०२ टीका_टिप्पणि

नारायणोऽगण्यगुणनित्यैकनिलयाकृतिर्

अथ श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिम्

उपाधिखण्डनम्

नारायणोऽगण्यगुणनित्यैकनिलयाकृतिः ।

अशेषदोषरहितः प्रीयतां कमलालयः ॥ १ ॥

श्रीजयतीर्थभिक्षुविरचिता

टीका

मङ्गलाचरणं

रमाया रमणं नत्वा गुणमाणिक्यमण्डनम् ।

तत्वप्रकाशिकाव्याख्यां करिष्यामो यथामति ॥

अथ श्रीब्रह्मण्यतीर्थपूज्यपादशिष्यश्रीव्यासतीर्थविरचिता उपाधिखण्डनटीकायाष् टिप्पणी

मन्दारमञ्जरी

लक्ष्मीकरतलाम्भोजलालनीयपदाम्बुजम् ।

प्रणमामि हयग्रीवं देवताचक्रवर्तिनम् ॥ १ ॥

श्रीमदानन्दतीर्थार्यचरणाम्बुरुहद्वयम् ।

शिवेन्द्रादिशिरोभूषामादरादभिवादये ॥ २ ॥

जयतीर्थमुनिं नत्वा भक्त्याऽस्माकं गुरूनपि ।

तत्वप्रकाशिकाव्याख्यां यथामति विवृण्महे ॥ ३ ॥

प्रारिप्सितग्रन्थाविघ्नपरिसमाप्त्यादिप्रयोजनकमविगीतशिष्टाचारानुमितश्रुतिप्रमाणकं परदेवताप्रणामलक्षणं मङ्गलमाचरन् ग्रन्थकर्ता जयतीर्थाचार्यश्चिकीर्षितं निर्दिशति ॥ रमाया इति ॥ रमणमिति ‘कृतल्युटो बहुलम्’ इति कर्त्रर्थे ल्युटः स्मरणात् कर्तरि ल्युट् । रमारमणस्यैव नम्यत्वे हेतुमाह ॥ गुण-माणिक्येति ॥ गुणा एव माणिक्यानि तेषां मण्डनमित्यर्थः ॥ तत्वप्रकाशिकाव्याख्यामिति ॥ ब्रह्ममीमांसासहितवेदान्तविषयादितत्व-प्रकाशिकाव्याख्यामित्यर्थः । करिष्याम इति परसमवेतक्रियाफलाभिधायिना परस्मैपदेन शिष्यानुजिघृक्षया ग्रन्थो निर्मीयत इति सूचयति ।

उपाधिखण्डन

श्रीनिवासतीर्थीयटिप्पणी

पूर्णबोधकरसेवितपादं सज्जनेष्टदमनंतसद्गुणम् ।

वासवीहृदयनन्दनं हरिं बादरायणमहं भजेऽनिशम् ॥ १ ॥

भाविब्रह्मतयाऽऽम्नातानन्दतीर्थानहं मुहुः ।

जयराजमुनींश्चापि वन्दे वेदेशयोगिनः ॥ २ ॥

प्रणम्य यादवाचार्यगुरूणां पादपङ्कजे ।

तत्वप्रकाशिकाव्याख्यां व्याकुर्वे तत्कृपाबलात् ॥ ३ ॥

सर्वज्ञकल्पाष्टीकाकारा जयतीर्थश्रीमच्चरणास्तत्त्वप्रकाशिकापरपर्याय-स्योपाधिखण्डनस्य व्याख्यां कर्तुकामाः स्वचिकीर्षितस्य ग्रन्थस्य निर्विघ्नेन परिसमाप्त्यर्थं स्वेष्टदेवतानमस्काररूपं मङ्गलं मनसि कृत्वा शिष्यशिक्षायै ग्रन्थादावुपनिबध्नंतः स्वचिकीर्षितं प्रतिजानते ॥ रमाया रमणमिति । अनेन सकलवाङ्मनसदेवताया रमाया अपि वन्दनं कृतमिति ज्ञातव्यम् । गुणा एव माणिक्यानि तान्येव मण्डनान्यलङ्कारभूतानि यस्य स तथोक्तस्तम् ॥ तत्वप्रकाशिकेति । श्रुतितन्मीमांसाशास्त्रप्रतिपाद्यभूतं यत्परमपरं च तत्वं तत्प्रकाशयतीति तन्नामकस्य भगवत्पादकृतप्रकरणस्य व्याख्यामित्यर्थः । भगवत्पादीयग्रन्थव्याख्याने सुराणामेवाधिकारात्कथं तत्र भवतां प्रवृत्तिरित्यत उक्तम् ॥ यथामतीति ।

श्रीमत्सत्यनाथतीर्थविरचिता

परशुनाम्नीटिप्पणी

उपाधिखण्डनप्राप्तावायुधापेक्षयाऽन्वहम् ।

भजेऽहं भार्गवं रामं दुष्टा येन निपातिताः ॥ १ ॥

ज्ञानादिगुणसंपूर्णममोघानुग्रहं गुरुम् ।

वन्दे सत्यनिधिं भूयष् टीकार्थज्ञानसिद्धये ॥ २ ॥

श्रीमज्जयतीर्थमुनिः स्वयं मङ्गलमनुष्ठाय शिष्यान् शिक्षयितुं ग्रन्थादौ मङ्गलं निबध्नन् चिकीर्षितं प्रतिजानीते रमाया रमणमिति ॥ नम्यत्वे हेतुमाह गुणमाणिक्येति । गुणाश्च माणिक्यानि च तानि, मण्डनं यस्यासौ तथोक्तः ।

अवतरणिका

टीका

परमात्मनोऽत्यन्तभिन्नस्य स्वतश्चिदानन्दाद्यात्मक-स्यापि जीवस्य अनाद्यविद्याकामकर्मादिनिमित्तोऽयं परमार्थ एव अन्यथाकारो दुःखाद्यनर्थो न परमेश्वरप्रसादादृते अपगच्छति । न च असाक्षात्कृतोऽसौ प्रसीदति । न च अविदितस्वरूपः शक्यते साक्षात्कर्तुमिति सकलगुणाकरतया निश्शेषदोषगन्धविधुरतया च तं प्रतिपादयितुमशेषाम्नायाः प्रवर्तन्ते । तदुपकरणभूता च ब्रह्ममीमांसेति परमार्थः ।

मन्दारमञ्जरी

ननु किमर्थमिदं प्रकरणमारभ्यते भगवत्पादैः? न च वेदान्तानां समीमांसानां विषयप्रयोजनादिस्वरूपनिर्णयार्थमारभ्यते, तन्निर्णयश्च वेदान्तादौ जिज्ञासूनां प्रवृत्त्यर्थः, प्रवृत्तिश्च ज्ञानसम्पादनद्वारा मोक्षपर्यवसायिनीति वाच्यम् । मोक्षस्य ईश्वरप्रसादैकसाध्यत्वेन ज्ञानानपेक्षणादित्याशङ्क्याह ॥ परमात्मन इत्यादिना न चासाक्षात्कृतोऽसौ प्रसीदतीत्यन्तेन ग्रन्थेन ॥ जीवस्य दुःखाद्यनर्थः परमेश्वरप्रसादादृते नापगच्छतीति सम्बन्धः । ननु दुःखादेरानन्दादिवदनिवृत्तिः किं न स्यात् ? इत्यत आह ॥ अन्यथाकार इति ॥ आनन्दादिवन्न स्वाभाविकत्वम् अन्तःकरणधर्मत्वाद्दुःखादीनामिति भावः । तर्हि मायिमत इव दुःखादीनां मिथ्यात्वं स्यादिति । नेत्याह ॥ परमार्थत इति ॥ दुःखादीनां स्वरूपेण अन्तःकरणे परमार्थत्वात् तदनु-सन्धातृत्वस्य दुःखित्वस्य जीवे परमार्थत्वान्न कस्यापि मिथ्यात्वमित्यर्थः । ननु तस्यानर्थस्यानिमित्तकत्वे स्वरूपानन्दादिवत्स्वाभाविकत्वं स्यात् । सनिमित्तकत्वे च निमित्तस्यापि निमित्तान्तरापेक्षायामनवस्था स्यादित्यत आह ॥ अनाद्यविद्याकामकर्मेति ॥ सनिमित्तकत्वेऽपि निमित्तस्यानादि-त्वान्नानवस्थेत्यर्थः । अविद्या भावरूपाज्ञानम् । कामो रागः । कर्म

काम्यादिकर्म । अविद्यायाः स्वरूपेणानादित्वम् इतरयोस्तु प्रवाहत इति द्रष्टव्यम् ।

स्वरूपतोऽनादित्वपरिष्कारः

ननु किमिदमनादित्वं नाम । किं प्रागभावाप्रतियोगित्वम् ? किं वा कारणशून्यत्वम् ? आद्येऽपि किं स्वप्रागभावाप्रतियोगित्वम् ? अन्यप्रागभावा-प्रतियोगित्वं वा ? प्रागभावमात्राप्रतियोगित्वं वा ? आद्येऽपि किं स्वप्रागभावः प्रसिद्धः ? उत न ? आद्ये कथमयं न तत्प्रतियोगी स्यात् ? इत्यसम्भवः । द्वितीये त्वसम्भवः । स्वप्रागभावाप्रसिद्धौ तत्प्रतियोगित्वाभावस्य दुर्ज्ञानत्वात् । नापि द्वितीयः । घटस्यापि पटप्रागभावाप्रतियोगिनोऽनादित्वापातात् । तृतीयेऽपि मात्रशब्दः किं कार्त्स्न्यवाची ? किं वा सामान्यवाची ? नाद्यः । घटस्यापि कृत्स्नप्रागभावाप्रतियोगिनोऽनादित्वापातात् । न हि घटः पटादि-प्रागभावप्रतियोगी । न द्वितीयः । आकाशादिप्रतियोगिकप्रागभावस्या-प्रामाणिकत्वात् प्रामाणिकाप्रामाणिकयोः सामान्याभावात् । एवमेव कारण-शून्यत्वमिति द्वितीयोऽपि निरसनीयः । तस्मादविद्यानादित्वं दुर्निरूपमिति । अत्रोच्यते ।

घटादौ प्रमिता तावत्प्रागभावेन युक्तता ।

आरोप्य बुद्धिपूर्वं सा गगनादौ निषिद्ध्यते ॥

स्वप्रागभावाप्रतियोगित्वमेवानादित्वम् । यत्तु ‘स्वप्रागभावाप्रसिद्धौ स्वप्राग-भावप्रतियोगित्वाभावोऽप्यसिद्धः’ इति तत्र किं प्रतियोगिनोऽसत्वेऽभावोऽपि न स्यात्’ इत्यर्थो विवक्षितः ? । किं वा ‘प्रतियोगिनोऽसत्वे तज्ज्ञानोपायाभावेन प्रतियोगिमानपूर्वकमभावज्ञानं च न स्याद् इति ? । नाद्यः । प्रागभाव-प्रध्वंसयोः प्रतियोगिसत्त्वेन व्याप्तत्वेऽपि अत्यन्ताभावस्य तेन व्याप्त्यभावात् । अत्यन्ताभावो हि प्रत्युत प्रतियोगिनोऽसत्त्वमेवापेक्षते । प्रकृते च स्वप्राग-भावप्रतियोगित्वात्यन्ताभावस्य लक्षणत्वेन विवक्षितत्वात् । न द्वितीयः । घटादौ प्रमितस्य स्वप्रागभावप्रतियोगित्वस्य गगनादौ बुद्धिपूर्वकमारोप्य निषेधात् । निषेधो हि प्रसक्तिपूर्वकः । प्रसक्तिश्च बुद्धिपूर्वकारोप एव । ‘इह भूतले घटो नास्ति’ इत्यादौ भूतलान्तरे प्रमितस्य घटस्य इह भूतले बुद्धिपूर्व-कमारोप्य निषेधे एतद्भूतलस्य घटाभावः सिद्ध्यति यथा एवमेवात्रापि घटादौ प्रमितस्य स्वप्रागभावप्रतियोगित्वस्य गगनादौ बुद्धिपूर्वकमारोप्य निषेधे गगनस्य स्वप्रागभावप्रतियोगित्वाभावो ज्ञातो भवति । अथ वा घटादौ स्वप्रागभाव-प्रतियोगित्वस्य दर्शनात् ‘गगनं स्वप्रागभावप्रतियोगि वस्तुत्वाद् घटवत्’ इत्याद्यनुमानाभासैर्गगनादेः स्वप्रागभावप्रतियोगित्वे प्रसक्ते तन्निषिद्ध्यत इति नाप्रसक्तप्रतिषेधः । एवमेव स्वकारणराहित्यस्वोत्पत्तिराहित्यादीन्यनादित्व-लक्षणान्यूह्यानि । एवमेव प्रध्वंसाप्रतियोगित्वं नित्यत्वमित्यादीन्यपि समर्थ-नीयानीति दिक् ।

प्रवाहतोऽनादित्वपरिष्कारः

नन्वथापि प्रवाहतोऽनादित्वमिति कोऽर्थः ? प्रवाहोऽनादिरित्यर्थ इति चेत् । स किं प्रवाहिभ्यो भिद्यते ? उत न ? आद्येऽपि स किं प्रवाहिभिरा-रभ्यते ? उत ज्ञाप्यते ? आद्ये कथमयमनादिः स्यात् ? द्वितीयेऽपि किं प्रवाहिणां प्रत्येकं ज्ञापकत्वम् ? किं वा मिलितानाम् ? नाद्यः । एकैकप्रवाहिदर्शनेऽपि प्रवाहबुद्धिप्रसङ्गात् । न द्वितीयः । तेषां क्रमभाविनां मेलनस्यैवासम्भवात् । नापि द्वितीयः । सादिप्रवाह्यभिन्नस्य प्रवाहस्या-नादित्वायोगात् । तस्मात्कर्मादीनां प्रवाहतोऽनादित्वमिति व्याख्यानमयुक्त-मिति । अत्रोच्यते–

प्रवाह इति गीयन्ते सजातीयाः प्रवाहिणः ।

कालेनोपाधिना ग्रस्ता नानावृक्षा वनं यथा ॥

न प्रवाहिभ्योऽतिरिक्तः प्रवाहोऽस्ति । सजातीयानां प्रवाहिणामेव पूर्वापर-कालवृत्तित्वेनोपाधिना प्रवाहशब्दार्थत्वात् । दृष्टं चैतत् । एकदेशस्थत्वेनो-पाधिना अनेकवृक्षाणामेव वनशब्दार्थत्वात् । तेषामनादित्वं च एकप्रवाहमध्य-पतितानेकप्रवाहिप्रतियोगिकप्रागभावावच्छिन्नकालावृत्तित्वानधिकरणध्वंसप्रतियोगि-प्रवाहित्वमिति न कश्चिद्दोषः ।

प्रकरणस्य प्रयोजनादिसमर्थनं

ननु जीवस्वरूपानन्दस्य स्वतःसिद्धत्वात् तद्विरुद्धदुःखस्य तत्रानवकाशा-न्नेश्वरप्रसादेन सम्पाद्यमस्तीत्यत आह ॥ स्वतश्चिदिति ॥ चिदानन्दा-द्यात्मकस्यापि नापगच्छतीति विधेयविशेषणमेतत् । स्वरूपानन्दादिना बाह्य-दुःखादेर्विरोधाभावाद् दुःखादिनिवृत्तेरीश्वरप्रसादसाध्यत्वमित्यर्थः । उपलक्षण-मेतत् । स्वरूपानन्दस्य नित्यत्वेऽपि आविर्भूतानन्दस्य प्रयोजनत्वाद् आविर्भावस्येश्वरप्रसादसाध्यत्वादित्यापि द्रष्टव्यम् । परमात्माभिन्नस्य जीवस्य कुतोऽनर्थप्राप्तिः? इत्यत आह ॥ परमात्मनो भिन्नस्येति ॥ व्यावहारिक-भेदसद्भावेऽपि न पारमार्थिकानर्थो जीवस्य सम्भवतीत्यत आह ॥ अत्यन्तेति ॥ परमार्थत इत्यर्थः । यद्वा भास्करमतनिरासेन अभेदासहिष्णुभेद-प्रतिपादनाय अत्यन्तमित्युक्तम् । मोक्षस्येश्वरप्रसादसाध्यत्वेऽपि तत्साक्षात्कारं विना तत्प्रसादाभावाद् अपरोक्षज्ञानजनकानां वेदान्तानां सप्रयोजनत्वात् तद्विषयकप्रवृत्तिहेतुभूतविषयादिनिर्णायकस्यास्य प्रकरणस्यापि सप्रयोजनत्व-मित्यभिप्रायः ।

नन्वेवमप्यपरोक्षज्ञानमेव मोक्षपर्यवसायि । वेदान्तैश्च परोक्षज्ञानमेव क्रियत इत्यत आह ॥ न चेति ॥ अविदितेति ॥ परोक्षज्ञानेनाविदितेत्यर्थः । घटाद्यपरोक्षज्ञानस्य परोक्षज्ञानपूर्वकत्वनियमाभावेऽपि ईश्वरापरोक्षज्ञानस्यो-पासनासाध्यत्वाद् उपासनायाश्च परोक्षज्ञानपूर्वकत्वनियमादिति भावः । नन्वीश्वरपरोक्षज्ञानं लोकत एव प्राप्तमिति किं वेदान्तैः? इत्याशङ्क्याह ॥ सकलेति ॥ यद्यपि कार्यत्वाद्यनुमानेनेश्वरस्वरूपमात्रमवगतम् । तथापि तन्नोपासनाङ्गम् । श्रुत्याद्युक्तगुणविशिष्टस्यैवोपास्यत्वादिति भावः । कर्मकाण्ड-स्यापीश्वरज्ञानहेतुकर्मप्रतिपादकत्वाद् ब्रह्मण्येव महातात्पर्यमित्याह ॥ अशेषेति ॥ न चैवं ब्रह्ममीमांसावैयर्थ्यम् । वेदार्थनिर्णायकन्यायव्युत्पादकत्वा-दित्याह ॥ तदुपकरणेति ॥

श्रीनिवासतीर्थीयटिप्पणी

नन्विदं प्रकरणमनारम्भणीयं विषयादिशून्यत्वादित्याशङ्क्यास्य प्रकरणत्वात्प्रकरणस्य शास्त्रैकदेशसम्बन्धित्वाच्छास्त्रे यद्विषयादिकं तदेव अस्यापि प्रकरणस्य विषयादिकं भविष्यतीत्यभ्युपेत्यास्य शास्त्रस्य विषयादिकं दर्शयति ॥ परमात्मन इत्यादिना । जीवपरमात्मनोर्भेदाभेदाविति भास्करः । तन्निराकरणायाह ॥ अत्यन्तभिन्नस्येति । दुःखाद्यनर्थस्याप्यानन्दादि-वत्स्वाभाविकत्वे प्रसादादपि तन्निवृत्त्यनुपपत्तिरित्यत उक्तम् । अविद्येत्यादि । अविद्यादेरप्यन्यनिमित्तकत्वे निमित्तान्तरपरंपरयाऽनवस्थापरिहारायोक्तम-नादीति । अविद्याभावरूपा । कामो रागः । कर्म काम्यं निषिद्धं च । आदि-पदेन मोहग्रहणम् । अविद्याया अनादित्वं स्वरूपेण । कामादेस्तु प्रवाहत इति द्रष्टव्यम् । अन्यथाकारः स्वरूपापेक्षयान्यथाप्रतीयमान आकारः ।

ननु दुःखाद्यनर्थरूपान्यथाकारस्य मिथ्यात्वे तदपरमार्थं स्वत एव निवर्तते । न तत्र परमेश्वरप्रसादापेक्षा । न हि शुक्तौ रजताद्यन्यथाकारनिवृत्तौ कस्य-चित्प्रसादोऽपेक्षित इत्यत उक्तम् । परमार्थ एवेति ॥ प्रसादादृत इति । यस्य प्रसादात्परमार्तिरूपादिति श्रुतेरिति भावः ॥ अविदितेति । श्रवणादिना-परोक्षत इत्यर्थः । तर्हि कथं तद्वेदनमपेक्षत इत्यत उक्तम् । सकलेति । आकरः खनिः । गन्धेति । लेशेत्यर्थः । गन्धस्सौरभलेशयोरित्यमरः । कर्म-काण्डस्यापीश्वरज्ञानहेतुभूतकर्मप्रतिपादकत्वाद्ब्रह्मण्येव महातात्पर्यमित्याशये-नोक्तम् । अशेषेति । ‘‘ब्राह्मणोपनिषन्मन्त्रभेदा वेदगिरोऽखिला’’ इत्युक्ते-रित्यर्थः । तर्हि ब्रह्ममीमांसायाः किं कृत्यमित्यत आह ॥ तदुपकरणेति । अर्थनिर्णयेतिकर्तव्यतारूपेत्यर्थः । वेदार्थनिर्णयकरणीभूतन्यायग्रथनात्मकत्वा-द्ब्रह्ममीमांसाया इति भावः । यथाहुः ।

धर्मे प्रमीयमाणे हि वेदेन करणात्मना ।

इतिकर्तव्यता भागं मीमांसा पूरयिष्यति ॥ इति ।

न मायिमत इवायमर्थोऽसत्यः प्रतिपत्तव्य इत्याह ॥ इति परमार्थ इति । सैद्धान्तिकं रहस्यं तत्वमित्यर्थः । तदुपकरणभूतब्रह्ममीमांसायाश्च प्रवृत्तिरिति तत्वमिति मायावादखण्डनोक्तेरित्यवगन्तव्यम् ॥

परशुनाम्नीटिप्पणी

‘अस्य प्रकरणस्य स्वाभिमतप्रमेयसमर्थनम्, पराभिमतप्रमेय-निरासकत्वं च प्रयोजनम्’ इति वक्तुं ‘किं तत् स्वाभिमतं प्रमेयम्, किं तत् पराभिमतं प्रमेयम्’ इत्याकाङ्क्षानिवृत्तये आचार्याभिमतं प्रमेयं तावदाह परमात्मन इति ।

‘जीवपरमात्मनोरत्यन्तभेदः । मुक्तियोग्यजीवानां स्वतश्चिदानन्दा-द्यात्मकत्वम् । अनाद्यविद्याकामकर्मादिजन्यः जीवस्य प्रतीयमानो ऽन्यथाकारः दुःखाद्यनर्थः परमार्थ एव । स च ईश्वरप्रसादनिवर्त्यः । प्रसादश्च ईश्वर-साक्षात्कारसाध्यः । साक्षात्कारश्च श्रवणादिरूपपरोक्षज्ञानसाध्यः । वेदा(न्ता)नां सकलगुणाकरतया, निःशेषदोषगन्धविधुरतया च ब्रह्म-प्रतिपादकत्वम् । मीमांसायाश्च तदुपकरणत्वम् ।’ इत्येतावद् आचार्याभिमत-प्रमेयम् ॥ अत एव ‘वेदा(न्ता)नां गुणदोषाभावविशिष्टं ब्रह्म विषयः । ब्रह्मणोऽत्यन्तभिन्नः सज्जीवो ऽधिकारी । तदीयान्यथाकारनिवृत्तिः, स्वरूपा-नन्दावाप्तिश्च फलम् । यथायोग्यं सम्बन्धः ।’ इत्येतदपि आचार्याभिमतं प्रमेयमिति भावः ।

एतेन ‘अविद्याशब्दितभावरूपाज्ञानस्य अनादित्वेऽपि काम्यकर्मणस्तद-भावाद् उभयोरनादित्वकथनमयुक्तम् । न च अविद्यायाः स्वरूपेणानादित्वं, काम्यकर्मणस्तु प्रवाहतोऽनादित्वं विवक्षितमिति वाच्यम्; कर्मणां दुःखहेतु-त्वेऽपि तत्करणप्रवाहपतितानां कर्मणां कर्मजनकत्वेनान्यथासिद्धानाम् अनर्थ-हेतुत्वाभावेन ‘अनादिकर्मनिमित्त’ इत्युक्त्ययोगात् ।’’ इति निरस्तम्,

अनादित्वस्य अविद्यामात्रविशेषणत्वाभिधानेन काम्यकर्मविशेषणत्वानभिधानात् ।

एतेनैव ‘‘जीवगतान्यथाकारनिवृत्तये सकलगुणाकरतया, निःशेषदोषगन्ध-विधुरतया च ब्रह्म प्रतिपादयितुम् अशेषाम्नायाः प्रवर्तन्ते’ इत्येतावतैव आचार्याभिमतविषयादिसूचनसम्भवात् शेषवैयर्थ्यम्’’ इति परास्तम् ।

मायावाद्यभिमतविषयादिनिरूपणम्

टीका

अपरे तु स्वतः परमात्मभूतस्यैव जीवस्य अज्ञानादि-निमित्तोऽयमपरमार्थ एवानर्थोऽद्वैतज्ञानैकनिबर्हणीय इत्यतोऽ-स्यानर्थहेतोः प्रहाणाय आत्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्ते । तदितिकर्तव्यतारूपा ब्रह्ममीमांसा चेति मन्यन्ते ।

मन्दारमञ्जरी

वेदान्तानां विषयादितत्वनिर्णयार्थं चैतत्प्रकरणम् । किं विषयाद्याभासप्रसक्तिरस्ति ? इत्याशङ्क्य अस्तीत्याह ॥ अपरे त्वित्यादिना मन्यन्त इत्यन्तेन ग्रन्थेन ॥ वेदान्तस्य प्रयोजनमात्मैकत्वविद्येत्याह ॥ आत्मैकत्वविद्येति ॥ प्रतिपत्तिशब्देन प्राप्तिर्विवक्ष्यते । आत्मैकत्वविद्यायाः प्रयोजनमाह ॥ अनर्थोऽद्वैतज्ञानैकनिबर्हणीय इति ॥ यद्वा वेदान्ता-नामात्मैकत्वं विषय इत्याह ॥ आत्मैकत्वविद्येति ॥ प्रतिपत्तिशब्देन प्राप्तिर्विवक्ष्यते । यद्धि यत्प्रतिपत्त्यर्थं स तस्य विषय इति प्रसिद्धम् । प्रयोजनमाह ॥ अनर्थोऽद्वैतज्ञानैकनिबर्हणीय इति ॥ इत्यनर्थनिबर्हणार्थमिति शेषः । अनर्थस्याद्वैतज्ञाननिवर्त्यत्वे हेतुमाह ॥ अपरमार्थ इति ॥ अपरमार्थत्वे हेतुमाह ॥ अज्ञानादिनिमित्त इति ॥ निमित्तशब्दः कारणमात्रवाची तद्विशेषोपादाने पर्यवस्यतीति द्रष्टव्यम् । तत्र हेतुमाह ॥ स्वतः परमात्मभूतस्येति ॥ ननु स्वतः परमात्माभिन्ने जीवे स्वाभाविकानर्थ इव अज्ञाननिमित्तकोऽपि न सम्भवतीत्यत आह ॥ अयमिति ॥ युक्त्यसहत्व मनर्थस्य भूषणम् । प्रतीतिमात्रं तु प्रत्यक्षसिद्धत्वान्नापलापार्हमिति भावः । ननु ज्ञानस्याज्ञानमात्रनिवर्तकत्वान्न दुःखादिनिवर्तकत्वं, तत्राह ॥ अस्य प्रहाणायेति ॥ अस्येत्यज्ञानस्येत्यर्थः । साक्षादनर्थनिवृत्तिहेतुत्वाभावेऽपि अनर्थहेत्वज्ञाननिवृत्त्यर्थमात्मैकत्वविद्येत्यर्थः । अविद्यानिवृत्तेः कथमनर्थ-निवृत्तिहेतुत्वम् ? तत्राह ॥ अनर्थहेतोरिति ॥ अनर्थोपादानस्येत्यर्थः । उपादाननिवृत्तेरुपादेयनिवृत्तिहेतुत्वं सुप्रसिद्धमिति भावः ।

श्रीनिवासतीर्थीयटिप्पणी

ननु प्रकारान्तरेण विषयादिप्रसक्तेरेवाभावाद्वेदतन्मीमांसा शास्त्रयोर्विषयादितत्वनिर्णयार्थमिदं प्रकरणमित्ययुक्तमित्यतः प्रकारान्तरेण विषयादिप्रसक्तिं दर्शयति ॥ अपरे त्विति । वेदान्तानामात्मैकत्वं विषय इत्याह ॥ आत्मैकत्वविद्याप्रतिपत्तय इति । प्रतिपत्तिशब्देन प्राप्तिर्विवक्षिता । ऐक्यज्ञानप्राप्त्यर्थमित्यर्थः । अज्ञाननिवृत्तिः प्रयोजनमित्याह ॥ अनर्थेति । अनर्थो दुःखादिः । तद्धेतोस्तदुपादानस्याज्ञानस्य । प्रहाणाय निवृत्तय इत्यर्थः। नन्वनर्थहेतोरज्ञानस्य प्रसादेनापि निवृत्तिसम्भवात्किमात्मैकत्वज्ञानेनेत्यत उक्तम् । औतज्ञानैकनिबर्हणीय इति । अज्ञाननिवृत्तिद्वारेत्यर्थः। यतो ज्ञानमज्ञानस्यैव साक्षान्निवर्तकमित्यङ्गीकारादैक्यज्ञानेनोपादानभूतेऽज्ञाने निवृत्ते तत्कार्यं स्वयमेव नश्यतीति भावः । सत्यस्यैव निगडबन्धादेर्निवृत्तौ प्रभु-प्रसादापेक्षा । न तु मिथ्याभूतस्य शुक्तिरूप्यादेरित्यभिप्रेत्योक्तम् । अपरमार्थ एवेति । अपरमार्थत्वे हेतुमाह ॥ अज्ञानादिनिमित्त इति । कारणमात्रवाची निमित्तशब्दोऽत्र तद्विशेष उपादाने पर्यवस्यति । तथाचाज्ञानोपादानकत्वा-न्मिथ्यात्वम् । अज्ञानतत्कार्ययोरन्यतरत्वस्यैव मिथ्यात्वलक्षणत्वादिति भावः ।

ननु जीवे दुःखाद्यनर्थरूपबन्धस्य अज्ञानोपादानकत्वान्मिथ्यात्वं कुतोऽङ्गी-क्रियते । सत्यत्वमेव कस्मान्न स्यादित्यत उक्तम् । स्वतः परब्रह्मभूतस्येति । तथाच जीवगतदुःखादिबन्धस्य सत्यत्वे विरुद्धधर्माधिकरणत्वेन जीवब्रह्मणो-रैक्यायोगादिति भावः ।

परशुनाम्नीटिप्पणी

तत्र ‘विषयादिचतुष्टयम् इह प्रकरणे आचार्येण समर्थ्यते’ इति द्योतनाय सर्वाभिधानस्यावश्यकत्वात् पराभिप्रेतं प्रमेयमनुवदति अपरे त्विति ।

‘जीवस्य परमात्मना अत्यन्ताभेदः । अज्ञानादिनिमित्तः जीवस्य प्रतीय-मानः दुःखाद्यनर्थः न पारमार्थिकः । औतज्ञानं तन्निवर्तकम् । वेदान्ताश्च औतज्ञानहेतवः । ब्रह्ममीमांसा तदितिकर्तव्यतारूपा ।’ इत्येतावत् पराभिमतं प्रमेयम् ॥ अत एव ‘आत्मैकत्वं वेदान्तविषयः । अज्ञो जीवो ऽधिकारी । अज्ञाननिवृत्तिद्वारा अनर्थनिवृत्तिः फलम् । यथायोगं सम्बन्धः ।’ इत्यपि पराभिप्रेतं प्रमेयमिति भावः ।

मङ्गलाचरणम्

टीका

तमेतं शास्त्रस्य पराभिमतमधिकारिविषयप्रयोजन- सम्बन्धं निरस्य स्वाभिमतं समर्थयितुमिदं प्रकरणमारभमाणो भगवानाचार्यो नारायणस्तवनतत्प्रीतिप्रार्थनारूपमादितो मङ्गल माचरति ।

मूलम्

नारायणोऽगण्यगुणनित्यैकनिलयाकृतिः ।

अशेषदोषरहितः प्रीयतां कमलालयः ॥ १ ॥

अगण्यगुणानां नित्यैकनिलया सदा मुख्याश्रया आकृतिर् मूर्तिर्यस्यासौ तथोक्तः । प्रीयताम् अस्माकमिति शेषः । अभ्यर्हितत्वेन सिद्धत्वाद् इदं नोक्तम् । अत्राऽद्यं विशेषणद्वयं स्तुत्यर्थमपि उत्तरप्रबन्धप्रसङ्गोपक्षेपाय कृतम् । अथ वा नानिर्धारितस्वरूपस्य प्रसादाशंसनं युक्तम् । न च लक्षणेन विना निर्धारणमिति लक्षणद्वयाभिधानमिदम् । यथोक्तम्

अतोऽशेषगुणोन्नद्धं निर्दोषं यावदेव हि ।

तावदेवेश्वरो नाम तत्र भेदोऽपि न क्वचित् । इति ॥

नारायणप्रीतिरिव रमायाः प्रीतिरपि प्रार्थनीयेति ज्ञापनाय कमलालय इत्युक्तम् ।

मन्दारमञ्जरी

तस्माद्विषयाभासस्य प्रसक्तत्वात्तन्निराकरणं युक्तमित्याह ॥ तमेतमिति ॥ तदनेनास्य प्रकरणस्य वेदान्तविषयादितत्वं विषयः । तदवधारणं प्रयोजनम् । वेदान्तशुश्रूषुरधिकारी । सम्बन्धस्तु यथायोग्यमूहनीय इत्युक्तं भवति ।

ननु मीमांसया वेदान्तार्थनिर्णये विषयादिकं तत्रैव निश्चेष्यत इति किमनेन प्रकरणेनेति चेन् नैष दोषः । वेदान्तविषयकप्रवृत्तिहेतुभूतस्य विषयादितत्वाव-धारणस्य प्रवृत्तिसाध्यवेदान्तश्रवणसाध्यत्वे अन्योन्याश्रयप्रसङ्गेन प्राक् प्रवृत्तेः सामान्याकारेण तज्ज्ञापनाय प्रकरणारम्भोपपत्तेः ।

नारायणस्तवनेति ॥ नारायणस्तवननारायणप्रीतिप्रार्थनरूपमङ्गलद्वयाचरणं ‘भूयांसि मङ्गलान्यनुष्ठितानि भूयसो विघ्नान् घ्नन्ति’ इति सूचनार्थम् । तेन क्वचिन्मङ्गले कृतेऽपि प्रारिप्सितपरिसमाप्त्यदर्शनान्मङ्गलं न परिसमाप्त्यादि-हेतुरिति शङ्का निरस्ता । तत्र विघ्नानां भूयस्त्वान्मङ्गलस्याल्पीयस्त्वादिति भावः ॥ मुख्याश्रयेति ॥ अन्येषां बहुगुणाश्रयत्वमात्रेण अगण्यगुणाश्रयत्व-मौपचारिकम् । अस्य तु मुख्यमित्यर्थः । यद्यपि गुणगुणिनोरत्यन्ताभेदः । तथापि विशेषबलादाश्रयाश्रयिभावो द्रष्टव्यः । विशेषस्वरूपं च विवेच-यिष्यामः ॥ अभ्यर्हितत्वेनेति ॥ कमलाविशिष्टनारायणप्रीतेः स्वस्यैव मुख्य-पात्रत्वान् मुख्ये सम्भवत्यमुख्यायोगादित्यर्थः । अथ वा असति विशेषे स्वाभिलष्यमाणेनेष्टेन अन्तरङ्गतया स्वस्यैव सम्बन्धदर्शनादित्यर्थः । यद्वा ‘भिक्षां देहि’ इत्यादाविव वाक्यप्रयोक्तृत्वेन स्वस्यैव प्रकृतत्वादित्यर्थः ॥ अत्राद्यमिति ॥ न चोभयत्र तात्पर्ये वाक्यभेदः शङ्क्यः । स्तुतौ तात्पर्येण विशेषणद्वये उत्तरग्रन्थारम्भोपपादनस्य प्रासङ्गिकत्वादिति अपिशब्दार्थः । पक्षान्तरमाह ॥ अथ वेति ॥ यद्यपि एकेनैव लक्षणेन वस्तुसिद्धिः । तथापि एकलक्षणोपपादनायान्यस्मिन् कथिते अव्याप्त्याद्यभावात्तदपि लक्षणं भवतीत्यर्थः ॥ १ ॥

श्रीनिवासतीर्थीयटिप्पणी

एवं विषयाद्याभासस्य प्रसक्तत्वात्तन्निराकरणेन स्वाभिमत-विषयादिसमर्थनार्थमेतत्प्रकरणारम्भो युक्त एवेत्याह ॥ तमेतमिति ॥ स्वाभिमतमिति । गुणपूर्णो निर्दोषो भगवान्विषयः । तज्ज्ञानं मोक्षश्च प्रयोजनम् । योग्यस्तदिच्छुरधिकारी । यथायोग्यं सम्बन्ध इति स्वाभिमत-मित्यर्थः । नित्यशब्दार्थस्सदेति । एकशब्दार्थो मुख्येति । निलयशब्दार्थ आश्रय इति । मूर्तिः शरीरम् । कण्ठतोऽनुक्तौ निमित्तमाह ॥ अभ्यर्हित-त्वेनेति । कमलाविशिष्टनारायणप्रीतेः स्वस्यैव मुख्यपात्रत्वेन स्वेषामिति सिद्धत्वात् प्रमितत्वादित्यर्थः ।

यद्वा यथा भिक्षां देहीत्यादौ वाक्यप्रयोक्तृतया स्वस्यैव प्रकृतत्वेन सिद्धत्वा-न्ममेति नोच्यते । एवमिहापि प्रीयतामिति वाक्यप्रयोक्तृत्वेन स्वेषामिति प्रकृतत्वेन सिद्धत्वादस्माकमिति नोक्तमित्यर्थः ।

नन्वगण्यगुणेत्यादिविशेषणद्वयं किमर्थमिति चेत् । स्तुत्यर्थमिति ब्रूमः । तर्हि जगज्जन्मादिकर्तृत्वादिरूपविशेषणान्तरेणापि स्तुतिसम्भवादगण्य-गुणेत्यादिविशेषणद्वयेनैव स्तुतौ किं प्रयोजनमित्यत आह ॥ अत्राद्यमिति ॥ उत्तरेति । उत्तरप्रबन्धस्योत्तरग्रन्थस्य प्रसङ्गः प्रसक्तिस् तस्योपक्षेपाय प्रारम्भायेत्यर्थः । एतल्लक्षणद्वयस्य नारायणस्वरूपनिर्धारणहेतुत्वेऽनुव्याख्यान-संमतिमाह ॥ यथोक्तमिति । व्याख्यातं च सुधायाम् । कियती सीमा परमात्मत्वस्येत्यत आह । अत इति । अशेषगुणोन्नद्धत्वं निर्दोषत्वं च प्रत्येकं निर्धारणहेतुत्वेनोक्तम् । स्वमते ब्रह्मण ईश्वरातिरिक्तस्याभावं सूचयितुमीश्वर इत्युक्तम् । इदं च लक्षणं ब्रह्मणः श्रुत्यादिसिद्धमिति हिशब्दार्थः । यावद्वस्तु अशेषगुणोन्नद्धं निर्दोषं तावद्रामकृष्णादिरूपजातं वस्तु ईश्वरो नामेत्युक्ते समुदायैक्येन भेदाभेदावङ्गीकृताविति प्रतीयते । तन्निराकरोति । तत्रेति । क्वचिदिति । परस्परं परमात्मना चेत्यर्थ इति । प्रार्थनीयेति । तस्याः सकलवाङ्मनसदेवतात्वादिति भावः ।

