद्यं दूषयति ॥ करणसम्बन्धादिनिबन्धन इति ॥ न द्वितीय इत्याह ॥ इति संक्षेप इति ॥ वृत्तिविषयत्वेन व्यवहारस्य वृत्तिगतस्वाभाविकविशेषेण विषया-परोक्ष्यस्य सम्भवेन चैतन्याविषयत्वेऽपि बाधकाभावेनोक्तरूपदृश्यत्वाभाव-स्येष्टत्वात् । सत्यत्वेऽपि तत्तत्सन्निकृष्टेन्द्रियजन्यतत्तदाकारवृत्तिद्वारककिञ्चि-त्सम्बन्धस्य सत्त्वेन चित्प्रकाश्यत्वसम्भवाच्चेत्याशयः ।

मिथ्यात्वानुमानखण्डनपरशुः

अयुतसिद्धयोरेव समवायाङ्गीकाराद् दृग्दृश्ययोर्न समवाय इत्यत आह । प्रक्रिया त्विति ॥ मिथ्यात्वेऽपि त्वदुक्तरीत्या दृश्यत्वमनुपपन्नमिति आह ॥ किञ्चेति ॥ मिथ्यात्वे कथं दृश्यत्वमुपपन्नम् । दृग्श्दृयसम्बन्धा-भावस्यात्रापि सत्त्वादिति भावः ॥ सर्वेणेति ॥ यदि शुक्तिरजतादि-वद्धटादिकं सर्वमध्यस्तं स्यात् । तर्हि घटादिकं यथाऽनेकप्रतिपत्तिसाधारणं तथा शुक्तिरजतादिकमपि अनेकप्रतिपाद्यसाधारणं स्यात् । आरोपितत्वस्य घटादिसाधारण्येन घटादिभ्यो रजतादौ विशेषानापादकत्वादित्यर्थः । नन्वारोपितस्यायं स्वभावः स्वयम् अज्ञानकल्पितं तद्दर्शनमात्रविषयत्वम् । तन्न शुक्तिरजतादेः सर्वप्रतिपत्तिसाधारण्यमित्यत आह ॥ न वा केना-पीति ॥ आरोपितस्य कल्पकान्यदर्शनायोग्यत्वे किञ्चिद्धटादिकं केनापि कल्पकान्येन केनापि न दृश्येत इति सर्वप्रतिपत्तिसाधारण्यं न स्यादिति भावः ॥ इन्द्रियसंनिकर्षादिकमिति ॥ घटादेर्व्यावहारिकसत्त्वात् । इन्द्रिय-सन्निकर्षसम्भवेन यस्य यस्येन्द्रियेण सन्निकृष्यते । तेन तेन गृह्यत इति सर्वप्रतिपत्तिसाधारणमिति भावः । विषयविषयिभाव एवास्ति । ततश्च दृश्यत्वमुपपन्नमिति भावः ।

प्रपञ्चमिथ्यात्वानुमाने दृष्टान्ते साध्यवैकल्योपपादनम्

टीका

अथावसरतो दृष्टान्तं दूषयिष्यन् साध्यसिद्ध्यर्थं साधनान्वेषण-मिति प्राधान्यात् साध्यवैकल्यं तावदाह–

मिथ्यात्वानुमानखण्डनम्

शुक्तिरजतस्याप्यनिर्वचनीयत्वाभावात्साध्यविकलो दृष्टान्तः

टीका

‘किमु तद्दृष्टान्तेन जगतः’ इति अपिशब्दार्थः । असत्त्वस्य परेण जगत्यसिसाधयिषितत्वात्सद्विविक्तत्वादीनां च अनिर्वचनीयत्वा-बहिर्भावं सिद्धवत्कृत्य ‘अनिर्वचनीयत्वाभावात्’ इत्युक्तम् । ‘साध्य विकलः’ इति साध्यसमानधर्मविकल उच्यते ।

शुक्तिरजतानिर्वचनीयत्वसाधकार्थापत्तिशङ्का

न तावच्छुक्तिरजतं सत् । बाधविरोधात् । नाप्यसत् । अपरोक्षतया प्रतीत्यनुपपत्तेः । ततोऽर्थादनिर्वचनीयं तदिति चेन्न ।

अर्थापत्तेः सदसदात्मकत्वेनाप्युपपत्तिसमर्थनं

सत्त्वात्प्रतीतिः, असत्वाच्च बाधः, इति सदसदात्मकत्वेना-प्युपपत्तेः । तद् विरुद्धमिति चेत् । कोऽयं विरोधो ऽर्थापत्तिश्चे-त्तथाभावं गमयेत् । अन्यथा सदसद्वैलक्षण्यमपि नाङ्गीकार्यं स्यात् । विरुद्धविधिसमुच्चयवद् विरुद्धनिषेधसमुच्चयस्यापि विरुद्धत्वात् । निषेधसमुच्चयस्यातात्विकत्त्वान्न विरोध इति चेत् । तर्हि विधि-समुच्चयोऽप्यतात्विक एवाङ्गीक्रियताम् । लाघवात् ।

आध्यासिकसम्बन्धं विना दृश्यत्वानुपपत्तेरेवाभावसमर्थनं

किं च अपरोक्षप्रतीतिविषयत्वमुक्तविधया न शुक्तिरजतस्या-स्तीति कस्यानुपपत्तिः ? उल्लेखमात्रं त्वसतोऽपि चेत्का अनु-पपत्तिः ? विस्तृतमेतदन्यत्रेत्यलं पल्लवितेन ।

मन्दारमञ्जरी

ननु साधयितुं योग्यं हि साध्यम् । एवं दृष्टान्तस्यापि सिद्धसाध्य-सजातीयधर्मं प्रति आश्रयत्वात्साध्यविकलत्वमिष्टमेवेत्यत आह ॥ साध्य-विकल इतीति ॥ अपरोक्षतया प्रतीत्यनुपपत्तेरिति ॥ असतः परोक्ष-प्रतीत्यभावे ततो वैलक्षण्यस्य ज्ञातुमशक्यत्वेनानिर्वचनीयत्वासिद्धिप्रसङ्गाद् अपरोक्षतयेति विशेषितम् ॥ न सत्वात्प्रतीतिरसत्त्वाच्च बाध इति ॥ यथा भट्टमतानुसारिणा त्वयाऽपि गुणगुण्यादेरत्यन्तभेदे गवाश्वादिवत्पृथक्-सिद्ध्यादिप्रसङ्गाद् अत्यन्ताभेदे च पर्यायत्वप्रसङ्गाद् भेदाभेदौ स्वीकृतौ न तूभयबहिर्भावः, यथा वा जातेष्टेः शुद्धकाम्यत्वे ‘पुत्रे जाते’ इति पुत्रजनन-रूपनिमित्तश्रवणविरोधात् शुद्धनैमित्तिकत्वे च ‘पूत एव तेजस्व्यन्नादो भवति’ इति पूतत्वादिफलश्रवणविरोधाद् उभयसम्बन्धिताङ्गीकारोऽङ्गीकृतः न तूभयबहिर्भावः, तथा शुक्तिरूप्यादेरत्यन्तसत्वे बाधानुपपत्तेर् अत्यन्ता-सत्त्वे च प्रतीत्यनुपपत्तेरुभयात्मकत्वमङ्गीकार्यम् । तथा च ख्यातेः सत्त्वेन, बाधस्य च असत्त्वेनाप्युपपन्नत्वादर्थापत्तेरन्यथाप्युपपत्तिरित्यर्थः ।

किमर्थापत्तौ प्रवृत्तायामपि विरोधः ? किं वा विरोधादर्थापत्तिरेव न प्रवर्तते ? इति । आद्यं दूषयति ॥ विरोध इति ॥ द्वितीयं प्रत्याह ॥ अन्यथेति ॥ विधिसमुच्चय इति ॥ न चैवं निषेधसमुच्चयस्य तात्त्विकता-पातः निषेधसमुच्चयस्यातात्त्विकत्वेऽपि विधिसमुच्चयतात्त्विकत्वप्रसङ्गस्या-विशेषात् । उल्लेखमात्रमिति ॥ यद्यपि ज्ञानजनककरणसम्बन्धित्वरूपं विषयत्वं सत्त्वमपेक्षते । असतः करणसम्बन्धायोगात् तथापि यथा परोक्ष-ज्ञानं प्रति तज्जनिताभिवदनरूपव्यवहारविषयतायोग्यतारूपं ‘कस्य ज्ञानम्’ इत्युक्ते ‘अस्य ज्ञानम्’ इति आश्रयाश्रयिभावादिसम्बन्धान्तराभावेऽपि ज्ञानावच्छेदकत्वरूपं तदुल्लेख्यत्वं तथा अपरोक्षज्ञानं प्रत्यप्यस्तु । अविशेषात् । तथाऽप्यसतोऽपरोक्षज्ञानं भ्रान्तेरन्यत्र न दृष्टचरमिति चेन् न । सद्विलक्षणस्यापि भ्रान्तेरन्यत्र दर्शनादिति भावः ।

श्रीनिवासतीर्थीयटिप्पणी

अवसरतः प्राप्तमिति शेषः । प्रतिज्ञाहेतुनिराकरणानन्तरं दृष्टान्तनिरासस्य अवसरतःप्राप्तं दृष्टान्तं दूषयिष्यन्नित्यर्थः । आदौ साधनवैकल्यमनभिधाय साध्यवैकल्याभिधाने निमित्तमाह ॥ साध्यसिध्यर्थमिति । प्राधान्यात् साध्यस्येति शेषः ॥ जगत इतीति । जगतो नास्तीति किमु वक्तव्य-मित्यर्थः । ननु यद्यसत्वं सद्विविक्तत्वं वा मिथ्यात्वं परस्याभिमतं स्यात् । तदा कथं साध्यवैकल्यं भवद्भिरभिधातुं शक्यम् अपसिद्धान्तप्रसङ्गादित्यत आह ॥ असत्त्वस्येति । अपसिद्धान्तभयेनेति शेषः ॥ अनिर्वचनीयत्वेति । असद्विलक्षणस्वरूपानुपमर्देन सद्विलक्षणत्वे साध्ये अनिर्वचनीयत्वमेवोक्तं भवतीति सिद्धवत्कृत्येत्यर्थः । ननु साधयितुं योग्यं सन्दिग्धमिति यावत् साध्यं तद्वैकल्यं दृष्टान्तस्य भूषणमेव । तस्य निश्चितसाध्यसमानधर्म-वत्त्वात् । अतो व्याख्याति ॥ साध्यविकल इतीति । तथा च तद्वैकल्यं दूषणमेवेत्याशयः । शुक्तिरजते अनिर्वचनीयत्वाभावात्साध्यवैकल्य-मित्युक्तम् । तदयुक्तम् । ख्यातिबाधान्यथानुपपत्त्या तस्यानिर्वचनीयतायाः सिद्धत्वादित्यभिप्रेत्य शङ्कते ॥ न तावदित्यादिना । नन्वसदपिपदादिना-परोक्षतः प्रतीयत एव । अन्यथा प्रपञ्चे असद्वैलक्षण्यज्ञानानुपपत्तेरित्यत उक्तम् ॥ अपरोक्षतयेति ॥ ततोऽर्थादिति । शुक्तिरजतमसच्चेदपरोक्षतया न प्रतीयेत । यदसत्तदपरोक्षतया न प्रतीयते । यथा नरविषाणम् । इदं चापरोक्षतया प्रतीयते तस्मादसन्न भवति । सच्चेन्न बाध्येत यत्सत्तन्न बाध्यते । यथा आत्मा । बाध्यते चेदं तस्मात्सन्न भवतीति ख्याति-बाधान्यथानुपपत्त्या एतत् शुक्तिरजतं सदसद्विलक्षणरूपानिर्वचनीयमेवे-त्यर्थः । अर्थापत्तेरन्यथाप्युपपत्तिरूपं दोषमाह ॥ सत्वात्प्रतीतिरित्यादिना । असच्चेन्न प्रतीयेत प्रतीयते चेदं तस्मादसन्नेत्युक्ते सत्त्वेनापि प्रतीत्युपपत्ति-रस्तु न तु तदन्यथानुपपत्त्या असद्वैलक्षण्यं कल्प्यम् । एवं सच्चेन्न बाध्येत बाध्यते चेदं तस्मात्सन्नेत्युक्तेऽसत्त्वेनापि बाधोपपत्तिरस्तु । न तु तदन्यथानुपपत्त्या सद्वैलक्षण्यं कल्प्यम् । एवं च शुक्तिरूप्यादेरत्यन्तसत्त्वे बाधानुपपत्तेरत्यंतासत्त्वे च प्रतीत्यनुपपत्तेः सदसदात्मकत्वमेवाङ्गीकार्यं न तु तद्बहिर्भावः । तथा च ख्यातेः सत्त्वेन बाधस्य चासत्त्वेनाप्युपपन्नत्वात् । अर्थापत्तेरन्यथाप्युपपत्तिरित्यर्थः । तथाहि । व्यवहारे भट्टनय इति भट्टमतानुसारिणा त्वया गुणगुण्यादेरत्यन्तभेदे गवाश्वादिवत्पृथगुपलब्धि-प्रसङ्गात् । अत्यन्ताभेदे च पर्यायत्वान्यतरमात्रावशेषप्रसङ्गाद्भेदाभेदौ स्वीकृतौ नोभयबहिर्भावस्तद्वदिति ज्ञातव्यम् । शङ्कते ॥ तद्विरुद्धमिति । सदसदात्मकत्वं विरुद्धमित्यर्थः । किमर्थापत्तिप्रवृत्त्यनन्तरं सदसत्त्वं विरुद्ध-मित्युच्यते । उत सदसत्त्वस्य विरुद्धत्वादेतादृशविरुद्धप्रमेयनिर्णयाय अर्थापत्तिरेव न प्रवर्तत इति । आद्यं दूषयति ॥ कोऽयं विरोध इति । अर्थापत्तिरूपप्रमाणमेव चेद्यदि सदसत्त्वं गमयेत्तदा कोऽयं विरोधो नाम । प्रामाणिकेऽर्थे विरोधोऽकिञ्चित्कर इति भावः । द्वितीयं प्रत्याह ॥ अन्यथेति । कुत इत्यत आह ॥ विरुद्धेति । विरुद्धे ये सदसत्त्वे तन्निषेधसमुच्चयस्यापि विरुद्धत्वादित्यर्थः । सदसत्त्वरूपप्रमेयस्य विरुद्धत्वा-दर्थापत्तिरेव न प्रवर्तत इति यद्युच्येत तर्हि सदसतोर्द्वयोरेव सर्वैरनुभूय-मानत्वेन सदसद्वैलक्षण्यरूपप्रमेयस्यापि विरुद्धत्वात्तन्निर्णयाय त्वदीयार्था-पत्तेरपि प्रवृत्तिर्न स्यादिति भावः । निषेधसमुच्चयस्य सदसद्वैलक्षण्यरूपस्य विधिसमुच्चयः सदसत्त्वरूपः ॥ लाघवादिति । विरुद्धातात्त्विकसद-सद्वैलक्षण्याङ्गीकारापेक्षयाऽविरुद्धातात्त्विकसदसत्त्वाङ्गीकारस्यैव लघुत्वा-दित्यर्थः । न च विधिसमुच्चयस्यातात्त्विकत्वे तन्निषेधसमुच्चयस्य तात्त्विकत्वापातः परस्परविरुद्धयोरिति न्यायादिति वा वाच्यम् । निषेध-समुच्चयस्यातात्त्विकत्वे विधिसमुच्चयस्यापि तात्त्विकत्वप्रसङ्गः । उक्तन्याया-देवेति साम्यादिति भावः ॥ किञ्चेति । यदि शुक्तिरजतमपरोक्षतया प्रतीयते तर्हि तदन्यथानुपपत्त्याऽसद्वैलक्षण्यं वक्तव्यम् । तदेवोक्तविधया नास्ति । अपरोक्षतया प्रतीयमानत्वं नामेन्द्रियजन्यज्ञानं विषयत्वम् । तथा च यत्सन्निकृष्टेन करणेन यज्ज्ञानं जायते स तस्य विषय इति निरुक्त-विषयत्वस्य अत्यन्तासति रजतेऽसम्भवेन कस्यानुपपत्तिर् ययाऽसद्वैलक्षण्यं सिध्येदित्यर्थः । तथा चासच्चेदपरोक्षतया न प्रतीयेत प्रतीयते चेदं तस्मादसन्नेति विपर्ययपर्यवसाने स्वरूपासिद्धिरिति भावः । ननु अपरोक्ष-प्रतीतिविषयत्वं न निरुक्तरूपम् । येनोक्तदोषः । किं नाम तदुल्लेखित्व-मात्रमेव विवक्षितमिति चेन्न । तथात्वे ज्ञाने उल्लेख्यत्वान्यथानुपपत्त्या असद्वैलक्षण्यं साधितं स्यात् । न च तद्युक्तम् । असतोऽपि ज्ञान-व्यावर्तकत्वरूपतदुल्लेख्यत्वसंभवेनानुपपत्तिरेव नास्ति । यया सद्वैलक्षण्यं साध्येतेत्याह ॥ उल्लेखमात्रं चेदिति । विषयत्वमिति शेषः ॥