परशुनाम्नीटिप्पणी

आदितो मङ्गलमाचरतीति । अनेन निबन्धः सूचितः, मङ्गलस्य निबन्धनेन विना प्रकरणादित्वायोगात् । ननु ‘कमलालयो ऽस्माकं प्रीयताम्’ इति वक्तव्यम्, इत्यत आह अस्माकमिति शेष इति । इतःपरं श्रूयमाणस्य ‘अभ्यर्हितत्वेन सिद्धत्वादिदं नोक्तम्’ इतिवाक्यस्य अर्थोऽस्माभिर्न ज्ञातः ।

आद्यं विशेषणद्वयं स्तुत्यर्थमिति ॥ इतःपरं टीकायां श्रूयमाणम् ‘अपि’ इत्येतत् प्रक्षिप्तम् । ‘आद्यं विशेषणम्’ इति उच्छिन्नापेक्षम् । ‘उपाय’ इत्यतःपरं ‘च’ शब्द उच्छिन्नः ॥ ततश्च एवं टीकावाक्यपाठः ‘अत्र आद्यं विशेषणद्वयं स्तुत्यर्थम् । आद्ये विशेषणम् उत्तरप्रबन्धप्रसङ्गोपक्षेपाय च कृतम् ।’ इति । (अत्र ‘द्वयम्’ इति प्रक्षिप्तम् । ‘आद्यविशेषणं स्तुत्यर्थमपि’ इति टीकावाक्यपाठः ।) ॥ अवश्यं चैतदेवं विज्ञेयम् ; ‘अत्राहुरद्वैतवादिनः’ इत्युत्तरग्रन्थे आद्यविशेषणेनैवोपक्षेपात्, निर्दोषत्वस्य परेणाप्यङ्गीकारेण तस्यानुपक्षेपकत्वात् ।

अतोऽशेषगुणोन्नद्धमिति । यावद् रामकृष्णादि, तावत् सर्वम् ईश्वर-शब्दाभिधेयम् ॥ ननु एवं तर्हि ईश्वरैक्यभङ्गः, इत्यत उक्तं तत्र भेदोऽपि न क्वचिदिति । तेषु रामकृष्णादिषु क्वचिदपि न भेदः । सर्वत्राप्यैक्यमेवेत्यर्थः ।

जीवब्रह्मैक्यस्य शास्त्रार्थत्वेन गुणपूर्णत्वाक्षेपः

टीका

अत्राहुरद्वैतवादिनः, जीवब्रह्मणोरेकत्वं खलु सकल-वेदान्ततन्मीमांसाशास्त्रप्रतिपाद्यम् । न च तन् नारायणाख्यस्य परब्रह्मणः सदा अगण्यगुणाश्रयत्वे सम्भवति । अतादृग्रूपत्वाज् जीवस्य । न हि परस्परविरुद्धस्वभावयोरेकत्वं दृष्टम् । अतो न स्वभावतोऽगण्यगुणाधिकरणत्वं नारायणस्येति ।

मन्दारमञ्जरी

वेदान्तादिविषयादितत्वनिर्णयाय प्रकरणं चेत् किमनेन अकाण्डताण्डवायितेन अज्ञाननिराकरणेन ? इत्याशङ्क्य तत् सङ्घटयितुं शङ्कते ॥ अत्राहुरित्यादिना ॥ नारायणः किं परब्रह्म ? उत न ? न चेदप-सिद्धान्तः । ब्रह्म चेत् सोऽप्यल्पगुणः स्यात् । जीवो वा अनन्तगुणः स्यात् । विरुद्धधर्माश्रययोरभेदायोगात् । अभेदस्य च प्रामाणिकत्वादिति चोद्यार्थः । ननु त्वन्मते जीवब्रह्मणोः स्वाभाविकाभेदेऽपि सर्वज्ञत्वाल्पज्ञत्वादिवन् ममापि अनन्तगुणवत्वतदभावव्यवस्था किं न स्यात् ? इत्यत आह ॥ स्वभावत इति ॥ मम तु सार्वाज्ञ्यादिकमौपाधिकमित्यर्थः ।

श्रीनिवासतीर्थीयटिप्पणी

उत्तरप्रबन्धप्रसङ्गोपक्षेपायेत्युक्तम् । तद्दर्शयति ॥ अत्राहुरिति । तद् एकत्वम् ॥ अतादृग्रूपत्वादिति । नारायणवदनन्तगुणाश्रयत्वाभावादिति भावः । अस्तु वा जीवस्यातादृग्रूपत्वम् । तथाप्यैक्यमेव किं न स्यादित्यत आह ॥ न हीति । जलानलवदिति भावः । स्वभावतः परमार्थतः ।

परशुनाम्नीटिप्पणी

न च तदिति । ननु ‘नारायणस्य सदाऽगण्यगुणाश्रयत्वे ऐक्यं न सम्भवति’ इत्युक्तम्, ब्रह्मणो निर्दोषत्वेऽपि दोषिणा जीवेन ऐक्यवद् ब्रह्मणो गुणाश्रयत्वेऽपि अतादृग्रूपेण जीवेन ऐक्यसम्भवात् । अन्यथा ईश्वरस्य निर्दोषत्वं वास्तवं न स्यात् ॥ किञ्च परब्रह्मणो गुणस्वरूपत्वं न स्यात्, गुणाश्रयत्ववद् गुणस्वरूपत्वस्यापि अतादृग्रूपजीवैक्यविरोधित्वात् । न च इष्टापत्तिः, ब्रह्मणो ज्ञानानन्दस्वरूपत्वस्य परेणाङ्गीकारात् ।

अपि च इदं वक्तव्यम्– अविद्यमानमेव जीवब्रह्मणोरैक्यं भवतीति वेदान्तैरुच्यते, उत अनाद्यनन्तकालेषु जीवब्रह्मणोरैक्यमस्तीत्युच्यते ॥ नाद्यः, अपसिद्धान्तात् । द्वितीये, कथं विरुद्धधर्माधिकरणत्वम्; एकस्मिन्नेव विद्य-मानयोर् अनन्तगुणाधिकरणत्वतदभावयोर् विरुद्धत्ववचनस्य रिक्तत्वात् ।

अपि च चिन्मात्रैक्यस्यैव तत्सिद्धान्तत्वेन जीवब्रह्मैक्यस्य वेदान्त-प्रतिपाद्यत्वाभावात् ॥ तत्सिद्धये श्रुतिप्रतिपन्नगुणाश्रयत्वत्यागायोग इति चेत्, उच्यते । इत्थं किल पूर्वपक्षी मन्यते । चिन्मात्रै(त्रस्यैव ब्रह्मैक्यम्)क्यमेव, न विशिष्टैक्यम् । तस्य (चैक्यस्य) अगण्यगुणाश्रयत्वनिर्दोषत्वगुणस्वरूपत्वानि विरुद्धानि (इव) भान्ति; तथापि गुणस्वरूपत्वनिर्दोषत्वे, ब्रह्मणो हातुं शक्ये, ऐक्यमिव तयोरपि तत्त्वावेदकश्रुतिसिद्धत्वात् । अत एव न तयोर्विरोधः, समानाधिकरणतया प्रमाणसिद्धयोर् विरुद्धत्ववचनस्य रिक्तत्वात् । गुणाश्रयत्वं तु ऐक्यविरोधित्वात् त्याज्यमेव, गुणाश्रयत्वावेदकश्रुतेः ‘नेह नानाऽस्ति किञ्चन’ इति निषेधायानुवादकत्वेन व्यवस्थापकत्वाभावात् ।

यदपि चोक्तं जीवब्रह्मणोरैक्यम् अविद्यमानमेव, उत अनाद्यनन्तकालेषु जीवब्रह्मणोरैक्यमस्ति’ इति, तत्र अनाद्यनन्तकालीनमेव जीवब्रह्मणोरैक्यम् इति ब्रूमः । न च अगण्यगुणाश्रयत्वतदभावयोर् विरुद्धावनुपपत्तिः, अगण्यगुणा-वेदकप्रमाणस्य अनुवादकत्वेन प्रापकत्वाभावात् । एकाधिकरणनिष्ठतया प्रमितत्वाभावेन भावाभावत्वप्रयुक्तविरोधस्य अवर्जनीयत्वात् । बाधकं विना भावाभावयोर्विरोधपरित्यागे विरोधवार्तैव उच्छिद्येत ।

यदपि चोक्तम् ‘जीवब्रह्मणोरैक्यस्य वेदान्तावेद्यत्वेन न त(वि)दन्यथाऽनु-पपत्त्या अगण्यगुणाश्रयत्वं त्याज्यम्’ इति तत् सम्मतमेवास्माकम्, जीवब्रह्मैक्यशब्देन चिन्मात्रैक्यमेवोक्त्वा तदनुपपत्त्यैव धर्माणां त्याज्यत्वाभि-धानादिति ।

अज्ञानानुपपत्त्या ऐक्यस्य शास्त्रार्थत्वनिरासः

टीका

तदयुक्तम्, स्यादिदं यदि जीवब्रह्मणोरेकत्वं शास्त्रार्थः स्यात् । न चैवं सम्भवति । तथात्वे शास्त्रस्य अनारम्भणीयत्व प्रसङ्गात् । यत् खलु अधिकारिविषयप्रयोजनसम्बन्धवत् तद् आरम्भणीयं दृष्टम् । न च एतद् औतवादे सम्भवति अधिकार्यादिसिद्धेरज्ञानसिद्ध्यधीनत्वात् । न च तत्पक्षे अज्ञान-मुपपद्यते । कथम् ? इति तत्राह

मूलम्

अज्ञताऽखिलसंवेत्तुर्घटते न कुतश्चन ।

अज्ञानं हि कस्यचित् क्वचित् सम्भवति । न च तत्पक्षे परमात्मातिरिक्तं वस्तु विद्यत इति तस्यैवाज्ञानं वक्तव्यम् । न च तस्य कुतश्चन कुत्रापि तत् सम्भवति सर्वज्ञत्वात् । अतो व्यापकीभूताश्रयविषयानुपपत्त्या व्याप्यस्याज्ञानस्याप्यनुपपत्तिः ।

मन्दारमञ्जरी

अभेदस्य प्रामाणिकत्वमेवासिद्धमिति परिहरति ॥ तदयुक्त-मिति ॥ यत्खल्वधिकारिति ॥ अधिकारिस्वरूपमात्रज्ञानस्य अधिकारि-प्रवृत्तिहेतुत्वाभावेऽपि अधिकारिविशेषणापरिज्ञाने ‘अहमधिकार्यस्मिन्न वा’ इति सन्देहेन प्रवृत्तिप्रतिबन्धाद् अधिकारिविशेषणज्ञानमपि प्रवृत्त्यङ्गमिति भावः ॥ अधिकार्यादीति ॥ अज्ञानिनोऽधिकारित्वाद् अज्ञातस्य विषयत्वाद् अज्ञाननिवृत्तेश्च प्रयोजनत्वादिति भावः । सर्वज्ञस्याज्ञानं न घटते चेत् ‘निराश्रयमज्ञानमस्तु’ इत्याशङ्क्य साश्रयत्वनियममाह ॥ अज्ञानं हि कस्यचिदिति ॥ सविषयत्वं चाङ्गीकरणीयमित्याह ॥ क्वचिदिति ॥ ‘अस्य अत्र अज्ञानं’ इत्यनुभवादज्ञानस्य विषयसापेक्षत्वम् आश्रयसापेक्षत्वम् अङ्गीकर्त-व्यमिति हिशब्दार्थः । नन्वथापि परमात्मातिरिक्त एवाश्रयोऽस्त्वित्यत आह ॥ न चेति ॥ परमात्मातिरिक्तम् अज्ञानाधिकरणं पारमार्थिकं ? किं वा अपार-मार्थिकं ? आद्यं दूषयति ॥ वस्तु न विद्यत इति ॥ द्वितीये तस्याज्ञान-कल्पितत्वादन्योन्याश्रयः स्यादिति भावः । फलितं दर्शयति ॥ इतीति ॥ सर्वज्ञस्यापि दोषबलादज्ञानं किं न स्यात् ? इत्यत आह ॥ कुतश्चनेति ॥ दोषस्याप्यविद्यां विना असम्भवादिति भावः । अथ वा कुतश्चनेति प्रतीकमुपादाय कुत्र चेति तद्व्याख्या । एवं च विषयासम्भवप्रतिपादनमपि कारिकारूढं भवति । ततश्च विषयासम्भवेनाज्ञानासम्भवमुपपादयितुं ‘अज्ञानं हि क्वचिद्भवति’ इत्यज्ञानस्य सविषयत्वसमर्थनं टीकाकारीयं सङ्गच्छते । उक्तार्थे हेतुमाह ॥ सर्वज्ञत्वादिति ॥ समानाश्रयसमानविषयकज्ञानाज्ञानयो-र्विरोधाद् ईश्वरज्ञानस्य च सर्वविषयकत्वान् न तस्य किञ्चिद्विषयकमज्ञानं सम्भवतीत्यर्थः । उपसंहरति ॥ अत इति ॥

ननु कथमत्र प्रयोगः ? अज्ञानं नास्ति आश्रयसापेक्षत्वे सति तद्रहित-त्वात्, विषयसापेक्षत्वे सति तद्रहितत्वाद्वा, साश्रयनिराश्रयान्यतरानन्तर्भावाद्वा, सविषयनिर्विषयान्यतरानन्तर्भावाद्वा इत्यादिषु आश्रयासिद्धेः । अथैवं प्रयोगः, प्रमेयत्वं साश्रयनिराश्रयान्यतरमात्रनिष्ठं सविषयनिर्विषयान्यतरमात्रनिष्ठं वा धर्मत्वाद् घटवदिति । अनेन चानुमानद्वयेन साश्रयनिराश्रयसविषय-निर्विषयानन्तर्भाविनोऽज्ञानस्य असत्वमापाद्यत इति चेद् अत्र वक्तव्यम्, किं मात्रपदव्यावर्त्यमिति । उभयव्यतिरिक्तमिति चेत् तत्किं प्रमितं ? उत न? नाद्यः । प्रमितत्वादेव तत्र प्रमेयत्वसम्भवेन मात्रशब्देन पुनस्तद्व्यावर्तने व्याघातात् । न द्वितीयः । अप्रमितव्यावृत्त्यर्थं पदप्रयोगानुपपत्तेः । तस्मात् ‘व्याप्यस्याज्ञानस्याप्यभावः’ इति कथमुक्तं ? इति चेद् इत्थमभिप्रेत्योक्तम् । जगदुपादानं नाज्ञाननिराश्रयत्वान् निर्विषयत्वादित्यन्वयव्यतिरेकिद्वयेन उभयवादिसिद्धस्य जगदुपादानस्याज्ञानत्वनिषेधान् न त्वदभिमताज्ञानसिद्धिः । नियमेन आश्रयविषयज्ञप्तिसापेक्षप्रतीत्यविषयत्वस्य हेतुत्वान्न कश्चिद्दोषः । यद्वा पररीत्या प्रसक्तं मात्रपदेन व्यावर्त्यत इति पूर्वप्रयोग एवास्त्विति ।

श्रीनिवासतीर्थीयटिप्पणी

शास्त्रस्य वेदतन्मीमांसाशास्त्रस्य ॥ औतवादे औतसिद्धान्ते । अज्ञानसिध्यधीनत्वादिति । अज्ञो ह्यधिकारी । अज्ञातो हि विषयः। अज्ञाननिवृत्तिः प्रयोजनमित्येवमधिकार्यादिसिद्धेरज्ञानसिध्यधीनत्वादित्यर्थः ।

ननु सर्वज्ञस्याज्ञताऽज्ञानाश्रयता न घटत इति चेन्निराश्रयं निर्विषय-मेवास्त्वज्ञानमित्यतस्तस्य साश्रयत्वादिनियममाह ॥ अज्ञानं हीति । क्वचिद्विषये । अस्यास्मिन्न ज्ञानमिति प्रतीतेरिति भावः ।

ननु तर्हि जीवस्यैवास्त्वज्ञानं घटादिविषय इत्यत आह ॥ न च तत्पक्ष इति । वस्तु जीवाख्यम् । कुतः शब्दः कुत्रेत्यर्थे चशब्दोऽप्यर्थ इत्यभि-प्रेत्योक्तम् ॥ कुत्रापीति । विषय इत्यर्थः ॥

परशुनाम्नीटिप्पणी

अनारम्भणीयत्वप्रसङ्गादिति । प्रेक्षावदनुपादेयत्वप्रसङ्गा-दित्यर्थः । अज्ञानं हि कस्यचिदिति । कस्यचित् पुरुषस्य, कुत्रचिद् विषये भवतीत्यर्थः । सर्वज्ञत्वादिति ।

ननु ‘प्रतिवाद्यसिद्धोऽयं हेतुः, भवद्भिरेव ‘तत्पक्षे परमात्मातिरिक्तं वस्तु न विद्यते’ इत्यभिधानात् । न हि सर्वज्ञता सम्भवति’ इति चेत्; न, भावानव-बोधात् । न हि अस्माभिः ‘मायावादिमते जगदसत्’ इत्युक्तम्, येन उक्तदोषः स्यात्, किन्नाम ‘यत्राज्ञानं त्वया वक्तव्यं तद्वस्तु परमात्मभिन्नं न, किन्तु तदात्मकमेव । तथाच परमात्मन एव अज्ञानं वक्तव्यम्’ इत्युक्तमिति ।

सर्वज्ञत्वाज्ञानाभावयोर्व्याप्तिसमर्थनम्

टीका

ननु सर्वज्ञस्याज्ञता न घटत इत्यत्र नान्वयदृष्टान्तः । परमात्मना विना अन्यस्य सर्वज्ञस्याभावात् । नापि व्यतिरेक-दृष्टान्तः । अज्ञानाश्रयस्यान्यस्य परेणानभ्युपगमात् । तत् कथ-मेतत् ? इति । मैवम् । ‘यो यत्र ज्ञानवान् नासौ तत्राज्ञानवान्’ इति सामान्यव्याप्तेरविरोधात् ।

ननु सर्वं हि यो जानाति स सर्वज्ञः । तिस्रश्चास्य विधाः सम्भवन्ति । प्रमाणतो वा सर्वं जानीयाद् भ्रान्त्या वा स्वभावसिद्धया प्रज्ञया वा । न चैता विधा विना अज्ञानेनो-पपद्यन्ते । कूटस्थस्य अज्ञानादृते प्रमातृत्वायोगात् । भ्रान्तेश्च अज्ञानकार्यत्वात् । स्वरूपप्रज्ञायाश्च नान्तरेणाज्ञानमशेषार्थ-सङ्गतिः । असङ्गत्वात् ‘असङ्गो ह्ययं पुरुषः’ इति श्रुतेः । अतः सर्वज्ञताऽप्यज्ञानवत्तामाक्षिपत्येव परमात्मनो, न प्रतिक्षिपतीति । मैवम्, मा भूत् प्रमाणेन मा च भूद् भ्रान्त्या, स्वरूपज्ञानेनैव परमात्मनः सर्वज्ञताङ्गीकारात् । असङ्गत्वं तु तत्कृतफललेपा-भावमात्रम् । न च सम्बन्धविरह एव । ‘यथाऽऽकाशस्थितो नित्यं वायुः’ इत्यादितथाविधदृष्टान्तोपादानात् । तदिदमुक्तं ‘अखिलसंवेत्तुः’ इति । अत्र ‘सम्’ इत्युपसर्गेण भ्रान्त्या सर्वज्ञतां वारयति, ताच्छीलकतृन्प्रत्ययेन प्रमाणजन्यतामिति स्वभाव-ज्ञानेनैवोक्ता भवति ।

मन्दारमञ्जरी

शङ्कते ॥ नन्विति ॥ विमतः कदाऽपि किञ्चिद्विषयका-ज्ञानवान्न भवति सदा सर्वज्ञत्वाद् यो यदा यत्र ज्ञानवान् नासौ तदा तत्राज्ञानवान् यथोभयसम्मतः । विमता विषया वा कदापि न तदज्ञानविषयाः सदा तज्ज्ञानविषयत्वाद् यो यदा यज्ज्ञानविषयः नासौ तदा तदज्ञानविषयः यथोभयसंमत इत्यभिप्रेत्य सिद्धान्तयति ॥ मैवमिति ॥

शङ्कते ॥ नन्विति ॥ प्रमाणत इति ॥ अन्तःकरणवृत्त्येत्यर्थः ॥ भ्रान्त्या वेति ॥ ननु कथमेतत् ? भ्रान्तिर्हि विशेषाज्ञाननिबन्धना । विशेषाज्ञानं च सर्वज्ञस्य न सम्भवतीति चेन्न । विशेषज्ञानस्यापि भ्रान्तिरूपस्य स्थाणौ करचरणादिभ्रान्तेरिव भ्रान्त्यङ्गत्वात् । आद्ये अज्ञानावश्यम्भाव इत्याह ॥ कूटस्थस्येति ॥ कूटवत्तिष्ठतीति कूटस्थः निर्विकारस् तस्येत्यर्थः । प्रमातृत्वं हि प्रमाश्रयत्वम् । आश्रयाश्रयिभावश्च निर्विकारे न सम्भवतीति भावः । द्वितीयेऽप्यज्ञानमावश्यकमित्याह ॥ भ्रान्तेश्चेति ॥ तृतीयेऽप्यज्ञानं स्वीकर्तव्य-मित्याह ॥ स्वरूपेति ॥ इति श्रुतेरिति ॥ सङ्गाभावः श्रुत्यर्थ इति मन्यते । परिहरति ॥ मैवमिति ॥ स्वरूपज्ञानेनेति ॥ ननु कथमेतत् ? स्वरूप-ज्ञानस्य अज्ञानस्फोरकत्वेन तद्विरोधित्वाभावात् । ततश्च ‘यो यत्र ज्ञानवान् नासौ तत्राज्ञानवान्’ इति व्याप्तौ वृत्त्यतिरिक्तस्य स्वरूपज्ञानस्यापि विवक्षायां व्यभिचारः । ‘त्वदुक्तमर्थं न जानामि’ इत्यत्र ज्ञायमान एव साक्षिणा त्वदुक्तेऽर्थे अज्ञानस्यास्माभिरङ्गीकारात् । वृत्तिमात्रविवक्षायां तु असिद्धिः । स्वरूपज्ञानेनैव सर्वज्ञत्वाङ्गीकारेण वृत्तेरभावादिति चेत् । मैवम् । वृत्तिमात्रस्य विरोधित्वे परोक्षवृत्तेरप्यज्ञाननिवर्तकत्वप्रसङ्गात् । तच्च त्वया ‘परोक्षवृत्त्याप्य-ज्ञाननिवृत्तौ अभिव्यक्तापरोक्षैकरसचैतन्यसम्भेदेन अतीतादेरपरोक्षप्रसङ्गः’ इति बाधकं पश्यता नाङ्गीक्रियते । अपरोक्षवृत्तिर्विरोधिनीति चेन्न । तथा सति श्रवणमात्रेणापरोक्षज्ञानं वदतस्तव श्रवणजन्यज्ञानेनैव अज्ञाननिवृत्तौ मननादिवैयर्थ्यापातात् ।

ननु स्फुरणपर्यवसायिनी वृत्तिरज्ञानविरोधिनी । श्रवणमात्रेण च मनन-निदिध्यासनसम्पाद्यासम्भावनाविपरीतभावनाप्रतिबन्धनिरासाभावेन स्फुरणपर्यव-सायिनी वृत्तिर्नोदेतीति चेत् तर्हि प्राप्ताप्राप्तविवेकेन स्फुरणापरपर्यायं स्वरूप-ज्ञानमेव निवर्तकमिति कथं सर्वज्ञस्याज्ञानम् । अपि च वृत्तेरज्ञानोपादेयत्वाद् उपादानोपादेययोश्च विरोधाभावाद् विरोधस्य च निवर्त्यनिवर्तकभावप्रयोज-कत्वान् न कुत्रापि वृत्तिरज्ञानविरोधिनी । एवं च ‘त्वदुक्तमर्थं न जानामि’

इत्यादौ स्वरूपज्ञानाङ्गीकारे तदपि पक्षतुल्यमिति कुतो व्यभिचारः ? इत्यलम् ।

॥ न च सम्बन्धेति ॥ सम्बन्धाभावपरत्वे व्याप्तत्वव्याघातः । युगपत्सर्व-सम्बन्धित्वस्य व्याप्तत्वात् । न च महत्परिमाणाश्रयत्वं व्याप्तत्वम् । त्वया ब्रह्मणि परिमाणानङ्गीकारात् । न च देशपरिच्छेदाभावो व्याप्तत्वम् असत्यति-व्याप्तेः । न ह्यसत् ‘अत्रैव’ इति देशविशेषेणावच्छिद्यते । न च सत्त्वे सतीति विशेषणीयम् । ब्रह्मण्यपि स्वरूपातिरिक्तसत्त्वानभ्युपगमात् । तत्तद्वस्तु-सम्बन्धाभावे तस्यैवासम्भवाच्च । सर्वत्र विद्यमानत्वं व्याप्तत्वमिति चेन्न । सर्वत्र विद्यमानत्वे तत्सम्बन्धस्यावर्जनीयत्वादिति भावः । युक्त्यन्तरमप्याह ॥ यथेति ॥ ताच्छीलिकतृन्प्रत्ययेनेति ॥ ‘आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु’ इत्यधिकृत्य ‘तृन्’ इत्यनेन सूत्रेण विहितो यस्तृन्प्रत्ययस् तेनेत्यर्थः । यद्यपि ‘विद्यतिर्विनद्’ इत्यनिट्कारिकायां श्यना श्नमा च निर्देशाद् विद सत्तायां विद विचारणे इत्यनिट्त्वोक्त्या विद ज्ञान इत्यस्य सेट्त्वज्ञापनात् ‘वेदिता विद्यानां’ इति प्रयोगाच्च ज्ञानार्थविवक्षायाम् अखिलसंवेदितुर् इति वक्तव्यम् । तथापि विद विचारण इत्यस्य अनिट्त्वेन परिगणनाद् अनिट्कारिकायां ‘विन्नवित्तौ विचारित’ इति विचारणार्थस्यानिट्त्वेन प्रयोगाच्च विचारणार्थेन विदधातुना विचारसाध्यविशेषज्ञानस्य लक्षयितुं शक्यत्वाद् अखिलसंवेत्तु इति प्रयोगः साधुरिति द्रष्टव्यम् ।

श्रीनिवासतीर्थीयटिप्पणी

इत्यत्रेति । परमात्मा अज्ञानाश्रयो न भवति, सर्वज्ञत्वा-दित्यनुमाने अन्वयव्याप्तौ दृष्टान्तो नास्तीत्यर्थः । कुत इत्यत आह ॥ परमात्मनेति । तस्य च पक्षत्वादिति भावः । यत्राज्ञानाश्रयत्वं तत्र सर्वज्ञत्वाभाव इति व्यतिरेकव्याप्तावपि दृष्टान्तो नास्ति । कुत इत्यत आह ॥ अज्ञानाश्रयस्येति ॥ अन्यस्येति । परमात्मातिरिक्तस्येत्यर्थः । जडस्य जीवस्य च अज्ञानकल्पितत्वेनाज्ञानाश्रयत्वायोगात् । यथोक्तम् ।

आश्रयत्वविषयत्वभागिनी निर्विशेषचितिरेव केवला ।

पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः ॥ इति ।

तथाचाज्ञानसिद्धौ तत्कल्पितजीवादिसिद्धिः । तत्सिद्धौ च तदाश्रिताज्ञान-सिद्धिरित्यन्योन्याश्रयादिति भावः । तत्कथमिति । तथाच दृष्टान्ताभावेन व्याप्तिग्रहणायोगाद् व्याप्तिग्रहणसापेक्षप्रमितिसाधकत्वाभावादनुमानं विरुद्धमिति भावः । ‘‘व्याप्तिग्रहणसापेक्षं प्रमितेः साधनं विदुः’’ । अनुमानमिति वचनादिति ज्ञातव्यम् ॥

सामान्यव्याप्तेरिति । सामान्यव्याप्तौ च घटादिज्ञानवान् देवदत्तो दृष्टान्तः । तथा च सामान्यव्याप्तिमूलकमिदं सामान्यतो दृष्टानुमानमिति भावः । अनुमाने विरुद्धत्वमाशङ्कते ॥ नन्वित्यादिना ॥ प्रमाणत इति । अन्तःकरणवृत्त्येत्यर्थः । तस्या एव तन्मते प्रमाणत्वेन व्यवहारादिति ज्ञातव्यम् ॥ भ्रान्त्या वेति । तथा च सर्वविषयकं ज्ञानं भ्रमरूपमित्याशयः । प्रमाणतः सर्वज्ञताङ्गीकारे परमात्मनः प्रमातृत्वं प्राप्तम् । तच्चाज्ञानसापेक्षमित्याह ॥ कूटस्थस्येति । निर्विकारस्येत्यर्थः । कूटमव्याकृताकाशः । ‘‘कूटं खं विदलं व्योम संधिराकाश उच्यत’’ इत्यभिधानात् । तद्वत् स्थितः कूटस्थः । सादृश्यं च निर्विकारत्वेनेति कूटस्थशब्देन निर्विकारत्वं लभ्यत इति ज्ञातव्यम् । द्वितीयेऽप्यज्ञानमावश्यकमित्याह ॥ भ्रान्तेश्चेति ॥ अज्ञानेति । अधिष्ठाना-ज्ञानविशेषादर्शनकार्यत्वादित्यर्थः । तृतीयेऽप्यज्ञानं स्वीकार्यमित्याह ॥ स्वरूपप्रज्ञायाश्चेति । अज्ञानमन्तरेणेत्यर्थः । सङ्गतिः सम्बन्धः । असङ्गत्वा-त्प्रज्ञायाः ॥ असङ्गो हीति । परमात्मनोऽसङ्गत्वे श्रुतिसिद्धे सति तत्स्वरूप-भूतप्रज्ञाया अप्यसङ्गत्वं लब्धमेवेत्यर्थः । प्रमाणतः सर्वज्ञत्वं स्वभावसिद्धप्रज्ञया वेति प्रकारद्वयम् अज्ञानसापेक्षमित्येतत्स्वरूपतः प्रमाणैर्वा सर्वज्ञत्वं द्विधा स्थितम् । तच्चोभयं विनाऽविद्यासम्बन्धं नैव सिध्यतीति तदीयवचनसिद्धम् । भ्रान्त्या सर्वज्ञत्वमप्यज्ञानसापेक्षमित्येतदपि भ्रान्त्या सर्वज्ञताज्ञानं विना नैव हि सिध्यतीति तद्वाक्यसिद्धमिति ज्ञातव्यम् ।

ननु स्वरूपज्ञानेनैव परमात्मनः सर्वज्ञताङ्गीकारेऽशेषपदार्थसम्बन्ध विरह-रूपासङ्गत्वविरोध इत्यत आह ॥ असङ्गत्वमिति ॥ तत्कृतेति । शुभाशुभ-पदार्थसम्बन्धकृतपुण्यपापरूपफललेपाभाव एवेत्यर्थः ॥ न तु सम्बन्धविरह इति । सम्बन्धविरहरूपत्वे व्याप्तत्वव्याघातः । युगपत्सर्वपदार्थसम्बन्धित्वस्यैव व्याप्तिपदार्थत्वात् । न च परममहत्परिमाणाश्रयत्वं व्याप्तत्वम् । त्वया ब्रह्मणि तदनङ्गीकारात् । न च देशपरिच्छेदाभावो व्याप्तत्वम् । असत्यतिव्याप्तेः । न च सत्वे सतीति विशेषणीयम् । ब्रह्मणि स्वरूपातिरिक्तसत्ताभावात् । न च सर्वत्र विद्यमानत्वमेव व्याप्तत्वम् । सर्वत्र विद्यमानत्वाङ्गीकारे तत्सम्बन्धस्या-वर्जनीयत्वादिति भावः । तत्तत्फललेपाभाव एव परमात्मनोऽसङ्गत्वमित्यत्र ज्ञापकमाह ॥ यथाकाशेति ॥ तथाविधेति । लेपाभावरूपासङ्गत्वोपेत-वायुरूपदृष्टान्तेत्यर्थः ।

यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।

तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥

इति गीतावाक्ये परमात्मनः स्वस्यासङ्गत्वे वायुर्दृष्टान्ततया भगवता कृष्णे-नोपादीयते । तत्र वायोरसङ्गत्वं नाम न तत्तत्पदार्थसम्बन्धविरहरूपम् । आकाशस्थितः सर्वत्रग इत्युक्तिविरोधात् । किन्तु तत्तत्पदार्थसम्बन्धकृतलेपा-भावरूपमेव । अतस्तद्दृष्टान्तेन भगवतोऽप्यसङ्गत्वमुक्तरूपमेवेत्याशयः । प्रमाणजन्यज्ञानेन भ्रांत्या च सर्वज्ञत्वं विना स्वरूपज्ञानेनैव सर्वज्ञत्वं यदङ्गीकृतं तन्मूलोक्तमित्याह ॥ तदिदमुक्तमिति । तदुपपादयति ॥ अत्रेति ॥ वारयतीति । समित्युपसर्गेण वेदनस्य प्रमाणरूपताया उक्तत्वादिति भावः ॥ ताच्छीलिकेति । आक्वेस्तच्छीलतद्धर्मतत्साधुकारिष्वित्यधिकृत्य तृन्निति सूत्रेण विहितो यस्तृन्प्रत्ययस्तेनेत्यर्थः । तथा च तृन्प्रत्ययान्तेन संवेत्तृशब्देनेति यावत् । प्रमाणजन्यतां वारयतीति वर्तते ॥ इति स्वभावज्ञानेनैवेति । इत्येवं प्रमाणज्ञानेन भ्रांत्या च सर्वज्ञत्वे निराकृते सति स्वरूपप्रज्ञयैव सर्वज्ञतोक्ता भवतीत्यर्थः ।

परशुनाम्नीटिप्पणी

अज्ञानाश्रयस्येति । यत्र जीवे अज्ञानं प्रतीयते, तस्य सर्वज्ञभेदानङ्गीकारात् । ‘यो ऽज्ञः, सः सर्वज्ञो न’ इति व्यतिरेकव्याप्तिग्रहो न जीवे सम्भवतीति भावः । सामान्यव्याप्तेरिति । परेण घटज्ञातरि देवदत्ते घटाज्ञानानङ्गीकारात्, देवदत्तादिषु सामान्यव्याप्तिग्रह इति भावः । अज्ञान-सम्भवं सर्वज्ञस्य शङ्कते नन्विति । ‘सर्वविषयकज्ञानवान् यः स सर्वज्ञः’ इत्युच्यते इत्यर्थः ।

प्रमाणतो वेति । सर्वं जानीयाद् इति यत्, तत् प्रमाणतः सर्वविषयक-विज्ञानम् । प्रमाणजन्यमिति यावत् ।

भ्रान्त्या वेति । सर्वस्य अपारमार्थिकत्वात् ‘सर्वं भ्रान्तिकल्पितम्’ इति वाच्यम्, सा च भ्रान्तिर् ईश्वरस्य; इति सर्वज्ञकल्पकसर्वावगाहिविभ्रमवत्वात् ‘सर्वज्ञः’ इत्युच्यते । अस्य ज्ञानस्य भ्रान्तित्वं न प्रातिभासिकार्थविषयत्वेन, येन भ्रान्तेर्विशेषाज्ञानव्याप्तत्वात् ‘भ्रान्त्या सर्वज्ञः’ इत्ययुक्तं स्यात्; अपि तु व्यावहारिकार्थकल्पकत्वरूपं पारिभाषिकमिति भावः । स्वभावसिद्धयेति । सर्वावगाहिप्रज्ञात्मकत्वात् सार्वज्ञमिति भावः । यद्यपि अस्मिन्पक्षे सर्वज्ञान-वत्त्वरूपं सार्वज्ञ्यं न लभ्यत इति ‘तिस्रश्चास्य विधाः सम्भवन्ति’ इत्यनु-पपन्नमिव आभाति, तथापि पररीतिमवलम्ब्य ‘विशेषबलेन ज्ञानात्मकस्यापि ज्ञानवत्त्वं सम्भवति’ इति भावेन तथोक्तमित्यदोषः ।

प्रमाणजन्यज्ञानेन सर्वज्ञस्य अज्ञानं विना अयोगे हेतुमाह कूटस्थतयेति । सर्वस्य आविद्यकत्वात्, आविद्यकार्थस्य अविद्याशून्यदर्शनायोग्यत्वस्य शुक्ति-रजतादौ दर्शनात्, कूटस्थपरमेश्वरस्य अज्ञानमन्तरा आविद्यकार्थप्रमातृत्वायोग इत्यर्थः । यदि अज्ञानमन्तरा (एव) आविद्यकार्थदर्शनं परमेश्वरस्य स्यात्, तर्हि विशेषज्ञानवानपि शुक्तिरजतादिद्रष्टा स्यात्, अविशेषादिति भावः । भ्रान्त्या सर्वज्ञत्वस्य अज्ञानसापेक्षत्वे हेतुमाह भ्रान्तेश्चेति । शुक्तिरजतादि-भ्रान्तेर् अज्ञानकार्यत्वदर्शनात्, विश्वकल्पकेश्वरभ्रान्तिरपि अज्ञानकार्यमेव इति वाच्यम्, ततश्च कार्यं कारणं कल्पयिष्यति इति भावः ।

सवरूपप्रज्ञाया अज्ञानभ्रान्तिसापेक्षत्वासाधनाय प्रतिजानीते स्वरूपेति । स्वरूपप्रज्ञाया अज्ञानमन्तरा अशेषार्थैर् विषयविषयिभाव(लक्षण)ः सम्बन्धो न सम्भवति इत्यर्थः ।

हेतुमाह असङ्गत्वादिति । सम्बन्धमात्रविधुरत्वाद् इत्यर्थः ॥ (परस्य) यस्य सम्बन्ध एव नास्ति तस्य विषयविषयिभावलक्षणः सम्बन्धः कथं स्यात् । अज्ञाने त्वागते तस्य अघटितघटनासमर्थत्वात्, एवंविध्यापि विषयविषयिभाव उपपद्यते; इति भावः । अत इति । अतस् त्रिविध्यापि सार्वज्ञ्यस्य उक्तरीत्या अज्ञानसापेक्षत्वात् ‘सर्वज्ञस्य अज्ञानं न घटते’ इत्यनुपपन्नमिति भावः ॥ मैवमिति । ‘सर्वज्ञस्य अज्ञानमाक्षिपति’ इति न वाच्यम् इत्यर्थः ।

मा भूदिति । ‘माङि लुङ्’ (सि. कौ. सू. क्र. २२१९पा. सू. क्र. ३३१७५) इति वचनाद् लडर्थे लुङ् । प्रमाणतः सर्वज्ञत्वं नास्ति, भ्रान्त्या च सर्वज्ञत्वं नास्ति, अप्रामाणिकत्वात्; अज्ञानं विनैव स्वरूपप्रज्ञया अशेषार्थ-विषयिण्या सर्वज्ञत्वस्य प्रामाणिकैर् अङ्गीकृतत्वाद् इत्यर्थः । परोदाहृतश्रुतेर् न सम्बन्धसामान्यशून्यत्वम् अर्थः, अपि तु अर्थान्तरमाह असङ्गत्वं त्विति । यथाऽऽकाशस्थित इति । अस्यार्थो न ज्ञातः ।

जीवब्रह्मणोरुपाधिनिमित्तभेदशङ्का

टीका

शङ्कते

मूलम्

उपाधिभेदाद्घटत इति चेत्…॥

उपाधिनिमित्तो भेद उपाधिभेदः । घटते अज्ञतेति सम्बन्धः । यदुक्तं ‘ब्रह्मणोऽखिलसंवेत्तुरज्ञता न घटत, इति तन्न । अज्ञानस्य जीवाश्रयत्वाभ्युपगमात् । ननु जीवो ब्रह्मणो न भिद्यत इति ते मतम् । सत्यं, तथाप्युपाधिनिमित्तो भेदोऽस्त्येव । तत्र यथा सत्यपि बिम्बप्रतिबिम्बयोरैक्ये दर्पणाद्युपाधिनिमित्तभेदाद् बिम्ब-स्यावदातत्वेऽपि प्रतिबिम्बस्य श्यामता घटते एवं जीवब्रह्मणोः सत्यप्यभेदे ब्रह्मणः सर्वज्ञत्वेऽपि जीवस्याज्ञता घटत एव उपाधिभेदादिति ।

मन्दारमञ्जरी

उपाधिभेदात् सर्वज्ञस्याज्ञानं घटत इति शङ्कितं मूले । तदयुक्तमेव । उपाधीनामन्योन्यभेदेऽपि सर्वज्ञस्याज्ञानानुपपत्तेस्तदवस्थत्वाद् इत्यत आह ॥ उपाधिनिमित्त इति ॥ नायमुपाधीनां भेद इति षष्ठीतत्पुरुषः । किं तर्हि ? मध्यमपदलोपी समासः । अथ वा उपाधेर्भेद इति पञ्चमी-तत्पुरुषः । हेतौ पञ्चमी । यद्वा षष्ठीसमास एवास्तु । षष्ठ्यर्थश्च हेतुहेतुमद्भाव इत्यर्थः । जीवब्रह्मणोरुपाधितो भेदेऽपि कथं सर्वज्ञस्याज्ञानम् ? इत्याशङ्क्य अभिप्रायमाह ॥ यदुक्तमित्यादिना ॥ नन्वैपाधिकभेदसद्भावेऽपि स्वाभाविका-भेदेन जीवस्य सर्वज्ञता किं न स्यात् ? इत्यत आह ॥ तत्रेति ॥ उपाधितो भेदे सतीत्यर्थः । औपाधिकधर्मिभेदमात्रेणौपाधिकसार्वज्ञादिव्यवस्थोपपत्तेः स्वाभाविकधर्मव्यावस्थायाश्चानङ्गीकारान्न स्वाभाविकभेदापेक्षेति भावः ।

श्रीनिवासतीर्थीयटिप्पणी

ननूपाधीनां परस्परं भेदेऽपि सर्वज्ञस्य कथमज्ञानमुपपद्यते । व्यधिकरणत्वादित्यत आह ॥ उपाधिनिमित्त इति । अत्रोपाधिरन्तःकरणादि रिति ज्ञातव्यम् ॥ जीवाश्रयत्वेति । वाचस्पतिपक्षोऽयमिति ज्ञातव्यम् ॥ ब्रह्मणो न भिद्यत इति । तथा च ब्रह्मण्येवाज्ञानमङ्गीकृतं स्यात् । तथा चोक्तदोषस्तदवस्थ एवेति भावः ॥ अस्त्येवेति । जीवब्रह्मणोरिति शेषः । नन्वौपाधिकभेदसद्भावेऽपि जीव एवाज्ञानं कस्मादङ्गीक्रियते । ब्रह्मण्येव किं न स्यादित्यत आह ॥ तत्रेत्यादिना । तत्रौपाधिकभेदे सति ॥ अवदातत्वेऽ-पीति । निर्मलत्वेऽपीत्यर्थः ॥ श्यामता घटत इति । उपाधेः प्रतिबिम्ब-पक्षपातित्वादिति भावः ॥ उपाधिभेदादिति । अन्तःकरणाद्युपाधेरपि प्रतिबिम्बभूतजीवपक्षपातित्वादिति भावः ।

परशुनाम्नीटिप्पणी

यदुक्तमिति । ‘अखिलसंवेत्तुरज्ञता न घटते’ इति यदुक्तम्; तन्न, कपिसंयोगिनो वृक्षस्य अवच्छेदकनिमित्तभेदेन संयोगाभावाश्रयत्ववत्, उपाधिनिमित्तभेदेन सर्वज्ञत्वाभावावच्छिन्नांशे अज्ञतासम्भवात्; इति भावः । एतेन ‘‘मूले ‘सर्वज्ञस्य अज्ञता न घटते’ इत्युक्तत्वेन, टीकायाम् ‘अज्ञानस्य जीवाश्रयत्व’ कथनम् अनुपपन्नम्’’ इति परास्तम्, जीवाश्रितत्वाभ्युपगमस्य मूलोक्तसर्वज्ञत्वाज्ञत्वसामानाधिकरण्यघटनोपायत्वात् ॥ ‘‘ननु भवेत् संयोगिनोऽपि वृक्षस्य तदभाववत्त्वम्, अवच्छेदकभेदसद्भावात्; न जीवस्य अज्ञानमुपपद्यते, भेदाभावात्’’ इति शङ्कते नन्विति ।

जीवाज्ञानवादिमायिमते अज्ञानोपाध्योर्भेदे अपसिद्धान्तानवस्थादोषौ

टीका

तदिदं दूषयितुं पृच्छति

मूलम्

…स स्वभावतः ॥ २ ॥ अज्ञानतो वा…।

स्यादपीदं जीवाज्ञानमतं यद्युपाधिरुपपद्येत । स एव विविच्य-ताम् । किं स्वभावतः ? अकल्पित इति यावत् । अज्ञानतो वा कल्पित इति शेषः । आद्यं दूषयति

मूलम्

…द्वैतस्य सत्यता स्वत एव चेत् ।

तथा चापसिद्धान्तः स्यादिति भावः । द्वितीयं निराकरोति

मूलम्

अनवस्थितिरज्ञानहेतौ…॥

अज्ञानहेताविति तत्पुरुषो बहुव्रीहिश्च द्वावपि तन्त्रेण उपात्तौ । स इति प्रथमान्तं प्रकृतमपि अर्थाद् इह सप्तम्यन्तं सम्बद्ध्यते । अज्ञानस्य हेतौ उपाधौ अज्ञानहेतुके अङ्गीक्रियमाणे अनवस्थितिः स्यात् । सति खलु उपाधौ तद्भिन्नस्य जीवस्य अज्ञानं स्यात् । उपाधिश्च अज्ञाने सति स्याद् अज्ञानं च उपाधौ सतीति । नन्वेव- मज्ञानोपाधिपरम्परैव स्यान् नानवस्था इति चेन्न । असिद्धविषय-त्वेनानवस्थात्वात् । अज्ञानं प्रतीतिसिद्धं परम्परां कल्पयिष्यतीति चेन्न । आत्यन्तिकभेदेनैव तस्योपपत्तेः ।

जीवाज्ञानवादिमायिमते अज्ञानोपाध्योर्भेदे अन्योन्याश्रयदोषः

स्यादेवं, यदि अज्ञानोपाधिव्यक्तिभेदः स्यात् । न चैवं, एकमेव अज्ञानम् उपाधिश्च इत्यङ्गीकारादिति चेद् एवं तर्हि मा भूदनवस्था । अन्योन्याश्रयस्तु भविष्यति इत्याह–

मूलम्

…वाऽन्योन्यसिद्धिता ॥ ३ ॥

टीका

वाशब्दो व्यवस्थितविकल्पे । अन्योन्येन सिद्धिर्ययो-स्तावन्योन्यसिद्धी । तद्भावोऽन्योन्यसिद्धिता । अज्ञानोपाध्योरिति सम्बन्धः ।

जीवाज्ञानवादिमायिमते अज्ञानोपाध्योर्भेदे चक्रकदोषः

ननूपाधेरज्ञाननिमित्तकत्वेऽप्यज्ञानस्य उपाधिहेतुकत्वाभावात् कथम् इतरेतराश्रयः? भेद एव ह्युपाधिनिमित्तोऽङ्गीक्रियत इत्यत आह–

मूलम्

चक्रकापत्तिरथ वा…।

अथ वा इत्ययं निपातसमुदायः पक्षान्तरद्योतकः । यद्यपि भेद एवोपाध्यधीन उक्तस् तथापि उपाधिभिन्ने जीवेऽपि अज्ञान मङ्गीक्रियमाणं परम्परया उपाधिहेतुकं भवेदिति नेतरेतराश्रयः शक्यसमाधानः । परम्परानाश्रयणेऽपि चक्रकमापद्यत एव । अज्ञानाधीन उपाधिस् तदधीनो भेदः भिन्नाश्रयमज्ञानमिति । अथ वा अथशब्द एव पूर्वत्र सम्बद्ध्यते । वाशब्देन आत्माश्रयत्वादिकं पक्षान्तरे सूचयति ।

मन्दारमञ्जरी

ननु अज्ञानहेतौ इत्यत्र किं षष्ठीतत्पुरुषो विवक्षितः? किं वा बहुव्रीहिः ? उभयं वा ? नाद्यद्वितीयौ । उपाध्यज्ञानयोः कार्यकारणभावा-भावेनानवस्थानावकाशात् । न तृतीयः । युगपदुभयविवक्षायोगादित्यत आह ॥ अज्ञानहेताविति तत्पुरुषो बहुव्रीहिश्चेति ॥ उभयविवक्षानुपपत्तिं परिहरति ॥ तन्त्रेणेति ॥ सकृदुच्चरितमनेकोपकारकं तन्त्रम् ॥ स इतीति ॥ स स्वभावत इत्यतोऽनुषक्तस्य तच्छब्दस्य यथाश्रुतविभक्त्यङ्गीकारे अनन्वयात् ‘सक्तून् जुहोति’ इत्यादाविव विभक्तिविपरिणामः क्रियत इति भावः । उपाधेः कारणभूताज्ञानसापेक्षत्वेऽपि नाज्ञानस्योपाधिसापेक्षत्वं, भेदमात्रसापेक्षत्वा-दित्याशङ्क्याह ॥ सति खलूपाधौ तद्भिन्नस्येति ॥ नानवस्थेति ॥ बीजाङ्कुरादाविव उत्पत्तिज्ञप्तिप्रतिबन्धकत्वाभावेन नानवस्थादूषणमित्यर्थः । तत्र बीजाङ्कुरपरम्परा प्रामाणिकी । अत्र त्वज्ञानादिपरम्परा अप्रामाणिकीत्य-नवस्था दूषणमिति, परिहरति ॥ न सिद्धेति ॥ कार्यमेवाज्ञानं कारणपरम्परां कल्पयिष्यतीति कथमप्रामाणिकत्वं ? इति शङ्कते ॥ अज्ञानं प्रतीतिसिद्ध-मिति ॥ परिहरति ॥ नेति ॥ आत्यन्तिकभेदाङ्गीकारेणैवाज्ञानप्रतीतिर्निर्वाह्या । अन्यथा अनन्तोपाध्यादिव्यक्तीनां कल्प्यतया गौरवं स्यादिति एवकारार्थः ॥ व्यवस्थितविकल्प इति ॥ उपाधिव्यक्तीनामज्ञानव्यक्तीनां च आनन्त्ये अनवस्था । उपाधिव्यक्तेरज्ञानव्यक्तेश्च एकैकत्वे अन्योन्याश्रय इति पक्षभेदेन व्यवस्थितयोर्दूषणयोर्विकल्पे वाशब्दो वर्तते । अनवस्थाया अनन्तव्यक्ति-सापेक्षत्वाद् अन्योन्याश्रयस्य च व्यक्तिद्वयसापेक्षत्वाद् एकस्मिन्नेव पक्षे वैकल्पिकदूषणद्वयायोगादित्यर्थः ॥ अथ वा इत्यत्र निपातसमुदायः किं व्यवस्थितविकल्पार्थः ? किं वा अव्यवस्थितविकल्पार्थः । नाद्यः । ‘उपाधौ सति तद्भिन्नस्य जीवस्याज्ञानं, अज्ञाने सत्युपाधिः’ इत्यन्योन्याश्रयपक्ष एव ‘उपाधौ सति भेदः, भेदे सत्यज्ञानं, अज्ञाने च सति उपाधिः’ इति

चक्रकाश्रयोक्तेः पक्षभेदाभावात् । न द्वितीयः। कोटित्रयसद्भावेन अन्योन्याश्रय- विकल्पानुपपत्तेरित्यत आह ॥ यद्यपीत्यादिना ॥ व्यवस्थितविकल्पार्थ एव निपातसमुदायः । न च पक्षभेदाभावः । परम्पराश्रयणपक्षे अन्योन्याश्रयः । तदनाश्रयणे च चक्रकापत्तिरिति पक्षभेदात् । अत एव अथ वेत्ययं निपात-समुदाय इति टीकायां पक्षान्तरशब्देन परम्परानाश्रयणपक्षो विवक्षित इति द्रष्टव्यम् । अथ वा उक्तविकल्पम् अथशब्दोऽद्योतयत् । वाशब्दोऽनुक्तविकल्पार्थ इत्याह ॥ अथ वेति ।

श्रीनिवासतीर्थीयटिप्पणी

मूले स्वत एवेत्यस्य स्वभावत एवाकल्पितश्चेदित्यर्थः ॥ तथा चेति । द्वीति भावप्रधानं तथा च द्वित्वसंख्यया इतं द्वीतं द्वीतमेव द्वैतं द्वितीयमित्यर्थः । तथा च द्वितीयस्योपाधेः सत्यत्वप्राप्त्याऽद्वैतभङ्गापत्तिः स्यात् । तथा चापसिद्धान्त इत्यर्थः ॥ तन्त्रेणेति । सकृदुक्तमनेकोपकारकं तंत्रं तेन तंत्रन्यायेनेत्यर्थः ॥ अर्थादिति । पूर्ववाक्यादनुवृत्तस्य स इत्यस्य यथाश्रुतप्रथमाविभक्तयन्तत्वे वाक्यार्थेऽन्वयायोगात्तदन्यथानुपपत्त्या सप्तम्यन्तं सम्बध्यत इत्यर्थः । विग्रहद्वयमपि दर्शयति ॥ अज्ञानस्येति । अनवस्था-मुपपादयति ॥ उपाधिश्चेति ।

ननूपाधेः कारणीभूताज्ञानसापेक्षत्वेऽपि नाज्ञानस्योपाधिसापेक्षत्वं तस्य भेदमात्रसापेक्षत्वादित्यत उक्तम् । सति खलूपाधाविति ॥ नन्वेवमिति । उपाधेरज्ञानसापेक्षत्वेऽज्ञानस्य चोपाधिसापेक्षत्वे तस्याप्युपाधेः पुनरज्ञान-सापेक्षत्वे अज्ञानोपाधिपरंपरैव स्यादित्यर्थः ॥ नानवस्थेति । अनवस्थात्वेन दूषणं नेत्यर्थः । तथा च बीजाङ्कुरादाविवेयमप्यनवस्था न दोषायेति भावः । बीजाङ्कुरपरम्परा प्रामाणिकी । अतस्तत्रानवस्था न दूषणम् अत्र त्वज्ञानोपाधि-परंपराऽप्रामाणिकीत्यनवस्था दूषणमेवेत्याशयेन परिहरति ॥ नेति ॥ असिद्धविषयत्वेनेति । अप्रामाणिकत्वेनेत्यर्थः ॥ अनवस्थात्वादिति । अनवस्थात्वेन दूषणत्वादित्यर्थः ॥ प्रतीतीति । अज्ञानस्याहमज्ञ इति साक्षि-रूपप्रतीतिसिद्धत्वेन प्रामाणिकतया कार्यमेवाज्ञानकारणपरंपरां कल्पयिष्यतीति नास्याः परंपराया असिद्धविषयकत्वमित्यर्थः ॥

आत्यन्तिकभेदेनैवेति । जीवेश्वरयोरत्यन्तपारमार्थिकभेदमंगीकृत्य जीवे असत्यभूताज्ञानप्रतीतिनिर्वाहोपपत्तौ सत्याम् अनन्तोपाध्यादिव्यक्तिपरंपराकल्पने गौरवं स्यादित्यर्थः ॥ स्यादेवमिति । उक्तरीत्याऽनवस्थेत्यर्थः ॥ एकमेवेति । अज्ञानमेकमेव जीवे तद्घटकोपाधिश्चैक एवेति व्यक्तिद्वयमेवाङ्गीकृतमित्यर्थः । उपाधिव्यक्तीनामज्ञानव्यक्तीनां चानन्त्येऽनवस्थोक्ता । तस्मिन्नेव पक्षे अन्योन्याश्रयश्चोच्यत इति वाशब्दात्प्रतीयते । अतो व्याख्याति । वाशब्द इति । उपाधिव्यक्तीनामज्ञानव्यक्तीनां चानन्त्येऽनवस्थोक्ता । उपाधिव्यक्ते-रज्ञानव्यक्तेश्चैकत्वे अन्योन्याश्रय उच्यत इति पक्षभेदेन व्यवस्थितयोर्दूषणयो-र्विकल्पे वाशब्दो वर्तत इत्यर्थः ॥ अन्योन्येति । अज्ञानसिद्धौ तत्कल्पितो-पाधिसिद्धिस् तत्सिद्धौ च तत्सिद्धिरित्यन्योन्याश्रय इत्यर्थः ॥ भेद एव हीति । यद्यप्यज्ञानसिद्धौ तत्कल्पितोपाधिसिद्धिरित्यङ्गीकृतम् । तथाप्युपाधिसिद्धाव-ज्ञानसिद्धिरिति नाङ्गीक्रियते । अज्ञानस्योपाधिकल्पितत्वानङ्गीकारात् । किन्तु जीवब्रह्मभेद एव ह्युपाधिनिमित्तक इत्येवाङ्गीक्रियते । अतो नान्योन्याश्रय इत्यर्थः ॥ निपातसमुदाय इति । स्वरादिनिपातमव्ययमिति सूत्राद् अथ वेति निपातसमुदायोऽव्ययद्वयमित्यर्थः ॥ पक्षान्तरेति । पूर्वोक्तपरंपराश्रयण-पक्षाद्यत्पक्षान्तरं परंपरानाश्रयणरूपं तत्द्योतक इत्यर्थः । उक्त इत्यनन्तरं नाज्ञानमिति शेषः ॥ परंपरयेति । भेदद्वारेत्यर्थः ॥ नेतरेतराश्रयः शक्य-समाधान इति । तथाचाज्ञानसिद्धौ तत्कल्पितोपाधिसिद्धिः । तत्सिद्धौ चोपाधिभिन्ने जीवेऽज्ञानसिद्धिरिति कोटिद्वयमभ्युपेत्य पूर्वोक्तान्योन्याश्रयो न शक्यसमाधानः । समाधानं कर्तुं परिहर्तुमिति यावत् । न शक्यः । अन्योन्याश्रयो भविष्यत्येवेत्यर्थः ॥ परंपरानाश्रयणेऽपीति । अज्ञानं भेदद्वारो-पाधिहेतुकमित्यनङ्गीकारेऽपीत्यर्थः ॥ भिन्नाश्रयमिति । भिन्नो यो जीवस् तदाश्रयमित्यर्थः । तथाचाज्ञानसिद्धौ उपाधिसिद्धिः । तत्सिद्धौ च भेदसिद्धिस् तत्सिद्धौ च तद्भिन्ने जीवेऽज्ञानसिद्धिरिति चक्रकाश्रयो द्रष्टव्यः ॥ पूर्वत्रेति । चक्रकापत्तिरथेत्येवं पूर्ववाक्य एव सम्बध्यत इत्यर्थः । तर्हि वाशब्दो व्यर्थ इत्यत आह ॥ वाशब्देनेति ॥ पक्षान्तर इति । अन्तःकरणादिकमेव जीव-ब्रह्मभेदहेतुभूतोपाधिरिति वाचस्पतिपक्षात्पक्षांतरे विवरणकारपक्ष इत्यर्थः ।

परशुनाम्नीटिप्पणी

अज्ञानहेतुकेऽङ्गीक्रियमाण इति । अज्ञानान्तरहेतुके अङ्गीक्रियमाणे इत्यर्थः । उपलक्षणमेतत् । तदज्ञानम्, उपाध्यन्तरहेतुकम्, स उपाधिर् अज्ञानान्तरहेतुकः, इत्येवम् अनन्तव्यक्तिस्वीकारे इति द्रष्टव्यम् । अनवस्थेति भावः । उपाध्यज्ञानभेदरूपव्यक्तित्रयसद्भावान् नान्योन्याश्रयः, इति शङ्कते ननूपाधेरिति । परम्पराऽनाश्रयण इति । ‘कुलालपितृवद् अन्यथासिद्ध्या, अज्ञानं प्रति उपाधेर् हेतुत्वानाश्रयणे’ इत्यर्थः । उपलक्षण-मेतत् । नाज्ञानं भेदहेतुकम्, किन्तु भेदाधीनम्; इत्यङ्गीक्रियत इति द्रष्टव्यम् ।

वाशब्देनेति । अत्र ‘आत्माश्रयत्वम्’ इत्यतःपरं ‘न ब्रूमो वयम् उपाधि-भेदादज्ञानम् इति येन अनवस्था (अन्योन्याश्रया)दिकं स्यात्; किन्नाम अज्ञानवशादेव अज्ञानम् इति ब्रूम इति’ इति उच्छिन्नम् ।

ततश्च एवं टीकावाक्यपाठः ‘‘वा’शब्देन आत्माश्रयत्वम् । न ब्रूमो वयम् ‘उपाधिभेदादज्ञानं घटते’ इति, येन अन्योन्याश्रयादिकं स्यात्; किन्नाम ‘अज्ञानवशादेव अज्ञानम्’ इति ब्रूमः, इति पक्षान्तरे सूचयति’’ इति ।

जीवाज्ञानवादिमायिमते अज्ञानोपाध्योरभेदे अपसिद्धान्तात्माश्रयदोषौ

टीका

तत्रेयमाशङ्का । स्यादेतदन्योन्याश्रयादिकं, यदि अन्तः-करणादिकम् अज्ञानादन्यदेवोपाधितया अङ्गीक्रियते । न चैवम् । अज्ञानस्योपाधितया अङ्गीकारात् ।

नन्वविद्या किं सम्बन्धिनी भेदनिमित्तम् । दर्पणादिद्रव्यमपि किं सम्बन्धि भेदनिमित्तम् । मुखमात्रसम्बन्धि इति चेद् इहापि चित्सुखरूपमात्रसम्बन्धि अज्ञानं जीवब्रह्मभेदं करोति । स्वरूप-मात्रसम्बन्धिनोऽप्यज्ञानस्य जीवभागपक्षपातिता दर्पणादिवद् युज्यत इति ।

तत्रापि वक्तव्यं तद् अज्ञानमज्ञानकल्पितं ? उत न ? इति । नेति पक्षे पूर्ववदपसिद्धान्तः । आद्ये त्वात्माश्रयः स्यादिति । नन्वज्ञानं जीवब्रह्मभेदश्चानादिरेव । किं नाम ? अज्ञानाधीन एवेति, कथमात्माश्रयादिकं ? इति । मैवम् । किञ्चिदुपकाराभावे तदधीनताया एव मृषात्वात् । तद्भावे त्वात्माश्रयाद्यनिस्तारात् ।

उत्पत्तिज्ञप्त्योरिव प्रवृत्त्यादेरपि प्रतिबन्धेन तस्य दूषणत्वात् । बिम्ब- प्रतिबिम्बयोरभेदाभावस्यान्यत्रोपपादितत्वाद् दृष्टान्तो निरस्त एव ।

मन्दारमञ्जरी

नन्वज्ञानमेव चेदुपाधिस्तर्हि तदेव भेदकं वाच्यम् । तथा च तत्किम् असम्बद्धं भेदनिमित्तं ? उत सम्बद्धं ? आद्येऽतिप्रसङ्गः । द्वितीयं विकल्पयति ॥ नन्वविद्या किंसम्बन्धिनीति ॥ अविद्या जीवसम्बन्धिनी ब्रह्मसम्बन्धिनी वा ? नोभयमपि । तद्विभागस्य अविद्याऽधीनत्वादिति किंशब्दार्थः । दर्पणादिद्रव्यमपि किं बिम्बसम्बन्धि भेदनिमित्तं ? किं प्रतिबिम्बसम्बन्धि ? नोभयमपि । तद्विभागस्य उपाधिसम्बन्धाधीनत्वादिति गूढाभिसन्धिः परः परिहरति ॥ दर्पणादीति ॥ चिन्मात्रसम्बन्ध्यज्ञानं भेद-निमित्तमिति गूढाभिसन्धिरभिप्रायं विवरितुं शङ्कते ॥ मुखमात्रेति ॥ अभिप्रायं विवृणोति ॥ इहापीति ॥ दर्पणादिवद्युज्यत इति ॥ उपाधेः प्रतिबिम्ब-पक्षपातिवत्स्वाभाव्यादित्यर्थः ॥ पूर्ववदपसिद्धान्त इति ॥ अज्ञानस्यानिर्वच-नीयत्वं वदता तस्याप्यर्थादज्ञानकल्पितत्वाभ्युपगमादिति भावः । यद्वा अज्ञानस्य कल्पितत्वं वदता तस्यानादित्वे कल्पितत्वायोगात् । सादित्वे वाच्ये उपादानान्तराभावाद् अज्ञानोपादानकत्वस्य अर्थादङ्गीकृतत्वादिति भावः । अथ वा अज्ञानस्य कल्पितत्वं वदता अन्तःकरणादेरिव अज्ञानस्या-धिष्ठानचैतन्यावरणं विना कल्पनायोगाद् अज्ञानं च विना आवरणान्तराभावाद् अज्ञानकल्पनापि अज्ञानाधीनेत्यर्थादङ्गीकृतत्वादिति भावः । आद्यं दूषयति ॥ आद्ये त्वात्माश्रयः स्यादिति ॥

एतेनैतदपि निरस्तं, यथा भवतां भेदो भेदान्तरमन्तरेणैव भिन्न एवम-ज्ञानमज्ञानान्तरमन्तरेणैव कल्पितम् । यथोक्तं,

भेद्यं च भेदं च भिनत्ति भेदो यथैव भेदान्तरमन्तरेण ।

मोहं च कार्यं च भिनत्ति मोहस्तथैव मोहान्तरमन्तरेण ॥ इति ।

अज्ञानान्तरानपेक्षणेनानवस्थाया अभावेऽपि आत्माश्रयापरिहारात् । न च भेदः प्रतिबन्दी । न हि यथा त्वया अज्ञानेतराध्यासो ऽज्ञानसापेक्षो ऽज्ञानाध्यासस्तु तन्निरपेक्ष इति स्वीक्रियते तथा मया स्वरूपभेदवादिना घटादौ भिन्नत्वं भेदान्तरसापेक्षं, भेदे तु तन्निरपेक्षमित्यङ्गीक्रियते । किं नाम ? सर्वत्र निरपेक्षमिति । तथा च त्वयापि तद्वदेव अन्तःकरणाध्यासोऽपि अज्ञाननिरपेक्ष इत्यङ्गीकार्यं स्यात् । तथा चापसिद्धान्त इत्यलम् ।

शङ्कते ॥ नन्विति ॥ चशब्देन अज्ञानकार्योपाधेरपि प्रवाहतोऽनादित्व-मुक्तम् । किं नामेत्यत्र अज्ञानशब्देन तदुपादानकोपाधिरपि विवक्ष्यते ॥ अज्ञानाधीन एवेति ॥ यथा अज्ञानसम्बन्धस्य ‘षडस्माकमनादयः’ इत्युक्त-त्वेन अनादित्वेऽप्यज्ञानाधीनत्वं सम्बन्धस्य सम्बन्धिनिरूप्यत्वात् तद्वज् जीवब्रह्मविभागोऽपि अनादिरपि अज्ञानाधीन इत्यर्थः । कथमात्माश्रयादि-कम् ? इत्यत्र प्रकृतार्थे दूषणमिति शेषः । विभागस्याज्ञानाधीनत्वं तत्कृतोप-काराभावे न सम्भवतीत्युपकारो वक्तव्यः । स च नोत्पत्तिः । अनादित्वेनैव त्वया अङ्गीकारात् । नापि ज्ञप्तिः । अज्ञानाद्यप्रतीतावपि ‘अहमन्यः’ इति विभागप्रतीतेरित्याह ॥ किञ्चिदुपकाराभाव इति ॥

एतेन सम्बन्धप्रतिबन्द्यपास्ता । सम्बन्धप्रतीतेः सम्बन्धिप्रतीतिसापेक्षत्ववद् विभागप्रतीतेर् अज्ञानप्रतीतिसापेक्षत्वाभावात् । अथ द्रव्यत्वगुणित्वयोरिवा-नादित्वेऽपि प्रयोज्यप्रयोजकभावोऽङ्गीक्रियते । तत्र यथा गुणित्वस्य द्रव्य-त्वाधिकरणनियामकत्वात् तत्प्रयोजकत्वम् एवं प्रकृतेऽपि अज्ञानादेर्विभागाधि-करणनियामकत्वात् तत्प्रयोजकत्वम् । ततो विभागस्याज्ञानाधीनत्वमुपपन्नमिति तत्राह ॥ तद्भावे त्विति ॥ अस्माभिस्तु गुणित्वादेः कस्यचित् स्वतो नियताश्रयत्वमङ्गीक्रियते । न चैवं त्वया अङ्गीकर्तुं शक्यम् । अज्ञानादेरपि ब्रह्मण्यद्वितीये स्वतोऽसम्भवादिति भावः । ननु उत्पत्त्याद्यप्रतिबन्धकत्वान् नान्योन्याश्रयादिदूषणमित्यत आह ॥ उत्पत्तिज्ञप्त्योरिवेति ॥ प्रवृत्त्यादेरिति ॥ अत्र आदिशब्देन नियमनं विवक्षितम् । प्रवृत्तिग्रहणं तु दृष्टान्तार्थम् । यथा स्वप्रवर्त्यस्य स्वप्रवर्तकत्वे स्वस्यैव स्वप्रवर्तकत्वे वा प्रवृत्तिप्रतिबन्ध एवं स्वनियम्यस्य स्वनियामकत्वे स्वस्यैव स्वनियामकत्वे वा नियमनप्रतिबन्धः स्यात् । येन आकारेण यद् यन्नियम्यं न तत् तेन आकारेण तन्नियामकं’ इति व्याप्तेर् नियम्यनियामकभावस्य भेदगर्भत्वाच्चेत्यर्थः ।

जीवाज्ञानवादिमायिमते अज्ञानस्योपाधित्वे अनुपपत्तयः

किं च उपाधेरत्यन्तासतश् चैतन्यसम्बन्धे अतिप्रसङ्गात् प्रातिभासिकत्वं वक्तव्यम् । न च तद्वक्तुं शक्यम् । प्रातिभासिकत्वस्य प्रतिभाससम्बन्धा-धीनत्वेन अन्योन्याश्रयप्रसङ्गात् । अपि चायमुपाधिः किं केवलचैतन्यवेद्यः? किं वोपाधिभिन्नचैतन्यवेद्यः? नाद्यः । आरोपितस्य यावत्प्रतीत्यनुवर्तननियमेन तदनुवृत्तिप्रसङ्गात् । न द्वितीयः । अन्योन्याश्रयात् । किं चायं घटादिर् गगन इव ब्रह्मण्युपाधिः? । किं वा दर्पणादिर्मुख इव? यद्वा अङ्गुल्यवष्टम्भादिश्चन्द्र इव? अथ वा जपाकुसुमादिः स्फटिकादाविव ? नाद्यः । असङ्गस्याज्ञानेतर-सम्बन्धाभाववत् स्वभावतोऽज्ञानसम्बन्धस्याप्यनुपपत्तेः । न द्वितीयः। आत्मनोऽतीन्द्रियस्य प्रतिबिम्बनासम्भवात् । अतीन्द्रियस्यापि प्रतिबिम्बने पर्वतगतगुरुत्वस्यापि आदर्शे प्रतिबिम्बनेन आदर्शस्यानुद्धार्यत्वप्रसङ्गः । नापि तृतीयः । प्रमेयसम्बन्धित्वेन त्वया अङ्गीकारात् । करणासम्बन्धित्वाच्च । न चतुर्थः । स्वगतधर्मानुपसङ्क्रामकत्वात् । न हि जपाकुसुमादौ रक्तत्वमिवा-ज्ञानादौ दुःखाद्यनुसन्धातृत्वमस्ति । किञ्च औपाधिक इति कोऽर्थः । किमुपाधिकृत इति ? किं वा उपाधिज्ञापित इति ? नाद्यः सत्वाविरोधेन मयाऽपि तदङ्गीकारात् । द्वितीयेऽपि किं विद्यमान एव ज्ञाप्यते ? किं वा अविद्यमानप्रतिभासमात्रं क्रियते ? नाद्य इष्टापत्तेः । न द्वितीयः । प्रमेय-सम्बन्ध्युपाधेस् तदभावस्य वक्ष्यमाणत्वात् । किञ्च अयं विभागः किं सादिः ? उत अनादिः ? नाद्यः मुक्तस्य संसारप्रसङ्गात् । न द्वितीयः । अध्यस्तत्वा-योगात् । न हि स्वरूपेणानादिरध्यस्यते । अन्यथा ब्रह्मणोऽपि तथाभावः प्रसज्येत । यच्चोक्तमुपाधेः प्रतिबिम्बपक्षपातित्वमिति तन्न । तथात्वे बिम्बस्थानीयब्रह्मगतसर्वज्ञत्वादेरनुपाधिकत्वापातात् ।

चैतन्यमात्रस्याज्ञानसम्बन्धानुपपत्तिः

किं च चैतन्यमात्रस्याज्ञानसम्बन्धः किमौपाधिकः ? किं वा स्वाभाविकः ? आद्येऽनवस्थादिः । द्वितीये आनन्दादिवदनिवृत्तिप्रसङ्गः । किं च न मुखमात्रवच् चैतन्यमात्रमस्ति । ब्रह्मादिभावस्यानादित्वात् । मुक्तावपि ‘ब्रह्म वेद ब्रह्मैव भवति’ इति ब्रह्मत्वस्यानपायश्रवणात् । अन्यथा उप-चरितार्थत्वप्रसङ्गात् । किं च स्फुरणस्यैव अज्ञानविरोधित्वोपपादनात् कथं चैतन्यस्याज्ञानसम्बन्धः । अपि च वक्ष्यमाणआकाशस्य उपाधिसम्बन्धनिरास-प्रकारोऽत्रापि द्रष्टव्य इत्यलं प्रपञ्चेन ।

चैतन्यमात्रस्याज्ञाननिरासप्रपञ्चस्तु

मोहं तत्साधकः साक्षी साधयेदहमो यदा ।

अज्ञोऽहमिति केन स्याच्चिन्मात्रस्याज्ञता तदा ॥

इत्यादिना अन्यत्रास्माभिः कृतो द्रष्टव्यः । अज्ञानस्यैव प्रतिफलनार्हत्व लक्षणोपाधित्वपक्षे दूषणान्तरमाह ॥ बिम्बेति ॥ ततश्चोपाधेः प्रतिबिम्ब-पक्षपातित्वस्वभावकल्पनं चाप्रामाणिकमिति भावः ।

श्रीनिवासतीर्थीयटिप्पणी

पक्षान्तरमेव दर्शयति ॥ तत्रेयमांशङ्केति । अन्तःकरणादि- कमित्यत्रादिपदेन देहेन्द्रियग्रहणम् । नन्वज्ञानस्यैवोपाधित्वे तस्यावश्यं भेदनिमित्तत्वं वाच्यम् । तत्रासम्बद्धस्यैव भेदनिमित्तत्वेऽतिप्रसङ्गात्सम्बद्धस्यैव भेदकत्वे वाच्ये किं प्रतिबिम्बभूतं जीवं सम्बध्य भेदं करोति । उत प्रतिबिम्बभूतं ब्रह्मेत्याशयेन सिद्धान्ती शङ्कते । नन्वविद्येति । उपाधिभूत-दर्पणादिद्रव्यस्यापि मुखभेदनिमित्तत्वं तावदस्ति । तत्रासम्बद्धस्य भेदकत्वेऽति प्रसङ्गात् सम्बद्धस्यैव भेदकत्वे वाच्ये किं बिम्बभूतं मुखं सम्बध्य भेदं करोति उत प्रतिबिम्बभूतं प्रतिमुखं, तत्र यदुत्तरं तदेव ममापीत्याशयेन मायावादी परिहरति ॥ दर्पणादिद्रव्यमपीति । सिद्धान्ती गूढाभिसन्धिरुत्तरमाशङ्कते ॥ मुखमात्रेति । दर्पणादिद्रव्यं बिम्बभूतं मुखमात्रमेव सम्बध्य भेदनिमित्तं भवति । न यत्किंचिद्घटादिकं सम्बध्येति मात्रशब्दार्थः । एवं सिद्धान्त्यभिप्रेतं मात्रशब्दार्थमज्ञात्वा मायावादी बिम्बप्रतिबिम्बभूतमुखप्रतिमुखानुस्यूतं मुखमात्रं मात्रशब्देनोक्तं सिद्धांतिनेति मत्वोत्तरमाह ॥ इहापीति ॥ चित्स्वरूप-मात्रेति । बिम्बप्रतिबिम्बभूतजीवब्रह्मानुस्यूतचिन्मात्ररूपस्वरूपमात्रेत्यर्थः । यथोक्तं विवरणकारेण ।

आश्रयत्वविषयत्वभागिनी निर्विशेषचितिरेव केवला ।

पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः ॥ इति ।

ननु जीवब्रह्मानुस्यूतचिन्मात्ररूपस्वरूपमात्रं सम्बध्याज्ञानं स्वकार्य-दुःखादिकं बिम्बे कस्मान्न दर्शयतीत्यत आह ॥ स्वरूपमात्रेति । उपाधेः प्रतिबिम्बपक्षपातित्वस्वाभाव्येन स्वभावस्यानपायादित्यर्थः । तत्र दृष्टान्तो दर्पणादिवदिति । यथा मुखप्रतिमुखानुस्यूतमुखमात्रं सम्बध्यापि दर्पणादिकं स्वकार्यमालिन्यादिकं प्रतिमुख एव प्रदर्शयति । नान्यत्र तद्वदित्यर्थः । इतीयमाशङ्केत्यन्वयः ॥ तदज्ञानमिति । उपाधिभूतमज्ञानमित्यर्थः ॥ पूर्व-वदिति । अन्तःकरणाद्युपाधेरज्ञानाकल्पितत्वाङ्गीकारे सत्यत्वप्राप्त्याऽद्वैतभङ्गा-पत्त्याऽपसिद्धान्त उक्तः । तद्वदज्ञानरूपोपाधेरपि अज्ञानाकल्पितत्वाङ्गी-कारेऽपसिद्धान्त इत्यर्थः । स्यादितीत्यस्यात्माश्रयत्वं पक्षान्तरे सूचयतीत्य-नेनान्वयो द्रष्टव्यः । चिन्मात्राश्रिताज्ञानवादी जीवाश्रिताज्ञानावादी च शङ्कते ॥ नन्वज्ञानमिति ॥ अनादिरेवेति ।