श्रीगुरुराजीयटिप्पणी

सदसदात्मकत्वेनापीति ॥ सदसदात्मकत्वेनैवेत्यर्थः । किमर्थापत्तौ प्रवृत्तायां विरोध उच्यते, उत विरोधापत्तिप्रवृत्तिरेव न सम्भवतीत्युच्यत इति विकल्पद्वयं मनसि निधायाद्यं दूषयति ॥ कोऽयं विरोध इति ॥ यद्यर्थापत्तौ प्रवृत्तायामयं विरोधस्तदा विरोधस्यार्थापत्त्युत्तरकालमुपस्थितत्वेन ततः प्रागुनुपस्थितत्वेन तत्प्रवृत्तिप्रतिबन्धकत्वानुपपत्तेरप्रतिबद्धा अर्थापत्तिः स्वप्रमेयं सदसदात्मकत्वं गमयेदेवेत्यर्थः । द्वितीयं दूषयति ॥ अन्यथेति ॥ तत्रापि विरोधेनार्थापत्तिप्रवृत्तिकुण्ठनादिति भावः ॥ निषेधेति ॥ तथा च प्रतिबद्धख्यातिबाधान्यथाऽनुपपत्त्या सदसद्विलक्षणत्वसिद्धिरुपपन्नेति भावः ॥ अङ्गीक्रियतामिति ॥ तथा चाप्रतिबन्धात् ख्यातिबाधान्यथाऽनुपपत्त्या सदसदात्मकत्वसिद्धिरपि युक्तेति भावः । नन्वेवं सदसदात्मकत्वं सद-सद्विलक्षणत्वयोरुभयोरपि ख्यातिबाधाऽन्यथानुपपत्त्या सिद्धिसम्भवे सद-सदात्मकत्वेनैव तदुपपत्त्या श्रयणे किं विनिगमकमित्यतस्तृतीयप्रकारासम्भव एव चतुर्थप्रकाराश्रयणस्य न्याय्यत्वात्तत्संभवेऽपि चतुर्थप्रकारकल्पनायां गौरवम् । मत्पक्षे तु तदकल्पनाद् लाघवमेव तन्नियामकमित्याशयेनाह ॥ लाघवादिति ॥ किं चापरोक्षतया न प्रतीयेतेति कोऽर्थः ? अपरोक्षतया न विषयीक्रियेतेति वा ? नोल्लिख्येतेति वा ? तत्राद्यमिष्टापत्त्या दूषयति ॥ किञ्चेति ॥ उक्तविधयेति ॥ शुक्तिरजतज्ञानस्य रजतसन्निकृष्टकरणा-जन्यत्वादित्युक्तविधयेत्यर्थः । द्वितीयमप्रयोजकत्वेन दूषयति ॥ उल्लेखेति ॥ ननु व्यावृत्तिधीजनकत्वरूपं व्यावर्तकत्वमेवोल्लेख्यत्वं तत्कथमसतः सकल-सामर्थ्यरहितस्य स्यादित्यत आह ॥ विस्तृतमेतदिति ॥ अन्यत्र तत्त्वोद्योतादावित्यर्थः ।

मिथ्यात्वानुमानखण्डनपरशुः

अपरोक्षतयेति । परोक्षभ्रमविषयश्च स्यात्सतोऽपि बाधसत्त्वात् । बाधो नासत्त्वप्रतिक्षेपायालमित्यभिप्रेत्य हेत्वन्तरोपादानमिति द्रष्टव्यम् । विरुद्ध-निषेधसमुच्चयस्येति । नन्विदमनुपपन्नम् । विरुद्धयोरपि गोत्वाश्वत्वयो र्निषेधद्वयस्य सामानाधिकरण्यदर्शनात् । न च विरुद्धशब्देन भावा-भावत्वरूपं विवक्षितम् । गोत्वाश्वत्वयोरतथात्वात्तदभावसमुच्चयेति सत्त्वा-सत्त्वयोर् भावाभावरूपत्वात्तन्निषेधसमुच्चयो न सम्भवतीति वाच्यम् । भावाभावात्मकयोर्निषेधस्य भावाभावात्मकत्वेन विरुद्धनिषेधयोर्विरुद्धत्वमिति पृथगभिधानादिति चेदुच्यते । नैतद् विज्ञायते । विरुद्धनिषेधयोर् विरुद्ध-निषेध इति विज्ञायते । न च सत्त्वाभाववति शुक्तिरूप्यादौ असत्त्वा-भावदर्शनात् सत्त्वासत्त्वनिषेधौ न विरुद्धाविति वाच्यम् । तत्सिद्ध्यर्थमेव त्वप्रतनात् ॥

प्रपञ्चमिथ्यात्वानुमाने दृष्टान्ते साधनवैकल्योपपादनम्

मिथ्यात्वानुमानखण्डनम्

उक्तप्रकारेण दृश्यत्वाभावात्साधनविकलश्च

टीका

‘रजतं दृष्टमिति भ्रममात्रत्वात्’ इति उक्तप्रकारेण । ‘शुक्ति-रजतस्य’ इत्यनुवर्तते । ‘च’कारो दृष्टान्त इत्यस्यानुकर्षणार्थः ।

प्रपञ्चमिथ्यात्वानुमाने उपाधिदोषोद्भावनं

केचित्, उपाधिदोषमसिद्धावन्तर्भावयन्ति । अन्ये, अनैकान्तिके । परे, कालात्ययापदिष्टतायाम् । एके सत्प्रतिपक्षतायाम् । केचित्तु दृष्टान्तदोष इति । तत्र गुणदोषचिन्तायां नायमवसर इति सर्वावसितौ उपाधिदोषमाह–

मिथ्यात्वानुमानखण्डनम्

प्रमाणविरुद्धत्वमुपाधिः

उपाधेः साध्याभिन्नताशङ्का

टीका

नन्वत्र बाध्यत्वं साध्यम् । तदेव च प्रमाणविरुद्धत्वम् । न हि स्वस्मिन्स्वयमुपाधिः । व्याप्यव्यापकभावस्य भिन्नाश्रयत्वादिति । मैवम् । अन्यथाप्रतिपत्तिपूर्वकं तदुन्मूलनेन सम्यग्बोधो बाधः । प्रमाणविरोधस्तु विपरीतप्रमाणविषयत्वमात्रमिति भेदात् ।

मन्दारमञ्जरी

असिद्धाविति ॥ उपाधिसद्भावे निरुपाधिकसम्बन्धरूपव्याप्तेरभावा-दुपाधिर्व्याप्यत्वासिद्धावन्तर्भवतीत्यर्थः ॥ अनैकान्तिक इति ॥ उपाधि रूपव्यापकनिवृत्त्या पक्षात्साध्यरूपव्याप्यनिवृत्त्या पक्षस्यैव विपक्षत्वात्पक्षे वर्तमानस्य हेतोरनैकान्तिकतेत्यर्थः ॥ कालात्ययापदिष्टतायामिति ॥ उपाधिरूपव्यापकनिवृत्तिलक्षणप्रबलप्रमाणेन पक्षे साध्याभावस्य निर्णी-तत्वादिति भावः ॥ सत्प्रतिपक्षतायामिति ॥ उपाधिव्यतिरेकस्य पक्षे दूष्यानुमानसाध्याभावसाधकत्वादिति भावः ॥ दृष्टान्तदोष इति ॥ साध्यादिमत एव दृष्टान्तत्ववदुपाधिहीनस्यैव दृष्टान्तत्वात्साध्यवैकल्यादि-वदुपाधिर्दृष्टान्तदोष इत्यर्थः ॥ सर्वावसिताविति ॥ उपाधेर्दोषत्वे सर्ववादिसंमतौ सत्यामित्यर्थः । क्वचित्सर्वावसितमिति पाठः । तदा सर्वावसितत्वम् उपाधिदोषविशेषणम् ।

‘सम्यग्बोधो बाधः’ इत्युक्ते ‘घटोऽयम्’ इति सम्यग्बोधो बाधः स्यात् । तदर्थम् ‘अन्यथाप्रतिपत्तिपूर्वकम्’ इत्युक्तम् । तावत्युक्ते शुक्तिकायां रजतत्वज्ञानानन्तरं तस्यामेव ‘इदम्’ इति सम्यग्बोधो बाधः स्यात् । तदर्थं ‘तदुन्मूलनेन’ इत्युक्तम् । अन्यथाप्रतिपत्तेरुन्मूलनं च तद्विषयासत्त्वज्ञापनं वा तस्या भ्रान्तित्वज्ञापनं वेति द्रष्टव्यम् । सम्यग्ग्रहणाभावे तु वल्मीके स्थाणुत्वभ्रमानन्तरं ‘नायं स्थाणुः । किं तर्हि ? पुरुषः’ इति भ्रान्त्यन्तर-मपि बाधः स्यात् । तदर्थं सम्यग्ग्रहणम् । विपरीतप्रमाणविषयत्वमात्र-मिति ॥ ‘नेदं रजतम्’ इति अभावग्राहकप्रमाणं प्रति रजतादेः प्रतियोगि-त्वेनावच्छेदकतया विषयत्वमात्रमित्यर्थः । मात्रपदेन अन्यथाप्रतिपत्ति-पूर्वकत्वं तदुन्मूलनं च व्यावर्तितम् । तेनोक्तरूपं बाधं प्रति निषेध्यतया विषयत्वरूपाद् बाध्यत्वात् प्रमाणविरुद्धत्वस्य भेद इति द्रष्टव्यम् ।