जीव ईशो विशुद्धा चिद्भेदस्तस्यास्तयोर्द्वयोः ।

अविद्या तच्चितोर्योगः षडस्माकमनादय ॥

इति वचनादिति भावः ॥ आत्माश्रयादिकमिति । दूषणमिति शेषः । अज्ञानस्यानादित्वेनाज्ञानकल्पितत्वाभावान्नात्माश्रयः । जीवब्रह्मविभाग-स्याप्यनादित्वेऽज्ञानकल्पितत्वाभावान्नन्योन्याश्रयोऽपीत्यादिशब्दार्थः । तथा-चोत्पत्तिज्ञप्त्यप्रतिबन्धकत्वान्नत्माश्रयादिप्रसङ्गो दूषणमिति भावः ॥ किञ्चि-दुपकारेति । उत्पत्तिज्ञप्तिरूपोपकारेत्यर्थः ॥ मृषात्वादिति । तथाचाज्ञानाधीन एवेत्युक्तमसदिति भावः । नन्वज्ञानस्यानादित्वेनाज्ञानेनोत्पत्त्यभावेऽपि अज्ञानप्रयुक्तत्वाङ्गीकारान्नात्माश्रयः । तथाऽनादित्वेऽपि द्रव्यत्वगुणवत्त्वयोः प्रयुक्तयादावन्योन्याधीनत्वसद्भावेऽपि यथा नान्योन्याश्रय एवमज्ञानस्य जीवब्रह्मविभागस्य चानादित्वेनोत्पत्त्यादावन्योन्याधीनत्वाभावेऽपि प्रयुक्त-यादावन्योन्याधीनत्वाङ्गीकाराच्चान्योन्याश्रयोऽपीत्याशंक्याह ॥ सद्भावेत्विति । प्रयुक्तिरूपोपकारसद्भावे त्वित्यर्थः ॥ आत्माश्रयेति । उपपादयति ॥ उत्पत्तीति । प्रयुक्तयामेवेति शेषः । तथा चाज्ञानस्याज्ञानप्रयुक्तत्वाङ्गीकारे प्रयुक्तयामेवात्माश्रयः स्यादित्यर्थः । आदिपदेनान्योन्याश्रयादिग्रहणम् । तथा हि । द्रव्यत्वजातेर्व्यङ्ग्यभूताया गुणित्वरूपव्यञ्जकप्रयुक्तत्वेऽपि न व्यञ्जकस्य व्यङ्ग्यप्रयुक्तत्वम् । व्यङ्ग्यस्य घटादेः स्वज्ञानादौ आलोकरूपव्यञ्जक-प्रयुक्तत्वेऽपि व्यञ्जकस्यालोकस्य घटादिप्रयुक्तत्वाभावादिति न तत्रान्योन्या-श्रयः । इह तु जीवब्रह्मविभागस्याविद्याप्रयुक्तत्वादविद्यायाश्च जीवाश्रितत्वा-ज्जीवाज्ञाने अन्योन्यप्रयुक्ते इति प्रयुक्तिप्रतिबन्धकत्वादन्योन्याश्रयः स्यादेव । यथोक्तम् ।

अविद्याजीवयोर्यत्र ह्यपेक्षा तन्निरोधकः ।

अन्योन्याश्रयो नोचेदन्योन्याधीनताक्षतिः ॥ इति ।

ननूत्पत्तिज्ञप्तिप्रतिबन्धकात्माश्रयादेर्दोषत्वम् । न तु प्रयुक्तयादिप्रतिबन्ध-कात्माश्रयादेरित्यत आह ॥ उत्पत्तिज्ञप्त्योरिवेति । आदिपदेन प्रयुक्तिर्गृह्यते । प्रवृत्तिग्रहणं दृष्टान्तार्थम् । यथा हि स्वस्यैव स्वप्रवर्तकत्वे तत्प्रवर्त्यस्यैव तत्प्रवर्तकत्वे वा प्रवृत्तिप्रतिबन्धादात्माश्रयादिकम् । एवं स्वस्यैव स्वप्रयोजकत्वे स्वप्रयुक्तस्य स्वप्रयोजकत्वे वा(स्व)प्रयुक्तिबन्धकत्वादात्माश्रयादिकं भविष्य-त्वेव । यथोक्तम् ।

यद्युत्पत्तिज्ञप्तिमात्रप्रतिबन्धेन दोषता ।

तर्हि स्याच्चैत्रमैत्रादेरन्योन्यारोहणादिकम् ॥ इति ।

आरोहणादिकमित्यत्र युगपदिति शेषः । आदिपदेन स्वस्कन्धारोहणग्रहणम् । एवञ्चाज्ञानस्याज्ञानप्रयोजकत्वे जीवब्रह्मविभागप्रयुक्तस्याज्ञानस्य जीवब्रह्म-विभागप्रयोजकत्वे चात्माश्रयादिकं भविष्यत्येवेति भावः ॥ यथा सत्यपि बिम्ब-प्रतिबिम्बयोरैक्ये दर्पणाद्युपाधिनिमित्तभेदाद् बिम्बस्यावदातत्वेऽपि प्रतिबिम्बस्य श्यामता घटत इत्युक्तं दृष्टान्तमपि दूषयति ॥ बिम्बप्रतिबिम्बयोरिति ॥ अन्यत्रेति । तत्वनिर्णयटीकादावित्यर्थः ।

तथाहि । बिम्बप्रतिबिम्बयोरैक्ये न तावत्प्रत्यक्षं मानम् । इमे चैत्रतच्छाये भिन्ने इतिवद् इमे चैत्रतत्प्रतिबिम्बे भिन्ने इत्येवं पार्श्वस्थेन ग्रहणात् । स्वेनापि मद्देहतत्प्रतिबिम्बे भिन्ने इत्येव ग्रहणाच्च । सूर्यस्य पार्श्वे प्रतिसूर्य इतिवद्दर्पणे मम मुखच्छायेत्येवानुभवेन दर्पणे मम मुखं लग्नमिति कस्यापि प्रतीत्यभावाच्च । प्रतिबिम्बमेव दृष्टं न चैत्र इत्यनुभवायोगाच्च । प्रतिमुखे प्रत्यङ्मुखत्वादिना दृश्यमानेऽपि मुखे तद्बुध्यभावाच्च । क्वचित्प्रतिमुखे मम मुखमिति व्यपदेशस्तु स्वच्छायाशिरसि स्वशिरोव्यवहारवन् मार्गविन्यस्तपादादौ स्वपादव्यवहारवच्च गौणः । भेदज्ञाने सत्यभेदव्यवहारस्य गौणत्वनियमात् । किञ्च बिम्बप्रतिबिम्बयो-र्भेदसाक्षात्कारे तावन्न विवादः । अन्यथा त्वयापि कस्य भ्रमत्वमुच्यते ।

न च भेदं भेदकं च साक्षात्कुर्वन् अभेदमपि साक्षात्कुर्वन् दृष्टः ।

ननु चैत्रो यत्स्वलक्षणो बहिः प्रतिपन्नस्तत्स्वलक्षण एव वेश्मांतस्थितो भाति । तथा च यत्स्वलक्षणं ग्रीवास्थं मुखं तत्स्वलक्षणमेव दर्पणस्थमपि भाति । न च तद्वस्त्वन्तरत्वे युज्यते । तस्मादेकमेकदेशस्थं च मुखं भ्रान्त्या भिन्नं भिन्नदेशस्थं च भातीति चेत् । उच्यते । किमनेन बिम्बप्रतिबिम्बयोरैक्ये तदेवेदं मुखमिति प्रत्यभिज्ञाप्रत्यक्षमुपन्यस्तम् । उत बिम्बप्रतिबिम्बे अभिन्ने अत्यन्तसदृशत्वादिति सादृश्यलिङ्गकानुमानम् । नाद्यः । असिद्धेः । किञ्चि-त्स्वच्छताम्रादौ प्रतीते मुखसंस्थानविशेषाप्रतीत्या प्रत्यभिज्ञाभावस्य स्पष्टत्वात् । आदर्शप्रतीते स्वनेत्रगोलकादौ स्वस्याभिज्ञाया एवाभावेन प्रत्यभिज्ञायोगाच्च । नापि द्वितीयः । सव्येतरकरादौ व्यभिचारात् । वैधर्म्याभावो लिङ्गमस्त्विति चेन्न । प्रत्यक्पराग्भावादिरूपविरुद्धधर्मस्यैव सद्भावेना सिद्धेः । मुखे चलिते सति प्रतिमुखं चलतीति क्रियासाम्यं लिङ्गमस्त्विति चेन्न । छायादाव-नैकान्त्यात् ।

ननु प्रतिबिम्बं बिम्बाभिन्नं बिम्बकारणमात्रत्वादित्यनुमानमस्त्विति चेन्न । बिम्बादर्वाचीने प्रतिबिम्बे तस्यासिद्धेः । बिम्बजननेन चरितार्थानां कारणानां कालान्तरीयप्रतिबिम्बजनकत्वाङ्गीकारे विरम्यव्यापारप्रसङ्गात् । पृथग्दृष्ट-कार्यानुरोधेन परिवेषेन्द्रचापच्छायाप्रतिसूर्यादाविव कारणस्य कल्प्यत्वात् । एतेन दर्पणादौ न प्रतिमुखरूपं व्यक्त्यन्तरमस्ति कारणशून्यत्वाच्छशमस्तके विषाणवदिति निरस्तम् । उक्तरीत्या कारणस्य कल्प्यत्वेनासिद्धेः । एतेनाभि-ज्ञायां भेदो भाति । प्रत्यभिज्ञायां त्वभेदः । तत्र भेदधीः प्रतिमुखरूप-व्यक्त्यन्तरे हेत्वभावेनोपपत्तिहीनत्वाद्भ्रान्तिः । अभेदधीस्तु सोपपत्तिकत्वा-त्प्रमेति निरस्तम् । अभेदधीरेव नास्तीत्युक्तत्वात् । छायादाविव कारणस्य कल्प्यत्वेन भेदबुद्धेः सोपपत्तिकत्वाच्च । एतेन–

दर्पणाभिहता दृष्टिः परावृत्य स्वमाननम् ।

व्याप्नुवंत्याभिमुख्येन व्यत्यस्तं दर्शयेन्मुखम् ॥ इति निरस्तम् ।

परावृत्य स्वमुखस्यैव ग्रहणे पार्श्वस्थस्य मुखद्वयप्रतीत्ययोगात् । शिला-द्यभिहतनेत्रस्यापि स्वमुखग्राहकत्वापाताच्च । अस्यां प्रक्रियायां स्वच्छताया अनुपयोगात् । अथ नापि

नेक्षेतोद्यन्तमादित्यं नास्तं यंतं कदाचन ।

नोपरक्तं न वारिस्थं न मध्यं नभसोगतम् ॥

इति स्मृतिरेव बिम्बप्रतिबिम्बैक्ये मानम् । उद्यदादित्यादौ बिम्ब इव वारिस्थमादित्यमिति वारिस्थेऽपि प्रतिबिम्बे आदित्यशब्दप्रयोगादिति चेन्न । अस्य स्मार्तव्यवहारस्य गौणत्वात् । व्यपदेशमात्रस्य भेदप्रत्यक्षबाधकतायाम् आदित्यो यूप इत्यादावपि प्रसङ्गात् । त्वत्पक्षेऽपि हि वारिस्थशब्दो न मुख्यः । गगनस्थस्य वारिस्थत्वायोगात् । वारिस्थसूर्यदर्शननिषेधे तयोरभेदा-दाकाशगतसूर्यदर्शनस्यापि निषिद्धत्वप्रसङ्गाच्च । किञ्च बिम्बप्रतिबिम्बयोरैक्ये अयं प्रदेशो बिम्बवान् प्रतिबिम्बवत्त्वादिति प्रतिबिम्बाद्बिम्बानुमानं न स्यात् । साध्यावैशिष्ट्यापातात् ।

ननु तर्हि बिम्बप्रतिबिम्बयोर्भेदे प्रतिबिम्बे किं कारणमिति चेत् । अत्र ब्रूमः । बिम्बरूपमुखसंनिधिवशादादर्श एव प्रतिमुखगर्भितः परिणमते । तथा चादर्श एवोपादानकारणं बिम्बसन्निधानं निमित्तमिति । ननु तर्हि बिम्बसन्निधिलब्धपरिणतिविशेषो बिम्बसन्निध्यपाये अवतिष्ठेत । न हि निमित्तकारणनाशात्कार्यनाशोऽस्तीति चेन्न । यथा बिम्बसन्निधिरादर्शस्य प्रतिबिम्बाकारपरिणतौ हेतुर् एवं तदपायोऽप्यादर्शस्य विपरीताकारपरिणतौ हेतुः । विपरीतपरिणतौ तु प्रतिबिम्बगर्भितता नश्यत्येव । यथा हि । सुवर्ण-रजतादीनां तुषमुषाग्निसंयोगादिना लब्धमेव द्रवावस्थानं तदपाये पुनर्घनीभाव-स्तथाऽत्रापीति । ननु निमित्तकारणनाशात्कार्यनाशो न दृष्ट इति चेन्न । यथा लोके समवायिकारणभूततन्तुनाशात्कार्यभूतपटनाशो दृष्टः । यथा वाऽ-समवायिकारणभूततन्तुद्वयसंयोगनाशात्पटनाशो दृष्टः । एवं निमित्तकारण-नाशादपि कार्यनाशोऽङ्गीकर्तव्य एव । अपेक्षाबुद्धिनाशेन द्वित्वनाशदर्शनात् । एवं प्रतिबिम्बस्यापि क्वचिदुपाधिनाशात्क्वचिद्बिम्बनाशात्क्वचिदुभयनाशाच्च नाशोऽङ्गीकर्तव्य एव । एवञ्च बिम्बप्रतिबिम्बयोरभेदाभावाद्भेद एव स्वाभाविक इत्यङ्गीकार्यमिति संक्षेपः । तथा चोपाधेः प्रतिबिम्बपक्षपातित्वस्वभावकल्पन-मप्यप्रामाणिकमिति भावः ॥

परशुनाम्नीटिप्पणी

इतःपरं टीकायां श्रूयमाणानि ‘तत्रेयमाशङ्का’ इत्यारभ्य ‘आद्ये त्वात्माश्रयः स्यात्’ इत्यन्तानि वाक्यानि प्रक्षिप्तानि, न टीका-वाक्यानि ॥ अवश्यं च एतदेवं विज्ञेयम्, ‘अज्ञानम् अज्ञानवशादेव, न उपाधिकल्पितभेदवशात्’ इत्याशङ्काया एव आत्माश्रयप्रदानोपयुक्ततया इत्थमेव शङ्काया वक्तव्यत्वात्’ ‘अज्ञानम् उपाधिः’ इति शङ्काया आत्माश्रय प्रदानानुपयुक्तत्वेन आत्माश्रयत्वसूचनाय, तच्छङ्काप्रदर्शनायोगात् । न हि ‘अज्ञानम् उपाधिः’ इत्युक्ते आत्माश्रयो भवति, किन्तु अन्योन्याश्रयो भवति । ‘अज्ञानकल्पितो भेदः भिन्नाश्रयम् अज्ञानम्’ इति ।

ननु च उक्तं ‘तत्रापि वक्तव्यम्’ इत्यादिना आत्माश्रयत्वमुक्तमिति । सत्यम्, उक्तं दुरुक्तं तत् । तेन ‘अज्ञानम् अज्ञानकल्पितम्’ इति पक्षे आत्माश्रयत्वलाभेऽपि ‘अज्ञानम् उपाधिः’ इति पक्षे आत्माश्रयत्वालाभात् ॥ न हि ‘अज्ञानमेव उपाधिः’ इति वचनानन्तरमेव ‘अज्ञानम् अज्ञानकल्पितं न वा’ इति ‘‘(प्रष्टव्यम्, अन्यदा न प्रष्टव्यम्; इति राज्ञामाज्ञास्ति ।) पृष्ट्वा आत्माश्रयत्वं वक्तव्यम्’’ इति राज्ञामाज्ञा अस्ति, येन अयं दोषः ‘अज्ञानमेव उपाधिः’ इति पक्षसम्बन्धी स्यात् । ‘अज्ञानमेव उपाधिः’ इति पक्षे अन्योन्याश्रयसद्भावेन ‘स्यादेतद् अन्योन्याश्रयादिकम्’ इत्युक्त्ययोगाच्च । (मुखप्रतिमुखव्यतिरिक्तमुखमात्राभावेन दर्पणस्य तत्सम्बन्धाभिधानायोगाच्च । निःस्वरूपस्यैव) चित्स्वरूपस्यैव सर्वज्ञत्वेन तस्य अज्ञान सम्बन्धाभि-धानायोगाच्च । एवं सति ‘जीवाश्रितम् अज्ञानम्’ इति पक्षपरित्यागापाताच्च । दर्पण(दिः) स्य प्रतिबिम्बसम्बन्धस्य प्रत्यक्षसिद्धत्वेन चिन्मात्रसम्बन्धिनोऽ-ज्ञानस्य दर्पणदृष्टान्तेन पक्षपाताभिधानायोगाच्च । चिन्मात्रस्याज्ञानायोगे शङ्किते ‘चिन्मात्रसम्बन्धि अज्ञानम्’ इत्यभिधानायोगाच्च । (आत्माश्रयत्वस्य ‘तत्रापि वक्तव्यम्’ इत्यादिना उक्तप्रश्नोत्तरप्रयुक्तत्वेऽपि अज्ञानस्य उपाधिशङ्का-प्रयुक्तत्वाभावाच्च ।) परेण अज्ञानम् अज्ञानतत्कार्ययोर् अन्यतरत्वमित्यङ्गी-कृत्याभिधानेन, ‘अज्ञानम् अज्ञानकल्पितं न’ इति पक्षे अपसिद्धान्ताभिधाना-योगाच्च । न हि ‘अज्ञानम् अज्ञानकल्पितं न’ इत्युक्ते (द्वैतस्य) अज्ञानस्य सत्यता भवति, येन अपसिद्धान्तः स्याद् इति । ननु यदि उभावपि अनादी तर्हि ‘अज्ञानाद् अज्ञानम्, अज्ञानाद् भेदः’ इत्यादि कथम्; इत्याशयेन पृच्छति किन्नामेति । उत्तरमाह अज्ञानाधीन एवेति । अज्ञानम् अज्ञानाधीनं भेदः, अज्ञानाधीन इति ‘अज्ञानाद् अज्ञानम्’ इत्यादिव्यपदेशो युज्यत इति भावः ॥ ‘उपाधिभेदाद्घटते’ इति मूलस्य व्याख्याने टीकायाम् उक्तः पराभिप्रेतो दृष्टान्तः निरस्त इत्याह बिम्बप्रतिबिम्बयोरिति ।

सत्योपाधिकृतसत्यभेदवाद्यद्वैतवादानुवादनिरासः

टीका

अपर आह, ‘स्यादिदं मायावादिनां दूषणं, नास्माकम् । ‘एवमेव ब्रह्म अन्तःकरणाद्यनन्तोपाध्यवच्छेदाद् अनन्तजीवभाव-मापाद्यते’ इत्यङ्गीकारेऽपि भेदस्य उपाधीनां च अस्माभिर्मिथ्यात्वा-नङ्गीकारात् । भेदसत्यत्वाङ्गीकारेऽपि स्वाभाविकभेदानङ्गीकारेण औतवादाविरोधात् । उपाधेर् अज्ञानकल्पितत्वाभावेन अनव-स्थाद्यभावात् । अंशांशिभावेन विम्बप्रतिबिम्बभावाभावात् । अतो ब्रह्मजीवसम्बन्धिनी सर्वज्ञत्वाज्ञत्वे न विरुद्ध्येते’ इति तत्राह–

मूलम्

…भेदश्चोपाधितः कुतः ।

मायावादे ह्युपाधेर्भेदस्य च कल्पितत्वेन अनवस्थादिदोष-प्रसक्तावपि उपाधिनिमित्तो भेदावभास इत्येतावानंशो युज्यते । अङ्गुल्यवष्टम्भादिना चन्द्रादिभेदाध्यासदर्शनात् । अस्मिंस्तु पक्षे अनवस्थादिदोषाभावेऽपि उपाधितः भेदो भवतीत्येतन्न युज्यते । तदयोगे च जीवब्रह्माश्रयतया अज्ञतासर्वज्ञत्वयोर्व्यवस्थानं सुतरां न युज्यते इति चशब्दार्थः ।

मन्दारमञ्जरी

मायावादिभिर् भेदस्योपाधिकृतत्वानङ्गीकाराद् भेदश्चोपाधितः कुतः? इत्यनुक्तोपालम्भमाशङ्क्य मतान्तरनिराकरणपरतया भेदश्च इति पादं व्याख्यातुं शङ्कते ॥ अपर आहेति ॥ अन्तःकरणादीत्यादिशब्देन स्थूलोपाधिं देहं विवक्षति ॥ मिथ्यात्वानङ्गीकारादिति ॥ प्रत्यक्षादिप्रमाणसिद्धत्वा-दित्यर्थः ॥ औतवादाविरोधादिति ॥ सत्यस्याप्युपाध्यधीनस्य उपाधिनिवृत्त्या निवृत्तेः । न च पूर्वं भिन्नस्य पश्चात् कथमभेदः? इति वाच्यम् । ज्ञानेना-भेदस्य सम्पादनात् । औपाधिकभेदनिवृत्तौ तदभावलक्षणाभेदावश्यम्भावाच्चेति भावः । अस्मिन् पक्षे अज्ञानस्योपाधिसापेक्षत्वेऽपि नोपाधेरज्ञानसापेक्षत्वम् । तदकल्पितत्वात् । तस्मान्नान्योन्याश्रयादिरित्याह ॥ उपाधेरिति ॥

ननु लोके बिम्बप्रतिबिम्बयोः सत्यभेदाभावात् तदात्मकयोर्जीवब्रह्मणोः कथं सत्यभेदः? इति मायावादिशङ्कां निरस्यति ॥ अंशांशिभावेनेति ॥ अंशांशिनोर्विरुद्धपरिमाणयोर्लोकेऽपि दृष्टः पारमार्थिकभेद इति भावः ।

मायावादे दूषणसमुच्चयाभावाच् चशब्दानुपपत्तिमाशङ्क्याह ॥ मायावाद इत्यादिना चशब्दार्थ इत्यन्तेन ॥ नात्र मायावादे दूषणद्वयं समुच्चीयते । किं तर्हि ? सत्योपाधिवादे उपाधिकृतभेदानुपपत्तिः सार्वज्ञ्यादिव्यवस्थानुपपत्तिश्च समुच्चीयत इत्यर्थः ।

श्रीनिवासतीर्थीयटिप्पणी

अपर आहेति । भास्कर इत्यर्थः । मायावादिनां वाचस्पति-विवरणकारादीनाम् । अंतःकरणादीत्यादिपदेन देहेन्द्रियादिकं ग्राह्यम् । तर्हि भेदस्य सत्यत्वाङ्गीकारापत्त्याऽद्वैतहानिः स्यादित्यत आह ॥ भेदसत्यत्वेति ॥ स्वाभाविकभेदानङ्गीकारेणेति । भेदस्यौपाधिकत्वेन स्वाभाविकत्वानङ्गी-कारेणेत्यर्थः ॥ औतवादेति । अभेदः स्वाभाविक इत्यद्वैतवादेत्यर्थः। यदि भेदः स्वाभाविकः स्यात् तदैव हि स्वाभाविकाद्वैतवादविरोधः स्यादिति भावः ॥ अज्ञानकल्पितत्वाभावेनेति । उपाधेः सत्यत्वेनाज्ञानकल्पितत्वा-भावादित्यर्थः । ननु बिम्बप्रतिबिम्बयोर्भेदस्य मिथ्यात्वात् तादृशयोर्जीव-ब्रह्मणोर्भेदस्य कथं सत्यत्वमित्यत आह ॥ अंशांशिभावेनेति । जीवानां ब्रह्मांशत्वेन जीवब्रह्मणोरंशांशिभावाङ्गीकारेण तन्तुपटवद्भेदाभेदाङ्गीकारादिति भावः । अवभासपदं प्रतिभासपरम् ॥ अङ्गुल्यवष्टम्भादिनेति । चक्षुषोऽङ्गुल्य-वष्टम्भरूपोपाधिनेत्यर्थः । चशब्दसमुच्चेयमाह ॥ तदयोग इति । उपाधितो भेदजननायोगे सतीत्यर्थः ॥

परशुनाम्नीटिप्पणी

ननु अनवस्थादिप्रसङ्गेन ‘उपाधितो भेदः’ इति पक्षस्य दूषितत्वात् ‘भेदश्चोपाधितः कुतः’ इति तन्निराकरणप्रारम्भो व्यर्थः; इत्यत आह अपर आहेति ।

स्यादिदमिति । अज्ञानानुपपत्तिलक्षणं दूषणं मायावादिनामेव स्यात्, न तु अस्माकमित्यर्थः । अज्ञानानुपपत्तौ हि सर्वज्ञत्वम् ए(कं)व बाधकम् । उपाधिभेदाङ्गीकारेण तत्परिहारे उपाधेः सत्यत्वे औतहानिः, मिथ्यात्वे अनवस्थादयो (दोष)व्यवस्थितविभाषया चत्वारो दोषा उक्ताः । जीवस्य अज्ञत्वे प्रतिबिम्बत्वानुपपत्तिः, स्फुट एव दोषः; बिम्बप्रतिबिम्बयोर् अत्यन्त-सादृश्यनियमात् । मिलितानाम् एतद्दोषाभावानाम् असम्भवरूपदोषाभावे हेतुत्वम् अभिप्रेत्य सर्वज्ञत्वलक्षणबाधकाभावं तावदाह एकमेवेति । जीव-ब्रह्मैक्यविषये मायावादमतसाम्येऽपि भेदसत्यत्वाङ्गीकारान् न सर्वज्ञत्वं बाधकम् । सर्वज्ञत्वशून्ये जीवे अज्ञानसम्भवात्, नास्माकम् अज्ञानानुपपत्तिः; इति भावः ।

औतवादविरोधाभावं हेत्वेकदेशत्वेन(देशेन) आह भेदसत्यत्वेति । हेत्वेकदेशत्वात् पञ्चमी ॥ एतेन ‘मिलितानाम् अभावानां हेतुत्वात्, पञ्चमी-प्रयोगो ऽनुपपन्नः’ इति परास्तम् । एवम् उत्तरत्रापि द्रष्टव्यम् । अनव-स्थाद्यभावम् अज्ञानासम्भवरूपदोषाभावे हेत्वेकदेशत्वेन आह उपाधेरिति । बिम्बप्रतिबिम्बभावानुपपत्तिरूपदोषाभावं हेत्वेकदेशत्वेन आह अंशांशि-भावेनेति । बिम्बप्रतिबिम्बभावस्य अनङ्गीकारेण तदनुपपत्त्यभाव इति भावः । उपसंहरति अत इति । ब्रह्मणः सर्वज्ञत्वेऽपि जीवस्य अज्ञत्वं घटत इति भावः । ‘भेदश्चोपाधितः कुतः’ इति मूलं मायावादिमतनिरासार्थमेव किं न स्यात्, दोषान्तरेण निराकृतस्य दोषान्तरेण निराकरणसम्भवात्; इत्यत आह मायावादे हीति । मायावादिना भेदस्य उपाधिज्ञाप्यत्वम् अङ्गीक्रियते, अनेन मूलेन भेदस्य उपाधिजन्यत्वम् आक्षिप्यते; अतो मतान्तरनिरासपरतया इदं मूलं ज्ञेयम्; इति भावः । उपाधिनिमित्तो भेदप्रतिभास इतीति । भेदप्रति-भासस्य औपाधिकत्वेन ‘उपाधितो भेदः’ इत्युपचारः सम्भवति इति भावः ।

उपाधेर्विद्यमानावयवभेदज्ञापकत्वम्

टीका

कुतः सत्योपाधितः सत्यभेदोत्पत्तिर्न युज्यते ? इत्यत आह–

मूलम्

विद्यमानस्य भेदस्य ज्ञापको नैव कारकः ॥ ४ ॥

उपाधिर्दृष्टपूर्वो हि… ।

हिशब्दो हेतौ । यस्मान् महारजनाद्युपाधिर्विद्यमानस्यैव पटा-द्यवयवभेदस्य ज्ञापक एव दृष्टपूर्वो न तु प्रागविद्यमानस्य कारकः । अतो भेदश्चोपाधितः कुत इति सम्बन्धः । अत्र उपाधिः कारको न दृष्टपूर्व इत्येतावदेव वक्तव्यम् । विद्यमानस्य ज्ञापक इत्युक्तिस्तु ‘कारकत्वाभावे वैयर्थ्यं स्यात्’ इति शङ्कानिरासार्था इति ज्ञातव्यम् ।

मन्दारमञ्जरी

कारणानुगुणं कार्यं भविष्यतीति शङ्कते ॥ कुतः सत्योपाधित इति ॥ भेदस्योपाधिकार्यत्वमेवासिद्धमित्याह ॥ अत आहेति ॥

श्रीनिवासतीर्थीयटिप्पणी

महारजनेति । मंजिष्ठरूपं रक्तिमद्रव्यमित्यर्थः । अविद्यमानस्य भेदस्य ॥ कारकत्वाभाव इति । उपाधेरिति शेषः ।

परशुनाम्नीटिप्पणी

महारजनाद्युपाधिरिति । पटेन सम्बद्धो महारजनाद्युपाधिर् विद्यमानस्य पटावयवजन्यभेदस्य ज्ञापको दृष्टपूर्व इत्यर्थः ॥ भेदो हि वस्तुस्वरूपम् । स च पटेन सह पटावयवजन्यः । स च उपाधिसम्बन्धा-त्प्राक्कालीन इति नोपाधिजन्यः, किन्तु तज्ज्ञाप्य एव; इति भावः ।

एतेन ‘उपाधेर् अवयवस्य अवयवान्तरभेदज्ञापकत्वमिव पटान्तरभेद-ज्ञापकत्वस्यापि भावात्, प्रथमोपस्थितं पटभेदं विहाय पटावयवभेदस्य ज्ञाप्यत्वाभिधानमयुक्तम्’ इति परास्तम् । ‘पटावयवभेदस्य’ इत्यनेन पटात्मक भेदस्य विद्यमानत्वोपपादनाय पटावयवजन्यत्वाभिधानात् ।

वैयर्थ्यं स्याद् इति शङ्कानिरासार्थेति ‘औपाधिको भेद इति व्यवहारे औपाधिकशब्दस्य नैरर्थक्यं स्यात्’ इति शङ्कानिरासार्थेति ज्ञातव्यमित्यर्थः । उपाधिज्ञाप्यत्वम् ‘औपाधिक’ शब्दार्थ इति भावः । एतेन ‘उपाधेर् भेदकार-कत्वाभावेऽपि न वैयर्थ्यम्, शोभाजनकत्वात्’ इति निरस्तम् ।

उपाधेरवयविभेदकत्वाभावः

टीका

न च महारजनादिः पटस्यैव भेदकः ‘द्वौ पटौ’ इत्य-प्रतीतेः । न च दण्डकुण्डलोपाधिभ्याम् एक एव देवदत्तो भिद्यत इति वाच्यम् । देवदत्तभेदस्य अप्रतीतेः । दण्डकुण्डलसम्बन्धाद् विशिष्टद्वयस्यैवोत्पत्तेः । न चैवमेवास्तु प्रकृते इति वाच्यम् । उपाध्यपगमे जीवस्य विनाश एव न ब्रह्मैक्यापत्तिर् इत्यापत्तेः । जीवे नष्टे स्वरूपमात्रावशेष एव तथोच्यत इति चेत् । तर्हि ब्रह्मण्येव बन्धमोक्षावङ्गीकृतौ स्यातामित्युक्तदोषापत्तिरिति ।

मन्दारमञ्जरी

ननु महारजनाद्युपाधिर्यदि नामांशानां भेदकः स्यात् तदा ज्ञापकः स्यादपि तेषां पूर्वमेव भिन्नत्वात् । न चैवम् । पटं प्रत्येव भेदकत्वा-दिति मन्दाशङ्कां परिहरति ॥ न च महारजनादिरिति ॥ नन्वेक एव देवदत्तो नानोपाधिसम्बन्धान् नाना व्यवह्रियते । न च व्यवह्रियमाणभेदाभावे व्यवहारभेदः सम्भवति । तस्मादुपाधिर्भेदकारक इति । अत आह ॥ न च दण्डेति ॥

विशिष्टस्य पदार्थान्तरत्वे पूर्वपक्षः

ननु विशेषणविशेष्यतत्सम्बन्धातिरिक्तं न विशिष्टं पश्यामः । तथा हि, तत्किं नित्यं ? अनित्यं वा ? नाद्यः, सर्वदोपलम्भप्रसङ्गात् । विशेषण-विशेष्यसम्बन्धोऽभिव्यञ्जकस् ततो न सर्वदोपलब्धिरिति चेत् स किं सत्तया ज्ञापकः? किं वा ज्ञाततया ? नाद्यः, विशेषणविशेष्यतत्सम्बन्धज्ञानाभावेऽपि विशिष्टधीप्रसङ्गात् । न द्वितीयः । सम्बन्धविशेषणविशेष्यज्ञानादेव विशिष्ट-व्यवहारोपपत्तौ तज्ज्ञाप्यविशिष्टविषयकज्ञानात् तद्व्यवहारकल्पने गौरवात् । नाप्यनित्यमिति द्वितीयः । समवायिकारणाभावात् । तथा हि, न तावद् विशेषणविशेष्याभ्यामन्यत् समवायिकारणं सम्भाव्यते । विशेषणविशेष्ययोरपि न प्रत्येकमुपादानत्वम् । एकस्य द्रव्योपादानत्वायोगात् । मिलितयोश्चे-दुपादानत्वं, तदा ‘रूपी घटः’ इत्यत्र रूपी नाम विशिष्टो रूपारब्धो घटारब्धश्चेत्युररीकरणीयम् । तच्चायुक्तम् । गुणस्य समवायिकारणस्याभावात् । द्रव्यगुणारब्धस्य तदुभयात्मकत्वापत्त्या द्रव्यत्वगुणत्वयोः साङ्कर्यप्रसङ्गाच्च । अपि च यावन्ति विशेषणानि तावन्ति विशिष्टान्यङ्गीकरणीयानि । तानि चैकस्मिन्नेव विशेष्ये वर्तन्त इति मूर्तानां सामानाधिकरण्यं प्रसज्येतेति कथं विशिष्टद्वयस्यैवोत्पत्तेर् इत्युक्तम् ? इति ।

विशिष्टस्य पदार्थान्तरत्वसमर्थनम्

अत्रोच्यते,

दण्डीत्यादिव्यवहृतेर्मूलभूता विशिष्टधीः ।

विभिन्नं पुरुषादिभ्यो विशिष्टमवलम्बते ॥

दण्डीत्यादिविशिष्टव्यवहारनिमित्तं विशिष्टज्ञानं तावदङ्गीकार्यम् । विशिष्ट-ज्ञानं विना विशिष्टव्यवहारानुदयात् । यच्च विशिष्टज्ञानालम्बनं तदेव विशिष्टं नाम । आलम्बनान्तरानिरूपणात् । तथा हि, दण्डीत्यादिविशिष्टप्रत्यये किं विशेषणविशेष्यौ विषयौ ? किं वा अगृहीतासंसर्गौ तावेव ? यद्वा विशेषण-विशेष्यतत्सम्बन्धाः? अदण्डिव्यावृत्तं देवदत्तस्वरूपमात्रं वा ? आद्येऽपि किं प्रत्येकं तयोर्विषयत्वं ? किं वा मिलितयोः ? नाद्यः, दण्डदेवदत्ताद्येकैक-ज्ञानेनापि विशिष्टव्यवहारप्रसङ्गात् । न द्वितीयः, ‘इमौ दण्डदेवदत्तौ’ इति गृहीतासंसर्गेण विशेषणविशेष्यविषयकसमूहालम्बनज्ञानेनापि विशिष्टव्यवहार-प्रसङ्गात् । नापि द्वितीयः, ‘इमौ दण्डदेवदत्तौ’ इति समूहालम्बनज्ञानेनापि विशिष्टव्यवहारप्रसङ्गात् । तत्रासंसर्गे विद्यमानेऽपि तद्ग्रहनियमाभावेन तस्यागृहीतासंसर्गकविशेषणविशेष्यविषयकत्वात् । नह्यसंसृष्टयोर्दण्डदेवदत्तयोः स्वरूपज्ञाने असंसर्गग्रहोऽपेक्ष्यते । नापि तृतीयः, दण्डदेवदत्ततत्सम्बन्धाः’ इति समूहालम्बनज्ञानात् ‘दण्डी’ इति विशिष्टज्ञानस्य वैलक्षण्याभावप्रसङ्गात् । विषयभेदाभावात् । विषयभेदं विना ज्ञानयोर्वैलक्षण्यायोगाच्चेति । चतुर्थेऽपि अदण्डिव्यावृत्तिः ‘दण्डी’ इति विशिष्टज्ञाने प्रतीयते न वा ? न चेत् ‘दण्डी देवदत्तः’‘देवदत्तोऽयं’ इति ज्ञानद्वयस्य वैलक्षण्यं न स्यात् । विषयभेदस्या-निरूपितत्वात् । प्रतीयते चेत् सा किं स्वरूपेण प्रतीयते ? किं वा देवदत्तादि विशिष्टाकारेण । नाद्यः, व्यावृत्तेरन्योन्याभावरूपाया निरधिकरणायाः प्रत्येतु-मशक्यत्वात् । अधिकरणान्तरस्य अप्रस्तुतत्वाच्च । द्वितीये यथा दण्डवैशिष्ट्यं नाम अदण्डिव्यावृत्तिमात्रं तथा व्यावृत्तिवैशिष्ट्यमपि अव्यावृत्तव्यावृत्ति-मात्रम् ? किं वा पदार्थान्तरं ? द्वितीये सिद्धं नः समीहितम् । प्रथमे साऽपि अव्यावृत्तव्यावृत्तिर्विशिष्टज्ञाने प्रतीयते न वा ? न चेदुक्तदोषः । प्रतीयते चेत् सा किं स्वरूपेण ? किं वा देवदत्तादिविशिष्टत्वाकारेण ? इत्यादिप्रश्नापर्यव-सानाद् अनवस्था स्यात् ।

विशिष्टस्य पदार्थान्तरत्वे प्रमाणोपन्यासः

तर्कितेऽर्थे प्रमाणं च ‘दण्डी देवदत्तः’ इति विशिष्टव्यवहारः दण्डदेवदत्त-तत्सम्बन्धातिरिक्तविषयकव्यवहर्तृसमवेतविशेषज्ञानजन्यः विशिष्टव्यवहारत्वात् कुण्डलीतिव्यवहारवत्, दण्डीति व्यवहारो दण्डदेवदत्ततत्सम्बन्धातिरिक्त-विषयकव्यवहर्तृसमवेतविशेषज्ञानजन्यः सत्यपि तज्ज्ञाने कदाप्यनुत्पद्यमानत्वात् संमतवत् । ईश्वरज्ञानेनार्थान्तरतां परिहर्तुं व्यवहर्तृसमवेतेत्युक्तम् । न च द्वितीयानुमाने असिद्धिः । ‘दण्डदेवदत्ततत्सम्बन्धाः’ इति समूहालम्बने सञ्जातेऽपि ‘दण्डी’ इति विशिष्टज्ञानं विना तद्व्यवहाराभावात् । समूहा-लम्बनज्ञानस्य निर्विकल्पकतुल्यत्वेन विशिष्टव्यवहाराजनकत्वस्य त्वयाप्यङ्गी-कारात् ।

विशिष्टस्य पदार्थान्तरत्वे परोक्ताक्षेपनिरासः

यदप्युक्तं तत्किं नित्यमनित्यं वेत्यादि । तत्र ब्रूमः । यत्र विशेषणविशेष्यौ नित्यौ तत्र विशिष्टो नित्य एव । यत्र तावनित्यौ तत्रानित्य इति । तत्रानित्येषु विशिष्टेषु तद्विशेषणान्युपादानानि न विशेष्यमपि । येन मूर्तानां सामानाधि-करण्यप्रसङ्गः । येन च द्रव्यगुणद्वयारब्धे कार्ये जातिसाङ्कर्यप्रसङ्गः । विशेष्य-सन्निधानं तु निमित्तमेव । एकस्योपादानत्वं कथम् ? इति चेन्न । एकेनैव दीर्घतन्तुना पटारम्भदर्शनात् । एकस्य गुणोपादानत्ववद् द्रव्योपादानत्व-स्याप्युपपत्तेश्च । एकस्योपादानत्वे अवयवसंयोगलक्षणासमवायिकारणाभावात् कथं कार्योत्पत्तिः? इति चेन्न । कार्यस्य असमवायिकारणजन्यत्वनियमस्य अस्माभिरनङ्गीकारात् । अङ्गीकारे वा विशेषणविशेष्यसंयोगस्यैवा-समवायिकारणत्वोपपत्तेश्च । न च रूपस्य गुणत्वाद् द्रव्यारम्भकत्वानुपपत्तिः । ‘गुणत्वम् आरम्भकत्वसमानाधिकरणं सत्तासाक्षाद्व्याप्यजातित्वाद् द्रव्यत्ववत्’ इत्यनुमानेन तत्साधनात् । रूपादेरपि ‘एकं रूपं’ इत्यबाधितप्रतीतेः सङ्ख्या-रम्भकत्वप्रतीतेश्च । अथ वा विशेषणविशेष्ययोरुभयोरुपादानत्वमस्तु । न च मूर्तानां सामानाधिकरण्यानुपपत्तिः । परमाणुप्रदेशेऽपि मूर्तानन्तजीवावस्थानवद् ईश्वरशक्त्या अस्याप्युपपत्तेः । एकस्मिन्नेव तन्तौ द्वितन्तुकादिमहापटपर्यन्ता-वयविपरम्परायास्त्वयाप्यङ्गीकाराच्च । विशिष्टस्य मया द्रव्यत्वानङ्गीकाराच्च । न च जातिसाङ्कर्यप्रसङ्गः । द्रव्येणोपादानेन गुणत्वप्रतिबन्धाद् गुणेनोपादानेन च द्रव्यत्वप्रतिबन्धात् तदुभयारब्धस्य द्रव्यगुणानन्तर्भाविनः पदार्थान्तरत्वाङ्गी-कारात् । ननु यदा विशेष्यमपि विशिष्टोपादानं तदा तत्वविवेकग्रन्थे ‘कार्य-कारणयोश्च’ इत्युक्त्या कथं पुनराचार्यो ‘विशिष्टशुद्धयोः’ इति पृथग्विशेष्य-विशिष्टयोर्ग्रहणमकरोदिति चेद् गोबलीवर्दन्यायेनेत्यवेहि । यद्यपि विशिष्ट-विशेष्ययोरभेदस् तथापि भेदस्याप्यङ्गीकारात् सत्येव विशेष्ये विशिष्टोत्पत्ति-रुपपद्यत एव । तदेतदाह ॥ विशिष्टद्वयस्योत्पत्तेरिति ॥ तर्हीति ॥ श्रवणादिजन्यज्ञानवत एव मोक्षान्वयाद् बन्धमोक्षयोः सामानाधिकरण्य-निर्बन्धादिति भावः।

श्रीनिवासतीर्थीयटिप्पणी

ननु न महारजनाद्युपाधिः पटावयवस्य भेदकोऽङ्गीक्रियते । येन तदवयवस्य प्राक् सिद्धत्वेनोपाधिर्विद्यमानस्य भेदस्य ज्ञापक एव दृष्टपूर्वो न तु कारक इत्युक्तं युक्तं स्यात् । न चैवम् । किं नाम पटरूपावयविन एव भेदकोऽङ्गीक्रियते । तथा च प्रागविद्यमानस्य भेदस्य कारक एवोपाधिरित्या-शङ्क्य निषेधति ॥ न चेति ।

नन्वेक एव देवदत्तो दण्डकुण्डलरूपनानोपाधिसम्बन्धाद्दण्डी कुण्डलीत्येवं नानाप्रकारेण तावद्व्यवह्रियते । न च व्यवह्रियमाणे वस्तुनि भेदाभावे व्यवहारभेदः सम्भवति । तस्माद्दण्डाद्युपाधिर्देवदत्तभेदकारक एवाङ्गीकर्तव्य इत्याशंक्य निषेधति ॥ न च दण्डेति ॥ अप्रतीतेरिति । अन्यथा देवदत्ते भेदसद्भावे द्वौ देवदत्ताविति प्रतीतिप्रसङ्गादिति भावः । ननु दण्डकुण्डलरूपो-पाधिभ्यां यदि देवदत्ते भेदो न जायते तर्हि दण्डाद्युपाधिना किं जायते अन्यथा तद्वैयर्थ्यं स्यादिति चेत्तत्राह ॥ दण्डकुण्डलसम्बन्धादिति । एकस्मिन्नेव देवदत्ते दण्डरूपोपाधिसम्बन्धाद्दण्डवैशिष्ट्यं जायते । कुण्डल-रूपोपाधिसम्बन्धात्कुण्डलवैशिष्ट्यमिति विशिष्टद्वयमेव जायते । न तु देवदत्त-स्वरूप एव भेद इत्यर्थः ॥ एवमेवेति । अन्तःकरणादिरूपोपाधिसम्बन्धा-ज्जीवरूपं दुःखाज्ञानादिभिर्विशिष्टमुत्पद्यत इत्यर्थः ॥ विनाश एवेति । यथा दण्डाद्युपाध्यपगमे तद्विशिष्टस्यैव नाशो दृष्ट एवमेवेत्यर्थः । शङ्कते ॥ जीव इति । दुःखादिविशिष्टरूपे नष्टे सतीत्यर्थः ॥ स्वरूपमात्रेति । विशेष्य-मात्रेत्यर्थः ॥ तथोच्यत इति । ब्रह्मैक्यापत्तिरित्युच्यत इत्यर्थः । तर्हीति । यथा देवदत्तरूपे विशेष्यमात्रे दण्डाद्युपाधिसम्बन्धेन विशिष्टाख्यपदार्थान्तरो-त्पादस्तदपगमे तन्नाशश्च भवति । एवमेव विशेष्यभूते चिन्मात्र एवान्तः-करणाद्युपाधिसम्बन्धेन तत्कार्याज्ञानदुःखादिरूपबन्धप्राप्त्या श्रवणादिसाध्या-परोक्षज्ञानेनोपाध्यपगमेऽज्ञानादिरूपबन्धध्वंसस्यापि तत्र तत्राङ्गीकारप्रसङ्गः । बन्धमोक्षयोः सामानाधिकरण्यनियमादिति भावः । नन्वङ्गीक्रियेत ब्रह्मण एव बन्धमोक्षौ को दोष इत्यत आह ॥ उक्तदोषेति । अज्ञानरूपबन्धाङ्गीकारे ‘‘अज्ञताखिलसंवेत्तुर्घटते न कुतश्चने’’त्युक्तदोषापत्तिरित्यर्थः । दुःखरूप-बन्धाङ्गीकारे च आनन्दादिरूपस्य दुःखादिकमपि न घटत इत्यपि द्रष्टव्यम् ।

परशुनाम्नीटिप्पणी

ननु ‘पटावयवजन्यः पटात्मा भेदो ऽन्यः, स च पटेतर-प्रतियोगिकः; महारजनजन्यस्तु अपरः महारजनाश्रयधर्मिकः, तत्प्रति योगिकश्च’ इत्याशङ्क्य निषेधति न चेति ।

न च दण्डेति । ‘मा भून् महारजनोपाधिर् भेदकः, दण्डकुण्डले उपाधी भेदजनके भवतः । कुण्डलसम्बन्धावस्थायां ज्ञातिमरणजन्यदोषलिप्तस्यापि देवदत्तस्य दण्डित्वे तल्लेपाभावदर्शनात्, तयोरैक्ये वैरूप्यं न स्यात्’ इति पूर्वपक्ष्याशयः । देवदत्तभेदस्य अप्रतीतेरिति । देवदत्तभेदाभावेऽपि आश्रय-भेदाद् वैरूप्यमुपपन्नमिति न तदन्यथाऽनुपपत्त्या अप्रतीयमानो भेदः कल्प्यत इति भावः । तर्हि ‘दण्डकुण्डलसम्बन्धः न कस्याप्यर्थस्य कारकः स्यात्, इति एक एव देवदत्तस् ताभ्यां भिद्यते’ इति वाच्यम्; इत्यत आह दण्डकुण्डलेति । अनुभवबलेन ताभ्यां विशिष्टद्वयोत्पत्तिरेव अङ्गीकर्तव्या, न भेदोत्पत्तिरङ्गीकार्या इति भावः ।

आकाशे औपाधिकभेदशङ्कानिरासः

टीका

नन्वेकस्मिन्नेवाकाशे घटमठाद्युपाधिभिर्भेदः क्रियमाणो दृश्यत एव । नेत्याह–

मूलम्

…खेऽपि देशान्तरस्य सः ॥ ४ ॥

ज्ञापको विद्यमानस्य… ।

यदा आकाशे भेदो नास्तीति सिद्धान्तस् तदा अन्तरशब्दो विशेषवचनः । ततश्च ‘खेऽपि प्रागेव विद्यमानस्य देशविशेषस्य ज्ञापक एव स उपाधिरङ्गीक्रियते न तु भेदस्य कारकः’ इति नायं दृष्टान्त इत्यर्थः । यदा तु घटमठाद्याकाशभेदाभ्युपगमस् तदा खेऽपि घटाद्युपाधिः प्राग्विद्यमानस्यैव देशान्तरस्य देशभेदस्य ज्ञापक एव न तु कारक इति योज्यम् ।

मन्दारमञ्जरी

सिद्धान्ते आकाशांशानां देशविशेषाणां यावद्द्रव्यभावित्वाद् अत्यन्ताभेदस्याङ्गीकाराद् भेदवाच्यन्तरशब्दप्रयोगो नोपपद्यत इत्यत आह ॥ यदेति ॥ परेणौपाधिकभेदेऽङ्गीक्रियते । तं प्रति स्वाभाविकभेदमङ्गीकारय-तीत्याह ॥ यदा तु घटेति ॥ किं घटाकाशमहाकाशयोर्भेद उपाधिकृत इत्युच्यते ? किं वा घटाकाशमठाकाशयोः ? आद्योत्तरत्वेन कारिकाखण्डं व्याचष्टे ॥ यदेति ॥ द्वितीयोत्तरत्वेन तदेव खण्डं व्याचष्टे ॥ यदा त्विति ॥ उपाधे कारकत्वे उपाध्यपेक्षैव न स्यात् । भेदस्य स्वरूपत्वेनोपाधेरुप-योगानिरूपणात् ।

श्रीनिवासतीर्थीयटिप्पणी

दृश्यत एवेत्यनन्तरमिति शङ्कायामिति शेषः ॥ यदाकाश इति । अव्याकृताकाश इत्यर्थः ॥ भेदो नास्तीति । अंशांशिनोरंशानां चांशिनां च परस्परं चात्यन्ताभेदाङ्गीकारादित्यर्थः । खेऽपि अव्याकृताकाशेऽपि । देशान्तरस्येत्यस्यार्थो देशविशेषस्येति । अयम् अव्याकृताकाशः ॥ घटमठादीति । भूताकाशे घटमठाद्यवच्छिन्नाकाशेन भेदाभ्युपगम इत्यर्थः । खेऽपि भूता-काशेऽपि ॥

परशुनाम्नीटिप्पणी

नन्वेकस्मिन्नाकाश इति । एतद्दृष्टान्तेन अन्तःकरणा-द्युधिरपि भेदस्य कारको ऽभ्युपगन्तव्य इति भावः । ‘आकाशो द्विविधो ऽव्याकृताकाशो भूताकाशश्चेति । अव्याकृताकाशे नास्त्येव भेदः । भूताकाशे तु अस्ति भेदः, किन्तु न उपाधिकृतः’ इति सिद्धान्तमालोच्य, आकाशशब्देन अव्याकृताकाशग्रहणपक्षे मूलं योजयितुम् ‘अन्तर’ शब्दार्थमाह यदाऽऽकाश इति । यदातदाशब्दौ यस्मात्तस्मादित्यर्थौ । यस्माद् अव्याकृताकाशे भेदो नास्ति’ इति सिद्धान्तस् तस्मात् ‘अन्तर’ शब्दो भेदप्रतिनिधिविशेषवचन इत्यर्थः । न तु भेदस्य कारक इतीति । भेद एव नास्ति, कस्योपाधिर्कारकः स्याद् इति भावः । एतेन ‘‘ ‘भेदस्य कारकः’ इति शङ्कायां मूलकृता ‘न कारकः’ इत्येव वक्तव्यम्, न तु ‘विशेषस्य ज्ञापकः’ इति, असङ्गतत्वात्’’ इति परास्तम् ‘भेद एव नास्ति, कुतः कारकः’ इत्यत्र तात्पर्याङ्गीकारात् । ‘आकाश’ शब्देन भूताकाशग्रहणपक्षे मूलं योजयति यदा तु घटमठेति ।

भेदस्य वस्तुस्वरूपत्ववादिसिद्धान्तिमते उपाधेर्ज्ञापकत्वानुपपत्तिनिरासः

टीका

ननु भेदो नाम वस्तुस्वरूपमेव स तद्दर्शनेनैव दृश्यः। न चोपाधेः स्वरूपदर्शने उपयोगोऽस्ति । तत्कथमुच्यते उपाधि-र्भेदस्य ज्ञापक इति ? तत्राह–

मूलम्

……… मूढबुद्धिव्यपेक्षया ।

अस्ति भेदस्य वस्तुस्वरूपत्वं तथापि तद्विशेष इति प्रतिपादित- मन्यत्र । ततो वस्तुप्रतीतावपि भेदाप्रतीतिरभेदप्रतीतिश्च युज्यते । तदा भेदज्ञापने अस्त्येवोपाधेरुपयोग इति ।

मन्दारमञ्जरी

ननु ज्ञापकत्वेऽप्ययं दोषः समः । स्वरूपाभिन्नस्य भेदस्य पूर्वमेव सिद्धेः । अस्माभिर्भेदस्य स्वरूपत्वाङ्गीकारादिति शङ्कते ॥ ननु भेदो नामेति ॥ तवेति शेषः । तर्हि स्वरूपदर्शन एव तदपेक्षाऽस्त्वित्यत आह ॥ न चेति ॥ उपाध्यप्रतीतावपि स्वरूपप्रतीतेरिति भावः । ननु मूढा अप्युपाधिप्रतीतिं विनैव स्वरूपप्रतीतौ स्वरूपाभिन्नं भेदं प्रतिपद्यन्त एव । अतः कथं तदपेक्षया-प्युपाध्युपयोगः? इति तत्राह ॥ अस्तीति ॥

श्रीनिवासतीर्थीयटिप्पणी

भेदो नामेति । भेदो नामान्योन्याभावः स च भवन्मते वस्तुस्वरूपमेवेत्यर्थः । स भेदः । तद्दर्शनेनैव वस्तुदर्शनेनैव । ननु तर्हि वस्तु-स्वरूपदर्शन एवोपाध्यपेक्षाऽस्त्वित्यत आह ॥ न चेति । उपाध्यप्रतीतावपि स्वरूपप्रतीतेरिति भावः। कथमनेनोक्तशंकापरिहार इत्यतस्तदुपपादयति ॥ अस्तीत्यादिना ॥ तद्विशेष इतीति । धर्मिणा न निर्विशेषात्यन्ताभिन्नः । किन्तु सविशेषात्यन्ताभिन्न इत्यर्थः ॥ तत इति । धर्मिणा सविशेषाभेदाङ्गी-काराद्विशेषस्य च भेदकार्यकारित्वादित्यर्थः ॥ अभेदप्रतीतिश्चेति । वस्तु-स्वरूपत्वादित्यर्थः ॥ तदेति । मूढानां वस्तुप्रतीतावपि यदा भेदो न प्रतीयते तदेत्यर्थः ॥ भेदज्ञापन इति । अनेन मूढबुद्धिव्यपेक्षया खेऽपि देशान्तरस्य भेदस्य स उपाधिर्ज्ञापक इत्यन्वयो द्रष्टव्य इति सूचितं भवति । ज्ञानिनां तु वस्तुप्रतीतेरेव भेदप्रतीतित्वेन न तान्प्रत्युपाधिर्भेदज्ञापनोपयुक्त इत्याशयेन मूढबुद्धिव्यपेक्षयेत्युक्तमिति ज्ञातव्यम् ॥

परशुनाम्नीटिप्पणी

युज्यत इति । ‘मूढबुद्धीनाम्’ इति शेषः ।

टीका

नन्वाकाशे विद्यमानस्यैव भेदस्योपाधिर्ज्ञापक इति कस्माद् अङ्गीकार्यम्? अविद्यमानस्योत्पादक एव कस्मान्नाङ्गी-क्रियते ? इति । तत्राह–

मूलम्

न चेदुपाधिसम्बन्ध एकदेशेऽथ सर्वगः ॥ ५ ॥

यद्युपाधिर्विद्यमानस्यैव भेदस्य ज्ञापक इति नेष्यते । किन्तु ? अविद्यमानस्यैव कारक इत्यङ्गीक्रियते । तदैवं वक्तव्यं, किं घटा-द्युपाधिराकाशसम्बन्धी तद्भेदं करोति उतासम्बद्धः । द्वितीयेऽति-प्रसङ्गः । आद्येऽपि वाच्यं, स उपाधिसम्बन्ध आकाशस्यैकदेशे वर्तते उत सर्वाकाश इति । आद्ये दोषमाह–

एकदेशगतस्योपाधेर्भेदकारकत्वे अनवस्थात्माश्रयदोषौ

मूलम्

एकदेशेऽनवस्था स्यात्… ।

टीका

‘चेदुपाधिसम्बन्ध इति’ वर्तते । यदि घटाद्युपाधि-सम्बन्धो गगनैकदेशवर्तीत्युच्यते तदा तस्याप्याकाशैकदेशस्य औपाधिकत्वं वक्तव्यम् । सोऽप्युपाधिरुपाध्यन्तरकृतैकदेशे सम्बद्ध्य भेदक इत्यनवस्था । उपाध्यन्तरानङ्गीकृतावात्माश्रयः स्यात् । द्वितीयं दूषयति

उपाधेः सर्वगतत्वे भेदकत्वानुपपत्तिदोषः

मूलम्

…सर्वगश्चेन्न भेदकः ।

यद्युपाधिसम्बन्धः सर्वाकाशगतः स्यात् तदासौ नाकाशभेदस्य कारकः स्यात् । कृत्स्नस्यैकोपाधिनैव ग्रस्तत्वात् । इदमुक्तं भवति । असम्बद्धस्योपाधेरवच्छेदकत्वे काश्मीरस्थेन महारजनेन केरलवर्तिनो वाससोऽवच्छेदप्रसङ्गात् सम्बद्ध एवोपाधिर्भेदक इति वक्तव्यम् । घटाकाशसंयोगश्च आकाशे व्याप्यवृत्तिश्चेत् सर्वा-काशस्य घटाकाशत्वाद् आकाशभेदहेतुर्न स्यादिति प्रदेशवृत्ति-रित्यङ्गीकार्यम् । तस्य च प्रदेशस्योपाधिकृतत्वे अनवस्थादि-प्रसङ्गात् स्वाभाविकत्वमेवेष्टव्यम् । तथा च प्राक्सिद्धस्य आकाशभेदस्य उपाधिना कर्तुमशक्यत्वाद् उपाधिर्विद्यमानस्यैव भेदस्य ज्ञापको विज्ञायत इति ।

मन्दारमञ्जरी

ननु असम्बद्धस्यैवोपाधेर्भेदकत्वमङ्गीक्रियते । न चातिप्रसङ्गः । भेदप्रतीतेस्तत्प्रतीत्यधीनत्वस्यैव नियामकत्वात् । ततश्च ‘एकदेशोऽथ सर्वगः’ इति विकल्पोऽनवसरपराहत इत्याशङ्क्याह ॥ यद्युपाधिरित्यादिना ॥ न चेदित्यस्यार्थं विवृण्वन् तात्पर्यमाह ॥ तदैवमित्यादिना ॥ असम्बन्धे भेदप्रतीतेस्तत्प्रतीत्यधीनत्वमेव न स्यादिति भावः । नन्वसम्बन्धेऽपि अन्वय-व्यतिरेकबलादुपाधेर्भेदकत्वमिति नातिप्रसङ्ग इत्याशङ्क्याभिप्रायमाह ॥ इदमुक्तं भवतीत्यारभ्य विज्ञायत इत्यन्तेन ग्रन्थेन ॥ विद्यमानभेदज्ञापनमात्रेण उपाध्यन्वयव्यतिरेकयोश्चरितार्थत्वादिति भावः ।

श्रीनिवासतीर्थीयटिप्पणी

आकाशसम्बन्धीति । आकाशेन सम्बद्धः सन्नाकाशभेदं करोतीत्यर्थः । अतिप्रसङ्ग इत्युक्तातिप्रसङ्गविवरणं स्वयमेव करिष्यति ॥ उपाध्यन्तरानङ्गीकृताविति । स्वकृतैकदेश एव स्वयं सम्बध्य इत्यङ्गीकृता-वित्यर्थः । कृत्स्नस्य सर्वस्याप्याकाशस्य । द्वितीयेऽतिप्रसङ्ग इत्युक्तातिप्रसङ्गं विवृणोति ॥ असम्बद्धस्येति । अवच्छेदकत्वे भेदकत्वे । काश्मीरकेरलौ देशविशेषौ । अवच्छेदो भेदः । प्रदेशवृत्तिर् एकदेशवृत्तिः ॥ अनव-स्थादीति । सोऽप्युपाधिरुपाध्यंतरकृतैकदेशे वर्तत इत्यङ्गीकृतावनवस्थेत्यर्थः । उपाध्यन्तरानङ्गीकृतावात्माश्रय आदिपदेन ग्राह्यः ॥ प्राक् सिद्धस्येति । स्वाभाविकत्वेनोपाधिसम्बन्धात्प्रागपि सिद्धस्येत्यर्थः ।

नैयायिकमतेन उपाधेरंशवृत्तित्वाभावशङ्का तन्निरासश्च

टीका

प्रदेशवृत्तित्वं नाम स्वात्यन्ताभावसमानाधिकरणत्व- मिति चेन्न । तस्य विरुद्धत्वात् ।

मन्दारमञ्जरी

ननु प्रदेशवृत्तित्वं नाम नांशवृत्तित्वम् । किं तर्हि ? अन्यदेवेति तटस्थो नैयायिकः शङ्कते ॥ प्रदेशवृत्तित्वं नामेति ॥ भावाभावयोः स्वाभाविकविरोधान्नैतद्युज्यत इत्याह ॥ नेति ॥

अत्यन्ताभावान्योन्याभावयोः स्वप्रतियोगिसामानाधिकरण्याभावः

ननु ‘अत्यन्ताभावोऽपि प्रतियोगिसमानाधिकरणो ऽभावत्वात् प्राग-भाववत्’ इति चेन् मैवम् । भावाभावयोर्विरोधपरिहारो द्वेधा भवति कालभेदेन वा देशभेदेन वेति । प्रागभावप्रध्वंसाभावयोस्तु कालभेदेन विरोधपरिहारात् प्रतियोगिसामानाधिकरण्याङ्गीकारेऽपि न कश्चिद्विरोधः । अत्यन्ताभावस्य तु नित्यत्वात् कालभेदेन विरोधपरिहारासम्भवेन देशभेदेनैव विरोधः परिहरणीय इति कथं सामानाधिकरण्यं ? अथ नित्योऽप्यन्योन्याभावः प्रतियोगि-समानाधिकरणो दृश्यते । घटवत्येव भूतले घटान्योन्याभावानुभवात् । अतः कथं विरोधपरिहारस्तत्र ? इति चेदित्थम् । अभावो हि प्रतियोगिता-वच्छेदकावच्छिन्नेन प्रतियोगिना विरुद्ध्यते न पुनः प्रतियोगिमात्रेण । अन्यथा अदण्डिनि पुरुषे विद्यमान एव ‘दण्डी पुरुषो न’ इति निषेधो न स्यात् । तत्र प्रतियोगितावच्छेदकदण्डावच्छिन्नस्य पुरुषस्यासत्त्वेऽपि प्रतियोगिमात्रस्य पुरुषस्य सत्वात् । एवं चान्योन्याभावोऽपि यद्यपि प्रतियोगिमात्रसमानाधि-करणस् तथापि प्रतियोगितावच्छेदकतादात्म्यावच्छिन्नेन प्रतियोगिना न समानाधिकरणः । ‘न हि भूतले घटो भूतलात्मना वर्तते’ इति नान्योन्या-भावोऽपि प्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिसमानाधिकरणः । तथा च प्रयोगः ‘अत्यन्ताभावः प्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिसमानाधिकरणत्वे सति तादृक्प्रतियोगिसमानकालीनो न अभावत्वात् संमतवत्’ तदेतदाह ॥ तस्य विरुद्धत्वादिति ॥ तस्येति ॥ भावाभावयोः सामानाधिकरण्यस्येत्यर्थः ।

अंशभेदेन अत्यन्ताभावस्य स्वप्रतियोगिसामानाधिकरण्यशङ्कापरिहारौ

नन्वत्यन्ताभावेऽप्यंशभेदेन विरोधपरिहारोऽस्तु । हस्तपादाद्यवच्छेदक भेदेन पुस्तकसंयोगतदत्यन्ताभावयोर्दर्शनादिति चेन्न । तत्रांशभेदवद् गगनेंऽश-भेदाभावात् ।

श्रीनिवासतीर्थीयटिप्पणी

ननु प्रदेशवृत्तित्वं नाम नांशवृत्तित्वम् । येन तस्यौपाधिकत्वे अनवस्थाप्रसङ्गात् स्वाभाविकत्वमङ्गीकर्तव्यं स्यात् । किं नामान्यदेव इति तटस्थो नैयायिकः शङ्कते ॥ प्रदेशवृत्तित्वं नामेति ॥ तस्य विरुद्धत्वादिति । भावभावयोः सामानाधिकरण्यस्य विरुद्धत्वादिति भावः ॥

प्रतीतिबलादत्यन्ताभावस्य स्वप्रतियोगि सामानाधिकरण्यशङ्कापरिहारौ

टीका

प्रतीतत्वादविरोध इति चेन्न । आकाशभेदवादिनं प्रति प्रतीत्यसिद्धेरिति ।

मन्दारमञ्जरी

नन्वथापि प्रतीतिबलात् संयोगतदत्यन्ताभावयोः सामानाधि-करण्यमस्तु । प्रमाणेनैव विरोधपरिहारादिति शङ्कते ॥ प्रतीतत्वादिति ॥ न प्रतीतिमात्रं व्यवस्थापकम् अतिप्रसङ्गात् । किं तर्हि ? प्रमारूपा प्रतीतिः । प्रामाण्यं च विरोधे परिहृते, विरुद्धार्थग्राहकयोर् अन्यतराप्रामाण्यस्य अवश्यम्भावात् । विरोधपरिहारश्च प्रमाणबलादित्यन्योन्याश्रयः । तस्माद् युक्त्या विरोधं परिहृत्य पश्चात् प्रतीतेः प्रामाण्यं विज्ञेयम् । तच्चात्र नास्तीति नैतद्युक्तमिति परिहारे स्थितेऽपि परिहारान्तरमाह ॥ न आकाशेति ॥ आकाशांशानामन्योन्यभेदवादिनं प्रतीत्यर्थः । वैयधिकरण्येनैव प्रतीतिनिर्वाहे न सामानाधिकरण्यकल्पकं किञ्चिदस्तीति भावः ।

आकाशांशानामन्योन्यभेदाङ्गीकारे आकाशस्य अनित्यत्वशङ्कापरिहारौ

एवं चेदाकाशस्य सावयवत्वेनानित्यत्वं स्यादिति चेन्न । सांशत्वेऽपि सावयवत्वाभावेन आपादकासिद्धेः । व्याहतमेतदिति चेत् । किमंशा एवोपादानापरपर्यायावयवा इत्यभिमानः ? किं वा तद्व्याप्ता ? इति ।

अवयवातिरिक्तांशसमर्थनं

नाद्यः । पटावयवतन्त्वतिरिक्तानां हस्तवितस्त्याद्यवच्छेद्यानामंशानामनु-भवात् । तथा हि, न तावत्पटस्तदवच्छेद्यः । तस्य ततोऽप्यधिकपरिमाण-त्वात् । अनेकहस्तावच्छेद्ये एकहस्तावच्छेद्यत्वं सुतरां सम्भवतीति चेत् तर्हि परममहतो मध्यमपरिमाणत्वं मध्यमपरिमाणस्याणुत्वमापद्येतेति साधु समर्थितं तार्किकमतम् । स्वरूपेणाधिकपरिमाणस्यापि खण्डपटावच्छिन्नस्य अल्प-परिमाणत्वं च भविष्यतीति चेन्न । अनुपदमेव निराकरिष्यमाणत्वात् । किं चैवमनेकत्वसङ्ख्ययैव एक इति व्यवहारनिर्वाहे एकत्वमप्रामाणिकमापद्येत । परिमाणभेदेन द्रव्यभेदावश्यम्भावेन एकस्मिन् परिमाणद्वयायोगाच्च । नापि तन्तवस्तदवच्छेद्यास् तेषां ततोऽप्यल्पपरिमाणत्वात् । खण्डपटास्तदवच्छेद्या इति चेत् किमनारभ्यारम्भवादोऽङ्गीक्रियते ? किं वा आरभ्यारम्भवादः? आद्ये तन्तुमहापटातिरेकेण आन्तरालिककार्यमेव नाङ्गीक्रियते ? उत अङ्गीकृत्यापि तस्य पटारम्भकत्वं नाङ्गीक्रियते ? आद्येऽपि किं तन्नोत्पद्यते ? उत उत्पन्नमपि महापटस्य स्वप्रतिबन्धकत्वात् तदवस्थानसमये स्वयं नश्यति ? इति । उभयथापि महापटावस्थानसमये कथं खण्डपटावकाशः । द्वितीये त्विष्टापत्तिः ।

आरभ्यारम्भवादेऽपि किं खण्डपटा महापटोपादानभूताः ? उत न ? न चेत् सिद्धं नः समीहितम् । उपादानातिरिक्तांशानां त्वयैवोपपादनात् । प्रथमेऽपि किं त एव पटस्योपादानानि ? किं वा तन्तवोऽपि ? नाद्यः, ‘इह तन्तुषु पटसमवायः’ इति प्रतीत्यभावप्रसङ्गात् । तन्तूनामनुपादानत्वात् । परम्परयोपादानत्वेन तथा प्रतीतौ ‘त्र्यणुके पटः’ इति प्रतीयेत । द्वितीये खण्डपटा अपि तन्त्वारब्धा इति वक्तव्यम् । आरम्भकान्तराभावात् । न च तद्युक्तम् । तन्त्वारभ्यपटारम्भकाणां तेषां तन्तुवत् तन्तूपादेयत्वायोगात् । पटारम्भकतन्त्वारब्धस्य पटवत् पटोपादानत्वायोगाच्च ।

एकद्रव्यारम्भकस्य द्रव्यान्तरानारम्भकत्वनियमभङ्गः

ननु त्वत्पक्षेऽप्यंशास्तन्तूपादेया इति वक्तव्यम् । गत्यन्तराभावात् । तथा च अन्यद्रव्यारम्भकस्य अन्यद्रव्यारम्भकत्वमन्यत्रादृष्टमापद्येतेति चेन्न । स्वारब्धपटनाशे तेषामेव तन्तूनां पटान्तरारम्भकत्वदर्शनात् । युगपदेव नास्तीति चेन्न । अत्राप्यंशारम्भानन्तरमंश्यारम्भाङ्गीकारेण तदभावात् । तथापि तन्तुष्वेवांशांशिनोरवस्थानान् मूर्तानां सामानाधिकरण्यं प्रसज्यत इति चेन्न । पटतदवयवयोरेकस्मिन्नेव भूतले वृत्तिदर्शनात् । अवयवावयविभावानापन्नयो-स्तथाभावो नास्तीति चेन्न । आलोकमण्डलव्याप्त एव देशे वायुसञ्चार-दर्शनात् । निबिडावयवत्वे सतीति विशेष्यत इति चेन्न । तस्य आपेक्षिकस्य सर्वत्र सम्भवात् । आत्यन्तिकस्य क्षीरादन्यत्रासम्भवात् । पटवत्येव भूतले तदुपरक्तमहारजनवर्तनानुभवाच्च । अंशांशिभावानापन्नयोरेव तथात्वमिति वक्तुं शक्यत्वाच्च । समवायवृत्त्या तथाभावो नास्तीति चेद् अत्रापि तथा वृत्त्या के नामाङ्गीकुर्वते ? । मया समवायस्यैवानङ्गीकारात् । उपादानोपादेययोरभेदेन अन्तत आश्रयाश्रयिभावाभावाच्च । तस्मान्नावयवा एवांशाः ।

अंशा अवयवव्याप्ता इति द्वितीयेऽपि किं यत्रांशास् तत्रावयवा इति व्याप्तिः ? किं वा यदांऽशास्तदा अवयवा इति ? योंऽशी सोऽवयवीति वा ? नाद्यः । मूर्तानां सामानाधिकरण्यविरोधेन त्वयाऽपि तदनङ्गीकारात् । न द्वितीय इष्टापत्तेः । गगने यदा अंशास्तदा द्व्यणुकावयवपरमाणूनामङ्गी-कारात् । न तृतीयः नित्यत्वेन निरवयवेऽपीश्वरे ‘एते स्वांशकलाः पुंसः’ इत्यादावंशस्मरणात् । अपि च ‘आकाशं सावयवं सांशत्वात्’ इति चेदनुमानप्रयोगस् तदा ‘आकाशं सावयवं बाह्येन्द्रियग्राह्यविशेषगुणत्वात्’ इत्यादिभिर् निरंशत्वेऽपि सावयवत्वं किं न स्यात् ? विपक्षे बाधकाभावान्नैतैः सावयवत्वसाधनं युक्तमिति चेत् समः समाधिः ।

अंशानाम् अनित्यत्वनियमभङ्गस्

तथापि सांशत्वे किं ‘अंशानामनित्यत्वादंशिनोऽप्यनित्यत्वं स्यात्’ इति विपक्षे दण्डः? किं वा ‘अंशानामन्योन्यसंयोगस्य अनित्यत्वादंशिनोऽप्य-नित्यत्वं स्यात्’ इति । नाद्यो ऽंशानामपि नित्यत्वाङ्गीकारात् । न च नित्यांशे प्रमाणाभावः, ‘अंशत्वं नित्यनिष्ठं सकलमहदवयव्यनुस्यूतद्रव्यवृत्तित्वाद् अवयवत्ववत्’ इति अनुमानसद्भावात् । कर्मत्वादौ व्यभिचारपरिहाराय द्रव्यग्रहणम् । तावत्युक्ते परस्यासिद्धिः । द्व्यणुकस्यावयवित्वेऽप्यंशाभावाद् अतो महदित्युक्तम् । तावत्युक्ते तन्त्वादौ व्यभिचारः। तत्परिहारार्थं सकलावयव्यनुस्यूतेत्युक्तम् । तन्तूनां पटावयव्यनुस्यूतत्वेऽपि सकलावय-व्यनुस्यूतत्वाभावात्तत्र व्यभिचारपरिहारः । न चासिद्धिसाधनवैकल्ये शङ्क्ये । सर्वेषां महतामवयविनां सांशत्वात् सावयवत्वाच्च ।

संयोगस्यानित्यत्वनियमभङ्गः

नापि द्वितीयः । ‘संयोगत्वं नित्यवृत्ति सम्बन्धमात्रवृत्तिधर्मत्वात् समवायत्ववत्’ इत्यनुमानेन नित्यसंयोगसाधनेनांशानां नित्यसंयोगस्याङ्गी-कारात् । तस्मात् ‘आकाशभेदवादिनं प्रति’ इति साधूक्तम् ।

श्रीनिवासतीर्थीयटिप्पणी

प्रतीतत्वादिति । एकस्मिन्नेवाकाशे इह पक्षी नेह पक्षीति पक्षिसंयोगतदत्यंताभावयोः प्रतीतत्वान्न विरोध इत्यर्थः ॥ आकाशभेदवादिनं प्रतीति । भूताकाशांशानामन्योन्यभेदवादिनं प्रतीत्यर्थः । अंशभेदेन वैयधि-करण्येनैव संयोगतदत्यन्ताभावप्रतीत्योर्निर्वाहान् नैकाधिकरण्यज्ञापकं प्रतीतेः किञ्चिदस्तीति भावः ॥

सत्योपाधिकृतसत्यभेदवादे सुखादिभोगस्य नियतप्रमातृकत्वाभावदोषः

टीका

सत्योपाधिकृतसत्यभेदवादे दोषन्तरं चाह–

मूलम्

सुखदुःखादिभोगश्च स्वरूपैक्ये न भेदतः ॥ ६ ॥

दृश्यो हि… ।

हिशब्दो व्याप्तिसूचनार्थः । भवतु वा आकाशादिभेदः कथञ्चिदौपाधिकः । जीवब्रह्मणोर् जीवानां च भेदस्तु स्वाभाविक एवाङ्गीकार्यः । स्वरूपैक्ये स्वाभाविकैक्ये सुखदुःखादिभोगस्य भेदेन दर्शनं न स्यात् सम्प्रतिपन्नैकात्मवत् ।

मन्दारमञ्जरी

॥ भेदेनेति ॥ भिद्यत इति भेदः । कर्मणि घञ् । इत्थम्भूत-लक्षणे तृतीया । आश्रयविशेषणं चैतत् । भिन्नेनाश्रयेणोपलक्षितस्य दर्शनं न स्यादित्यर्थः । नियतप्रमातृत्वं न स्यादिति यावत् । एवमेव स्वरूपैक्ये न भेदत इति कारिकास्थोऽपि भेदशब्दो व्याख्येयः ॥ सम्प्रतिपन्नैकात्मवदिति ॥ ‘तत्र तस्येव’ इत्यनेन सूत्रेण तत्रेव इत्यर्थे वतिः। सम्प्रतिपन्नैकात्मनीवेत्यर्थः ।

श्रीनिवासतीर्थीयटिप्पणी

व्याप्तीति । तर्के अनुमाने चेत्यर्थः । इदं चोत्तरत्र विवरिष्यते । न चेदुपाधिसम्बन्ध इत्यादिनौपाधिकत्वस्य दूषितत्वात्कथञ्चि-दित्युक्तम् । स्वरूपैक्य इत्यनूद्य स्वाभाविकैक्य इति व्याख्यातम् । जीवब्रह्मणोरिति वर्तते । सुखदुःखादिभोगो भेदेन न दृश्यत इत्यस्य तात्पर्यतो व्याख्यानं सुखदुःखादिभोगस्येति ॥ भोगोऽनुभवोऽनुसन्धानं तस्येत्यर्थः ॥ भेदेनेति । व्यवस्थयेत्यर्थः ॥