श्रीनिवासतीर्थीयटिप्पणी

इत्युक्तप्रकारेणेति । दृश्यत्वं हि दृग्विषयत्वं तच्च यत्सन्निकृष्टे-नेत्यादिरूपं तत्तु शुक्तिरजते नास्तीति प्रागुक्तप्रकारेणेत्यर्थः । दृष्टान्त इत्यस्य पूर्ववाक्यस्थितस्य । ननूत्तरत्र भगवत्पादैर्मिथ्यात्वानुमानस्योपाधि-रूपो दोष उच्यते तदयुक्तम् । उपाधेर्दोषत्वाभावादिति चेन्न । उपाधे-र्दोषत्वाभावे सर्ववादिभिस्तस्य हेत्वाभासादावन्तर्भावो नोच्येत । अदोषस्य दोषेऽन्तर्भावकथनायोगात् । अतस्तस्य दोषत्वं सर्वसंमतमित्याशयेनाह ॥ केचिदिति । उपाधिदोषम् उपाधिरूपं दोषम् ॥ असिद्धाविति । व्याप्ति-स्सम्बन्धो निरुपाधिक इत्युक्तत्वेन उपाधिसद्भावे निरुपाधिकसाध्यसम्बन्ध-रूपव्याप्त्यभावेन तदभावापादकत्वादुपाधेर्व्याप्यत्वासिद्धावन्तर्भाव इत्यर्थः । यथाहुः । व्याप्यत्वासिद्धो द्विविधः । एको व्याप्तिग्राहकप्रमाणाभावाद-परस्तूपाधिसद्भावादिति ॥ अनैकांत्य इति । उपाधेः साधनाव्यापकत्वेन साधनवति पक्षेऽभावात् साध्यव्यापकत्वेन व्यापकीभूतस्वनिवृत्त्या स्वव्याप्य-भूतसाध्यस्यापि व्यावर्तनेन पक्षस्यैव विपक्षत्वप्राप्त्या तत्र वर्तमानस्य हेतोरनैकांत्यमित्यर्थः ॥ कालात्ययापदिष्टतायामिति । उपाधिरूपव्यापक-निवृत्तिलक्षणप्रबलप्रमाणेन पक्षे व्याप्यभूतसाध्यस्यापि व्यावर्तितत्वेन साध्या भावस्य निर्णीतत्वादुपाधेर्बाधान्तर्भाव इत्यर्थः ॥ सत्प्रतिपक्षतायामिति । यागीयहिंसायां निषिद्धत्वरूपोपाधिव्यावृत्त्याऽधर्मसाधनत्वस्यापि निवर्तनेन यागीयहिंसा धर्मसाधनं न भवति निषिद्धत्वशून्यत्वादित्येवमुपाधिव्यतिरेकस्य साध्याभावसाधकत्वादुपाधिः सत्प्रतिपक्षतायामन्तर्भूत इत्यर्थः ॥ दृष्टान्तदोष इति । व्याप्तिसंवेदनस्थानं दृष्टान्त इति गीयत इति हि दृष्टान्तलक्षणम् । तथा चोपाधौ प्राप्ते हेतुसाध्ययोर्निरुपाधिकसाध्यसम्बन्धरूपव्याप्त्यभावेन व्याप्तिसंवेदनस्थानत्वरूपलक्षणाभावेन दृष्टान्तत्वायोगादाश्रयवैकल्यापादक-त्वादुपाधेराश्रयवैकल्यरूपदृष्टान्तदोषेऽन्तर्भाव इत्यर्थः । यथा सिद्धसाधनता-प्राप्तौ सन्दिग्धसाध्यधर्मवत्त्वरूपपक्षलक्षणापगमेन तस्या आश्रयासिद्धावन्त-र्भावः । यथाहुः । आश्रयासिद्धताहेतोः सिद्धधर्मस्य साधने । पक्षो हि संश्रयस्तस्य स च साध्यान्वितो यत इति तद्वदिति ज्ञातव्यम् ॥ गुणदोष-चिन्तायामिति । तत्र सत्प्रतिपक्षान्तर्भावपक्ष एव श्रेयान् । यथोक्तं भगवत्पादैः । प्रतिज्ञायाः समबलप्रमाणविरोध एव सप्रतिसाधनः । स एवोपाधिदोषोऽपीति । पक्षादिविभागात्पूर्वं व्याप्तिग्रहणसमये प्रवृत्तस्योपाधे-र्व्यभिचारोन्नायकतयाऽनैकांत्येऽन्तर्भावपक्षोऽपि युक्तः । यथोक्तमनु-व्याख्याने । साध्यव्यापकवैलोम्यमव्याप्तिः साधनस्य चेति । व्याप्यत्वा-सिध्यन्तर्भावपक्षस्त्वयुक्तः । अव्यभिचरितसाध्यसम्बन्धस्यैव व्याप्तिलक्षणत्वेन निरुपाधिकसाध्यसम्बन्धस्य व्याप्तिलक्षणत्वाभावात् । तथाहि । उपाधिर्नाम साध्यव्यापकः । व्यापकत्वं नाम व्याप्तिनिरूपकत्वम् । एवं च व्याप्तिज्ञाने तद्धटितोपाधिज्ञानं तज्ज्ञाने निरुपाधिकसाध्यसम्बन्धरूपव्याप्तिज्ञानम्, अभावज्ञाने प्रतियोगिज्ञानस्य कारणत्वादित्यन्योन्याश्रयापत्तेः । दृष्टान्त-दोषान्तर्भावपक्षोऽप्ययुक्तः । आश्रयासिद्धिवदाश्रयवैकल्यस्य दृष्टान्तदोषत्वा-भावेन तत्रोपाधेरन्तर्भावकल्पनायोगात् । इत्यादिप्रकारेण तत्पक्षाणां गुणदोषचिन्तायामित्यर्थः ॥ नायमवसर इति । बालव्युत्पादनार्थमिदं प्रकरणम् । प्रकरणं च शास्त्रैकदेशसम्बद्धम् । तथा च शास्त्र एवायं विचारः कर्तुमुचितो नात्र अनवसरग्रस्तत्वादिति भावः ॥ इति सर्वावसिताविति । इत्येवमन्तर्भावकथनान्यथानुपपत्त्या उपाधेर् दोषतायाः सर्ववादिनामवसितौ संमतौ सत्यामित्यर्थः । क्वचित्सर्वावसितमिति पाठः । सर्वेषां वादिनां दोषत्वेन सम्मतमित्यर्थो द्रष्टव्यः । केचित्तु सर्वावसितौ सर्वेषामसिध्यादीना-मवसान इत्यर्थ इत्यप्याहुः । प्रमाणविरुद्धत्वमिति । तद्रूपमिथ्यात्व-मित्यर्थः ॥ भिन्नाश्रयत्वादिति । भिन्नाधिकरणनिष्ठत्वेन एकस्मिन्नेवाधि-करणे तदयोगादित्यर्थः ॥ तदुन्मूलनेन । अन्यथाप्रतिपत्त्युन्मूलनेन ॥ बाधः। तद्विषयत्वं बाध्यत्वमिति शेषः । अत्र सम्यग्बोधो बाध इत्युक्ते घटोऽय-मित्यादिसमस्तयथार्थज्ञानानामपि बाधत्वप्रसङ्गः । अतस्तत्रातिव्याप्ति-परिहाराय अन्यथाप्रतिपत्तिपूर्वकमित्युक्तम् । तावत्युक्ते शुक्तिकायां रजतज्ञानानन्तरं तस्यामेव इदं द्रव्यमिति जायमानस्य सम्यग्बोधस्यापि बाधत्वप्रसङ्गः । तदर्थं तदुन्मूलनेनेत्युक्तम् । यद्यप्युत्तरज्ञानेन पूर्वज्ञान-स्योन्मूलनं भवत्येव । तथाऽप्यत्रान्यथाप्रतिपत्तेरुन्मूलनं नाम तद्विषयासत्व-ज्ञापनं वा तस्या भ्रान्तित्वज्ञापनं वा विवक्षितम् । तथा च शुक्तौ रजतभ्रमानन्तरं जायमानेनेदं द्रव्यमिति ज्ञानेन पूर्वं जाताया अन्यथा-प्रतिपत्तेर्निरुक्तमुन्मूलनं न भवतीति न तस्य बाधत्वप्रसङ्गः । सम्यग्पदाभावे वल्मीके स्थाणुत्वभ्रमानन्तरं नायं स्थाणुः किन्तु पुरुष इति भ्रमान्तरमपि बाधः स्यादत उक्तं सम्यगिति ॥ विपरीतप्रमाणेति । शुक्तिकां दृष्ट्वा आदावेव नेदं रजतमिति रजताभावज्ञानं जायते । तत्र रजतविपरीतो यो रजता भावस्तद्ग्राहकत्वेन नेदं रजतमिति विपरीतप्रमाणं प्रति रजतस्य प्रतियोगित्वेनावच्छेदकतया विषयत्वमात्रं प्रमाणविरुद्धमित्यर्थः । मात्र-शब्देनान्यथाप्रतिपत्तिपूर्वकं तदुन्मूलनं व्यावर्त्यते ॥

श्रीगुरुराजीयटिप्पणी

शिष्यः शङ्कते ॥ नन्विति ॥ साध्योपाध्योरभेदो न स्वरीत्या नापि पररीत्येत्याशयवान् स्वमते तयोर्भेदव्युत्पादनेनैव परमतेऽपि तयोर्भेदसिद्धिं मन्वानो विज्ञातस्यान्यथा सम्यग्विज्ञानं ह्येव तन्मतमित्त्यनुव्याख्यानं मनसि निधाय बाध्यत्वं तावद्वक्ति ॥ अन्यथेति ॥ अत्र तद्विषयत्वं बाध्यत्वमिति शेषः । सम्यग्बोधो बाध इत्युक्ते सर्वोऽपि सम्यग्बोधो बाधः प्रसज्येत । न च तथा व्यवहारः । तन्निवृत्त्यर्थमन्यथाप्रतिपत्तिपूर्वकमित्युक्तम् । अन्यथा-प्रतिपत्तिपूर्वकं बोध इत्येवोक्ते धारावाहिकत्रये रजतत्त्वेनावगतस्य शुक्ति-शकलस्य पुनर्नागवंगत्वादिज्ञाने प्रसङ्गः । तन्निरासाय सम्यगित्युक्तम् । अन्यथात्वं च स्वरूपापेक्षया विवक्षितम् । तेन घटस्यैव पटाद्यपेक्षया अन्यथा घटत्वेन विज्ञातस्य पुनः घटत्वेन विज्ञाने नातिप्रसङ्गः । तावत्त्युक्ते रजतत्त्वेनावगतस्य शुक्तिकाशकलस्य शुक्लत्वादिज्ञाने, तथा पुरुषान्तर-सम्बन्धिनि तस्यैव वा पुरुषस्य कालान्तरभाविन्याजानसिद्धे सम्यग्ज्ञाने प्रसङ्गः । तन्निरासाय तदुन्मूलनेनेत्युक्तम् । तदुन्मूलकत्वं चात्र तज्जनित-प्रवृत्त्यादिपरम्पराविघटकत्वम् । तच्च नोदाहृतज्ञानस्यास्तीति नातिप्रसङ्गः । अनेनैव परमते आरोपपूर्वकस्वात्त्यन्ताभावप्रतिनिषेध्यत्वेन विषयत्वं बाध्यत्वम् । प्रमाणविरुद्धत्वं च स्वात्यन्ताभावप्रमां प्रति निषेध्यत्वेन विषयत्वमात्रमिति साध्योपाध्योर्भेदः सूचितो भवति । यद्वा सर्वस्मिन् प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वं वा ज्ञानत्वेन ज्ञाननिवर्त्यत्वं वा बाध्यत्वम् । विपरीतप्रमाणविषयत्वं तु प्रमाणविरुद्धत्वमिति । परमते साध्योपाध्योर्भेदस्य स्पष्टत्वात्तमनुपपाद्यैव स्वरीत्या तमुपपादयति ॥ अन्यथेति ॥

मिथ्यात्वानुमानखण्डनपरशुः

केचिदिति । उपाधिव्यतिरेकेण साधनवति पक्षे साध्याभावसिद्धौ पक्षातिरिक्त एव व्यभिचारो वक्तव्य इति नियमात् पक्षव्यभिचारस्य वक्तुमशक्तत्वात् । केचिदुपाधिदोषं व्याप्यत्वासिद्धावन्तर्भावयन्ति । साध्याभावसाधकस्य उपाधिव्यतिरेकस्य प्राबल्येन हेतोर्बाधितविषयत्वं भवतीति उपाधिदोषमपरे कालात्ययापदिष्टतायामन्तर्भावयन्ति । उपाधि-व्यतिरेकस्य पूर्वहेतुना समबलत्वाद् उपाधिदोषमेके सत्प्रतिपक्षतायामन्त-र्भविष्यन्ति । उपाधिव्यतिरेकेण पक्षे साध्यव्यतिरेकसिद्धौ पक्षस्यैव विपक्षत्वेन वैधर्म्यदृष्टान्तत्वात् तत्र व्यापकवैकल्प्यमस्तीति उपाधिवैधर्म्यं दृष्टान्तदोषेऽन्तर्भावयन्तीत्यर्थः । तटस्थः शङ्कते ॥ नन्विति ॥ एतेन परमते ज्ञाननिवृत्यत्वस्य बाध्यत्वात् प्रमाणविरुद्धत्वमित्युक्तमिति परास्तम् ॥ विपरीतप्रमाणविषयत्वेति ॥ नेदं रजतमित्येवमाकारकबोध-गोचरत्वमुपाधिरिति भावः ।

प्रमाणविरुद्धत्वोपाधेः साध्याव्यापकताशङ्का तत्परिहारश्च

टीका

तर्हि अनुपसञ्जातबाधभ्रमे प्रमाणविरुद्धत्वं नास्तीत्यव्याप्तिरिति चेन्न । तत्रापि बाधार्हत्वस्य सत्त्वात् ।

प्रमाणविरुद्धत्वोपाधेः साधनव्यापकत्वशङ्का तन्निरासश्च

प्रपञ्चस्यापि प्रमाणविरुद्धत्वात्साधनव्यापकोऽयमिति चेन्न । प्रतीतप्रमाणानामन्यथा व्याख्यातत्वात् । दृश्यत्वेन साधने मिथ्या-त्वस्योपाधित्वात् । अन्योन्योपाधिभावेनापि अनुमानस्याभासत्वात् ।

प्रमाणविरुद्धत्वस्यैव मिथ्यात्वे प्रयोजकत्वसमर्थनं

लोके च कस्यचिदर्थस्य सत्यत्वमिथ्यात्वयोर्विप्रतिपत्तौ दर्शनं सत्यतायां प्रमाणविरोधं मिथ्यात्वेऽनुसरन्ति । ततो मिथ्यात्वे तदेव प्रयोजकमिति ज्ञायते ।

मन्दारमञ्जरी

अनुपसञ्जातबाधभ्रमे प्रमाणविरुद्धत्वं नास्तीत्यव्याप्तिरिति ॥ अनुप-सञ्जातबाधभ्रमविषये मिथ्यात्वस्य सत्त्वेऽपि प्रमाणविरुद्धत्वं नास्तीत्युपाधेः साध्यव्यापकता नास्तीत्यर्थः ॥ बाधार्हत्वस्येति ॥ प्रबलविपरीत-प्रमाणविषयत्वयोग्यतारूपप्रमाणविरुद्धत्वलक्षणोपाधेरित्यर्थः ॥ न तु बाध्यत्वरूपसाध्यस्येति भ्रमितव्यम् । तत्र तस्य परेणाप्यङ्गीकृतत्वात् । न विपरीतप्रमाणविषयत्वमात्रमुपाधिः । किं तु ? तद्योग्यत्वम् । तच्च तत्राप्यस्तीति सिद्धा साध्यव्यापकतेति भावः । एतच्च भ्रान्तिसमानाधि-करणमेव विपरीतप्रमाणमभ्युपेत्योक्तम् । वस्तुतस्तु अनुपसञ्जातबाधभ्रमे विपरीतप्रमाणविषयत्वं चास्त्येव । भ्रान्तेन तदभावस्याज्ञातत्वेऽपि ईश्वरादिभिस्तदभावस्य ज्ञातत्वात् । न हि भ्रान्तिसमानाधिकरणमेव तदुन्मूलनं बाधकं भवतीति नियमस् तथा भ्रान्तिसमानाधिकरणमेव विपरीतप्रमाणं भवतीति नियमः ।

अनुपसञ्जातबाधभ्रमविषये उपाधेः साध्यसमव्याप्तता नास्तीति शङ्का तत्परिहारश्च

अनुपसञ्जातबाधभ्रमे प्रमाणविरुद्धत्वमस्तीति क्वचित्पाठः । तत्र ‘अनुपसञ्जातबाधभ्रमविषये भ्रमविषयत्वात् प्रमाणविरुद्धत्वे सत्यपि अनुप-सञ्जातबाधत्वाद् बाधविषयत्वरूपबाध्यत्वस्याभावेन ‘यत्रोपाधिस्तत्र साध्यम्’ इति समव्याप्तेरभावादनुपाधित्वमित्यभिप्रायेण अनुपसञ्जात बाधेत्यनेन ग्रन्थेन शङ्कितत्वात् तत्रापि बाधार्हत्वस्य सत्वादित्यनेन ग्रन्थेन परेणापि बाध्यत्वं बाधार्हत्वमेव विवक्षणीयम्, अन्यथा अनुपसञ्जातबाध-भ्रमविषये दृश्यत्वहेतोर्व्यभिचारप्रसङ्गात् । बाधार्हत्वं च तत्राप्यस्तीति समव्याप्तिरस्तीति भावेन परिहृतम्’ इति व्याख्येयः । प्रतीतप्रमाणा-नामिति ॥ ‘नेह नाना’ इत्यादिवाक्यानामित्यर्थः । दृश्यत्वेनैव प्रमाण-विरुद्धत्वं प्रपञ्चे साध्यते । तथा च साधनवत्पक्षादव्यावृत्तेः साधनव्यापक उपाधिरित्याशङ्क्याह ॥ दृश्यत्वेनेति ॥ ननु यदा दृश्यत्वेन मिथ्यात्व-प्रमाणविरुद्धत्वयोरन्यतरत् साध्येत तदा एकस्य साधने अपर उपाधिर्भव-तीति न कस्यापि सिद्धिः स्यात् । यदा तु मिथ्यात्वे सति प्रमाणविरुद्धत्वं विशिष्टं साध्येत तदा कथम् ? इति चेन् न । साध्यविशेषणप्रयोजनानां सिद्धसाधनतापरिहारादीनामभावेन तथा साध्यनिर्देशासम्भवात् । उपाधित्वेन शङ्क्यमानानामनन्तत्वेन तेषां साध्यशरीरप्रवेशनायोगाच्च । किं च पक्षेतरत्वं पक्षे न साधयितुं शक्यं व्याघातात् । अनुकूलतर्कसद्भावे च तस्याप्युपाधि-त्वात् ।

एतेन केनचिद्धेतुना विश्वसत्यतासाधने प्रमाणविरुद्धत्वमुपाधिः । तत्साधने च सत्यत्वमुपाधिरिति स्वव्याघात इति निरस्तम् । अनुकूल-तर्काभाव एवैवमाश्रयणात् । मिथ्यात्वसत्यत्वसाधकानुमानेषु चानुकूल-तर्काभावाभावयोरन्यत्रोक्तत्वाच्चेत्यलम् । उपाधिरेव प्रयोजक इत्याह ॥ लोक इत्यादिना ॥

श्रीनिवासतीर्थीयटिप्पणी

अनुपसञ्जातबाधभ्रम इति । न उपसञ्जातो ऽनुपसञ्जातो ऽनुपसंजातो बाधो यस्य स अनुपसञ्जातबाधः । स चासौ भ्रमश्च तस्मिन्नित्यर्थः ॥ प्रमाणविरुद्धत्वमस्तीत्यव्याप्तिरिति । अनुपसञ्जातबाधभ्रमविषये भ्रम-विषयत्वादेव योग्यतया प्रमाणविरुद्धत्वे सत्यपि अनुपसञ्जातबाधत्वात् । बाधविषयत्वरूपं बाध्यत्वं नास्तीति यत्र प्रमाणविरुद्धत्वं तत्र बाध्यत्वमिति समव्याप्तेरभावादनुपाधित्वमित्यर्थः । ननु समव्याप्तत्वं नोपाधिलक्षणमिति चेन्न । तथात्वे शब्दोऽनित्यः कृतकत्वादित्यत्राश्रावणत्वमुपाधिः स्यात् । साध्यव्यापकत्वात्साधनाव्यापकत्वाच्च । अतोऽपेक्षितमेव समपदम् । गगनादौ व्यभिचारेण समव्याप्तेरभावात्तद्व्यावृत्तिः । यथाहुः । साधना-व्यापकाः साध्यसमव्याप्ता उपाधय इति ॥ बाधार्हत्वस्येति । बाधृ विलोडने अस्मत्कृत्ये यत्प्रत्यये बाध्येतिरूपम् । कृत्याश्चार्हार्थे स्मर्यन्ते । र्ओ कृत्यतृचश्चेति स्मरणात् । कृत्याः प्राङ्ण्वुल इति सूत्रेण ण्वुल्तृचा-वित्यतः प्राग्विहितानां प्रत्ययानां कृत्यत्वाभिधानात् । यत्प्रत्ययस्यापि तदन्तर्गतत्वादिति द्रष्टव्यम् । इदं च यस्य भ्रान्तिर्जाता तस्यैव बाधोऽपेक्षित इत्यभ्युपेत्य तदभिप्रायेण बाधार्हत्वस्य सत्त्वादित्युक्तम् । वस्तुतस्तु ईश्वरीययोगीश्वरीयबाधविषयत्वं फलोपधानमेवास्तीति द्रष्टव्यम् ॥ प्रमाणेति । नेह नानास्ति किंचनेत्यादिसत्यत्वविपरीतमिथ्यात्वप्रतिपादक-प्रमाणेत्यर्थः ॥ प्रतीतेति । प्रपञ्चमिथ्यात्वप्रतिपादकत्वेन प्रतीतेत्यर्थः । ननु दृश्यत्वहेतुनैव प्रमाणविरुद्धत्वमपि पक्षे साध्यत इति उपाधिः साधनव्यापक एवेत्याशङ्क्याह ॥ दृश्यत्वेनेति । साधने प्रमाणविरुद्धत्वोपाधेः पक्षे साधन इत्यर्थः ॥ आभासत्वादिति । तथा चान्योन्योपाधिभावे मिथ्यात्व-प्रमाणविरुद्धत्वयोर्मध्ये कस्यापि सिद्धिर्न स्यादिति भावः । मिथ्यात्वे प्रमाणविरुद्धत्वरूपोपाधिरेव प्रयोजको न दृश्यत्वहेतुरिति लोकानुभव-सिद्धम् । अतो प्रयोजकोऽयं दृश्यत्वहेतुरित्याह ॥ लोके चेत्यादिना ॥ प्रयोजक इतीति । प्रयोजकश्चोपाधिरित्युच्यत इत्यर्थः ।

श्रीगुरुराजीयटिप्पणी

स्वरीत्या साध्याव्यापकतामाशङ्कते ॥ तर्हीति ॥ अनुपसञ्जात-बाधभ्रमविषये भ्रमविषयत्वात् । सत्यपि मिथ्यात्वे प्रमाणविरुद्धत्वा-भावादुपाधेः साध्यव्यापकतेत्यर्थः । उक्तभ्रमविषये प्रमाणविरुद्धत्वाभाव-मुपपादयितुमनुपसञ्जातबाधत्वेन भ्रमविशेषणं कृतम् । बाधपदं चात्र विपरीतप्रमापरम् । न तूक्तविधपरमिति भवत्यनेन प्रमाणविरुद्धत्वा-भावसिद्धिः । यद्यप्युक्तस्थले विपरीतप्रमाणविषयत्वं चास्त्येव भ्रान्तेन तदभावस्याज्ञातत्वेऽपीश्वरादिभिस्तस्य ज्ञातत्त्वात् । भ्रान्तिसमानाधिकरणमेव समानाधिकरणभ्रान्तिप्रसञ्जितान्यथाकारोन्मूलनेन बाधकं भवतीति नियमवद् भ्रान्तिसामानाधिकरण्यमेव विपरीतप्रमाणं भवतीति नियमाभावात् । तथा च न साध्यव्यापकत्वशङ्कावकाशः । तथापि भ्रान्तिसमानाधिकरणमेव विपरीतप्रमाणं भवतीति नियममभ्युपेत्ययमाशङ्केति द्रष्टव्यम् ॥ बाधार्ह-त्वस्येति ॥ अत्रापि बाधपदं विपरीतप्रमाणपरमेव । ततश्च विपरीत-प्रमाणविषयत्वयोग्यतारूपप्रमाणविरुद्धत्वोपाधेरित्यर्थः । ततश्चोक्तभ्रम-विषयेऽनुपसञ्जातविपरीतप्रमाणत्वेन विपरीतप्रमाणविषयत्वाभावेऽपि तद्योग्यत्वसत्त्वान्न साध्यव्यापकतेत्याशयः । क्वचिदनुपसंजातबाधभ्रमे प्रमाणविरुद्धत्वमस्तीति पाठस्तत्रापि शङ्कापरिहारग्रन्थयोर्बाधपदं निरुक्त-बाधपरमेव । ततश्चानुपसञ्जातबाधभ्रमविषये भ्रमविषयत्वात् प्रमाणविरुद्धत्वे सत्यप्यनुपसञ्जातबाधत्वेनोक्तबाधविषयत्वरूपबाध्यत्वस्याभावेन यत्रो-पाधिस्तत्र साध्यमिति व्याप्त्यभावेनासमव्याप्तेरनुपाधित्वशङ्कार्थः । न बाध्यत्वमात्रं बाधविषयत्वं तथा सत्यनुपसञ्जातबाधभ्रमविषये सत्यपि दृश्यत्वे बाध्यत्वाभावेन व्यभिचारप्रसङ्गात् । किन्तु बाधार्हत्वमेव । तच्च तत्राप्यस्त्येवेति समव्याप्तत्वादुपाधित्वमिति परिहारार्थः । अत्र च भ्रान्ति-समानाधिकरणमेव विपरीतं प्रमाणं भवतीति नियमाभावाद् विपरीत-प्रमाणविषयत्वसद्भावेऽपि भ्रान्तिसमानाधिकरणमेव बाधकं भवतीति नियमादुक्तभ्रमविषये बाधाभावश्चोपपन्न इति न पूर्ववदसिद्धनियमाश्रयणम् । बाधपदस्य निरुक्तार्थपरत्वापरित्यागश्चेति ध्येयम् । इमौ च शङ्कापरिहारौ समव्याप्त एवोपाधिरित्युदयनमतमाश्रित्य द्रष्टव्यौ ॥ अन्योन्योपाधि-भावेनेति ॥ तथाहि अनुकूलतर्काभावान्मित्रातनयत्वेन श्यामत्वे साध्ये शाकपाकजत्वं, तस्मिन् साध्ये श्यामत्वमुपाधिरित्यन्योन्योपाधिभावे-नानुमानद्वयस्याभासत्वम् । तथा प्रकृतानुमाने अनुकूलतर्काभावाद् दृश्यत्वेन मिथ्यात्वे साध्ये प्रमाणविरुद्धत्वमुपाधिस्तस्मिन् साध्ये मिथ्यात्वमित्य-न्योन्योपाधिभावेनानुमानद्वयस्याप्याभासत्वम् । युगपदुभयसाधने त्वर्थान्तरम् । मिथ्यात्वे एव विप्रतिपत्तेरिति भावः ।

मिथ्यात्वानुमानखण्डनपरशुः

अनुपसंजातबाधेति ॥ अनुपसंजातबाधविषये बाधकप्रमाविषयत्वं नास्तीति साध्यव्यापक उपाधिरित्यर्थः । प्रपञ्चस्यापीति । प्रपञ्चस्वरूप-निषेधकप्रमाणजन्यबोधकज्ञानविषयत्वादित्यर्थः ॥

पक्षादिलक्षणकथने कारणोक्तिपूर्वं पक्षलक्षणकथनम्

टीका

अत्र ‘आश्रयासिद्धः पक्षः’ ‘सपक्षाभावाद्विरुद्धः’ ‘असिद्धो हेतुः’ । ‘साध्यविकलो दृष्टान्तः’ इति पक्षसपक्षविपक्षाः प्रतिज्ञाहे-तुदृष्टान्ताश्च व्यवहृताः । न च पक्षादिस्वरूपानवगतौ उक्तदोष-स्फूर्तिर्भवतीति क्रमेण तल्लक्षणान्याह–

मिथ्यात्वानुमानखण्डनम्

साध्यधर्मविशिष्टः पक्षः

‘यत्प्रतीतिर्लिङ्गेन जनयितव्या स साध्यधर्मः’ इति नास्ति कश्चित् क्षुद्रोपद्रवः । साध्यग्रहणं सपक्षादिव्यावृत्त्यर्थम् । ‘साध्य-विशिष्टः’ इत्येवोक्ते वस्तुतोऽग्निविशिष्टस्य पर्वतस्य साध्यत्वात्त-द्विशिष्टस्यान्यस्य पक्षत्वं स्यात्तदर्थं धर्मग्रहणम् । धर्ममात्रस्य प्रागेव सिद्धत्वात् साध्यत्वानुपपत्तेर्विशिष्टग्रहणम् । तथा च साध्यत्वं धर्मस्य तत्सम्बन्धितयैव सिद्ध्यति । विशिष्टत्वं च धर्मधर्मिभावेनैव विवक्षितम् । न तु सम्बन्धमात्रेण । तेन साधनधर्मादा-वतिप्रसङ्गाभावान्न तदर्थं धर्मीति वक्तव्यम् ।