परशुनाम्नीटिप्पणी

भेदेन दर्शनं न स्यादिति । भिन्नाश्रयकत्वेन दर्शनं न स्याद् इत्यर्थः ।

भेदस्य मिथ्योपाधिकृतत्ववादे काल्पनिकव्यवस्थाया अभ्युपगमवादेनाङ्गीकारः

टीका

ये तु ‘मिथ्योपाधिनिमित्तो भेदभ्रमः’ इति वदन्ति तेषां सुखदुःखादीनामपि मिथ्यात्वात् काल्पनिकी व्यवस्था घटेतापि ।

भेदभ्रमस्य मिथ्योपाधिनिमित्तत्ववादे काल्पनिकव्यवस्थाया अप्यनुपपत्तिसमर्थनम्

मन्दारमञ्जरी

ननु तेषां काल्पनिकी व्यवस्था घटेत इत्ययुक्तम् । तथा हि, किं तेषां व्यवस्था न प्रतीयत इति न दोषः ? उत अपारमार्थिकीति ? यद्वा युक्त्यसहेति ? नाद्यो ऽनुभवसिद्धत्वात् । द्वितीये सा किं व्यवस्थापकमेव नापेक्षते ? किं वा पारमार्थिकम् ? नाद्यः यक्षानुगुणबलिवत् तदनुगुण-व्यवस्थापकस्य आवश्यकत्वात् । अन्यथा अपारमार्थिकजीवत्वादिव्यवस्था-सिद्ध्यै अविद्यानङ्गीकारप्रसङ्गात् । न द्वितीयः, अपारमार्थिकस्यापि व्यवस्थापकस्य स्वाभाविकभेदव्यतिरेकेण निराकरिष्यमाणत्वात् । न तृतीयः ‘‘दुर्घटत्वं भूषणं चेत्स्यादविद्यात्वमात्मनः ।’’ इति वक्ष्यमाणातिप्रसङ्गात् ।

ननु एकजीववादे एकस्यैव दुःखानुसन्धातृत्वम् । इतराणि निर्जीवानि शरीराणि । तथा च अन्यो दुःखानुसन्धातैव नास्ति । कुतोऽव्यवस्था ? इति चेन्न ।

तत्परिहारः

त्वदज्ञानकल्पितेनापि मया दुःखानुभवात् । तथैव मदज्ञानकल्पितोऽसीति चेत् त्वदज्ञानेन तथा कल्पने ‘अयं दुःखी’ इति तव प्रतीतिरस्तु । ‘अहं दुःखी’ इति मम तु कथं प्रतीतिः? नास्ति सा तवेति चेन्न परबुद्धेर-प्रत्यक्षत्वात् । तथापि तावकीनानुभवे मम किं प्रमाणमिति चेद् रूपे चक्षुष इव मद्वचनैकवेद्ये तस्मिन्मद्वचनस्यैव प्रमाणत्वात् । स्वतः प्राप्तस्य च प्रामाण्यस्य बाधकापोद्यत्वात् तथाविधे मद्वचने बाधकाभावाच्च ।

किञ्चैवं सति ‘प्रतिवादिनं मां प्रति उत्तरं दत्तं त्वया’ इत्यत्र प्रमाणा-भावादननुभाषणं नाम निग्रहस्तवापद्येत । तत्र त्वदनुभवः प्रमाणमिति चेन्न । मम कल्पितस्याननुभवितृत्वात् । मयाप्यनुभवालापमाश्रित्य अनुभूयाऽपि नानु-भूयत इति वक्तुं शक्यत्वाच्च । प्राश्निकानुभवस् तत्र प्रमाणमिति चेन्न । तेषा-मप्यननुभवितृत्वात् । अनुभवितृत्वेऽपि ‘अकल्पकैरस्माभिर्दुःखमनुभूयते’ इति प्राश्निकानुभवस्य प्रामाण्यसम्भवाच्च । अथैवं ब्रूषे ‘त्वमेव कल्पकोऽहं त्वत्कल्पितः’ इति, तदापि त्वया अनुभवापलापेऽपि ये नानुभवापलापिनस् तेषां कल्पकात्मातिरिक्तानां दुःखानुभवितृत्वं न स्यात् । अपि चैवम् अनुभवापलापे लोकायतं प्रति ‘मम शरीरं’ इत्याद्यनुभवबलेन शरीराति-रिक्तात्मसाधनं ‘अहमज्ञः’ इत्याद्यनुभवबलेन भावरूपाज्ञानसाधनं परमप्रेमा-स्पदत्वानुभवेन आनन्दात्मकत्वसाधनमित्यादिकं त्वयोक्तमसङ्गतं स्यात् ।

तस्मात् ‘काल्पनिकी व्यवस्था घटेत’ इत्ययुक्तमिति । सत्यं, अभ्युप-गमवादोऽयमित्यदोषः । अत एवाघटनमेव पारमार्थिकमिति सूचयितुं घटेतापि इति अपिशब्दः प्रयुक्तः ।

श्रीनिवासतीर्थीयटिप्पणी

भेदभ्रम इतीति । जीवब्रह्मणोर्जीवानां च भेदो भ्रान्तिकल्पित इति वदन्तीत्यर्थः ॥ व्यवस्थेति । सुखदुःखादीनां भेदेन दर्शनमित्यर्थः ॥ घटेतापीति । त्वन्मते तूपाधेर्जीवब्रह्मणोर्जीवानां च भेदस्य दुःखादीनां च सत्यत्वाद्यवस्था नैव युज्यत इति भावः ।

परशुनाम्नीटिप्पणी

इतःपरं टीकायां श्रूयमाणं ‘ये तु मिथ्याभूतो भेदभ्रम इति, तेषां दुःखादीनामपि मिथ्यात्वात् काल्पनिकी व्यवस्था घटेतापि’ इति वाक्यं प्रक्षिप्तम्, न टीकावाक्यम् । अवश्यं चैतदेवं विज्ञेयम्, घटादिज्ञानस्यापि परेण प्रमात्वाङ्गीकारेण भेदभ्रम इति वदन्ति इति अभिधानायोगात् । भेदज्ञानस्य भ्रमत्वाङ्गीकारे भेदस्य प्रातिभासिकत्वापत्त्या अर्थक्रियाकारित्वं न स्याद् इति । (?) दुःखाद्यनुभवव्यवस्थाघटनाभिधानात् (?) । काल्पनिकव्यवस्था घटने दुःखादिमिथ्यात्वस्य उपयोगाभावेन तदभिधानवैयर्थ्याच्च । न हि ‘स्वरूपैक्य-सद्भावे सत्यदुःखादेः काल्पनिकव्यवस्था न घटते, अनिर्वचनीयस्य तु तद् घटते’ इत्यत्र नियामकमस्ति, व्यवस्थाविरोधिनो जीवब्रह्मैक्यस्य उभयत्रापि साम्यात्; प्रत्युत सत्यभेदवादिमते व्यवस्थाघटकस्य भेदस्य सत्यत्वेन व्यवस्था उपपन्ना । न हि ‘यत्र घटकं सत्यं, तत्र घटना नास्ति; यत्र घटकं मिथ्या, तत्र घटना युज्यते’ इति युक्तम् । येनेदं वाक्यं टीकान्तर्गतं स्यात् ॥ मायावादिनां मते ‘व्यवस्था घटेत’ इत्यवश्यं वक्तव्यत्वेन तदनभिधानेन न्यूनत्वाच्च ।

सुखदुःखाद्यनुभवभेदस्य आत्मभेदसाधकत्वोपपादनम्

टीका

ननु सुखदुःखादयोऽन्तःकरणधर्माः । तद्भेदात् कथञ्चिद् अन्तःकरणभेदः साध्यताम् । आत्मभेदे तु किमाया-तम् ? इत्याशङ्कापरिहाराय भोग इत्युक्तम् । न वयं सुखादिभेदाद् अन्तःकरणभेदं साधयामः । किं नाम ? ‘स्वरूपाभेदे सुखाद्यनुसन्धानं स्यात्’ इति ब्रूमः ।

मन्दारमञ्जरी

दुःखादीनामन्तःकरणधर्मत्वेन तद्भेदसाधकत्वेऽपि सुखाद्यनु-सन्धातृत्वाननुसन्धातृत्वलक्षणादात्मगताद्विरुद्धधर्मादात्मभेदो भविष्यतीति परिहरति ॥ इत्याशङ्कापरिहारायेति ॥

श्रीनिवासतीर्थीयटिप्पणी

तद्भेदात्तेषां धर्माणां भेदात् । अन्तःकरणभेद इति । तदाधारभूतान्तःकरणेत्यर्थः । रूपादिधर्माणां भेदे तदाधारस्य घटादेर्भेदा-भावात्कथञ्चिदित्युक्तम् ॥ अनुसन्धानं स्यादिति । तथा च सुखादेरन्तः-करणधर्मत्वेऽपि तदधीनानुसन्धातृत्वस्यात्मनि सद्भावात्सुखाद्यनुसन्धातृत्वाननु-सन्धातृत्वलक्षणाद्विरुद्धधर्मादात्मभेदो भविष्यत्येवेति भावः ॥

परशुनाम्नीटिप्पणी

‘कैश्चिद् भेदवादिभिः सुखदुःखादिभेदेन जीवभेदः साधितः । तत्र मायावादिना यद्दूषणमुक्तम् (तन् न आचार्याणां लगति । आचार्याणां भोगभेदान्यथाऽनुपपत्त्यैव आत्मनि भेदस्य साधनात्’ इत्याशयवान् परमते परोक्तदूषणमनूद्य, यथा न आचार्याणां तद्दूषणं तथाऽऽह ननु सुखदुःखादय इति ।) तन् न अस्माकम् अस्ति, अस्माभिर् भोगभेदा-न्यथाऽनुपपत्त्यैव आत्मनि भेदस्य साधितत्वात्’ इत्याशयेन आचार्यैः ‘भोग’ इत्युक्तम्; इति भावेन परं प्रति मायावाद्युक्तं दूषणम् अनुवदति ननु सुखादय इति । एतेन ‘सुखादिभेदेन आत्मभेदस्य आचार्यैर् असाधितत्वात्, इयं शङ्का अनुपपन्ना’ इति परास्तम् ।

सुखदुःखादिव्यवस्थान्यथानुपपत्तेरात्मभेदासाधकत्वशङ्का

टीका

एतेनैतदपि निरस्तं, यत् केनचिद् व्यवस्थान्यथानु-पपत्त्या भेदमाशङ्क्य उक्तं ‘न तावद् धर्मभेदो व्यवस्था । धर्मभेदेऽपि धर्मिणो भेदाप्रतीतेः । नापि भिन्नाश्रयधर्मभेदः । इतरेतराश्रयप्रसङ्गात् । न च विरुद्धधर्मभेदः । ऐकात्म्यवादिनं प्रति सुखादीनां विरोधासिद्धेः’ इति ।

सुखदुःखाद्यनुसन्धानव्यवस्थान्यथानुपपत्तेरात्मभेदसाधकत्वसमर्थनम्

टीका

सुखदुःखाद्यनुसन्धानभावाभावरूपव्यवस्थाया अङ्गी-कृतत्वात् ।

‘स्वरूपैक्ये अनुसन्धानं स्यात्’ इति तर्के व्याप्त्यभावशङ्का तत्परिहारश्च

टीका

ननु एतदनुसन्धानं किमंशानामापाद्यते ? उतांशिनः ? नाद्यः व्याप्त्यभावात् । हस्तगतसुखस्य पादगतेन अननुसन्धानात् । न द्वितीयस् तस्य अभोक्तृत्वादिति । मैवम् उभयथाप्यदोषात् । न हि तत्तद्भोगायतनानां सङ्क्रान्तिरापाद्यते । किं तु ? सुखाद्यनुसन्धान-मात्रम् । तद् अंशानामस्त्येव । भोक्तृभूतांशवतोंऽशिनोऽभोक्तृत्वा-सिद्धेश्च ।

अतीतसुखादाविव अननुसन्धानं किं न स्यात् ? इति चेत्, न हि वयं वर्तमानतया अनुभवं स्मरणं वा अनुसन्धानं ब्रूमः । किं नाम ? स्वीयतया अनुभवमात्रम् । न च तन्नास्ति अतीत-सुखादाविति ।

तदयं प्रसङ्गार्थः ‘यदि जीवब्रह्मणी जीवाश्च स्वभावतोऽभिन्नाः स्युस् तदा अन्योन्यगतसुखदुःखादिविषये स्वीयतया अनुभववन्तः स्युर् यथा सम्प्रतिपन्नः’ इति । ‘विमताः परस्परमैक्यरहिताश् चेतनत्वे सत्यन्योन्यगतसुखदुःखाद्यनुसन्धानशून्यत्वाद् यो येनैक्यवान् चेतनः स तत्सुखाद्यनुसन्धानवान् यथा सम्प्रति-पन्नः’ इत्यनुमानं वा अनेन सूचितम् । चैतन्यावच्छिन्नत्वाद् व्याप्तेर्न कश्चित् क्षुद्रोपद्रवः ।

मन्दारमञ्जरी

॥ यत्केनचिदिति ॥ तत्र किं धर्मभेदो व्यवस्था? किं वा भिन्नाश्रयधर्मभेदः ? विरुद्धधर्मभेदो वा इति विकल्पान् हृदि निधाय प्रथमं प्रत्याचष्टे ॥ न तावदिति ॥ द्वितीयं प्रत्याह ॥ नापीति ॥ इतरेतराश्रय प्रसङ्गादिति ॥ धर्मिभेदे धर्माणां भिन्नाश्रयत्वं, धर्माणां भिन्नाश्रयत्वे च सति धर्मिभेदसिद्धिरित्यन्योन्यसापेक्षत्वात् । तृतीयं प्रत्याचष्टे ॥ न चेति ॥ विरोधः किं सहानवस्थानलक्षणः? किं वा वध्यघातकभावलक्षणः? नाद्य इत्याह ॥ ऐकात्म्यवादिनं प्रतीति ॥ न द्वितीयः । एकात्मसमवेतयोः पूर्वोत्तरज्ञान-योर्वध्यघातकभावलक्षणविरोधसद्भावेन आत्मभेदप्रसङ्गात् । तत्र कालभेदेन विरुद्धधर्माश्रयत्वमुपपद्यते । प्रकृते तु युगपदेव देवदत्ते सुखस्य यज्ञदत्ते दुःखस्य च प्रतीतेराश्रयभेदो वक्तव्य इति चेन्न । तदाश्रययोर्भेदे विरोधासिद्धेः ‘नाजात एकोऽन्यं हन्ति, नाप्यन्याधारः’ इति न्यायेनेत्यर्थः । किं च खरतरदिनकरकिरणैनिर्दग्धोर्ध्वकायस्य शिशिरतरसलिलावगाढापरभागस्या-पर्यायमेव सुखदुःखदर्शनेन तयोर्न सहानवस्थानं नापि वध्यघातकभाव इति भावः ।

चेतनाचेतनानुगतभेदव्यवस्थापकनिर्धारः

॥ सुखदुःखाद्यनुसन्धानेति ॥ चेतनेष्वेवेदं व्यवस्थापकं यत् ‘सुखं दुःखं वा योऽनुसन्दधाति सोऽननुसन्धातुर्भिद्यते’ इति । चेतनाचेतनानुगतस्य भेदव्यवस्थापकस्य प्रश्ने तु ‘यो यदवृत्तिधर्माश्रयः स तस्माद्भिद्यते’ इति वा ‘यत्र यत्तादात्म्यमारोप्यते स तस्माद्भिद्यते’ इति वा ‘यत्र यदात्मकत्वं न प्रतीयते स तस्माद्भिद्यते’ इति वा उत्तरं वक्तव्यम् । विकल्पासहत्वान्नायं तर्कः साधुरिति शङ्कते ॥ नन्विति ॥ अननुसन्धानादिति ॥ अनुसन्धाने च ‘पादे मे वेदना शिरसि सुखं’ इति न प्रतीयेत । किं तर्हि ? उभयत्रोभयं प्रतीयेतेति भावः ॥ तस्याभोक्तृत्वादिति ॥ स्वरूपानन्दस्य ज्ञानाभिन्नस्य स्वतः स्फुरणेऽपि न बाह्यसुखाद्यनुसन्धानम् । तत्साधनान्तःकरणावच्छेदाभावादिति भावः । परिहरति ॥ मैवमिति ॥ न तावदाद्ये दोषः । पादावच्छिन्नदुःखस्य हस्तगतेनांशेन अननुसन्धाने पादतललग्नकण्टकोद्धरणाय हस्तव्यापारानुपपत्तेः । न च पित्रादेः पुत्रादिदुःखपरिजिहीर्षयेव प्रवृत्तिः । आक्रन्दितादिलिङ्गाद्यनु-सन्धानं विनैव झटिति प्रवृत्तेः । न चांशी दुःखमनुसन्धाय अंशं प्रेरयतीति युक्तम् । अंशव्यापारकल्पने गौरवात् । न चांश्येव तत्र व्याप्रियत इति युक्तम् । पादलग्नकण्टकजनितदुःखमप्यंश्येवानुसन्धत्त इति प्रसङ्गात् । ‘पादे मे दुःखं’ इत्यनुभवस्तत्र प्रमाणमिति चेद् इहापि ‘हस्ते मे व्यापारः’ इत्यनुभवः प्रमाणम् ।

एवं तर्हि ‘पादे मे दुःखं’ इति नियतप्रतीतिर्न स्यादित्यत आह ॥ न हीति ॥ सङ्क्रातिरिति ॥ इतरांशसम्बन्ध इत्यर्थः । येन नियमेन प्रतीतिर्न स्यादिति वाक्यशेषः ॥ किं त्विति ॥ श्रूयमाणशब्दस्य श्रोत्रसम्बन्धेऽपि वीणायाः क्वणननिमित्तत्वात् ‘वीणायां शब्दः’ इतिवत् पादे दुःखहेतोः कण्टकस्य सम्बन्धात् तदवच्छेदेन प्रतीतिरिति भावः ॥ भोक्तृभूतेति ॥ अंशिनः सर्वगतस्य अन्तःकरणाद्यवच्छेदाद् भोगः स्यादेव । न चेत् तन्न्यायेनैव पादावच्छिन्नदुःखाद्यनुसन्धानं देहिनो न स्यादिति भावः ।

अनुसन्धानशब्दार्थविवरणम्

‘ननु ‘अनुसन्धानं स्यात्’ इत्यत्र किं सुखादीनामनुभव आपाद्यते ? किं वा स्मरणं ? यद्वा अन्यतरत् ? अथ वा प्रत्यक्षानुभवः ? आहोस्वित्प्रत्यक्ष-ज्ञानजन्यं स्मरणं ? यद्वा तदन्यतरत् ? नाद्यद्वितीयतृतीया इष्टापत्तेः । देवदत्तेन यज्ञदत्तमुखोल्लासादिना तत्सुखानुमानात् तस्य च स्मरणजनकत्वात् स्मरणानुभवयोरुभयोरङ्गीकारात् । चतुर्थं प्रत्याह ॥ अतीतेति ॥ देवदत्तस्य स्वीय एवातीते सुखे इन्द्रियसंनिकर्षजन्यप्रत्यक्षानुभवाभावात् तत्र व्यभिचार इत्यर्थः । पञ्चमं दूषयति ॥ आदीति ॥ वर्तमानमादिपदार्थः । वर्तमानस्वीय एव सुखे स्मरणाभावात्तत्र व्यभिचार इत्यर्थः। षष्ठेऽप्येतदेव दूषणम् ॥ आदीति ॥ अनागतमादिशब्दार्थः। तत्र इन्द्रियसन्निकर्षाभावान्न तत्प्रत्यक्ष-ज्ञानम् । अत एव न तज्जन्यस्मरणं चेत्यर्थः ।

यद्वा दुःखानुसन्धातृत्वं खलु ‘अहं दुःखी’ इत्यनुभवः । न चातीतेन दुःखेन तथा दुःखानुभवोऽस्तीत्याशङ्कते ॥ अतीतेति ॥ सुखादीत्यादिशब्देन दुःखादिकं विवक्षति । अस्मिन् पक्षे परिहारग्रन्थे स्मरणग्रहणम् अतीते स्मरणनियमाभावादुपपन्नमिति द्रष्टव्यम् ।

परिहरति ॥ न हीति ॥ अनुभवं स्मरणं च प्रत्येकं क्रोडीकृतं वा वर्तमानतया अनुभवं तज्जन्यस्मरणं च प्रत्येकं क्रोडीकृतं वा अनुसन्धानं न ब्रूम इत्यर्थः । यद्वा अनुभवविशेषं स्मरणं वा अनुसन्धानं न ब्रूमः । येनातीतादावनुभवस्मरणनियमाभावेन व्यभिचारः स्यादित्यर्थः । एवं न चेत्तर्ह्यनुसन्धानशब्दार्थो वक्तव्य इति शङ्कते ॥ किं नामेति ॥ परिहरति ॥ स्वीयतयेति ॥ ईश्वरस्यापि सर्वापरोक्षविदो यज्ञदत्तदुःखानुभवितुस् तद्दुःखानु-सन्धातृत्वं मा भूदिति स्वीयग्रहणम् । अनुभवशब्देन स्मृत्यन्यं ज्ञानं विवक्षति । मात्रशब्देन कालविशेषाऽकलनं व्युदस्यति । एवं च न व्याप्तिभङ्ग इत्याह ॥ न चेति ॥ विवक्षितश्चानुभवोऽतीतादावप्यानुमानिकः सम्भवतीति भावः ।

नन्वथापि अतीतादौ व्यभिचारः । अतीतस्य यस्य कस्यचिद् आनुमानि-कानुभवसम्भवेऽपि सर्वस्य तथात्वनियमाभावात् । न ह्यतीतं सर्वमप्यनुमीयत इति चेद् एवं तर्ह्यनुभवशब्देन साक्ष्यनुभवो विवक्ष्यताम् । न चातीतादौ व्यभिचारः । स्वसत्तासमये स्वीयतयाऽनुभवस्यापाद्यत्वात् । अतीतादावपि स्वसत्तासमये स्वीयतया अनुभवसद्भावादिति भावः । फलितं दर्शयति ॥ तदयमिति ॥ एकपदं चैतत् । सोऽयं प्रपञ्च इत्यर्थः । प्रसङ्गस्तर्को ऽर्थः प्रयोजनं यस्य प्रपञ्चस्य सोऽयं प्रसङ्गार्थः । अथ वा प्रसङ्गरूपस्य सुखेत्यादि वाक्यस्य अयं वक्ष्यमाणोऽर्थोऽभिप्रेतार्थ इत्यर्थः । अत्र तदिति भिन्नं पदम् । तच्च तस्मादित्यर्थे वर्तते ।

॥ विमता इति ॥ ननु कथमेतदनुमानं ? ऐक्यप्रसिद्धौ तन्निषेधायोगात् । अप्रसिद्धौ तु तदभावस्यासिद्धत्वेन अप्रसिद्धविशेषणत्वापत्तेरिति चेन्न । प्रतियोग्यप्रसिद्धावप्यभावप्रसिद्धेरन्यत्रोक्तत्वात् । यद्वा ‘यज्ञदत्तधर्मिकमैक्यं न देवदत्तप्रतियोगिकं देवदत्तसुखाद्यनुसन्धानरहितधर्मिकत्वाद् यद् ऐक्यं यत्प्रति-योगिकं तत् तत्सुखानुसन्धातृधर्मिकं यथा देवदत्तेन देवदत्तस्यैक्यं’ इति वा ‘देवदत्तप्रतियोगिकमैक्यं न यज्ञदत्तधर्मिकं तत्सुखाननुसन्धातृप्रतियोगिकत्वाद् यन्नैवं तन्नैवं यथा यज्ञदत्तेन यज्ञदत्तस्यैक्यं’ इति वा प्रयोगस्य विवक्षितत्वात् । ननु घटस्य स्वनिष्ठसुखाद्यननुसन्धातुरपि स्वेनैक्यं विद्यत एव । तथा च तत्र व्यभिचार इत्याशङ्क्याह ॥ चैतन्येति ॥

श्रीनिवासतीर्थीयटिप्पणी

उक्तमिति । व्यवस्थाशब्दार्थविकल्पेन दूषितमित्यर्थः । तत्र किं धर्मभेदो व्यवस्था भिन्नाश्रयधर्मभेदो वा विरुद्धधर्मभेदो वेति विकल्पान्हृदि निधायाद्यं दूषयति ॥ न तावदिति । सुखदुःखादि रूपधर्मभेदोऽन्यथानु-पपत्त्या धर्मिणोर्जीवब्रह्मणोर्जीवानां च भेद इत्ययुक्तम् । धर्मभेदे धर्मिभेद इति नियमस्यायुक्तत्वादित्याह ॥ धर्मभेदेऽपीति । रूपादिधर्मभेदेऽपि धर्मिणो घटस्यैकत्वेन व्यभिचारादित्यर्थः । द्वितीयं निराचष्टे ॥ नापीति । भिन्नाश्रया देवदत्तयज्ञदत्तादिरूपभिन्नाश्रया ये धर्माः सुखदुःखादयस् तद्भेदो व्यवस्था । तेन धर्मिणां भेदसिद्धिरित्यर्थः । रूपादीनां भिन्नाश्रयत्वाभावान्नोक्तदोष इति भावः ॥ इतरेतरेति । धर्मिणां भेदसिद्धौ धर्माणां भिन्नाश्रयत्वसिद्धिः । तत्सिद्धौ च भिन्नाश्रयधर्मभेदाद्धर्मिभेदसिद्धिरितीतरेतराश्रयप्रसङ्गादित्यर्थः । तृतीयं प्रत्याचष्टे ॥ न च विरुद्धेति ॥ ऐकात्म्येति । विरोधो नाम सहानव-स्थानम् । जीवब्रह्मैक्यवादिमते सुखदुःखयोरैकात्म्यनिष्ठत्वस्यैव सद्भावेनोक्त-रूपविरोधस्यैवाभावादित्यर्थः । एतेनेत्युक्तं विशदयति ॥ सुखदुःखादीति । तथा च सुखदुःखाद्यनुसन्धानभावाभावरूपव्यवस्थान्यथानुपपत्त्या जीवब्रह्मणो-र्जीवानां च भेदसाधनं युक्तमेवेत्याशयः ॥

एतदिति । सुखदुःखादीत्यर्थः ॥ किमंशानामिति । जीवब्रह्मणोः स्वाभाविकैक्ये परस्परं सुखदुःखाद्यनुसन्धानं स्यादित्यापाद्यमानानुसन्धानं किमंशानां जीवानामापाद्यते उतांशिनो ब्रह्मण इत्यर्थः ॥ व्याप्त्यभावादिति । यत्र स्वाभाविकैक्यं तत्रांशानां परस्परं सुखदुःखाद्यनुसन्धानमिति व्याप्त्य-भावादित्यर्थः । तमेवोपपादयति ॥ हस्तगतेति । हस्तावच्छेदेन ज्ञायमानस्य सुखस्येत्यर्थः । पादगतेनांशेन । तथा च हस्तपादगतयोरंशयोः स्वरूपैक्ये सत्यपि परस्परं सुखदुःखाद्यनुसन्धानाभावाद्व्यभिचार इत्यर्थः । ननु तत्राप्यस्ति परस्परं सुखदुःखाद्यनुसन्धानमिति न व्यभिचार इति चेन्न । तत्राप्यनु-सन्धानाङ्गीकारे ‘‘हस्ते मे सुखं पादे मे दुःखमि’’ति नियतावच्छेदक-प्रतीतिरनुपपन्ना स्यात् । किं तर्हि उभयत्रोभयं प्रतीयेत । तथा च पादोऽपि सुखावच्छेदकः स्यात् । हस्तोऽपि दुःखावच्छेदकः स्यादिति भावः। तस्येति । स्वरूपैक्ये अंशिनो ब्रह्मणः सुखाद्यनुसन्धानं नापादयितुं शक्यते । अनुसन्धानं नाम भोगः । अंशिनश्च भोगापादनं न युक्तम् । आनन्दरूपस्य तस्य बाह्यसुखादिभोगसाधनीभूतान्तःकरणाद्यभावेनाभोक्तृत्वादित्यर्थः । नन्वंशानामा-पाद्यत इति पक्षे पादे मे सुखमित्यादिनियतावच्छेदक(ताक)प्रतीतिर्न स्यादित्यत आह ॥ न हीति । संक्रान्तिस्साधारण्यम् । स्वानवच्छेद्यस्याप्य-वच्छेदकत्वमिति यावत् । कर्मणि षष्ठी । स्वेनानवच्छेद्यं प्रतीत्यर्थः । पादानवच्छेद्यसुखं प्रति पादोऽपि अवच्छेदकः स्यादित्यर्थः । ततश्चायमर्थः । ब्रह्मांशानां देवदत्तयज्ञदत्तादीनां स्वरूपैक्ये परस्परं सुखदुःखाद्यनुसन्धानं स्यादित्यापाद्यस्य यज्ञदत्तोपाधिर्देवदत्तीयसुखावच्छेदकोऽपि स्यात् । देवदत्तो-पाधिश्च यज्ञदत्तीयसुखावच्छेदकोऽपि स्यादिति यद्यर्थो विवक्षितः स्यात्तदा परमुक्तो व्यभिचारः सङ्गच्छते । न चैवम् । किन्तु तत्तदुपाधिगतचैतन्यस्यैव तत्तदवच्छिन्नसुखाद्यनुसन्धानं स्यादिति । तच्च हस्तपादगतांशयोरप्यस्त्येव । अन्यथा पादतललग्नकण्टकोद्धरणाय हस्तव्यापारो न स्यात् ।

ननु पुत्रादिसुखपरिजिहीर्षया कृपया पित्रादेः प्रवृत्तिवदुपपन्न इति चेन्न । पित्रादिप्रवृत्तौ पुत्रादिदुःखज्ञापकतदीयाक्रन्दनादिरूपज्ञापकसद्भावादत्र तदभावदिति संप्रदायः । अन्ये तु । स्वरूपैक्ये अंशानामनुसन्धानं स्यादिति विकल्पस्यायमभिप्रायः । यदांशानामनुसन्धानमापाद्यते तदा हस्तरूपांशं प्रति पादगतजीवांश आयातीत्यङ्गीकार्यम् । अन्यथा हस्तगतांशनिष्ठसुखानुसन्धानं विप्रकृष्टस्य पादगतांशस्य न स्यात् । तथा च यदा पादगतांशो हस्तगतांशं प्रति समायाति तदा तस्य स्वायतनं पादं विहायागमनासम्भवादायतनभूतः पादोऽप्यायातीत्यङ्गीकार्यम् । तथा च तत्तद्भोगायतनानां परस्परमितरांश-सम्बन्धप्राप्त्यानुसन्धानं स्यादिति । व्याप्त्यभावमेवोपपादयति ॥ हस्तगत-स्येति । हस्तावच्छिन्नांशगतस्येत्यर्थः । पादगतेन पादावच्छिन्नांशेन । हस्तस्वरूपांशं प्रत्यागत्येति शेषः । आद्यपक्षे दोषाभावमुपपादयति ॥ न हीति । संक्रान्तिरितरांशसम्बन्धः । उक्तरीत्या संक्रान्त्यापादनपूर्वकमनुसन्धानं नापाद्यत इत्यर्थ इत्याहुः ॥ अस्त्येवेति । अन्यथा पादतललग्नकण्टकोद्धाराय हस्तव्यापारो न स्यादित्यर्थः । अंशिनोऽनुसन्धानमापाद्यत इति द्वितीयपक्षेऽपि न दोषः । ननूक्तं किल तस्याभोक्तृत्वादिति । तन्न । स्वरूपैक्येंऽशिनः सुखादिभोगो नापादयितुं शक्यते । तस्याभोक्तृत्वात् । तथा च बाध इति हि तवाभिप्रेतम् । तदयुक्तम् । यदि वयं स्वरूपैक्येनांशिनो ब्रह्मणः सुखादिभोगं साधयामः । तदा परं बाधाभिधानं सङ्गच्छेत । न चैवम् । किंत्वापादयामः । तत्र च बाधोऽलंकार एवेति परिहारे स्थितेऽपि प्रतिवादिस्खलितं नोपेक्षा-मर्हतीत्याशयेन तस्याभोक्तृत्वादित्युक्तं दूषयति ॥ भोक्तृभूतेति । अंशांशि-नोरभेदेनांशानां भोक्तृत्वेन तादृशांशवतस्तदभिन्नस्येति यावत् । अंशिनोऽ-भोक्तृत्वमेवासिद्धमित्यर्थः ।

ननु यदि स्वरूपैक्यं स्यात्तदा सुखाद्यनुसन्धानं स्यादित्यत्रापाद्यमानं सुखाद्यनुसन्धानं नाम सुखादेर्वर्तमानतयाऽनुभवः । तथा स्मरणं वा वक्तव्यम् । नान्यत् । तथा चात्मनोऽतीतसुखानुभवः । स्मरणं वा तावदिदानीं जायते । तत्र व्यभिचारः । प्रतीतसुखानुभवितुरात्मनः स्वरूपैक्ये सत्यपि अतीत-सुखादेर्वर्तमानतयाऽनुभवस्मरणयोरभावाद्व्यभिचार इत्याशयेन शङ्कते ॥ अतीतसुखादाविवेति ॥ ब्रूम इति । येन व्यभिचारः स्यादिति भावः । तर्ह्यनुसन्धानशब्दार्थो वक्तव्य इत्याशङ्कते ॥ किं नामेति । उत्तरमाह ॥ स्वीयतयेति । तथा चातीतसुखादावपि स्वसत्तासमये स्वीयतयाऽनुभव-सद्भावान्न व्यभिचार इति भावेनाह ॥ न च तदिति । अतीतसुखादौ तत् स्वीयतयानुभवमात्रं नास्तीति न किंत्वस्त्येवेत्यर्थः । वर्तमानतयेत्यस्य व्यावृत्त्यर्थो मात्रशब्दः । फलितं दर्शयति ॥ तदयमिति । एकपदं चैतत् । स चासावयं चेति तदयं सोऽयमित्यर्थः । यद्वा तदिति भिन्नं पदम् । तस्मादित्यर्थः ॥ प्रसङ्गार्थ इति । प्रसङ्गरूपस्य सुखदुःखादिभोगश्चेति वाक्यस्यार्थ इत्यर्थः । यत्र स्वाभाविकोऽभेदस् तत्र स्वगतसुखादिविषये स्वीयतयानुभववत्त्वमिति व्याप्तिमभिप्रेत्य तत्र दृष्टान्तमाह ॥ यथा सम्प्रतिपन्न इति । संप्रतिपन्न एकात्मा देवदत्त इत्यर्थः । तत्र स्वेन स्वाभाविकैक्यमस्ति । स्वगतदुःखादिविषये स्वीयतयाऽनुभवोऽप्यस्तीति द्रष्टव्यम् । व्यतिरेकव्याप्तिं दर्शयति ॥ यो येनेति ॥ सम्प्रतिपन्न इति । सम्प्रतिपन्नैकात्मा देवदत्तः स्वयं स्वेनैक्यवान्स्वगतसुखाद्यनुसन्धानवांश्च भवतीत्यर्थः ॥ सूचितमिति । सुखदुःखादिभोगो भेदेन दृश्यत इत्यनेन सुखाद्यनुसन्धानशून्यत्वं न दृश्यत इत्यनेन सुखाद्यनुसन्धानं सूचितमित्यर्थः । ननु घटस्य घटेनैक्ये विद्यमानेऽपि सुखाद्यनुसन्धानाभावाद्व्यभिचार इत्यत आह ॥ चैतन्यावच्छिन्नत्वादिति । तथा च चेतनत्वे सति यो येनैक्यवानिति व्याप्तेरभिप्रेतत्वाद्घटे व्यभिचार-रूपक्षुद्रोपद्रवो नास्तीत्यर्थः ।

परशुनाम्नीटिप्पणी

न तावद्धर्मभेद इति । धर्मभेदः व्यवस्थाशब्दवाच्यो न भवति इत्यर्थः । धर्मभेदेऽपीति । रूपरसात्मकधर्मभेदे विद्यमानेऽपि, धर्मि-भेदाभावाद् धर्मभेदः धर्मिभेदसाधको न भवति इत्यर्थः । नापीति । ‘व्यवस्था’ इत्यनुवर्तते । अङ्गीकृतत्वादिति । आत्मभेदसाधकत्वेन अङ्गीकृतत्वादित्यर्थः । सुखदुःखादिभोगस्य भेदेन दर्शनं न स्यादित्युक्तौ परस्परसुखदुःखानुसन्धानं स्यादित्यापादनं लब्धमिति सिद्धवत्कृत्य शङ्कते नन्वेतदिति ।

व्याप्त्यभावमुपपादयति हस्तगतेति । जीवैक्यलक्षणापादके विद्यमानेऽपि, हस्तगतांशस्य यत् सुखं तस्य पादगतांशेन पादावच्छिन्नतया अननुसन्धानेन व्यभिचार इति भावः । तस्येति । अंशिनो ब्रह्मणो ऽभोक्तृत्वात्, तस्य अनुसन्धानापादनं न युक्तमित्यर्थः । भोक्तृत्वावच्छिन्नस्य ऐक्यं यत्र तत्र अनुसन्धानमिति व्याप्तेः । प्रकृते च विशिष्टापादका(ना)भावान् न आपादनमुचितमिति भावः । ‘हस्तगतसुखस्य पादगतेन अननुसन्धानात्’ इत्यनेन उक्तं व्यभिचारं परिहर्तुमापाद्यस्वरूपमाह न हीति । न अस्माभिः, तत्तद्भोगायतनानां देवदत्तादिसर्वदेहानाम्, सङ्क्रान्तिः साम्यम्, ‘यस्य दुःखस्य देवदत्तदेहो ऽवच्छेदकः, तस्यैव यज्ञदत्तादिदेहाः पादावच्छिन्नतया अनुसन्धानं पादगतस्य नास्ति, इति व्यभिचारोद्भावनं सङ्गच्छेत । न च एवम्, किन्तु अनुसन्धानमात्रम् । तच्च पादादिगतांशानामस्त्येव, इति न व्यभिचारः, इति भावः । द्वितीयपक्षोक्तं दोषमुद्धरति भोक्तृभूतेति । भोक्तृत्वावच्छिन्नस्य ऐक्यस्य भावात्, आपादनमुचितमिति भावः ।

‘स्वरूपैक्ये अनुसन्धानं स्यात्’ इति तर्के उपाधिशङ्का

टीका

ननु दृष्टान्तस्थले अनुसन्धानस्य उपाधिभेदाभावः प्रयोजकः, न तु स्वरूपैक्यमात्रम् । प्रकृते तु उपाधिभेदसद्भावात् कथमनुसन्धानप्रसङ्गः?