मन्दारमञ्जरी

पक्षसपक्षविपक्षाः प्रतिज्ञाहेतुदृष्टान्ताश्च व्यवहृता इति ॥ यद्यपि विपक्षपदं प्रतिज्ञापदं चेहाचार्येण न प्रयुक्तं तथापि आत्मनोऽपि दृश्यत्वा-दित्यत्र विपक्षस्यात्मनोऽपि विवक्षितत्वाद्विपक्षोऽपि व्यवहृतः । तथा प्रतिज्ञादोषमाश्रयासिद्ध्यादिकं कथयता प्रतिज्ञाऽप्यर्थाद्व्यवहृतेति भावः । नास्ति कश्चिदिति ॥ साध्यशब्देन किं सन्दिग्धो धर्मो विवक्षितः ? किं वा प्रतिज्ञापनीयः ? अथ वा प्रमित्सितः ? नाद्यः । प्रमाणसम्प्लवादिना निश्चितेऽपि अनुमानप्रवृत्तेरङ्गीकारात् । न द्वितीयः । स्वार्थानुमाने प्रयोज्य-कर्तुरभावेन प्रज्ञापनाभावात् । न तृतीयः । अनिष्टानुमानाभाव-प्रसङ्गादित्यादिरुपप्लवो नास्ति । लिङ्गजन्यप्रतीतिविषयधर्मस्य साध्यधर्मपदेन विवक्षितत्वादित्यर्थः ॥ अग्निविशिष्टस्य पर्वतस्य साध्यत्वादिति ॥ यथा अग्निः पर्वतसम्बन्धितया साध्यस् तथा पर्वतोऽप्यग्निसम्बन्धितया साध्यः । स्वरूपमात्रसिद्धावपि विशिष्टासिद्धेरुभयत्र समत्वादित्यर्थः । एवं चाग्नि-विशिष्टस्य पर्वतस्यापीति अपिशब्दाध्याहारेण योज्यम् । अन्यथा साध्यत्वं धर्मस्य तत्सम्बन्धितयैवेत्युत्तरग्रन्थविरोधात् ॥ तथा च साध्यत्वमिति ॥ यद्यपि साध्यो धर्मो यस्येति बहुव्रीहेराश्रयितुं शक्यत्वाद्विशिष्टग्रहणं न लक्षणान्तर्गतं तथापि धर्मस्य न स्वरूपेण साध्यत्वमित्यर्थसूचकत्वाद्विशिष्ट-ग्रहणं सार्थकमित्यर्थः ।

साध्यधर्मविशिष्टत्वं साध्यधर्मसम्बन्धित्वम् । तच्च व्याप्यतया साधन-स्याप्यस्तीति तत्रातिव्याप्तिपरिहारार्थं कैश्चिद्धर्मिग्रहणं कृतम् । तन्न कर्तव्यमित्याह ॥ विशिष्टत्वं चेति ॥ विवक्षितमिति ॥ धर्मिग्रहणं कुर्वताऽप्यवश्यं साध्यविशिष्टशब्देन साध्येन धर्मितया सम्बन्धित्वं विवक्षित्वैवातिव्याप्तिः परिहरणीया । न तु धर्मिग्रहणेन । साधनस्यापि स्वनिष्ठधर्मं प्रति धर्मित्वादित्यर्थः ।

श्रीनिवासतीर्थीयटिप्पणी

उत्तरत्र भगवत्पादैः पक्षादीनां लक्षणं कथ्यते । तदसङ्गतम् । पूर्वं पक्षादेरप्रकृतत्वादित्यतोऽसङ्गतिपरिहाराय प्रकृतत्वमुपपादयति ॥ अत्रे-त्यादिना । यद्यपि विपक्षप्रतिज्ञे आचार्यैर्न व्यवहृते । तथापि आत्मनोऽपि दृश्यत्वादित्यत्र विपक्षस्यात्मनोऽपीति विवक्षितत्वात्सोऽप्यर्थाद्व्यवहृतप्रायः । जगतोऽभावादाश्रयासिद्धः पक्ष इत्यादिना आश्रयासिध्यादिरूपप्रतिज्ञादोष-कथनेनार्थात्प्रतिज्ञाऽपि व्यवहृतप्रायेति द्रष्टव्यम् । ननु साध्यशब्देन किं सन्दिग्धो धर्मो विवक्षितः किं वा परं प्रति ज्ञापनीयः । न तावत्सन्दिग्ध-धर्मविशिष्टः पक्ष इत्याद्यो युक्तः । महानसे वह्नेः प्रत्यक्षसिद्धत्वेऽपि प्रत्यक्षसिद्धमपि वह्निम् अनुमिनुयामिति अनुमित्सया यदाऽनुमानं प्रवर्तते तदा तदनुमानपक्षीभूते महानसे अव्याप्तिः । सन्दिग्धधर्मविशिष्टत्वाभावेन पक्षत्वाभावप्रसङ्गेनाव्यापकत्वात् । नापि परप्रतिज्ञापनीयधर्मविशिष्टः पक्ष इति द्वितीयः । स्वार्थानुमाने पक्षेऽव्याप्तेः । तत्र परस्यैवाभावाद् इति क्षुद्रोपद्रवपरिहारायाह ॥ यत्प्रतीतिरिति । तथा च लिङ्गजन्यप्रतीति-विषयधर्मस्यैव साध्यधर्मपदेन विवक्षितत्वात् सिषाधयिषया प्रवृत्तानुमान-स्वार्थानुमानसाध्ययोरपि लिङ्गजन्यप्रतीतिविषयत्वसद्भावात् तद्विशिष्टत्व-मुक्तानुमानद्वयसंबन्धिपक्षद्वयेऽप्यस्तीति नाव्याप्तिरूपक्षुद्रोपद्रव इत्यर्थः ॥ सपक्षादीति । आदिपदेन विपक्षग्रहणम् । धर्मविशिष्टः पक्ष इत्युक्ते सपक्षे महानसे महानसत्वरूपधर्मविशिष्टत्वस्य विपक्षे ह्रदत्वादिधर्मविशिष्टत्वस्य सद्भावादतिव्याप्तिः स्यादतः साध्येत्युक्तम् । तथा च सपक्षे नाव्याप्तिः । महानसनिष्ठे महानसत्वरूपधर्मे लिङ्गजन्यप्रतीतिविषयत्वरूपसाध्यत्वाभावेन तद्विशिष्टत्वाभावात् । एवमेव विपक्षेऽपि नातिव्याप्तिः । तत्रत्यह्रदत्वादि-धर्मस्य निरुक्तसाध्यत्वाभावेन तद्विशिष्टत्वाभावादित्यर्थः । अग्निविशिष्टस्य पर्वतस्येत्यनन्तरमपिशब्दोऽध्याहार्यः । तथा च यथा अग्निः पर्वतसंबन्धितया साध्य एवं पर्वतोऽप्यग्निसंबन्धितया साध्यो ऽग्निपर्वतयोः स्वरूपमात्रस्य सिद्धत्वेऽपि विशिष्टासिद्धेरुभयत्रापि समानत्वात् । एवं चाग्निविशिष्ट-पर्वतस्यापि साध्यत्वेन तद्विशिष्टस्यान्यस्य तदवयवस्य पक्षत्वं स्यात् । अतस्तत्रातिव्याप्तिपरिहाराय धर्मपदं दत्तम् । तथा चाग्निविशिष्टतया पर्वतस्य साध्यत्वेऽपि तस्य धर्मित्वेन धर्मत्वाभावान्न तद्विशिष्टस्यान्यस्य पक्षत्वमिति न तत्रातिव्याप्तिरित्यर्थः । विशिष्टपदकृत्यमाह ॥ धर्ममात्र-स्येति । साध्यत्वानुपपत्तेरित्युपलक्षणम् । पक्षत्वानुपपत्तेश्चेत्यपि द्रष्टव्यम् । तथा साध्यधर्मः पक्ष इत्येवोक्ते वह्निरूपधर्मस्यैतदनुमानात्प्राक् यत्र कुत्रचित्सिद्धत्वेन लिङ्गजन्यप्रतीतिविषयत्वरूपसाध्यत्वानुपपत्तेः साध्यपद-धर्मपदयोर्विशेषणविशेष्यभावानुपपत्तिः । तस्य धर्मस्य पक्षत्वाभावादसंभवश्च स्यात् । अतस्तत्परिहाराय विशिष्टग्रहणं कृतमित्यर्थः । विशिष्टग्रहणेन कथमुक्तशङ्कापरिहार इत्यत आह ॥ तथा चेति । पर्वतस्य साध्यधर्म-विशिष्टत्वोक्त्या वह्निरूपधर्ममात्रस्य प्रागेव सिद्धत्वान्न स्वरूपेण तस्य साध्यत्वम् । किन्तु पर्वतसंबन्धित्वेनैव । तस्य च पूर्वमसिद्धत्वाल्लिङ्गजन्य-प्रतीतिविषयत्वरूपं साध्यत्वं युक्तमिति विशेषणविशेष्यभावो युक्त इति विशिष्टग्रहणेन सूचितम् । तेनासम्भवश्च परिहृतो द्रष्टव्यः । अत्र साध्य-धर्मविशिष्टत्वं नाम साध्यधर्मसम्बन्धित्वमात्रम् । तच्च व्याप्यव्यापकभाव-सम्बन्धेन साधनरूपधर्मस्याप्यस्तीति तत्रातिव्याप्तिः स्यात्तदर्थं कैश्चिद्धर्मि-ग्रहणं कृतम् । यथाऽह । पक्षः साध्यान्वितो धर्मीति, सन्दिग्धसाध्यधर्मा धर्मी पक्ष इति च । तथा च धर्मधर्मिभावेनैव साध्यधर्मसम्बन्धित्वस्य विवक्षितत्वात्साधने च साध्येन सह धर्मधर्मिभावसम्बन्धाभावाद्धर्मिग्रहणेन तत्रातिव्याप्तिपरिहारः कृतः । स न कर्तव्य इत्याह ॥ विशिष्टत्वं चेति । सम्बन्धमात्रेण । व्याप्यव्यापकभावादिसम्बन्धमात्रेण ॥ तेनेति । धर्मधर्मिभावरूपसम्बन्धाभिप्रायकेण विशिष्टपदेनेत्यर्थः ॥ अतिप्रसङ्गेति । अतिव्याप्तीत्यर्थः ॥ वक्तव्यमिति । धर्मिपदं न पृथग्दातव्यमित्यर्थः ॥

मिथ्यात्वानुमानखण्डनपरशुः

व्यवहृता इति ॥ यद्यपि प्रतिज्ञाविपक्षौ नाचार्यैर् व्यवहृतौ तथापि आत्मनोऽपि दृश्यत्वादित्यत्र विपक्षस्यात्मनोऽपीति विवक्षितत्वा-त्प्रतिज्ञादोषं कथयतः प्रतिज्ञाया अपि विवक्षितत्वात् प्रतिज्ञाविपक्षौ व्यवहृताभिप्रायौ इत्यभिप्रेत्य व्यवहृता इत्युक्तमिति द्रष्टव्यम् । नन्वेतल्लक्षणं सिषाधयिषया प्रवृत्तानुमानपक्षे सिद्धधर्मवैशिष्ट्यसद्भावेन साध्यधर्म-वैशिष्ट्याभावाद् अव्याप्तमित्यत आह यत्प्रतीतिरिति ॥ साध्यधर्मो यस्येति बहुव्रीहिविग्रहाश्रयणेन साध्यधर्मविशिष्टलाभसंभवेऽपि यद्विशिष्टग्रहणं तत्प्रयोजनमाह ॥ धर्ममात्रस्येति ॥

सपक्षलक्षणकथनम्

मिथ्यात्वानुमानखण्डनम्

साध्यसमानधर्मविशिष्टः सपक्षः

टीका

पक्षविपक्षयोरपि समानधर्मविशिष्टत्वात्तद्व्युदासार्थं साध्यग्रहणम् । समानग्रहणं च पक्षव्युदासार्थम् । समानत्वं च साध्यत्वमपहाय साक्षादेवेति नातिप्रसङ्गः । शेषं पूर्ववत् ।

विपक्षलक्षणम्

मिथ्यात्वानुमानखण्डनम्

साध्यविपरीतधर्मविशिष्टो विपक्षः

टीका

विपरीतो विरुद्धः । यथा अग्निमत्वसाधने निरग्निकत्वम् । तेन पक्षसपक्षयोरपि व्युदासः ।

मन्दारमञ्जरी

इति नातिप्रसङ्ग इति ॥ समानत्वं किं सर्वथा ? उत कथञ्चित् ? नाद्यः । सन्दिग्धत्वादिना साम्यस्य महानसगताग्नावप्यभावात् । न द्वितीयः। अग्न्यभावस्यापि प्रमेयत्वादिना साध्यसमत्वेन तद्वतो विपक्षस्यापि सपक्षता-प्रसङ्गादित्ययं दोषो नास्ति । सन्दिग्धत्वादिकं विना व्यापकतावच्छेदकाग्नि-त्वादिनाऽपि विद्यमानसाम्यस्य विवक्षितत्वात् । न हि धूमव्यापकत्व-मग्नित्वेनेव प्रमेयत्वेनावच्छिद्यते । प्रमेयत्वस्य धूमाव्यापके घटादावसत्त्वात् । अतिप्रसक्तस्य चावच्छेदकत्वायोगादिति भावः ।

श्रीनिवासतीर्थीयटिप्पणी

पक्षविपक्षयोरपीति । द्रव्यत्वप्रमेयत्वादिरूपसपक्षसमानधर्मविशिष्ट-त्वादतिव्याप्तिरित्यर्थः । साध्यधर्मविशिष्टः सपक्ष इत्युक्ते पक्षेऽतिव्याप्ति-स्तदर्थं समानग्रहणं कृतमित्याह ॥ समानेति । तस्य साध्यधर्मेणैव विशिष्टतया समानधर्मविशिष्टत्वाभावान्नातिव्याप्तिरित्यर्थः । ननु साध्यग्रहणेन कथं पक्षविपक्षयोरतिव्याप्तिपरिहारः । द्रव्यत्वप्रमेयत्वादेरपि साध्यसमान-धर्मत्वेन तद्विशिष्टत्वस्य तयोरपि सद्भावात् । किं च सपक्षगतधर्मस्य साध्यसमानधर्मत्वं सर्वथा विवक्षितम् उत यथाकथंचित् । नाद्यः । सन्दिग्धत्वादिना साध्यसमानत्वस्य महानसगताग्निरूपधर्मेऽभावादसम्भवः स्यात् । न द्वितीयः । अग्न्यभावस्यापि प्रमेयत्वादिना साध्यसमानत्वेन विपक्षस्यापि सपक्षत्वप्रसङ्गादित्यत आह ॥ समानत्वं चेति । साध्यत्वं सन्दिग्धत्वम् । उपलक्षणमेतत् । द्रव्यत्वप्रमेयत्वादिकमपि द्रष्टव्यम् । अयं भावः । सपक्षगतवह्निरूपधर्मस्य साध्यसमानत्वम् । साक्षाद्व्यापकता-वच्छेदकभूतं यद्वह्नित्वं तेनैव विवक्षितम् । नान्येन । न हि वह्निगतधूम-व्यापकतावच्छेदकं द्रव्यत्वप्रमेयत्वादिकं भवितुमर्हति । धूमव्यापके घटादौ विद्यमानत्वेनातिप्रसक्तस्यावच्छेदकत्वाभावात् । तथा च नासंभवः । नापि पक्षेऽतिव्याप्तिः । तत्र व्यापकतावच्छेदकीभूतवह्नित्वविशिष्टवह्नेरेव सत्त्वेन तत्समानधर्मविशिष्टत्वाभावात् । नापि विपक्षेऽतिव्याप्तिः । वह्नित्वावच्छिन्न-पक्षीयवह्निसमानवह्निरूपधर्मविशिष्टत्वाभावात् । तथा च न कोऽप्यतिप्रसङ्ग इति ॥ शेषं पूर्ववदिति । वह्निविशिष्टपर्वतस्यापि साध्यत्वेन द्रव्यत्वादिना साध्येन पर्वतेन समानो यो महानसस् तद्विशिष्टस्यान्यस्य तदवयवस्य सपक्षत्वं स्यादिति धर्मपदम् । तथा च महानसस्य धर्मित्वेन धर्मत्वा-भावान्नोक्तदोष इति । शेषम् अवशिष्टधर्मपदकृत्यं पूर्ववत् पक्षलक्षणगत-धर्मपदकृत्यरीत्या द्रष्टव्यमित्यर्थः । मूले साध्यविपरीतेत्यत्र साध्यतत्समान-धर्मविपरीतधर्मविशिष्ट इति व्याख्येयम् । अन्यथा साध्यधर्मवान्विपक्ष इत्युक्ते सपक्षेऽतिव्याप्तिप्रसक्त्यभावेन विपरीतपदेन तद्व्युदासकथनायोगादिति द्रष्टव्यम् । विपरीतधर्मं दर्शयति ॥ यथेति । तेन विपरीतग्रहणेन । तथा च साध्यधर्मविशिष्टो विपक्ष इत्युक्ते पक्षेऽतिव्याप्तिः । समानधर्मविशिष्ट इत्युक्ते सपक्षेऽतिव्याप्तिः । तदर्थं विपरीतपदम् । तथा च पक्षस्य साध्यविपरीत-धर्मविशिष्टत्वाभावात् । सपक्षस्य च साध्यसमानधर्मविपरीतधर्मविशिष्टत्वा-भावान्नातिव्याप्तिरिति भावः। विपरीतपदाभावेऽसंभवश्च स्यादिति द्रष्टव्यम् ॥

श्रीगुरुराजीयटिप्पणी

शेषं पूर्ववदिति ॥ विशिष्टत्वं च धर्मधर्मिभावेनैव विवक्षितम् । न तु सम्बन्धमात्रेण । तेन साधनधर्मादौ नातिव्याप्तिरित्यर्थः ।

मिथ्यात्वानुमानखण्डनपरशुः

धर्ममात्रस्यानुमानात्प्रागेव सिद्धत्वेन साध्यत्वासंभवात् । साध्यधर्मो यस्येति विग्रहाश्रयणमनुपपन्नमित्याशङ्कानिरासाय बहुव्रीहिमनाश्रित्य साध्यधर्मविशिष्ट इति उक्तम् ॥ धर्मिसङ्ग्रहार्थमुपात्तेनापि विशिष्टपदेन धर्ममात्रस्यासाध्यत्वानुपपत्तावपि धर्मिसंबन्धितया साध्यत्वमुपपन्नमिति सूचयाम्बभूवेति भावः । समानत्वं चेति । साध्यत्वातिरिक्त-साधारणधर्मेणेत्यर्थः । व्यापकतावच्छेदकधर्मेणेति भावः ।

प्रतिज्ञालक्षणम्

मिथ्यात्वानुमानखण्डनम्

पक्षवचनं प्रतिज्ञा

टीका

नन्वेवं सति ‘पक्षः’ इत्यादेः प्रतिज्ञात्वं स्यात् । न स्यात् । येनाकारेण योऽर्थः परं प्रति जिज्ञापयिषितस् तथा तन्निर्देशस्य विवक्षितत्वात् । अत एव न निगमने प्रसङ्गः ।

मन्दारमञ्जरी

येनाकारेणेति ॥ न च पक्ष इत्यादिकं तथा । पक्षत्वाकारस्य पर्वतसम्बन्धित्वेन वह्निं जिज्ञासमानेन परेणाजिज्ञासितत्वेन प्रतिजानतापि पुरुषेण तस्याजिज्ञापयिषितत्वात् । यत्र तु पक्षत्वमेव जिज्ञापयिषितं तत्र ‘अयं पक्षः’ इति वचनमपि प्रतिज्ञा भवतीति भावः ॥ अत एवेति ॥ निगमने हि साधनोपलक्षितो वह्निः पर्वतसम्बन्धितया निदर्श्यते । न च साधनोपलक्षितो वह्निर्जिज्ञापयिषितः । पक्षसम्बन्धितया साध्यस्यैव जिज्ञापयिषितत्वात् । साधनस्य तज्ज्ञानोपायत्वेनोपादानादिति भावः ।

श्रीनिवासतीर्थीयटिप्पणी

स्यादिति । तथा चातिव्याप्तिरिति भावः । ननु पक्ष इत्यादेर् वचनस्य कथं प्रतिज्ञात्वं नास्तीत्यत आह ॥ येनाकारेणेति । येन पर्वत-सम्बन्धित्वाकारेण योऽर्थो वह्न्यादिरूपः परं प्रति जिज्ञापयिषितो ज्ञापयितुमिष्टः । तथा पर्वतसंबन्धित्वेनैव रूपेण तन्निर्देशस्य पक्षवचनपदेन विवक्षितत्वात् । तादृशश्चाकारः पर्वतो अग्निमानित्यादिरूप इत्यर्थः । तथा च पक्ष इति वचनस्य न प्रतिज्ञात्वं प्रसज्यते । वह्निं जिज्ञासमानं परं प्रति पक्षत्वाकारस्य पर्वतसम्बन्धित्वेन जिज्ञापयिषितत्वाभावात् । यत्र तु कदाचित्पक्षः क इति पक्षत्वमेव जिज्ञासितं तदा तं प्रति अयं पक्ष इति वचनमपि प्रतिज्ञा भवत्येवेति भावः ॥ अत एवेति । पक्षवचनमित्यस्य येनाकारेणेत्याद्यर्थस्य विवक्षितत्वादेवेत्यर्थः । अन्यथा तस्माद्वह्निमानेवेति निगमनस्यापि पक्षवचनत्वेनातिव्याप्तिः स्यात् । एवं विवक्षायां तु न तत्रातिव्याप्तिरूपोऽतिप्रसङ्गः । निगमने हि येन पर्वतसम्बन्धित्वाकारेण योऽर्थो वह्निरूपोऽर्थः परं प्रति जिज्ञापयिषितस्तथा पर्वतसंबन्धित्वेनैव रूपेण वह्निनिर्देशो नास्ति । किन्तु तस्माद्धूमवत्त्वादिति साधनोपल-क्षितवह्नेरेव पर्वतसंबन्धितया निर्दिश्यमानत्वात् । न च साधनोपलक्षितो वह्निर्जिज्ञापयिषितः । किन्तु पक्षसम्बन्धितया साधनानुपलक्षितवह्नेरेव जिज्ञापयिषितत्वात् । तर्हि निगमने तस्मादित्यंशोपादानं किमर्थमिति चेन्न । वह्निज्ञापनोपायत्वेनैव तदुपादानं न तु वह्निवत्परं प्रति तस्यापि ज्ञापनार्थत्वेन सिद्धत्वादिति भावः ॥

मिथ्यात्वानुमानखण्डनपरशुः

अत एवेति । येनाकारेण धर्मो जिज्ञापयिषितेनैवाकारेणेत्युक्तत्वादेव तथेत्येवकारकपक्षवचने निगमने नातिप्रसङ्ग इत्यर्थं न्यायवाक्यावयत्वं च विशेषण विवक्षितम् । तेन पर्वतो वन्हिमानित्येवमाकारकस्य बाह्य-वाक्यनिरासः ।

हेतुलक्षणम्

मिथ्यात्वानुमानखण्डनम्

लिङ्गं हेतुः

टीका

व्याप्तिबलेन अर्थगमकं लिङ्गम् ? यद्यपि हेतुशब्दः साधनत्वाभि व्यञ्जकलिङ्गवचने प्रसिद्धस् तथाप्यर्थस्यैवात्र विवक्षितत्वात्तल्लक्षण-मेवोक्तमिति अर्थे वर्तते ।

मन्दारमञ्जरी

अर्थस्यैवात्र विवक्षितत्वादिति ॥ असिद्धो हेतुरित्यत्र अर्थासिद्धे-रेवोक्तत्वेन तस्यैवात्र विवक्षितत्वादित्यर्थः ॥ तल्लक्षणमेवोक्तमिति ॥ लिङ्गमित्यनेन हेतुशब्दार्थलक्षणमेवोक्तमित्यर्थः ॥ अर्थे वर्तत इति ॥ हेतुशब्द इत्यनुवर्तते ।

श्रीनिवासतीर्थीयटिप्पणी

साधनत्वाभिव्यंजके पञ्चम्यन्ते तृतीयान्ते वा ॥ प्रसिद्ध इति । लिङ्गस्य वचनं हेतुः साधकत्वप्रकाशकमिति वचनादित्यर्थः । तथापि अर्थे वर्तत इत्यन्वयः । लक्षणयेति शेषः । प्रतिपाद्यप्रतिपादकभावो लक्षणाबीजसंबन्ध इति भावः । कुत इत्यत आह ॥ अर्थस्यैवेति । अत्र ग्रन्थे पूर्वमसिद्धो हेतुरिति दृश्यत्वरूपार्थस्यैवासिद्धिरुक्ता । हेतुरिति तदर्थो लिङ्गमुच्यते इति व्याख्यातत्वादतोऽत्र लिङ्गं हेतुरिति वचनार्थकहेतुशब्दोपलक्षितार्थस्यैव लक्षणमुक्तमित्यर्थः ॥

दृष्टान्तलक्षणम्

मिथ्यात्वानुमानखण्डनम्

निदर्शनं दृष्टान्तः

टीका

निदर्श्यते साध्यसाधनयोर्धर्मयोर्व्याप्तिर्यस्मिन् तन्निदर्शनम् । व्याप्तिग्रहणस्थलमिति यावत् । तद्वचनमुदाहरणं प्रसिद्धमेवेति ।

मन्दारमञ्जरी

व्याप्तिग्रहणस्थलमिति ॥ यत्र सतोर्व्याप्यव्यापकयोर्व्याप्तिर्गृह्यते तद्व्याप्तिग्रहणस्थलमिति द्रष्टव्यम् ।

श्रीनिवासतीर्थीयटिप्पणी

व्याप्तिग्रहणस्थलमिति । उक्तं च परेण व्याप्तिसंवेदनस्थानं दृष्टान्त इति गीयत इति । ननु भगवत्पादैरुदाहरणलक्षणं वक्तव्यम् । यदित्थं तत्तथा यथा संप्रतिपन्नमित्युदाहरणस्यापि व्यवहृतत्वात् । अतो न्यूनतेत्या-शङ्क्य दृष्टान्तलक्षणकथनेन तदपि लक्षितप्रायमेव । अतो न न्यूनतेत्या-शयेनाह ॥ तद्वचनमिति । सम्यग्व्याप्तिनिर्देशपूर्वकं दृष्टान्तवचनमित्यर्थः । उक्तं च परेण । द्विधोदाहरणं सम्यग्व्याप्तिनिर्देशपूर्वकम् । दृष्टान्तवचनं तत्स्यादिति ।

श्रीगुरुराजीयटिप्पणी

ननु प्रतिज्ञादिसमकक्षतयोदाहरणलक्षणं वक्तव्यम् । तत्कथं दृष्टान्त-लक्षणमात्रकथनमित्यत आह ॥ तद्वचनमिति ॥ अतो हेतोर्न तस्या-नभिधानं दोषायेति शेषः ।

ग्रन्थान्ते मङ्गलाचरणम्

टीका

यत्प्रसादाद् यत्प्रीत्यैव च इदं प्रकरणं कृतवांस्तमेवाचार्योंऽते स्तुतिप्रणामाभ्यां प्रीणयति

मिथ्यात्वानुमानखण्डनम्

यो दृश्यते सदानन्दनित्यव्यक्तचिदात्मना ।

निर्दोषाखिलकल्याणगुणं वन्दे रमापतिम् ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं

प्रपञ्चमिथ्यात्वानुमानखण्डनं सम्पूर्णम्

टीका

दृश्यते इत्यनेन ‘दृश्यते त्वग््रयया बुद्ध्या’ इत्यादिश्रुतिं सूचयति । तेन यदुक्तम् ‘आत्मनोऽपि दृश्यत्वात्’ इति तदुपपादितं भवति । दृश्यते चेद्रूपादिमत्त्वेनानित्यत्वं प्रसज्ज्येतेति चेन्न । निर्दोषानन्द-नित्याभिव्यक्तज्ञानात्मकत्वेन अजडत्वात् । तदाह ॥ सदानन्देति ॥ इत्थम्भूतलक्षणे तृतीया । न केवलं निर्दोषानन्दचिदात्मकः । नाप्य-भेदाद् गुणगुणिभावाभाव इत्युक्तं निर्दोषेति ॥ कल्याणत्वं परिपूर्ण-त्वादिना । रमापतिमित्यनेन भगवती चापि वन्दिता भवतीति ।

उत्पत्तिस्थितिभङ्गं विश्वं यस्मात्प्रपद्यते पुरुषात् ।

स जयति जगतामन्तर्यामी स्वामी रमानाथः ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचित प्रपञ्चमिथ्यात्वानुमानखण्डनविवरणं जयतीर्थभिक्षुविरचितं सम्पूर्णम् ॥