सिद्धान्त्युक्तानुमाने अप्रयोजकत्वाशङ्का

टीका

कथं च अन्यनिमित्तस्य अनुसन्धानस्याभावात् स्वरूपैक्याभावानुमानमिति ।

पूर्वोक्तशङ्कापरिहारः

अत आह–

मूलम्

…उपाधिभेदेऽपि… ।

पूर्ववाक्येन सम्बन्धः । अनेन अनुसन्धानं प्रति उपाधिभेदाभावो न प्रयोजकः । किं नाम ? स्वरूपैक्यमेव इत्युक्तं भवति । तत्कुतो ज्ञायते ? इत्यत आह

मूलम्

…हस्तपादादिगो यथा ।

अस्यापि पूर्वेणैव सम्बन्धः । ‘स्वरूपैक्ये सति हस्तपादा-द्युपाधीनां भेदे सत्यपि अनुसन्धानदर्शनात् तदेव प्रयोजकं नोपाधिभेदाभावः’ इति ज्ञायते । अन्यथा उपाधिभेदात् हस्त-पादादिगतसुखादिभोग एकस्य न स्यात् । अतः ‘उपाधिभेदेऽपि हस्तपादादिगतसुखादिभोगवत् स्वरूपैक्ये सर्वोपाधिगतोऽसौ भेदेन न दृश्येत’ इति ।

मन्दारमञ्जरी

तर्कस्योपाधिं शङ्कते ॥ नन्विति ॥ उपाधिभेदाभाव एव चेत्प्रयोजकस् तर्हि यज्ञदत्तशरीराविष्टपिशाचदुःखाद्युनुसन्धानं यज्ञदत्तस्य स्यादिति । तत्राह ॥ न तु स्वरूपैक्यमात्रमिति ॥ उपाध्यैक्यस्वरूपैक्य-योरुभयोरपि प्रयोजकत्वम् । अतो नोक्तदोष इत्यर्थः । उपाधेः साधना-व्यापकत्वमाह ॥ प्रकृत इति ॥ अनुकूलतर्काभावादप्रयोजकं चानुमान-मित्याह ॥ कथं चेति ॥ अन्यनिमित्तस्येति ॥ उपाध्यैक्यावच्छिन्न-स्वरूपैक्यनिमित्तकस्येत्यर्थः । नैमित्तकस्यानुसन्धानस्याभावो हि निमित्ताभावं कल्पयति । प्रकृते तु न स्वरूपैक्यमात्रं निमित्तम् । किं तर्हि ? विशिष्ट-मित्युक्तम् । विशिष्टाभावाश्चोपाध्यैक्याभावमात्रेणोपपद्यत इति स्वरूपैक्या-भावानङ्गीकारे बाधकं नेति भावः । सिद्धान्तयतीत्याह ॥ अत आहेति ॥ न प्रयोजक इति ॥ अन्वयव्यतिरेकाभ्यां प्रयोज्यप्रयोजकभावस्य निर्णेतव्यत्वा-दुपाध्यैक्यस्य व्यतिरेकव्यभिचारान्नाप्रयोजकमनुमानम् । नापि तर्कः सोपाधिकः । साध्यव्यापकत्वाभावादिति भावः ।

श्रीनिवासतीर्थीयटिप्पणी

तर्के उपाधिमाशङ्कते ॥ नन्विति । दृष्टान्तस्थले संप्रति-पन्नैकात्मनि प्रयोजक उपाधिः । अनेन साध्यभूतापाद्यव्यापकत्वमुक्तं भवतीति द्रष्टव्यम् ॥ न तु स्वरूपैक्यमात्रमिति । उपाधिभेदाभावविशिष्टं वस्तु-स्वरूपैक्यमेवानुसन्धाने प्रयोजकमित्यर्थः । उपाधिभेदाभावमात्रस्यैव प्रयोजकत्वे गर्भस्थस्यापि पितृमातृगतसुखाद्यनुसन्धानापत्तिः स्याद् अतः स्वरूपैक्यमपि प्रयोजकम् । गर्भस्थस्य तु मात्रा स्वरूपैक्याभावान्नानु-सन्धानमिति भावः । आपादकीभूतानुसन्धानाव्यापकत्वं दर्शयति ॥ प्रकृते त्विति । पक्षभूतेषु जीवेष्वित्यर्थः । अनुकूलतर्काभावान्नानुसन्धानमिति भावः । परस्परं सुखाद्यनुसन्धानशून्यत्वमस्तु । परस्परैक्यराहित्यं च मास्त्वित्यप्रयोजकं चानुमानमित्याह ॥ कथं चेति ॥ अन्यनिमित्तस्येति । उपाधिभेदाभवानिमित्तकस्येत्यर्थः । नैमित्तिकस्यानुसन्धानस्याभावो हि निमित्ताभावं कल्पयति । प्रकृते त्वनुसन्धाने न स्वरूपैक्यमात्रं निमित्तम् । किन्तूपाधिभेदाभावविशिष्टम् । तथा च नैमित्तिकस्यानुसन्धानस्याभावेन कल्प्यमाननिमित्तरूपविशिष्टाभाव उपाधिभेदाभावेनैवोपपद्यत इति स्वरूपैक्या-भावानङ्गीकारे बाधकं किमपि नास्तीत्यप्रयोजकतेति भावः ॥ पूर्ववाक्येनेति । उपाधिभेदेऽपि सुखदुःखादिभोगो भेदेन न दृश्यः । सुखाद्यनुसन्धानमस्तीति यावदिति पूर्ववाक्येन सम्बन्ध इत्यर्थः ॥ न प्रयोजक इति । सत्यप्यनुसन्धाने उपाधिभेदाभावो नास्तीति व्यभिचारादित्यर्थः ॥ तदिति । व्यभिचारा-त्प्रयोजको न भवतीत्येतत् कुतो ज्ञायत इत्यर्थः ॥ अस्यापीति । हस्त-पादादिगो यथेति वाक्यस्यापि सुखदुःखादिभोगश्चेति पूर्ववाक्येनैव सम्बन्ध इत्यर्थः ॥ अन्यथेति । अनुसन्धाने उपाधिभेदाभावस्यैव प्रयोजकत्व इत्यर्थः ॥

भोगानुसन्धानं न स्यादिति । तथा चानुसन्धाने सत्यपि उपाधिभेदा-भावाद्व्यभिचार इत्यर्थः । उपाधिभेदेऽपि हस्तपादादिगो यथेत्येतत् पूर्व-वाक्येनैव सम्बन्धं दर्शयन्व्याख्यति ॥ अत इति ॥ सर्वोपाधीति । देवदत्तयज्ञदत्तादिसर्वोपाधीत्यर्थः । असौ सुखादिभोगस्तदनुसन्धानमिति यावत् । तथा चानुसन्धाने उपाधिभेदाभावस्य व्यभिचारेण प्रयोजकत्वाभावेन स्वरूपैक्यस्यैव प्रयोजकतया अन्वयव्यतिरेकाभ्यां च निर्णीतत्वादनुसन्धाना-भावेन परस्परं स्वरूपैक्याभावानुमानं नाप्रयोजकम् । नापि तर्कः सोपाधिकः । साध्यभूतोपाध्यव्यापकत्वादित्युक्तं भवतीति द्रष्टव्यम् ।

परशुनाम्नीटिप्पणी

ननु दृष्टान्तस्थल इति । देवदत्त इत्यर्थः । पूर्ववाक्येनैव सम्बन्ध इति । उपाधिभेदेऽपि ‘सुखदुःखादिभोगश्च स्वरूपैक्ये न भेदतः । दृश्यो हि’ इति पूर्वेण सम्बन्धः, इत्यर्थः । तद्वाक्यम् इह अनुवर्तते, इति भावः । अस्यापीति । उपाधिभेदेऽपि स्वरूपैक्यमात्रेण हस्तपादाद्यवच्छेदेन जायमानो भोगः यथा भेदेन न दृश्यः, तथा ‘स्वरूपैक्ये न भेदतः दृश्यः’ इति पूर्वेण सम्बन्धः, इत्यर्थः ।

एकस्य न स्यादिति । हस्तगतो भोगः पादगतस्य न स्यात्, पादगतो भोगः हस्तगतस्य न स्यादित्यर्थः ।

संश्लिष्टोपाधेरनुसन्धानप्रयोजकत्वशङ्का तन्निरासश्च

टीका

अथापि स्यात् । संश्लिष्टोपाधित्वमनुसन्धाने प्रयोजकम् । तदभावात् प्रकृते नानुसन्धानमिति चेत् किमुपाधिसंश्लेषमात्रं प्रयोजकम्? उत स्वरूपैक्ये सति ? नाद्यः । मातृसुखादे-र्गर्भस्थेनानुभवप्रसङ्गात् ।

स्वरूपैक्यविशिष्टसंश्लिष्टोपाधेरनुसन्धानप्रयोजकत्वशङ्कानिरासः

न द्वितीयः । स्वरूपैक्यमात्रस्य प्रयोजकत्वे सम्भवति विशेषणप्रक्षेपे प्रमाणाभावात् । दोषान्तरं च सूचयति

मूलम्

नानादेहगभोगानुसन्धानं योगिनो यथा ॥ ७ ॥

स्वरूपैक्यसद्भावाद् विश्लिष्टनानादेहगतसुखाद्यनुसन्धानं सौभर्यादियोगिनो दृष्टमिति तदेवानुसन्धाने प्रयोजकं नोपाधि-संश्लेषोऽपीति ज्ञायते । अन्यथा योगप्रभावोत्पादितानेक शरीर-गतसुखाद्यनुसन्धानं योगिनो न स्यात् । अतो योगिनः स्वरूपै-क्याद् उपाधिषु विश्लिष्टेष्वपि यथा नानादेहगतसुखादि भोगानु-सन्धानं तथा प्रकृतेऽप्यापाद्यत एवेति ।

मन्दारमञ्जरी

प्रयोजकस्य व्यतिरेकव्यभिचारपरिहारार्थम् उपाधेः साध्य-व्यापकतासिद्ध्यर्थं च उपाधिर्विशिष्यत इति शङ्कते ॥ अथापीति ॥ सिद्धान्ती तत्परिजिहीर्षुविकल्पयति ॥ किमुपाधीति ॥ आद्ये दूषणं प्रतिजानीते ॥ नाद्य इति ॥ कोऽयमुपाधीनामन्योन्यसंश्लेषो नाम ? किं सम्बन्धमात्रम् ? किं वा उत्पत्तिमारभ्य सम्बन्धः ? यद्वा मिलित्वा एकावयव्यारम्भकत्वम् ? नाद्यः । तस्य प्रकृतेऽपि सत्वात् । न द्वितीय इत्याह ॥ मात्रिति ॥ अन्वय-व्यभिचारस्य संश्लिष्टोपाधिरनुसन्धाने प्रयोजक इति नास्मदुक्तमनुमानम-प्रयोजकम् । नापि तर्कः सोपाधिकः । ‘यत्रानुसन्धानं तत्रोपाधिसंश्लेषः’ इति साध्यव्यापकत्वेऽपि साध्याभावाविनाभूताभावप्रतियोगिनः स्वरूपैक्यस्य प्रयोजकत्वे सम्भवति साध्याभावाविनाभूताभावरहितस्योपाधेरेवाप्रयोजकत्वम् । यथोक्तं,

एकसाध्याविनाभावे मिथः सम्बन्धशून्ययोः ।

साध्याभावाविनाभावी स उपाधिर्यदत्ययः ॥

इति भावः । उभयोत्पत्तिमारभ्य सम्बन्धो विवक्षित इति चेन्न । देवता-वचनादिना मध्ये हस्ताद्युत्पत्तिदर्शनेन व्यभिचारात् । अनाश्यसम्बन्धो विवक्षित इति चेन्न । सति हस्ते पादच्छेददर्शनादिति भावः ।

स्वरूपैक्ये सति संश्लेषः प्रयोजक इति द्वितीयं दूषयति ॥ न द्वितीय इति ॥ दोषान्तरं सूचयतीति ॥ यद्यपि उपाधिसंश्लेषविशिष्टस्वरूपैक्यस्य नानुसन्धान-प्रयोजकत्वम् । योगिषु व्यतिरेकव्यभिचारादित्ययमर्थो मूलग्रन्थे मुखत एवोच्यते तथापि दोषान्तरत्वाकारेण सूच्यत्वम् । विशेषणप्रक्षेपे प्रमाणाभावादिति स्वेनोक्तस्याचार्येण सूचितत्वादिति भावः । अथ वा व्यभिचारस्थलस्य कथनेऽपि व्यभिचारः सूच्यत इति तात्पर्यम् । ‘एकावयव्यारम्भकत्वं संश्लेषः’ इति पक्षोऽप्यनेनैव योगिषु व्यतिरेकव्यभिचारकथनेन निरस्तो वेदितव्यः ।

अन्तःकरणरूपोपाधिभेदाभावस्य अनुसन्धानप्रयोजकत्वशङ्का तन्निरासश्च

ननु अन्तःकरणरूपोपाधिभेदाभावोऽनुसन्धाने प्रयोजकः । एवं च चैत्रस्य हस्तपादादिभेदेऽपि अन्तःकरणभेदाभावाद् योगिनोऽपि शरीरभेदेऽपि अन्तःकरणभेदाभावादनुसन्धानोपपत्तिः । देवदत्तयज्ञदत्तयोस्तु अन्तःकरण-भेदादननुसन्धानम् । मातृगर्भस्थयोरपि अन्तःकरणभेदादननुसन्धानोपपत्तौ ‘स्वरूपैक्ये सति’ इति न विशेषणीयम् । तेन गौरवं च नास्तीति चेन् नैष दोषः । सुप्तौ अन्तःकरणविलयमङ्गीकुर्वतस्तव मते प्रत्यहमन्तःकरणभेद-सद्भावेन ‘पूर्वेद्युर्मया दुःखमनुभूतं’ इत्यनुसन्धानाभावप्रसङ्गात् । सुप्तमुक्त-योरन्तःकरणरूपोपाधिभेदाभावेन तयोर् जाग्रत्संसारसम्बन्धिदुःखाद्यनुभव-प्रसङ्गाच्च । एकस्यैवाणुभूतस्यान्तःकरणस्य विप्रकृष्टदेशस्थितानेकयोगिशरीर-सम्बन्धासम्भवेन योगिनोऽपि अन्तःकरणभेदसद्भावाच्च । अन्यथा देवदत्त-यज्ञदत्तयोरप्यन्तःकरणैक्यप्रसङ्गात् ।

अविद्यारूपोपाधिभेदाभावस्यानुसन्धानप्रयोजकत्वशङ्का तन्निरासश्च

ननु तर्ह्यविद्यारूपोपाधिभेदाभावो ऽनुसन्धाने प्रयोजकः । एवं च न दोषः । सुषुप्तावन्तःकरणविलयवद् अविद्याविलयाभावाद् अविद्याया अन्तःकरणवदणुत्वाभावेन योगिन्यविद्याभेदाभावाद् देवदत्तयज्ञदत्तादौ च अनेकजीववादे अविद्याभेदाद् एकजीववादे तु व्यवस्थाया एवाभावादिति चेद् उच्यते, अविद्यारूपोपाधिभेदाभावस्यानुसन्धाने प्रयोजकत्वे मायोपाधिक-स्येश्वरस्य च ऐन्द्रियकसुखाद्यनुसन्धानं स्यात् ।

अज्ञानरूपोपाधिभेदाभावस्यानुसन्धानप्रयोजकत्वशङ्का तन्निरासश्च

अज्ञानरूपोपाधिभेदाभावोऽनुसन्धाने प्रयोजक इति चेन्न । मायायां लोकेऽज्ञानपदाप्रयोगात् । न हि मायाविनमज्ञानिनमाचक्षते । न च मायावी कस्यचिदर्थस्याज्ञानादैन्द्रजालिकं दर्शयति । किं तु ? ओषधिविशेषज्ञानादेव । किं च मुक्तस्याज्ञानरूपोपाधिभेदाभावात् संसारिसम्बन्धिदुःखाद्यनुसन्धान-प्रसङ्गः ।

अज्ञानरूपोपाध्यैक्यस्यानुसन्धानप्रयोजकत्वाशङ्का तन्निरासश्च

अज्ञानरूपोपाध्यैक्यमनुसन्धाने प्रयोजकमिति चेत् तर्हि मुक्तस्य स्वरूप-सुखानुभवो न स्यात् । ‘चैतन्यैक्येऽप्यन्तःकरणभेदाद् अविद्याभेदाद्वा अननु-सन्धानं’ इत्यत्र मां प्रति दृष्टान्ताभावेन शरीरभेदवदन्तःकरणादिभेदस्यापि चैतन्यैक्ये सति अनुसन्धानाप्रतिबन्धकत्वात् ।

भोगायतनाभेदस्यानुसन्धानप्रयोजकत्वशङ्गा तन्निरासश्च

एतेनैतदपि निरस्तं ‘यथा खलु स्वकर्णपुटपरिच्छिन्ननभोभागसमवायि-शब्दोपलम्भेऽपि भागान्तरवर्तिशब्दानुपलम्भस् तथा सुखदुःखप्रयत्नाद्युप-लम्भानुपलभ्य व्यवस्थितिसिद्धेस्तत्कर्णशष्कुलीमण्डलावच्छिन्नस्य नभसस्तत्र तत्र श्रोत्रभाववत् तत्तद्भोगायतनावच्छेदलब्धजीवभावस्य तत्र तत्र भोगोपपत्तौ किमनेकात्मकल्पनादुर्व्यसनेन’ इति । अव्याकृताकाशस्यास्माभिः श्रोत्रत्वा-नङ्गीकारात् । आकाशस्य स्वतः सांशत्वोपपादनाच्च । योगिनो भोगायतन-भेदेऽपि भोगाव्यवस्थाया उक्तत्वाच्च । किं च यथा अनेकात्मवादे तत्तत्कर्ण-पुटस्य तत्तदीयत्वनियमः न तथैकात्मवादे तत्तद्भोगायतनस्य नियमोऽस्ति । तथा च स्वीयकर्णपुटद्वयपरिच्छिन्ननभोभागवृत्तिशब्दोपलम्भवदेकात्मवादे सर्वेषां भोगायतनानां स्वीयत्वात् सर्वभोगायतनपरिच्छिन्नात्मसम्बन्धिसुखदुःखाद्यनुभव एकैकस्य स्यादेवेत्यलम् ।

श्रीनिवासतीर्थीयटिप्पणी

संश्लिष्टोपाधित्वम् उपाधिमत्त्वं विश्लिष्टोपाधिभेदाभाव इत्यर्थः ॥ प्रकृत इति । हस्तपादादिगतसुखाद्यनुसन्धानमेकस्यात्मनो युक्तम् । संश्लिष्टोपाधित्वाद्विश्लिष्टोपाधिभेदाभावाज्जीवब्रह्मणोर्जीवानां च विश्लिष्टोपाधि-मत्त्वान्नानुसन्धानमित्यर्थः । प्रयोजकमनुसन्धाने ॥ प्रसङ्गादिति । तत्रापि विश्लिष्टोपाधिभेदाभावसद्भावादित्यर्थः ॥ दोषान्तरं चेति । प्रयोजनाभाव एको दोषः स्वैरुक्तः । व्यभिचारूपदोषांतरं सूचयतीत्यर्थः । मूले व्यभिचार-स्थलोक्त्या व्यभिचारः सूचित इति भावः । तदेव स्वरूपैक्यमेव । उपाधि-संश्लेषः संश्लिष्टोपाधिभेदाभावः ॥ अन्यथेति । विश्लिष्टोपाधिभेदाभावस्यैवानु-सन्धानप्रयोजकत्व इत्यर्थः । ईश्वरे मनःप्रणिधानं योगः । न स्यादिति । विश्लिष्टोपाधीनामेव सत्वेन विश्लिष्टोपाधिभेदाभावाभावेन व्यभिचारादिति भावः । मूलं योजयति ॥ अत इति । अनुसन्धाने विश्लिष्टोपाधिभेदाभावस्या-प्रयोजकत्वादित्यर्थः । यथेत्यनंतरं मूलेऽध्याहार्यमाह ॥ तथेति । देवदत्त-यज्ञदत्ताभिधोपाधिषु विश्लिष्टेष्वपि सुखाद्यनुसन्धानमापाद्यत एवेत्यर्थः ॥

परशुनाम्नीटिप्पणी

दोषान्तरं च सूचयतीति । उपाधिसंश्लेषस्य प्रयोजकत्वे दोषान्तरं सूचयतीत्यर्थः । अस्माभिरेको दोष उक्तः, अन्यं दोषं मूलकारः सूचयतीत्यर्थः ।

योगिनो नानादेहगतभोगानुसन्धानस्यासिद्धिशङ्का तन्निरासश्च

टीका

स्यादेतत् । परबुद्धेरप्रत्यक्षत्वाद् योगिनो नानादेहगत-भोगानुसन्धानं कुतः सिद्धम् ? इत्यत आह–

मूलम्

न चेद्भोगानुसन्धानं तदिच्छा योगिनः कुतः ।

टीका

इच्छापूर्वं खलु योगिनोऽनेकशरीरोपादानं पुराणेषु पठ्यते । तत्र यदि योगिनोऽनेकशरीरगतसुखाद्यनुसन्धानं न स्यात् तदा तस्य तदिच्छैव न स्यात् । शरीरोपादानस्य प्रयोजना-न्तराभावात् । अप्रयोजनस्य प्रेक्षावता निवर्तिष्यमाणत्वात् । अतो ज्ञायते अस्त्यनुसन्धानमिति ।

योगिनो नानाशरीरग्रहणे अनुसन्धानातिरिक्तप्रयोजनाभावस्य असिद्धिशङ्का तत्परिहारश्च

न च योगिनोऽविवेकिनः । येनानुसन्धानासाधनमपि देहबाहुल्यं तदर्थमिच्छन्तीति कल्पयामः ।

(म.टि.) आक्षिपति ॥ स्यादेतदिति ॥ परिहरति ॥ अत आहेति ॥ योगिनः प्रवृत्तिः किमिच्छापूर्विका ? उत न ? आद्यः मूलग्रन्थेन दूषितः । द्वितीयं दूषयति ॥ इच्छापूर्वकं खल्विति ॥ इच्छापूर्वकमिति पक्षे किं सप्रयोजनं ? किं वा निष्प्रयोजनं ? आद्यं दूषयति ॥ तत्रेति ॥ तथा सतीत्यर्थः ॥ ननु ‘सप्रयोजनत्वेऽपि प्रयोजनमात्रमपेक्षते न तु सुखाद्यनु-सन्धानमिति नियमः’ इति तत्राह ॥ शरीरेति ॥ द्वितीयं दूषयति ॥ अप्रयोजनस्य चेति ॥ ननु ‘प्रयोजनान्तराभावात्’ इत्यसिद्धो हेतुः । देहबहुत्वस्य वैभवार्थत्वादित्यत आह ॥ न चेति ॥ तदर्थमिति ॥ तच्छब्देन योगिन इत्यत्र विशेषणत्वेन प्रकृतो योगस् तपोजन्यापूर्वरूपो विवक्ष्यते । तस्यार्थः प्रयोजनम् । देहबहुत्वविशेषणं चैतत् । वैभवार्थमिति शेषः । यद्वा बुद्धिस्थत्वात् तच्छब्देन वैभवं परामृश्यते । वैभवायेत्यर्थः । अतिप्रयास-साध्ययोगजन्यापूर्वस्य प्रेक्षावतां क्षुद्रफले व्ययीकरणानुपपत्तेरिति भावः ।

श्रीनिवासतीर्थीयटिप्पणी

कुतः सिद्धमिति । अस्माकं कुतः प्रमाणात्सिद्धमित्यर्थः ॥ पुराणेष्विति । यथोक्तमाग्नेयपुराणे ।

सौभरिश्च महायोगी पंचाशज्जन्मसंस्मृतिम् ।

दिव्यज्ञानेन विज्ञाय भाविजन्मफलं पुनः ।

एकदैव फलं भुङ्क्त्वा पंचाशज्जन्मकर्मजम् ।

स्वेच्छयैव ततः शुद्धो राहुमुक्त इवोडुप इति ।

तस्य सौभर्यादियोगिनः ॥ तदिच्छैवेति । युगपदनेकशरीरगतसुखादि भोगानुसन्धानायानेकशरीरोपादानेच्छैवेत्यर्थः । प्रयोजनान्तरेति । सुखाद्यनु-सन्धानव्यतिरेकेण प्रयोजनान्तराभावादित्यर्थः । निष्प्रयोजनमपि शरीरोपादान-मिच्छन्ति योगिन इति चेत्तत्राह ॥ अप्रयोजनस्येति ॥ अत इति । अनेकशरीरोपादानेच्छान्यथानुपपत्त्येत्यर्थः । ननु योगिनः सुखाद्यनुसन्धाना-साधनमपि देहबाहुल्यं सुखाद्यनुसन्धानार्थमिच्छन्ति विवेकज्ञानाभावादिति चेत्तत्राह ॥ न च योगिन इति । अविवेकिनो भ्रान्ताः ।

परशुनाम्नीटिप्पणी

परबुद्धेरिति । प्रत्यक्षं तावन् न प्रवर्तते ॥ नाप्यागमः, उक्तार्थप्रतिपादकस्य आगमस्य अदर्शनात् । व्याप्तिग्रहाभावात्, अनुमानस्यापि अभाव इति भावः ।

प्रकारान्तरेण प्रयोजनान्तराभावस्यासिद्धिशङ्का तत्परिहारश्च

टीका

अथोच्येत, न योगिनो ऽनेकशरीरोपादित्सया अनेक-शरीरगतसुखाद्यनुसन्धानमेकस्य कल्पयितुं शक्यते देहबाहुल्यार्थ-मेवेच्छोपपत्तेः । न च तस्य वैयर्थ्यादप्रयोजकत्वम् । कर्मक्षयाय भोगार्थत्वात् । भोगश्च विनाप्यनुसन्धानेन तत्र तत्र तद्गतांशैः शक्यते कर्तुमिति । तत्राह–

मूलम्

अनुसन्धानरहितदेहबाहुल्यमन्यथा ॥ ८ ॥

सिद्धमेव हि तत्पक्षे विशेषो योगिनः कुतः ।

न योगिनो ऽनुसन्धानेन विना केवलदेहबाहुल्यार्थमेवेच्छेति कल्पयितुं शक्यते । तथा सति अनुसन्धानरहितदेहबाहुल्यस्य योगित्वेन विनापि विद्यमानत्वाद्योगिनोऽनेकशरीराधिष्ठातृत्वमिति विशेषो न स्यात् । अस्ति चासौ । तेन ज्ञायते ‘न शरीरबाहुल्य-मात्रायेच्छा योगिनः किं तु ? तद्गतभोगाद्यनुसन्धानार्था’ इति । कथमयोगिनोऽपि शरीरबाहुल्यं सिद्धम् ? इत्यत उक्तम् ॥ तत्पक्ष इति ॥ सर्वशरीरगतचेतनानां स्वभावतोऽभेदस्य परेणाङ्गीकृत-त्वादिति ।

मन्दारमञ्जरी

‘प्रयोजनान्तराभावात्’ इत्यस्य असिद्धिमाशङ्कते ॥ अथेति ॥ कल्पनं चासङ्घटितमित्याह ॥ एकस्येति ॥ जीवस्याणुत्वेन नानाशरीरगत-सुखाद्यनुसन्धातृत्वानुपपत्तेरिति भावः । देहबाहुल्यं च न स्वरूपेण पुरुषार्थः । ततः कथं तस्य प्रयोजनत्वम् ? इत्यत आह ॥ न चेति ॥ स्वरूपेणा-पुरुषार्थत्वेऽपि पुरुषार्थान्तरसाधनत्वमस्तीत्याह ॥ भोगार्थत्वादिति ॥ ननु भोगो नाम किं सुखादिकमेव ? किं वा तदनुसन्धानं ? नाद्यो ऽननुसंहित-स्यापि सुखस्य पुरुषार्थत्वे परसुखस्यापि पुरुषार्थत्वप्रसङ्गात् । द्वितीये सिद्धं नः समीहितमित्यत आह ॥ कर्मक्षयायेति ॥ अननुसंहितस्यापि सुखस्य संसारनिदानकर्मनाशकत्वेन पुरुषार्थत्वमिति भावः । ननु तथापि सुखादे-र्ज्ञातैकसत्वादुत्पन्नं सुखं ज्ञायेतैवेति तत्राह ॥ भोगश्चेति ॥ अनुसन्धातुरंशिनः सर्वदेहव्यापित्वाभावाद् अनुसन्धात्रभावबाधितत्वेन ‘यत् सुखं तज् ज्ञातैकसत्’ इति व्याप्तिर्नाङ्गीक्रियत इति भावः । तर्हि भोगश्च न स्यात् सानुसन्धातृकस्यैव शरीरस्य भोगायतनत्वादित्यत आह ॥ तत्र तत्र तद्गतांशैरिति ॥ अनुसन्धाने अंश्यपेक्षा सुखदुःखोत्पत्तिलक्षणभोगस्तु अंशसन्निधानमात्रेण भवतीति भावः । अंशैरिति करणे तृतीया । करणत्वं च शरीरस्य भोगायतनताया उपपादकत्वा-दौपचारिकम् ।

‘यत् सुखं तद् अनुसन्धीयत एव’ इति व्याप्तिसमर्थनं

नानाशरीरेष्वंशानामनङ्गीकारे निर्जीवशरीर इव भोगोऽपि न स्यात् । अंशानामङ्गीकारे अंश्यप्यङ्गीकर्तव्यः । न चाणुत्वविरोधः । अणोरपि शक्त्या पादादिव्यापित्ववन् नानादेहव्यापित्वस्याप्युपपत्तेः । तेन विना अंशानाम-वस्थानायोगात् । तयोरेकत्वात् । योगे वा पादादाविव अंशद्वारा अंशी चानुसन्दधीत । तथाच ‘यत्सुखमुत्पन्नमविनष्टं च तदनुसन्धीयत एव’ इति व्याप्तेर्बाधकाभावाद् अन्यकर्मफलस्य चान्येनानुसन्धातुमशक्यत्वात् तस्यैवानु-सन्धानं सुस्थम् ।

सुखादिरूपभोगस्यानुसन्धानानङ्गीकारे योग्ययोगिनोरविशेषापादनसमर्थनम्

अपि चानुसन्धानाभावेऽपि कर्मक्षयार्थत्वेन भोगः सार्थकोऽस्तु । अनु-सन्धानराहित्याविशेषात् ‘योगिनोऽयोगिनो विशेषो न स्यात्’ इत्यभिप्रायेण सिद्धान्तयति ॥ तत्राहेति ॥ मूलग्रन्थे अन्यथा इत्यत्र अपिशब्दाध्याहारे-णाह ॥ योगित्वेन विनापीति ॥ ननु ‘विशेषो न स्यात्’ इत्यत्र विशेष-शब्देन अनेकदेहजन्यदुःखानुसन्धानाननुसन्धानरूपो विशेषो विवक्षितः ? किं वा एकशरीरयोगित्वानेकशरीरयोगित्वलक्षणः? अथ वा स्वभोगसाधनानेक-शरीरभावाभावलक्षणः? नाद्यः । योगिनोऽप्यनुसन्धानाभावेनेष्टापत्तेः । नापि द्वितीयः । ऐकात्म्यवादिनामयोगिनोऽप्यनेकशरीरसद्भावेनेष्टापत्तेः । तृतीयस्तु स्यादेव अयोगिनोऽनेकशरीरत्वेऽपि तेषां स्वभोगसाधनत्वाभावादित्याक्षिपति ॥ कथमयोगिन इति ॥ भोगस्य स्वीयत्वं यदि नाम स्वानुसन्धेयत्वं तदा न योगिनोऽपि तत् । स्वशरीरजन्यत्वं चेद् अयोगिनोऽप्यस्तीत्यभिप्रायेण परिहरतीत्याह ॥ अत उक्तमिति ।

श्रीनिवासतीर्थीयटिप्पणी

देहबाहुल्यार्थमेवेति । न सुखाद्यनुसन्धायेत्येवार्थः । तस्य देहबाहुल्यस्य । तत्र तत्र तस्मिंस्तस्मिन्देहे । मूले अन्यथेत्यनन्तरमपि-शब्दोऽध्याहार्य इत्यभिप्रेत्यान्यथेत्यस्यार्थमाह ॥ योगित्वेन विनापीति । अयोगिष्वस्मदादिष्वित्यर्थः ॥ कथमयोगिन इति । एकस्यात्मनोऽस्मदादेर् एक एव देहः प्रमितः । अतः कथं देहबाहुल्यं सिद्धमित्यर्थः ॥ अङ्गीकृत-त्वादिति । तथा चैकस्यात्मनो देवदत्तस्य देहबाहुल्यं सिद्धमित्यर्थः ॥

परशुनाम्नीटिप्पणी

अप्रयोजकत्वमिति । इच्छाया इति ॥ इच्छां प्रतीति शेषः । भोगानुसन्धानार्थेतीति । ‘भोगशब्दोऽत्र सुखादिरूपविषयपरः । ततश्च तत्तच्छरीरावच्छेदेन जायमानसुखाद्यनुसन्धानार्थेत्यर्थः ।

आत्मैक्यवादिभिर्योग्ययोगिनोर्विशेषसमर्थनम्

टीका

अथ मन्येत, एकस्यैव योगिनोऽनेकशरीरगतसुखानु-सन्धानाभावेऽपि योगिन एवानेकशरीरत्वमिति विशेषो युज्यते । तेषां शरीराणां तत्कर्मफलभोगार्थत्वात् । भोगस्य च अनुसन्धा-नेन विनाप्युपपत्तेः । न चैवं सकलदेहगतचेतनानां स्वभावतोऽ-भेदेऽपि देहबाहुल्यस्य अस्ति देवदत्तकर्मफलभोगार्थतेति ।

तन्मतनिराकरणं

तदेतदसत्, सर्वदेहगतात्मनां देवदत्ताभेदेन सर्वकर्मणामपि देवदत्तसम्बन्धित्वापत्त्या सर्वदेहानां देवदत्तकर्मफलभोगार्थताऽ-भावानुपपत्तेः । अभेदेऽपि देवदत्तोपाधिकृतमेव कर्म देवदत्त-सम्बन्धि नान्यदिति नियम इति चेन्न । अभेदादेव सर्वोपाधी-नामपि देवदत्तोपाधित्वापातात् । देवदत्तकर्मनिर्मित एव देवदत्तो-पाधिर्नेतरोऽभेदेऽपीति चेत् तत्राह

मूलम्

सिद्धौ हि कर्मभेदस्य स्यादुपाधिविभिन्नता ॥ ९ ॥

तत्सिद्धौ चैव तत्सिद्धिरित्यन्योन्यव्यपाश्रयः ।

इदं देवदत्तस्यैव इदं यज्ञदत्तस्यैव इति कर्मभेदसिद्धौ तत्तत्कृत-त्वेन अयं देवदत्तोपाधिर् अयं यज्ञदत्तोपाधिर् इति उपाधि-विभिन्नता स्यात् । स्वरूपाभेदेन निमित्तान्तराभावात् । उपाधि-भेदसिद्धावेव कर्मभेदसिद्धिर् उक्तादेव हेतोः । ततश्च अन्योन्या-श्रयान् नैकमपि सिद्ध्यति । कर्मोपाधिव्यक्तिभेदान्नान्योन्याश्रय इति चेत् । तथाप्यनवस्था स्यात् । अनादित्वान्नेति चेन्न । असिद्धविषयत्वेन मूलक्षतेः । कर्माण्युपाधयश्च विभिन्ना एव दृश्यन्त इति चेत् सत्यं, तद्भेदस्य स्वाभाविकात्मभेदेनैवोपपत्तेः । तदेवं योगिनोऽनुसन्धानाभावे विशेषाभावप्रसङ्गादनुसन्धान-मङ्गीकार्यं, अभेदो वा त्याज्यः । अनुसन्धाने च सति उपाधि-विश्लेषोऽकिञ्चित्कर इति ‘स्वरूपैक्याङ्गीकारे सुखदुःखादिभोगो भेदेन न दृश्येत’ इत्युक्तं युक्तम् ।

मन्दारमञ्जरी

शङ्कते ॥ अथेति ॥ अनेकशरीरसद्भाव इति ॥ स्वभोग-साधनानेकशरीरसद्भाव इत्यर्थः ॥ भोगार्थत्वादिति ॥ भोगप्रयोजनकत्वा-दित्यर्थः । भोगस्य स्वीयत्वं दुर्निरूपमित्युक्तमित्याशङ्क्य तन्निरूपयितुं भोगं विशिनष्टि ॥ तत्कर्मफलेति ॥ स्वकर्मक्षयकारित्वं स्वीयत्वमित्यर्थः । कर्मक्षयाय भोगार्थत्वादित्यत्र भोगस्य अपुरुषार्थत्वशङ्कानिरासाय कर्मक्षयः फलत्वेनाभिहितः । इदानीं त्वविशेषशङ्कानिरासार्थमभिधीयत इति न पौनरुक्त्यम् ॥ भोगस्य चेति ॥ ‘सुखत्वादिकं ज्ञातैकसन्मात्रनिष्ठं न भवति धर्मत्वाद् घटत्वादिवत्’ इत्यनुमानेनोत्पन्नस्यापि सुखस्याननुसन्धानोपपत्तेरिति भावः । अयं च विशेषो ऽयोगिनो नास्तीत्याह ॥ न चैवमिति ॥ एवं योगिवत् शरीरबाहुल्यस्य यज्ञदत्तादिशरीराणां देवदत्तकर्मफलभोगार्थता नेति सम्बन्धः ।