मन्दारमञ्जरी

नाप्यभेदादिति ॥ चिदात्मनेत्युक्त्या अभेदात्प्रसक्तो यो गुणगुणि-भावाभावः सोऽपि नेति गुणग्रहणं कुर्वतोक्तमित्यर्थः । अभेदेऽपि विशेषबलाद्गुणगुणिभावो भविष्यतीति भावः ।

अभीष्टफलदातारं शुकादिद्विजसेवितम् ।

भवाध्वाटनखिन्नोऽहं विष्णुमन्दारमाश्रये ॥

॥ इति श्रीमद्ब्रह्मण्यतीर्थपूज्यपादानां शिष्येण

व्यासतीर्थयतिना विरचिता प्रपञ्चमिथ्यात्वानुमानखण्डनपञ्चिका

भावप्रकाशिका मन्दारमञ्जरी सम्पूर्णा ॥

श्रीनिवासतीर्थीयटिप्पणी

मूले चिदात्मनेत्यस्य चिदात्मकविग्रहवत्त्वेनेत्यर्थो द्रष्टव्यः ॥ दृश्यत इति । श्रवणमननसहकृतया बुध्या ध्यानेन दृश्यते अपरोक्षीक्रियत इत्यर्थः । अथवा । बुद्ध्या अपरोक्षज्ञानेन दृश्यते विषयीक्रियत इत्यर्थो द्रष्टव्यः । आदिपदेन आत्मा वा ओ द्रष्टव्य इत्यादिश्रुतिग्रहणम् । तेन श्रुतिसूचनेन ॥ उपपादितमिति । श्रुतिसम्मत्येति भावः । रूपादिमत्त्वेनेति । शरीरेन्द्रियादिमत्त्वेनेत्यर्थः । अनित्यत्वं मरणम् । दृश्यत्वोक्त्या शरीरादि-मत्त्वं प्राप्तम् । शरीरेन्द्रियादिमतश्चानित्यत्वं नियतम् । जडशरीरादे-स्तदापादकताया जीवे दृष्टत्वादिति भावः ॥ अजडत्वादिति । रूपादेरिति शेषः । जडशरीरस्यैवानित्यत्वापादकत्वेन भगवच्छरीरस्य ज्ञानानन्दा-द्यत्मकतया तदभिन्नत्वेन अजडत्वान्नानित्यत्वापादकत्वमिति भावः । तथा च श्रुतिः । यदात्मको भगवांस्तदात्मिका व्यक्तिः । किमात्मको भगवान् । ज्ञानात्मक ऐश्वर्यात्मकः सुखशक्त्यात्मक इति ।

ननु कर्तृकरणयोस्तृतीयेति सूत्रेण कर्तरि करणे च तृतीया विहिता । व्यासेन कृतं बाणेन इत्युदाहरणम् । प्रकृते च दृश्यत इत्युक्तं दर्शनक्रियां प्रति चिदानंदात्मनेत्यस्य कर्तृकरणत्वयोरभावात्कथं तृतीयेत्यत आह । इत्थंभूतलक्षण इति । इत्थंभूतलक्षणे तृतीया । कञ्चन प्रकारं प्राप्त इत्थं-भूतः । तल्लक्षणे तज्ज्ञापके तृतीया स्यात् । यथा छात्रेणोपाध्यायमद्राक्षी-दिति । अत्रोपाध्यायत्वरूपप्रकारं प्राप्त उपाध्याय इत्थंभूतः । तत्र उपाध्यायत्वरूपप्रकारस्यान्यत्र प्रसक्तिपरिहाराय तज्ज्ञापके छात्रे तृतीया भवति । एवं दृश्यत इति दर्शनविषयत्वरूपप्रकारं प्राप्तो रमापतिरित्थंभूतः । तत्र दर्शनविषयत्वं केन प्रकारेण किं निर्गुणत्वेन वा अन्येन वा प्रकारेणेति शङ्कायां दर्शनविषयत्वरूपप्रकारज्ञापकं चिदात्मकत्वमिति तत्र तृतीया युक्तेत्यर्थः ॥ न केवलमिति । निर्दोषेति सच्छब्दार्थानुवादः । आनन्द-ज्ञानरूपगुणद्वयात्मक एव न भवतीत्यर्थः ॥ नाप्यभेदादिति । चिदात्म-नेत्युक्त्या अभेदाद्गुणगुणिभावाभावः प्रसक्तः । सोऽपि नास्तीत्यर्थः ॥ इत्युक्तमिति । इत्याशयेनोक्तमित्यर्थः ॥ निर्दोषेतीति । केवलमानन्द-चिदात्मक एव न भवतीत्येतद् अखिलेत्यनेनोक्तम् । अभेदाद्गुण-गुणिभावाभावो नेत्येतत् कल्याणा गुणा यस्यासौ तथोक्त इत्यनेनोक्तम् । अभेदेऽपि भेदकार्यकारी यो विशेषस्तद्बलाद्गुणगुणिभावो युक्त इत्यभिप्रायः । गुणानां कल्याणत्वं नाम कीदृशमित्यत आह ॥ परिपूर्णत्वादिनेति । परिपूर्णत्वं नाम प्रत्येकमपरिच्छिन्नत्वम् । आदिपदेन भगवदात्मकत्वादि-ग्रहणम् । गुणानां सङ्ख्यया आनंत्यस्याखिलेत्यनेनोक्तत्वाद्गुणानां प्रत्येकं निःसीमत्वापरपर्यायपरिपूर्णत्वरूपं यद्गुणत आनंत्यं तत्कल्याणपदेनोक्तम् । प्रत्येकशो गुणानां तु निःसीमत्वमुदीर्यते । तदानंत्यं हि गुणतस्ते चानन्ता हि सङ्ख्ययेति वचनादिति भावः । भगवती महालक्ष्मीः ॥ अभिवन्दि-तेति ॥ भगवद्विशेषणत्वेनेत्यर्थः । पूर्वार्धे यच्छब्दश्रवणाद् उत्तरार्धे तमित्यध्याहार्यम् ॥ समापितग्रन्थो भगवांष्टीकाकारोऽन्तेऽपि मङ्गल-माचरति ॥ उत्पत्तीति ॥ विश्वं कर्तृ । भङ्गमिति द्वितीया । परोदीरित-प्रपञ्चमिथ्यात्वप्रमाणस्याभासताव्युत्पादनेन सत्यभूतजगदुदयादिनिमित्त-कारणत्वरूपं यत् परब्रह्मलक्षणं जन्माद्यस्य यत इति भगवता सूत्रकारेणोक्तं तदत्र समर्थितम् । तदभिप्रायेणोक्तम् । उत्पत्तीत्यादि । उत्पत्तिश्च स्थितिश्च भङ्गश्चेति द्वन्द्वः । सर्वो द्वन्द्वो विभाषयैकवद्भवतीति एकवद्भावं सनपुंसकम् । यस्यैकवद्भावः सनपुंसकं स्यादिति नपुंसकत्वं चाश्रित्योत्पत्ति-स्थितिभङ्गमित्युक्तमिति ज्ञातव्यम् । जयति उत्कृष्टो वर्तते । इत्यशेषमति-मङ्गलम् ॥

यादवाचार्यहृत्पद्मगतश्रीमध्वहृद्गतः ।

प्रीयतामनया ग्रन्थकृत्या व्यासो गुणाकरः ॥ १ ॥

श्रीमध्वकृतसिद्धान्तं योऽभ्यधात्स्नेहतो मयि ।

तं वंदे यादवाचार्यगुरुं शिष्यकृपानिधिम् ॥

इति श्रीमद्यदुपत्याचार्यपूज्यपादाराधकेन श्रीनिवासेन विरचिता प्रपञ्चमिथ्यात्वानुमानखण्डनपञ्चिका संपूर्णा ॥

श्रीगुरुराजीयटिप्पणी

शिष्टं चिरन्तनटीकायां स्पष्टम् । तत एव प्रतिपत्तव्यम् ।

यद्विद्याधीशगुरोः शुश्रूषान्या न रोचते यस्मात् ।

अस्त्वेषा भक्तियुक्ता श्रीविद्याधीशपादयोः सेवा ॥

इति श्रीमत्पदवाक्यप्रमाणविदामग्रेसराणां परमहंसपरिव्राजकाचार्याणां श्रीमद्विद्याधीशतीर्थपूज्यपादानां निजशिष्यकेशवभट्टाचार्यविरचितं मिथ्यात्वानुमानखण्डनविषमपदवाक्यार्थविवरणं समाप्तम् ॥

मिथ्यात्वानुमानखण्डनपरशुः

ननु चिदात्मनेति तृतीयाऽनुपपन्ना । कर्तृकरणयोस्तृतीयेति कर्तृत्व-करणवाचकत्वाभिधानात् । प्रकृते च जीवस्य कर्तृत्वेन तदिन्द्रियाणां करणत्वेन चिदात्मनः कर्तृत्वकरणत्वयोरन्यतरस्याभावादित्यत आह । इत्थंभूतेति ॥ विनाशयोग्यत्वरूपप्रकारं प्राप्तस्येश्वरस्य ज्ञापनाय केचिदात्मक इत्थंभूतलक्षणेति सूत्रेण तृतीयेत्यर्थः । यद्यपि विनाशयोग्य-चिदात्मकश्च एक एवेति न ज्ञाप्यज्ञापकभावः । तथापि चिदात्मकत्वेन विनाशयोग्यत्वं ज्ञाप्यमिति विनाशयोग्यत्वावच्छिन्नतया ईश्वरस्य ज्ञाप्यत्वं चिदात्मकत्वावछिन्नतयेश्वरस्य ज्ञापकत्वमस्त्येवेति न तृतीयानुपपत्तिरिति द्रष्टव्यम् ॥

इति श्रीमत्सत्यनिधितीर्थश्रीमच्चरणचरणाराधकश्रीमत्सत्यनाथयतिविरचितः मिथ्यात्वानुमानखण्डनपरशुः समाप्तः ॥

आलोड्य सर्वशास्त्राणि अतिगूढार्थबुद्धितः ।

सर्ववादिजयश्रेष्ठानहं वन्दे गुरून्सदा ॥

श्रीकृष्णार्पणमस्तु

॥ श्री मध्वराजो विजयते ॥

श्रीपाण्डुरङ्गि केशवाचार्यविरचितः

प्रपञ्चमिथ्यात्वानुमानखण्डनोपन्यासः

ननु ‘‘यतो वा इमानि भूतानि जायन्त’’ इति श्रुत्या ‘‘जन्माद्यस्य यत’’ इति भगवता सूत्रकारेण च जगज्जन्मादिकारणत्वं परस्य ब्रह्मणो लक्षणमुक्तम् । तदयुक्तम् । जगज्जन्मादिकारणत्त्वस्यावास्तवत्वेन तत्प्रतिपादकत्वे श्रुतिसूत्रयोरतत्त्वावेदकत्वापत्त्या अप्रामाण्यप्रसङ्गात् । न च जगज्जन्मादिकारणत्वस्यावास्तवत्वस्यैवासिद्धेस् तत्प्रतिपादकत्वेऽपि श्रुतिसूत्र योरतत्त्वावेदकत्वापत्तिरिति वाच्यम् । जगतोऽवास्तवत्वेन जगज्जन्मादि-कारणत्वस्यावास्तवत्वसिद्ध्या तदसिद्धेर्वक्तुमशक्यत्वात् । न च साधक-प्रमाणाभावेन जगदवास्तवत्वस्याप्यसिद्धेः कथं जगज्जन्मादिकारण-त्वस्यावास्तवत्वसिद्धिः स्यादिति वाच्यम् । विमतं मिथ्या दृश्यत्वाद्यदित्थं तत्तथा यथा संप्रतिपन्नमित्यानुमानस्यैव जगदवास्तवत्वसाधकत्वेन जगज्जन्मादिकारणत्वस्यावास्तवत्वसिद्धेः संभवादिति चेत् ॥ अत्र ब्रूमः । उक्तानुमानस्याभासतया तेन जगतोऽवास्तवत्वसिद्धेर् असंभवेन तेन जगज्जन्मादिकारणत्वस्यावास्तवत्वसिद्धेर् दूरनिरस्तत्वात् ।

तथाहि । अत्र साध्यमानं मिथ्यात्वं किमत्यन्तासत्त्वं स्यादनिर्वचनीयत्वं वा स्यात्सद्विविक्तत्वं वा स्यात् स्वात्यंताभावसमानाधिकरणतया प्रतीयमानत्वं वा स्यादिति विकल्पयामः । नाद्यः । तथा सति जगतोऽत्यन्तासत्त्वापत्त्या मिथ्यात्वरूपसाध्यधर्मस्याश्रयशून्यतया आश्रयासिद्ध्यापत्तेः ॥ किञ्च जगतोऽसद्विलक्षणत्वस्य सिद्धान्तत्वेन जगदसत्त्वस्य तद्विरुद्धत्वेन तत्साधने अपसिद्धान्तापत्तेः ।

नाप्यनिर्वचनीयत्वमिति द्वितीयः पक्षः संभवति । तत्राप्यनिर्वचनीयत्वं नाम निर्वचनानर्हत्वं वा स्यात् सदसद्विलक्षणत्वं वा स्यात्, इति विकल्पयामः । नाद्यः । सर्वस्यापि निर्वचनार्हत्वेन निर्वचनानर्हत्वस्यै-तदनुमानात् प्रागसिद्धत्वेन तत्साधनेऽप्रसिद्धविशेषणत्वापत्तेः । न द्वितीयः । तत्रापि सदसद्विलक्षणत्वं नाम सदसद्भिन्नत्वं वा सदसत्वानाश्रयत्वं वा । आद्येऽपि सदसद्यदेकं तद्भिन्नत्वं साध्यतयाऽभिप्रेतम् । उत सद्भिन्नत्वम् असद्भिन्नत्वं च प्रत्येकं धर्मद्वयं वा सद्भिन्नत्वसहितमसद्भिन्नत्वं वा सद्भिन्नत्वविशिष्टमसद्भिन्नत्वं वा स्यादिति विकल्पयामः । न तावदाद्यः । सदेकस्वभावे जगति सदसद्रूपताया मयाऽनङ्गीकारेण सद्रूपं यदेकं तद्भिन्नत्वस्य मां प्रति संमतत्वेन तत्साधने सिद्धसाधनतापत्तेः । नापि द्वितीयः । असद्भिन्नत्वांशस्य प्रपञ्चे मां प्रति सिद्धत्वेन तत्साधने सिद्धसाधनत्वापत्तेः । नापि तृतीयः । पर्वतः शिलात्मकोऽग्निमांश्चेत्यादिवत् सिद्धस्यासिद्धेन सहोच्यमानस्यापि सिद्धत्वाद् इति न्यायेन सिद्धसाधनत्वस्य दुर्वारत्वात् । न चतुर्थः । सतोऽपि प्रपञ्चस्य सदन्तरविलक्षणत्वाङ्गीकारेण सद्भिन्नत्वस्य मयाऽप्यङ्गीकारेण सद्भिन्नत्वविशिष्टासद्भिन्नत्वस्य सिद्धत्वेन तत्साधने सिद्धसाधनतापत्तेः ।

नापि सदसद्विलक्षणत्वं नाम सदसत्वानाश्रयत्वमिति द्वितीय पक्षः संभवति । तत्रापि सदसत्वरूपं यद्विशिष्टं तदनाश्रयत्वं साध्यमिति अभिप्रेतं स्यात् । सत्त्वानाश्रयत्वमसत्वानाश्रयत्वरूपं धर्मद्वयं वा स्यात् । सत्त्वा-नाश्रयत्वविशिष्टमसत्त्वानाश्रयत्वं वा सर्वथा सत्त्वानधिकरणत्वे सति असत्त्वानाधिकरणत्वे सति सदसत्वानधिकरणत्वं वा इति विकल्पयामः । नाद्यः । सत्त्वैकस्वभावस्य प्रपञ्चस्य सदसत्त्वस्य मयाऽप्यनङ्गीकारेण सदसत्त्वानाश्रयत्वसाधने सिद्धसाधनतापत्तेः । न द्वितीयः । असत्त्वा-नाश्रयत्वांशस्य मां प्रति सिद्धतया सिद्धसाधनतापत्तेः । नापि तृतीयः । घटादेर्देशकालादिपरिच्छिन्नस्यान्यदेशकालयोः सत्त्वानाश्रयत्वस्यैतद्देशकाल-योरसतानाश्रयत्वस्य च त्वयाऽप्यङ्गीकारेण सत्त्वानाश्रयत्वविशिष्टा-सत्त्वानाश्रयत्वस्य सिद्धत्वेन तत्साधने सिद्धसाधनत्वापत्तेः । न चतुर्थः । सर्वथा सत्त्वानाश्रयत्वे सत्यसत्त्वानाश्रयत्वे सति सदसत्त्वानाश्रयत्वस्यै तदनुमानात्प्रागसिद्धत्वेन तत्साधकत्वेऽप्रसिद्धविशेषणतापत्तेः ।

नापि सत्यविविक्तत्वं मिथ्यात्वमिति तृतीयः पक्षः सम्भवति । तत्रापि सत्यविविक्तत्वं नाम सत्यभिन्नत्वं वा सत्यत्वानाश्रयत्वं वा बाध्यत्वं वा । नाद्यः । सत्यस्यापि प्रपञ्चस्य सत्यान्तरभिन्नताया मयाऽङ्गीकारेण प्रपञ्चे सत्यभिन्नत्वस्य मां प्रति सिद्धत्वेन तत्साधने सिद्धसाधनतापत्तेः । नापि द्वितीयः । तत्रापि सत्यत्वं नाम अर्थक्रियादिलक्षणं वा व्यवहारातीतत्व-लक्षणपारमार्थिकत्वं वा स्यादिति विकल्पयामः । नाद्यः । प्रपञ्चे अर्थक्रियासामर्थ्यादिलक्षणसत्वस्य त्वयाऽप्यङ्गीकृतत्वेन तदनाश्रयत्वसाधने अपसिद्धान्तापत्तेः । नापि द्वितीयः । व्यवहारातीतत्वलक्षणपारमार्थिकत्वा-नधिकरणत्वस्य प्रप्रञ्चे मयाऽप्यङ्गीकारेण तत्साधने सिद्धसाधनतापत्तेः । नापि सत्यविविक्तत्वं नाम बाध्यत्वमिति तृतीयः पक्षः संभवति । तत्रापि बाध्यत्वं नाम, अन्यथाविज्ञातस्य सम्यग्ज्ञानगोचरत्वं वा प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वं वा । नाद्यः । मिथ्यात्वक्षणिकत्वादिना विज्ञातस्य प्रपञ्चस्य अक्षणिकत्वमिथ्याप्रकारकबाधकज्ञानविषयत्वेनास्माभि-रप्यङ्गीकृतत्वेन सिद्धसाधनत्वात् । न द्वितीयः । मिथ्यात्वलक्षणे सत्तामात्रनिषेधो वा अभिप्रेतः । पारमार्थिकत्वनिषेधो वा । नाद्यः । तथात्वे व्यावहारिकसत्वस्यापि अभावापत्त्या तदाश्रयेणानाश्रयत्वसमर्थनभङ्गा-नापत्तेः । न द्वितीयः । तथात्वे पारमार्थिकत्वज्ञाने, तन्निषेधलक्षणबाध्यत्व-ज्ञानं, त्त्तेन चाबाध्यत्वरूपपारमार्थिकत्वज्ञानमिति परस्परज्ञानार्थं परस्पर-ज्ञानापेक्षायामन्योन्यान्याश्रयापत्तेः । नापि भ्रान्तिसिद्धा सत्ता व्यावहारिकी सत्तेति द्वितीयपक्षः सम्भवति । तथापि भ्रान्तिसिद्धस्यास्तित्वे भ्रान्तित्वस्या-योगात् । सत्ता नास्तीत्यसत्वस्यैव व्यावहारिकसत्तास्वीकारेणानाश्रयत्व-परिहारानुपपत्तेः । न च प्रतीतिसाध्यमात्रस्यैवाश्रयत्वे प्रयोजकत्वेन सत्त्वस्य तत्राप्रयोजकत्वेन जगतः सत्त्वाभावेऽपि प्रतीयमानत्वेनाश्रयत्वप्रयोजकी-भूतायाः प्रतीतेर् विद्यमानत्वेन मिथ्यात्वरूपसाध्यधर्मं प्रति आश्रयत्व-सम्भवान् नाश्रयासिद्धिरिति वाच्यम् । तथा सति सुरभितासाधने गगनारविन्दस्याश्रयत्वापत्त्या तत्राश्रयासिद्ध्यभावापत्तेः । न च गगनार-विंदस्य निरुपाख्यत्वेनाश्रयत्वप्रयोजकप्रतीतेरेवाभावेन न सुरभिता साधने तस्याश्रयत्वमिति वाच्यम् । तथापि शब्दाद् गगनारविंदस्य सत्ताप्रतीति-दशायां तस्याश्रयत्वोपपत्त्या तत्र सुरभितासाधने आश्रयासिद्धेर-नुद्घाटनीयत्वापत्तेः । न चेष्टापत्तिरिति वाच्यम् । तथा सति तस्य सदनुमानत्वापत्त्या इष्टापत्तेर्वक्तुमशक्यत्वात् । न च अङ्गान्तरवैकल्यान्न सदनुमानत्वमिति वाच्यम् ॥ अकाल्पनिकाङ्गसाकल्यस्य त्वन्मते कुत्राप्य-भावात् । काल्पनिकाङ्गसाकल्यस्य च सर्वत्र सौलभ्यात् सर्वस्याप्यनुमानस्य दुष्टताया एव प्रसङ्गेन किञ्चिद् दुष्टं किञ्चिददुष्टमिति दुष्टादुष्टविभागभङ्गा-पत्तेः । न चाङ्गसाकल्यस्य काल्पनिकत्वेऽपि यत्राङ्गसाकल्यं वादि-प्रतिवादिभ्यामुपगतं तत्साधनम् । यत्र तु न, न तत्साधनम् इति विभाग-सम्भवान् न तद्भङ्गापत्तिरिति वाच्यम् । तथात्वे भ्रान्तवाद्याद्यारब्धकथाभासे वादिप्रतिवादिनोरङ्गसाकल्याभ्युपगमसत्वेन एतदीयासत्साधनदूषणयोरप्य-दुष्टत्वापत्तेः । किञ्चाङ्गसाकल्यस्य काल्पनिकत्वेऽपि वादिप्रतिवादिभ्या-मङ्गसाकल्यस्याभ्युपगतिमात्रेण साधनस्यादुष्टत्वव्यवस्थापत्तेर् यत्र वादि-प्रतिवादिनोर् अङ्गसाकल्याभ्युपगमस् तत्र साधनस्यादुष्टत्वप्राप्तावपि प्रकृतानु मानाङ्गसाकल्यस्य त्वत्संमतत्वेऽपि मया तदनभ्युपगमेन वादिप्रतिवादि संमतत्वाभावेन अदुष्टत्वप्रयोजकाभावापत्त्या दृश्यत्वानुमानस्या दुष्टत्वा भावापत्तेः । तस्मात्सद्विविक्तत्वं मिथ्यात्वमिति तृतीय पक्षः न युक्तः ।

नापि चतुर्थः । तत्रापि स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्व मभिमतं स्यात् । किं वा सद्विलक्षणस्वरूपानुपमर्देन पारमार्थिकत्वा-कारेणात्यन्ताभावप्रतियोगित्वं वेति विकल्पयामः । नाद्यः । शशविषाणा-देरपि स्वरूपेणात्यन्ताभावप्रतियोगित्वातिरिक्तासत्वाभावेन तत्साधनेऽसत्वा पत्याऽपसिद्धान्तापत्तेः । न द्वितीयः । तथात्वे अनिर्वचनीयत्वापत्त्या तत्पक्षोक्तदोषापत्तेः । तस्माद् विमतं मिथ्या इति प्रतिज्ञा न युक्ता ॥

एवं दृश्यत्वादिहेतुरप्यनुपपन्न एव । तथाहि । दृश्यत्वं किं सद्वा स्यादसद्वा स्याद् अनिर्वचनीयं वा । नाद्यः । दृश्यत्वे दृश्यत्वस्यावृत्तौ अज्ञानासिद्ध्यापत्त्या तत्र तद्वृत्तौ तत्रैव व्यभिचारापत्या दृश्यत्वे सत्यत्वानुपपत्तेः । न द्वितीयः । तथात्वे पक्षे दृश्यत्वस्यासत्वेन वादिरीत्या स्वरूपासिद्ध्यापत्तेः । न तृतीयः । अनिर्वचनीयदृश्यत्वस्य प्रपञ्चे प्रतिवाद्य-संमतत्वेन तद्रीत्याऽसिद्ध्यापत्तेः । न च साधारणप्रयुक्तहेतोर्विशेषविकल्पेन निराकरणे पर्वतोऽग्निमान् धूमादित्यनुमानेऽपि किमेतद्देशकालसंलग्नो धूमो हेतुः किं वाऽनैतद्देशकालसंलग्नः । नाद्यः । तथात्वे दृष्टान्ते एतद्देशकाल संलग्नधूमस्यासत्वेन साधनविकलत्वात् । न द्वितीयः । तथात्वे नैतद्देशकाल संल्लग्नो धूमः स्यात् (सत्त्वेन साधनविकलत्वात्) । स्वपक्षेऽसत्वाद-सिद्धिरिति विशेषविकल्पेन निराकरणस्य कर्तुं शक्यत्वेन सर्वानुमानोच्छेदा-पत्या तस्यासंभवेन धूमानुमाने अविवक्षितविशेषधूमसामान्यस्य हेतुत्ववद् दृश्यत्वानुमानेऽपि अविवक्षितविशेषसत्यानिर्वचनीयदृश्यत्वसामान्यस्यैव हेतुत्वाभ्युपगमात् तस्य वादिप्रतिवादिसंमतत्वान्नासिद्धिरिति वाच्यम् । धूमद्वये धूमसामान्यस्य वादिप्रतिवादिसंमतत्वेन धूमानुमाने तथा परिहारो-पपत्तावपि अनिर्वचनीयस्य स्वत एव प्रतिवादिनं प्रत्यसिध्या असिद्धाश्रयस्य सामान्यस्याप्यसिद्धत्वेन सत्यानिर्वचनीयदृश्यत्वयोर्दृश्यत्वसामान्यस्य वादि-प्रतिवादिसंमतत्वाभावेन दृश्यत्वानुमाने तथा परिहारानुपपत्तेः । किञ्च वृत्तिव्याप्यत्वस्य साधारणस्य विपक्षभूत आत्मन्यप्यङ्गीकृतत्वेना-नैकान्तिकत्वापत्त्या दृश्यत्वस्य तद्रूपत्वासंभवेन दृग्जन्यफलाश्रत्वरूपत्वेन तत्रापि फलस्य व्यवहाररूपत्वे तस्य विपक्ष आत्मन्यपि वृत्या अनैकान्ति-कत्वापत्त्या ज्ञाततारूपस्यैवाङ्गीकार्यत्वात् । दृग्जन्यज्ञाततारूप-फलाश्रयत्वस्य ज्ञातताऽनङ्गीकारिणोऽस्मान् प्रति असिद्धत्वेन प्रतिवाद्य-सिद्ध्यापत्तेः । किञ्च साध्यमानमिथ्यात्वस्यापसिद्धान्तभयेनासत्व-रूपत्वानुपपत्त्याऽनिर्वचनीयत्वरूपतयाऽ निर्वचनीयस्यैव सपक्षस्य वक्तव्य-तया तस्यानिर्वचनीयतया सिद्ध्यभावेन पक्षीभूतवियदादिव्यतिरिक्तस्य सर्वस्यापि विपक्षतया शुक्तिरजतादौ विपक्षे वर्तमानत्वाद् दृश्यत्वस्य साध्याभावव्याप्तत्वोपपत्त्या विरुद्धत्वापत्तेर् इत्यलम् ॥

इति श्रीपाण्डुरङ्गि केशवाचार्यविरचितः

मिथ्यात्वानुमानखण्डनोपन्यासः समाप्तः ।

इति श्रीपाण्डुरङ्गि केशवाचार्यविरचितः

मिथ्यात्वानुमानखण्डनोपन्यासः समाप्तः ।इति श्रीपाण्डुरङ्गि केशवाचार्यविरचितः

मिथ्यात्वानुमानखण्डनोपन्यासः समाप्तः ।इति श्रीपाण्डुरङ्गि केशवाचार्यविरचितः