यदुक्तमनुमानं तत्र ज्ञातैकसन्मात्रनिष्ठत्वं प्रसिद्धं न वा ? न चेत् तदभावोऽप्यप्रसिद्ध इत्यप्रसिद्धविशेषणत्वम् । प्रसिद्धं चेद् यत्र प्रसिद्धं तन्निष्ठ-धर्म एव व्यभिचारः । अस्मद्रीत्या आत्मत्वादौ व्यभिचारश्च । आत्मनः स्वकर्मकसंविद्रूपत्वात् । सुखादेर्ज्ञातैकसत्वानङ्गीकारे संशयादिगोचरत्वापत्तिरिति तर्कबाधश्च । सुखादिज्ञानरूपस्य साक्षिणो नित्यत्वेन तज्ज्ञानस्यावश्यकत्वा-च्चेत्यादयो दोषा ऊह्याः । तस्माद्भोगानुसन्धानं दुष्परिहरम् । अपि च अस्त्वनुसन्धानं विनापि भोगस् तथापि न विशेषः सूपपाद इत्याह ॥ तदे-तदिति ॥ कारिकायां भेदभिन्नताशब्दौ भिन्नस्वामिकत्वापरपर्यायनियम-वाचकौ । कर्मोपाधिस्वरूपभेदपरत्वे प्रकृतानुपयोगादित्याह ॥ इदं देवदत्त-स्येति ॥ कोटिद्वयाङ्गीकारे खलु अन्योन्याश्रयः । प्रकृते च अनेककोटि-सद्भावान्नान्योन्याश्रय इति शङ्कते ॥ कर्मेति ॥ एवं तर्ह्यनवस्थाऽस्त्विति परिहरति ॥ तथापीति ॥ प्रवाहस्यानादित्वाद् बीजाङ्कुरादाविव नानवस्था दोषायेति शङ्कते ॥ अनादित्वादिति ॥ दृष्टः कर्मोपाधिनियमोऽनन्यथा-सिद्धश्चेत्खलु नियम्यनियामकभावापन्नां कर्मोपाधिपरम्परां कल्पयेत् । स एव न दृश्यत इति गूढाभिसन्धिः परिहरति ॥ नासिद्धेति ॥ अभिप्रायमजानानः पर आह ॥ कर्माणीति ॥ विभिन्ना इति ॥ कर्माणीत्यनेन विभिन्नानीति लिङ्गव्यत्ययेन सम्बन्धः । नियमस्य दृष्टत्वमात्रमङ्गीकरोति ॥ सत्यमिति ॥ कल्पकत्वं तु नाङ्गीक्रियते अन्यथासिद्धत्वादिति गूढाभिसन्धिं विवृणोति ॥ तद्भेदस्येति ॥ अयं भावः, ‘यद्धि यस्य कारणं न तत्तस्य कार्यं’ इति यथा नियमस् तथा यो धर्मो यन्निरूप्यकारणतावच्छेदकः नासौ तन्निरूप्यकार्यता-वच्छेदकः यथा तन्तुत्वं’ इत्यपि नियमः । तत्र पटनिरूप्यकारणतावच्छेदकस्य तन्तुत्वस्य न पटप्रतियोगिककार्यतावच्छेदकत्वम् । न हि कश्चिदपि तन्तुः पटजन्यः । येन तन्तुत्वं पटाख्यकारणनिरूप्यकार्यतावच्छेदकं स्यात् । प्रकृते च उपाधिनियमनिरूप्यकारणतावच्छेदकस्य कर्मनियमत्वस्य तन्निरूप्यकार्यता-वच्छेदकत्वमस्त्येव । कस्यचित्कर्मनियमस्योपाधिनियमकारणत्वेऽपि कस्यचित् कर्मनियमस्योपाधिनियमकार्यत्वात् । बीजाङ्कुरादौ गत्यन्तराभावात्तथा अङ्गीक्रियते । न चैवं प्रकृते । अन्यथाप्युपपन्नत्वादिति । उपसंहरति ॥ तदेवमिति ॥ योगिनोऽनुसन्धानलक्षणविशेषमनङ्गीकृत्य अनेकशरीरित्व-लक्षणविशेषाङ्गीकारेऽयोगिनस्तदभावसिद्ध्यर्थम् आत्माभेदस्त्याज्य इत्याह ॥ अभेदो वेति ॥ योगिनो विशेषसिध्यर्थं चात्माभेदत्यागे घट्टकुट््यां प्रभातवृत्तान्तायितं स्यादिति भावः । अथ तत्परिहाराय योगिवदयोगिनोऽ-प्यनेकशरीरित्वमङ्गीक्रियते तथा योगिनोऽनुसन्धानलक्षणविशेषोऽस्तीत्यभिमानस् तदा उपाधिसंश्लेषविश्लेषौ नानुसन्धानाननुसन्धाननियामकौ योगिषु संश्लेष-व्यतिरेकेऽप्यनुसन्धानदर्शनेन व्यतिरेकव्यभिचाराद् विश्लेषसद्भावेऽप्यनु-सन्धानदर्शनेन अन्वयव्यभिचाराच्चेत्याह ॥ अनुसन्धाने चेति ॥

श्रीनिवासतीर्थीयटिप्पणी

योगिन एवेति । तथाचानुसन्धानरहितदेहबाहुल्यं योगित्वं विनाऽयोगिनोऽपि सिद्धमित्युक्तमसदिति भावः । तेषां शरीरणां योगीश्वर-गृहीतशरीराणाम् ॥ तत्कर्मफलभोगेति । तच्छरीरापादकयोगीश्वरीयकर्मफल-भूतसुखाद्यनुभावार्थत्वादित्यर्थः । नन्वनुसन्धानाभावे भोगोनुपपन्न इति चेत्तत्राह ॥ भोगस्य चेति ॥ अनुसन्धानेन विनापीति ॥ देहान्तरैरननुभूय सुखाद्यनुसन्धानेन विनापि योगिन उपपत्तेरित्यर्थः ।

विशेषो योगिनः कुत इत्युक्तदोषमयोगिष्वयं प्रकारो न सम्भवतीत्याशयेन परिहरति ॥ न चैवमिति । देहबाहुल्यस्य देवदत्तकर्मफलभोगार्थताऽस्तीत्येवं भवद्भिर्न वक्तव्यमित्यर्थः । यथा एकस्यैव योगिनो देहबाहुल्यं तत्कर्मफल-भोगार्थम् एवमेकस्यैवायोगिनो देवदत्तस्य यज्ञदत्तादिदेहबाहुल्यं तत्कर्मफल-भोगार्थमिति वक्तुं न शक्यते । तत्तत्कर्मणां भेदे यज्ञदत्तादिशरीराणां यज्ञदत्तकर्मफलभोगार्थत्वेन देवदत्तकर्मफलभोगार्थत्वादिति भावः। सर्वकर्मणां यज्ञदत्तादिकर्मणाम् । शङ्कते ॥ अभेदेऽपीति ॥ देवदत्तोपाधीति । देवदत्ताभिधदेहेत्यर्थः । सर्वोपाधीनाम् । यज्ञदत्ताद्यभिधदेहानाम् ।

पुनः शङ्कते ॥ देवदत्तेति । अभेदेऽपीत्यादौ योज्यम् । इदं कर्म । ननूपाधिभेदस्य कर्मभेदं विना तत्तत्स्वरूपभेदेनैवोपपत्तेः कर्मभेदस्य निमित्तत्वाभाव इति चेत्तत्राह ॥ स्वरूपाभेदेनेति । अङ्गीकृतत्वेन निमित्तेनेत्यर्थः । चैतन्यस्य स्वरूपस्यैकत्वेन स्वरूपभेदस्य निमित्तत्वानुपपत्तौ कर्मभेदव्यतिरेकेणोपाधिभेदे निमित्तान्तराभावादित्यर्थः । तत्सिद्धौ चेत्यादि व्याख्याति ॥ उपाधिभेदसिद्धाविति ॥ उक्तादेव हेतोरिति । स्वरूपाभेदेन तद्भेदस्य कर्मभेदे निमित्तत्वानुपपत्तेरुपाधिभेदं विना तद्भेदे निमित्तान्तराभावा-दित्यर्थः ॥ व्यक्तिभेदादिति । यथा बीजादङ्कुरमङ्कुराद्बीजमिति सामान्येना-न्योन्यसापेक्षतया अन्योन्याश्रयप्राप्तावपि न बीजाङ्कुरव्यक्तिभेदादन्योन्याश्रयः । एवं कर्मोपाधिसामान्ययोरन्योन्यसापेक्षत्वेनान्योन्याश्रयप्राप्तावपि कर्मोपाधि-व्यक्तिभेदान्नान्योन्याश्रय इत्यर्थः । अनवस्थेति ॥ बीजाङ्कुरव्यक्तिभेदमङ्गीकृत्य परंपराङ्गीकारे यथाऽनवस्था तथेत्यर्थः । अनादित्वादिति । बीजाङ्कुर-व्यक्तिभेदेन प्राप्तानवस्था यथाऽनादित्वान्न दोष एवमिहापीत्यर्थः । असिद्ध-विषयत्वेन मूलक्षतेरिति । अप्रामाणिकविषयत्वेनेत्यर्थः । यदर्थमुत्तरोत्तरानु-सरणम् । तन्मूलमुत्पत्तिर्ज्ञप्तिर्वा । युक्तं बीजाङ्कुरस्थलेऽनादित्वेनानवस्थाया अदोषत्वम् । मूलभूताङ्कुरोत्पत्तेः प्रत्यक्षसिद्धत्वेन प्रामाणिकतया परम्परा-कल्पकसद्भावात् । तदकल्पने च मूलक्षतिप्रसङ्गात् । न चैवं प्रकृते सम्भवति । चैतन्याभेदपक्षे कर्मोपाधिव्यक्तिभेदरूपमूलस्यैवाप्रामाणिकत्वेन तस्यैव क्षतेरित्यर्थः ।

नन्वत्रासिद्धविषयत्वं नास्ति । अङ्कुरवन्मूलभूतकर्मोपाधिव्यक्तीनां भेदस्यापि प्रत्यक्षसिद्धत्वादिति शङ्कते ॥ कर्माण्युपाधयश्चेति ॥ तद्भेदस्येति । कर्मोपाधिव्यक्तिभेदस्येत्यर्थः । सुखदुःखादिभोगश्चेत्यारभ्य विशेषो योगिनः कुत इत्यन्तश्लोकत्रयेणोक्तं प्रमेयं व्युत्क्रमेणोपसंहरति ॥ तदेवमित्यादिना ॥ विशेषाभावेति । अयोगिभ्योऽस्मदादिभ्य इति शेषः । अभेदो वेत्यतः पूर्वं तदनङ्गीकारे चेति शेषः ॥ उपाधिविश्लेषोऽकिञ्चित्कर इति । तथा च विश्लिष्टोपाधिभेदाभावस्यानुसन्धानप्रयोजकत्वमङ्गीकृत्य तदभावेन अनुसन्धाना-भावकथनमयुक्तम् । उक्तरीत्या अनुसन्धानाङ्गीकारे उपाधिविश्लेषस्या-किञ्चित्करत्वादित्यर्थः ।

परशुनाम्नीटिप्पणी

अनादित्वान्नेति चेदिति । अनादित्वेन मूलक्षयस्य वक्तुमशक्यत्वान् नानवस्था । बीजांकुरादावपि अनवस्था स्याद् इत्यर्थः । असिद्धविषयत्वेनेति । बीजाङ्कुरयोः कार्यकारणभावस्य प्रामाणिकत्वात्, अन्यथासिद्ध्यभावाच्च न मूलक्षतिः । न हि स्वोपाधिकृतमेव स्वकर्म इति नियमोऽस्ति । पुत्रदेहकृतकर्मणोऽपि पितृकर्मत्वदर्शनात् । येन बीजाङ्कुरसाम्यं स्यादिति भावः । एतेन ‘उपाधिकर्मभेदः प्रमाणसिद्धः । परम्परा च अनादित्वेन सिद्धा । एवञ्च यदि मां प्रति मूलक्षतिस् तर्हि तवापि स्यात् । अविशेषात्’ इति परास्तम् । कर्मभेदस्य त्वदुच्यमानकेवलोपाधिहेतुकत्वस्य अप्रामाणिकत्वात् । न च ‘कर्मभेदस्य जीवभेदेन सहितोपाधिकृतत्वमपि नास्ति । त्वया पित्रादिभिन्नपुत्रदेहकृतकर्मणोऽपि पितृकर्मत्वाङ्गीकारात्’ इति वाच्यम् । कर्मणः स्वत्वस्य प्राप्तेः शास्त्राधीनत्वस्य मया अङ्गीकारेण, स्वकृत(स्व)त्वस्य देहकृतत्वस्य वा प्रयोजकत्वेनानङ्गीकारात् ।

अद्वैतवादद्वयसाधारणदोषकथनम्

टीका

एवमसत्योपाधिनिमित्ताध्यस्तभेदमङ्गीकुर्वतां सत्यो-पाधिकृतसत्यभेदमभ्युपगच्छतां चाद्वैतवादिनां पक्षं पृथङ्निराकृत्य साधारणदोषेणापि दूषयति

मूलम्

आत्मस्वभावभेदस्य विदोषत्वेन चाखिलः ॥ १० ॥

प्रत्यक्षादिविरोधाच्च दुष्टः पक्षोऽयमञ्जसा ।

‘जीवात्मपरमात्मनोर् जीवानां च यो भेदः स स्वभावत एव, न मिथ्यासत्योपाधिनिमित्तः’ इति पक्षस्य । विदोषत्वेनेत्युप-लक्षणम् । प्रामाणिकत्वेनेत्यपि ज्ञातव्यम् । अयमखिलः पक्ष इत्युक्तोभयविधाद्वैतसिद्धान्तः । प्रत्यक्षादिविरोधाच्चेत्युपलक्षणम् । प्रमाणाभावाच्चेत्यपि द्रष्टव्यम् । परपक्षप्रतिक्षेपेण स्वपक्षसाधनेन च सिद्धान्तस्य प्रतिष्ठा तदभावे दुष्टता । परपक्षप्रतिक्षेपो द्विविधः बाधकसाधकभावाभावव्युत्पादनभेदात् । स्वपक्षसाधनमपि साधकबाधकभावाभावव्युत्पादनभेदेन द्विविधम् । तत्रैकैकस्याप्य-भावो दुष्टत्वहेतुः किमु सर्वस्येति । तदिदमुक्तम् अञ्जसा इति । तत्र आत्मस्वभावभेदबाधकस्य तदभेदसाधकस्य चाभावोऽन्यत्र व्युत्पादितः ।

मन्दारमञ्जरी

मूलग्रन्थे दुष्टः पक्षोऽयमित्यत्र महाप्रकृतस्य पक्षद्वयस्य दुष्टत्वं विवक्ष्यते । तथा चाखिलपदप्रयोगो युक्त इत्यभिप्रेत्य वृत्तानुवादपूर्वकं वर्तिष्यमाणमवतारयति ॥ एवमिति ॥ आत्मेत्यत्र भेदं प्रति आत्मनो न धर्मित्वमात्रं नापि प्रतियोगित्वमात्रम् । परेणापि आत्मनो जडात्, जडस्य चात्मनो भेदाङ्गीकारात् । किं तर्हि ? उभयमित्याह ॥ जीवेति ॥ स्वभावभेदस्य इत्यत्र पञ्चमीतत्पुरुषो विवक्षित इत्याह ॥ स्वभावत इति ॥ स्वभावत इत्यस्यार्थमाह ॥ न मिथ्योपाधिनिमित्त इति ॥ भेदशब्देन तत्पक्षो लक्ष्यत इत्याह ॥ इति पक्षस्येति ॥ चशब्दार्थमाह ॥ विदोषत्वेनेत्युप-लक्षणमिति ॥ ज्ञातव्यमिति ॥ चशब्दसूचिततया ज्ञातव्यमित्यर्थः । नन्वेवं तर्ह्युपलक्षणं न स्यात्, चशब्देनोक्तत्वादिति चेन्न । चशब्दस्य निपातत्वान् निपातानां च द्योतकत्वेन अभिधायकत्वाभावात् । द्योतितत्वेऽपि अनभि-हितत्वमात्रेणोपलक्षणपदप्रयोगोपपत्तेः । निपातानां चाभिधायकत्वे समुच्चयो वर्तत इत्यभिप्रायेण ‘चो वर्तते’ इति प्रयोगः स्यात् । चशब्दस्यार्थान्तरमाह ॥ प्रत्यक्षादीति ॥ अत्राप्युपलक्षणपदप्रयोगः पूर्ववन्निर्वाह्यः। यद्वा चशब्द-योरुक्तासाधारणदूषणसमुच्चयार्थत्वं परस्परसमुच्चयार्थत्वं वा आश्रित्य उभयत्रापि उपलक्षणपदप्रयोगो मुख्य एव द्रष्टव्यः ।

अञ्जसा इत्येतत्पदकृत्यम्

अञ्जसा दुष्ट इत्युक्तम् । तत्र अञ्जसा इत्यस्यार्थमाह ॥ परपक्षेत्यादिना ॥ साधकबाधकभावाभावव्युत्पादनभेदेनेति ॥

भावत्वस्य दुर्निरूपत्वपूर्वपक्षः

ननु किमिदं भावत्वं नाम ? निष्प्रतियोगिकत्वं ? उत अभावादन्यत्वं ? यद्वा अभावत्वानधिकरणत्वम् ? अथ वा अभावविरोधित्वम् ? उत ‘अस्ति’ इति प्रत्ययविषयत्वम् ? आहोस्वित् ‘‘नास्ति’’ इति प्रत्ययाविषयत्वम् ? नाद्यः । सादृश्यादावव्याप्तेः । तस्यापि प्रतियोगिनिरूप्यत्वात् । न द्वितीयः । अभावस्यापि यत्किञ्चिदभावादन्यत्वेनातिव्याप्तेः । न तृतीयः । अभावत्व एवातिव्याप्तेः । तस्य तदनधिकरणत्वात् । न चतुर्थः । नित्यत्वाभावस्याप्य-नित्यत्वाभावविरोधित्वेनातिव्याप्तेः । न पञ्चमः । अभावस्यापि ‘घटाभावोऽस्ति’ इति प्रतीतिविषयत्वेनातिव्याप्तेः । अथ मतं, प्रथमप्रतीतौ ‘अस्ति’ इति प्रतीयमानत्वं विवक्षितम् । एवं च नातिव्याप्तिः । ‘घटो नास्ति’ इति ज्ञात्वैव ‘घटाभावोऽस्ति’ इति ज्ञानादिति चेत् केयं ‘अस्ति’ इति प्रतीतिः? किं ‘अस्ति’ इति व्यवहारोत्पादिका? किं वा अस्तिपदार्थ-विषयिका? किं वा अस्तित्वप्रकारिका? नाद्यो ऽव्याप्तेः । ‘घटोऽस्ति’ इति ज्ञानस्यापि ‘अस्ति’ इति व्यवहारजनकत्वनियमाभावेन त्वदुक्तस्यास्तीति प्रत्ययविषयत्वस्याभावात् । उत्पन्नस्यापि ज्ञानस्य व्यवजिहीर्षाभावेन व्यवहाराजनकत्वात् । न द्वितीयो ऽभावे अतिव्याप्तेः । अभावस्य अस्तिपदार्थत्वाभावे कथं पश्चात् ‘घटाभावोऽस्ति’ इति प्रतीतिः?

तृतीये किमिदमस्तित्वं? सत्वं वा? भावत्वं वा? आद्ये अनुगतसत्ता-मनङ्गीकुर्वता त्वया स्वरूपसत्वमेव वक्तव्यं? तत्किं स्वरूपप्रतीतावेव प्रतीयते? उत न ? न चेत् कथं घटविषयिका प्रथमप्रतीतिरस्तित्वावलम्बिनी ? प्रथमे अभावविषयिकाऽपि प्रथमा प्रतीतिः कथमस्तित्वालम्बिनी न स्यात् ? अभावेऽपि स्वरूपसत्ताया भाव इव प्रथममेव प्रत्येतव्यत्वात् । द्वितीये अन्योन्याश्रयः । तस्मान्न पञ्चमः ।

नापि षष्ठः घटस्यापि ‘घटाभावो नास्ति’ इति प्रत्ययविषयत्वेन असम्भवात् । प्रथमप्रतीतौ ‘नास्ति’ इत्यप्रतीयमानत्वं विवक्षितम् । न चैवमसम्भवः । भावस्य प्रथमं ‘घटोऽस्ति’ इत्यस्तित्वप्रकारेणैव प्रतीतेः । नाप्यतिव्याप्तिः । अभावस्य प्रथममेव ‘नास्ति’ इत्येव नास्तित्वाकारेणैव प्रतीतेरिति चेन्न । त्वन्मते घटादेरपि प्रथममेव ‘अन्यात्मना नास्ति’ इति प्रतीतेः । अन्यथा स्वेतरसर्वात्मना प्रतीतिप्रसङ्गात् । भेदस्य स्वरूपत्वेन तथाप्रतीत्यवश्यम्भावाच्च । तस्माद्भावत्वं दुर्निरूपम् ।

अभावात्वस्य दुर्निरूपत्वपूर्वपक्षः

किं चेदमभावत्वं नाम? सप्रतियोगिकत्वं वा ? भावादन्यत्वं वा? भावत्वानधिकरणत्वं वा? भावविरोधित्वं वा ? ‘अस्ति’ इति प्रत्ययाविषयत्वं वा? ‘नास्ति’ इति प्रत्ययविषयत्वं वा? नाद्यः सादृश्यादावतिव्याप्तेः । न द्वितीयः भाव एवातिव्याप्तेः । भावस्यापि यत्किञ्चिद्भावादन्यत्वात् । न तृतीयः भावत्वानधिकरणत्वस्य अभावरूपत्वेनात्माश्रयत्वात् । न चतुर्थः शीतस्पर्शस्याप्युष्णस्पर्शविरोधित्वेनातिव्याप्तेः । ननु च स्वाभाविकभाव-विरोधित्वं विवक्षितम् । न चैवं शीतस्पर्शविरोधिन्युष्णस्पर्शे अतिव्याप्तिः । शीतस्पर्शस्योष्णस्पर्शभावव्याप्तत्वेनैवोपाधिना उष्णस्पर्शविरोधित्वेन स्वाभाविक विरोधाभावात् । भावाभावयोस्तु स्वाभाविक एव विरोध उपाधेरस्फुरणात् । न च भावज्ञानस्याभावज्ञानाधीनत्वेन अन्योन्याश्रयः शङ्क्यः । पदार्थाश्रय-त्वस्य भावत्वात् । न चाभावेऽतिव्याप्तिः । अभावे हि भवन् पदार्थो भावो वा अभावो वा । नाद्यः भावाश्रयत्वे भावत्वापत्तेः । न द्वितीयो ऽभावे अभावाङ्गीकारे आत्माश्रयत्वादिति चेन्न । विरोधस्यानिरूपणात् । स किं सहानवस्थानलक्षणः? किं वा वध्यघातकभावलक्षणः । नाद्यस् तस्याभाव-रूपत्वेनात्माश्रयत्वात् । द्वितीयेऽपि तदभावव्याप्तत्वं वा तदभावरूपत्वं वा । उभयथाऽप्यन्योन्याश्रयः । अथ प्रागभावप्रध्वंसयोर्भावेन सह कालतो विरोधः । अत्यन्ताभावस्य तु देशत इत्यादिप्रतिनियत एव विरोध इति चेन्न । अनुगत-विरोधशब्दार्थस्याभावे लक्षणाननुगतेः । यच्चोक्तं ‘पदार्थाश्रयत्वं भावत्वं’ इति तत्र वक्तव्यं, अभावस्यापि किञ्चिल्लक्षणमस्ति ? न वा ? इति । न चेद्भावाद्व्यावृत्तिर्न स्यात् । अस्ति चेत् कथं पदार्थाश्रयत्वाभावः? लक्षणस्यैव पदार्थत्वात् । ननु लक्षणमभावानाश्रितमपि तटस्थं सद् इतरेभ्यो व्यावृत्तिम् अनुगतं व्यवहारं च करोतीति चेत् तथापि तटस्थलक्षणलक्ष्यत्त्वरूप-धर्माश्रयत्वेन पदार्थाश्रयत्वावश्यम्भवात् । न चात्माश्रयः व्यक्तिभेदाद्भावे भावान्तरवदभावेऽपि अभावान्तरस्यानुभवसिद्धत्वाच्च । तस्मान्न चतुर्थः ।

नापि पञ्चमो ऽभावस्यापि ‘घटाभावोऽस्ति’ इति प्रत्ययविषयत्वेना-सम्भवात् । प्रथमप्रतीतिविवक्षायां तु पूर्ववदेव भङ्गीभेदेन दूषणान्यूह्यानि । नापि षष्ठः घटस्यापि ‘घटभावो नास्ति’ इति प्रत्ययविषयत्वेनातिव्याप्तेः । प्रथमप्रतीतौ ‘नास्ति’ इति प्रत्ययविषयत्वमिति चेन्न । दत्तोत्तरत्वात् । किञ्च प्रतीतौ प्रथमग्रहणं ‘प्रथमं योऽस्ति’ इत्येवं कालविशेषणं ? किं वा प्रथमा या प्रतीतिरिति प्रतीतिविशेषणं ? नाद्यः बुद्धेर्विरम्यव्यापाराभावात् । द्वितीयेऽपि किमिह जन्मनि या स्वविषयिका प्रथमा प्रतीतिः सा विवक्षिता ? किं वा एकसामग्रीजन्यासु स्वविषयिकासु या स्वविषयिका प्रथमा प्रतीतिः सा ? अथ वा यदा यदा स्वयं जायते तदा तदा स्वविषयकं ज्ञानद्वयमस्ति आपातजं विमर्शजं चेति । तत्रापातजा या संवित् सा? नाद्यः गिरिदरीवर्तिनो गजाभावस्य ज्ञानात्पूर्वमेव जातायां ‘यत् प्रमेयं तदस्ति’ इत्यस्यां सामान्याकारेण प्रमेयमात्रविषयिकायां वन्यगजाभावस्य प्रथममस्तित्वेनैव प्रतीत्या लक्षणाव्याप्तेः । न द्वितीयः? एकसामग््य्रा अनेकज्ञानजनकत्वा-योगात् । सामग्रीभेदाभावे कार्यभेदस्य आकस्मिकत्वप्रसङ्गात् । न तृतीयः ‘घटाभावो नास्ति’ इति वाक्यात्प्रथममेव घटस्य नास्तित्वाकारेण प्रतीत्या लक्षणस्यातिव्याप्तेः । तस्माद्भावत्वाभावत्वयोर्दुर्निरूपत्वाद् भावाभावव्युत्पादन-भेदेन इत्युक्तम् अयुक्तमिति वैतण्डिको मन्यते ।

भावत्वाभावत्वव्यवस्थाया उभयवादिभ्यामङ्गीकार्यत्वसमर्थनम्

अत्रोच्यते

भावाभावपदे तावत्प्रयुज्येते त्वयापि ते ।

प्रवृत्तिहेतुसापेक्षे पदत्वात्संमतं यथा ॥

भावाभावशब्दप्रयोग एव नाङ्गीक्रियते ? उत अङ्गीकृत्यापि प्रयोगे तत्प्रवृत्तिनिमित्तं नास्तीत्युच्यते? अथ प्रवृत्तिनिमित्तमङ्गीकृत्यापि प्रवृत्ति-निमित्तस्यानिर्वचनीयत्वं मन्यसे ? नाद्यस् त्वयापि तत्प्रयोगात् । न द्वितीयः प्रवृत्तिनिमित्ताभावे पदप्रयोगानुपपत्तेः । न तृतीयः मिथ्यापदप्रवृत्तिनिमित्त- दृष्टान्तेन अस्यापि निर्वचनार्हत्वसाधनात् । न च साध्यवैकल्यं शङ्क्यम् । मिथ्यापदप्रवृत्तिनिमित्तस्य मिथ्यात्वस्य त्वयैव महाप्रयत्नेन निरुक्तत्वात् । तस्मात् सामान्येन भावत्वाभावत्वयोर्व्यवस्थितिर्वादिप्रतिवादिभ्यामङ्गीकर्तव्येति स्थिते विशेषजिज्ञासायामुच्यते ।

भावत्वनिरुक्तिर्

अभावत्वावच्छिन्नाधारतानिरूप्याधेयताश्रयान्यत्वप्रतियोगित्वं भावत्वम् । अभावत्वावच्छिन्ना या आधारता, तया निरूप्या या आधेयता, तस्य आश्रयश्चासावन्यत्वं च, तदपेक्षयैव प्रतियोगित्वमित्यर्थः । अन्यत्व-प्रतियोगित्वमित्युक्ते अभावेऽतिव्याप्तिः । तत्परिहारार्थमभावत्वावच्छिन्ने-त्यादिना अन्यत्वं विशेषितम् । अभावस्याप्यभावान्तरनिष्ठाधारत्व-प्रतियोगिकाधेयताश्रयान्यत्वप्रतियोगित्वेऽपि न सा आधारता अभावत्वेना-वच्छिद्यते । अभावत्वस्य प्रतियोगिन्यपि सत्वात् । प्रतियोगिनिष्ठस्य चान्यत्वाधिकरणतावच्छेदकत्वायोगात् ।

अभावत्वनिरुक्तिः

अभावत्वं च स्वप्रतियोगिकानुयोगिनिर्विशेषतादात्म्यवत्प्रतियोग्यनुयोगित्वम् । स्वं प्रतियोगि यस्यासौ स्वप्रतियोगिकः । स चासावनुयोगी च । अनुयोगी नाम प्रतियोगिप्रतिसम्बन्धी । तेन सह निर्विशेषतादात्म्यमस्यास्तीति स्वप्रति-योगिकानुयोगिनिर्विशेषतादात्म्यवान् । स चासौ प्रतियोगी च । तं प्रत्यनुयोगी तस्य भावस्तत्वमिति विग्रहः । प्रतियोग्यनुयोगित्वमित्युक्ते सादृश्यादावति-व्याप्तिः । तस्य स्वप्रतियोगिनौ गोगवयौ प्रत्यनुयोगित्वात् । तत्परिहाराय स्वप्रतियोगिकानुयोगितादात्म्यवदित्युक्तम् । एवं च नातिव्याप्तिः । सादृश्य-प्रतियोगिकेन केनचिदपि गोगवययोस् तादात्म्याभावेन सादृश्यप्रतियोगिकानु-योगितादात्म्यवत्प्रतियोगिनौ प्रत्यनुयोगित्वाभावात् । न चासम्भवः । घटाभावस्य स्वप्रतियोगिकेन घटाभावाभावरूपेणानुयोगिना तादात्म्यवन्तं घटाख्यं प्रतियोगिनं प्रत्यनुयोगित्वात् । अभावाभावस्य भावत्वात् । नञ्द्वयेन प्रकृताभिधानात् । तावत्युक्तेऽप्यतिव्याप्तिः । सादृश्यप्रतियोगिकेन भेदेन गोगवययोस्तादात्म्यवत्वात् । तदर्थं निर्विशेषेत्युक्तम् । एवं च नातिव्याप्तिः । भेदस्य स्वधर्मिणा सविशेषाभेदाङ्गीकारात् । घटादेर्घटादित्वेन भावत्वेऽप्य-भावनिषेधात्मनाऽभावत्वाच्च ।

अभावाभावस्य भावरूपत्वानङ्गीकारे अनवस्थादोषः

ये पुनरभावाभावो न भावः किं तर्हि ? अभावव्यवहारादभाव एवेत्याहुः । तेषामभावपरम्परया अनवस्था दुर्वारा । तस्माद्युक्तं भावाभावव्युत्पादनभेदेन इति । प्रपञ्चस्य प्रयोजनमाह ॥ तत्रैकैकस्येति ॥ तत्र चतुर्णां मध्य इत्यर्थः ।

श्रीनिवासतीर्थीयटिप्पणी

स्वभावत एवेत्यस्यार्थो न मिथ्येति । मिथ्याभूतस्सत्य-भूतश्चोपाधिस्तस्मिन्निमित्तो नेत्यर्थः । भेदस्येत्यत्र भेदशब्दस्तत्पक्षोपलक्षक इत्याह ॥ इति पक्षस्येति ॥ उपलक्षणमिति ॥ ननु चशब्दद्वयसद्भावात्तयोरेव प्रामाणिकत्वप्रमाणभावसमुच्चायकत्वोपपत्तेः । उपलक्षणमिति कस्मादुक्तमिति चेत् । उच्यते । पूवोत्तरार्धस्थितयोश्चशब्दयोः परस्परसमुच्चायकत्वेनैव चरितार्थत्वमभिप्रेत्य प्रामाणिकत्वप्रमाणाभावयोरुपलक्षणं कृतमिति ज्ञातव्यम् । अंजसेत्यस्याभिप्रायमाह ॥ परपक्षेत्यादिना । प्रतिष्ठा प्रकर्षेण स्थापनं भवतीति शेषः । तदभावे परपक्षप्रतिक्षेपस्वपक्षसाधनयोरभावे ॥ बाधकेति । परपक्षे बाधकभावसाधकाभावेति विवेकः ॥ साधकेति । साधकभावबाधकाभावेति विवेकः ॥ एकैकस्येति । परपक्षप्रतिक्षेपस्याभावः स्वपक्षसाधनस्याभावो वा सिद्धान्तस्य दुष्टत्वे हेतुः। सिद्धान्तस्य प्रतिष्ठापको न भवतीति यावत् । तथा बाधकसद्भावव्युत्पादनाभावः साधकाभावव्युत्पादनाभावो ऽपरपक्षस्य दुष्टत्वे हेतुः । परपक्षप्रतिक्षेपको न भवतीति यावदित्यर्थः ॥ किम्विति । सिद्धान्तप्रतिष्ठापकद्वयस्य परपक्षप्रतिक्षेपकद्वयस्येति सर्वस्य चतुष्टयस्याभावो दुष्टत्वे हेतुरिति किमु वक्तव्यमित्यर्थः ॥

तदिदमुक्तमिति । सिद्धान्तप्रतिष्ठापकद्वयं परपक्षप्रतिक्षेपकद्वयं चेति चतुष्टयमपि परपक्षे नास्तीति प्रमेयमञ्जसेत्यनेनोक्तमित्यर्थः । उत्तरवाक्यं सङ्गमयितुमाह ॥ तत्रेत्यादिना । मायिनः स्वसिद्धान्तप्रतिष्ठापकं नास्तीत्याह ॥ आत्मनः स्वभावभेदबाधकस्येति । भेदो मिथ्या भेदत्वाच्चन्द्रभेदवदित्यनु-मानस्य ‘‘ज्ञाते द्वैतं न विद्यते’’ ‘‘अविद्यमानो ह्यवभाति हि द्वय’’ इति श्रुतिस्मृतिरूपस्य च बाधकस्येत्यर्थः ॥ तदभेदसाधकस्येति । जीवाः परमात्मनस्तत्वतो न भिद्यन्ते आत्मत्वात्परमात्मवदित्यनुमानस्य ‘‘तद्योऽहं सोऽसौ योऽसौ सोऽहं’’ ‘‘स आत्मा तत्त्वमसि’’ ‘‘अहं हरिस्सर्वमिदं जनार्दन’’ इत्यादिरूपस्यात्माभेदसाधकस्येत्यर्थः ॥ अभाव इति । अनुमानानामाभासत्ववर्णनेन श्रुत्यादीनामन्यार्थत्ववर्णनेन च तदभावोऽन्यत्र विष्णुतत्वनिर्णयादौ व्युत्पादित इत्यर्थः ।

परशुनाम्नीटिप्पणी

न मिथ्यासत्येति । मिथ्योपाधिनिमित्तः सत्योपाधिनिमित्तश्च भेदो न इत्यर्थः ।

जीवभेदस्य प्रत्यक्षत्वसमर्थनम्

टीका

भेदसाधकाभेदबाधकव्युत्पादनायोत्तरं वाक्यम् । तत्रेदमाह, यदुक्तं ‘प्रत्यक्षादिसिद्धो जीवेश्वरयोर्जीवानां च भेदः, तत एव तदभेदः प्रत्यक्षादिविरुद्धः’ इति तदयुक्तं, सर्वस्य हि स्वात्मैव प्रत्यक्षो न तु जीवान्तरमीश्वरो वा । न च प्रत्यक्षा-प्रत्यक्षधर्मः प्रत्यक्षो वायुवनस्पतिसंयोगवत् । तत्कथं भेदः प्रत्यक्ष इत्याशङ्कां परिहरञ्जीवभेदस्य प्रत्यक्षतां तावत्समर्थयते ।

मूलम्

चेष्टालिङ्गेन सात्मत्वे परदेहस्य साधिते ॥ ११ ॥

अन्यत्त्वं स्वात्मनस्तस्मात्सवैरेवानुभूयते

‘भेदो हि नैक एव अनेकधर्मः’ इत्युपपादितमन्यत्र । किन्तु एकस्मिन् धर्मिणि परप्रतियोगिक एव । तस्य च प्रत्यक्षता धर्मिणः प्रत्यक्षतां प्रतियोगिनश्च स्मरणमपेक्षते । तत्र धर्मी स्वात्मा तावत् प्रत्यक्षसिद्धः । प्रतियोगिस्मृतिहेतुश्चानुभवोऽनु-मानाद्भवति । तथा हि, परशरीरं तावत्प्रत्यक्षसिद्धम् । तस्य चेष्टादिलिङ्गेन स्वशरीरवत् सात्मत्वमनुमातुं शक्यते । चेष्टा नाम हिताहितप्रप्तिपरिहारेच्छापूर्वको व्यापारः । न परिस्पन्दमात्रं येन व्यभिचारः स्यात् । न चैवं सन्दिग्धासिद्धता । हिताहितप्राप्ति-परिहारानुगुणतायाः स्वात्मदृष्टान्तेनैवावगमात् । अतस् तस्मात् परशरीराधिष्ठातुः स्वात्मनोऽन्यत्वं प्रत्यक्षं भवितुमर्हति । न चैवं सम्भवनामात्रम् । सर्वैरपि तु अनुभूयत एव । न हि चेष्टा-विशेषानुमितप्रयत्नविशेषवतः परात्मनः स्मृतौ सत्यां तथाविध-प्रयत्नविरहिणं स्वात्मानं प्रत्यक्षत एवानुभवंस्तस्मात्स्वात्मनोऽ-न्यत्वं नानुभवतीति युज्यते ।

मन्दारमञ्जरी

सिद्धान्तिनैवमुक्ते अन्यस्तत्परिजिहीर्षतीत्याह ॥ तत्रेदमाहेति ॥ बुद्धिपरिकल्पितप्रतिवाद्यभिप्रायेण प्रथमपुरुषप्रयोगः । अनूदितं दूषयति परः ॥ तदयुक्तमिति ॥ स्वात्मैवेत्येकारस्य व्यावर्त्यमाह ॥ न त्विति ॥ भेदस्तावदुभयधर्मः । उभयप्रतीतिसापेक्षत्वात् । तत्र किं सामान्यादिवत् प्रत्येकं परिसमाप्तः? किं वा संयोगादिवद् व्यासज्यवृत्तिः? नाद्य एकव्यक्त्युप-लम्भेऽपि गोत्वोपलम्भवद् धर्मिप्रतियोग्यन्यतरप्रतीत्यैव भेदप्रतीतिप्रसङ्गात् । द्वितीयं दूषयति ॥ न चेति ॥

ननु चेष्टालिङ्गेन इति मूलग्रन्थे आनुमानिकत्वं प्रतियोगिनोऽभिहितम् । किमनेनोक्तं भवति ? किं भेदस्य प्रामाणिकत्वमात्रं ? किं वा प्रत्यक्षसिद्धत्वं? नाद्य उपक्रमाननुकूलत्वात् । न द्वितीयः प्रत्यक्षानुपपत्तेरुक्तत्वादित्या-शङ्क्याह ॥ भेदो हीति ॥ ‘एक एवानेकधर्मो न’ इत्युपपादितमिति सम्बन्धः ॥ प्रतियोगिनश्च स्मरणमपेक्षत इति ॥ प्रतियोगिस्मरणमात्रेण सादृश्याभावादीनां सप्रतियोगिकानां प्रत्यक्षतादर्शनात् ‘स्तम्भःपिशाचो न भवति’ इति अप्रत्यक्षप्रतियोगिकभेदस्य प्रत्यक्षतादर्शनाच्चेति भावः ।

सम्भावितस्मृतिलक्षणानामतिव्याप्तिदोषः

ननु किमिदं स्मरणत्वं नाम? किं ज्ञानजन्यज्ञानत्वं ? अनित्यज्ञान-जन्यज्ञानत्वं वा ? अनित्यविशिष्टज्ञानजन्यज्ञानत्वं वा? स्वसमानविषयका-नित्यविशिष्टज्ञानजन्यज्ञानत्वं वा ? स्वसमानाधिकरणस्वसमानविषयकविशिष्ट-ज्ञानजन्यज्ञानत्वं वा ? नाद्यो ऽनुभवस्यापि नित्येश्वरज्ञानजन्यत्वेनातिव्याप्तेः । न द्वितीयः विशिष्टानुभवस्यापि विशेषणविषयकनिर्विकल्पकज्ञानजन्यन्वेनाति-व्याप्तेः । न तृतीयः लिङ्ग्यनुभवस्यापि लिङ्गविषयकविशिष्टज्ञानजन्यत्वेन अतिव्याप्तेः । न चतुर्थः श्रोतृगतसमानविषयकवक्तृगतविशिष्टज्ञानजन्ये श्रोतृगते शब्दानुभवेऽतिव्याप्तेः । न पञ्चमः देवदत्तसमवेतपूर्वानुभवजन्ये पूर्वानुभूत-विषयके देवदत्तसमवेतप्रत्यभिज्ञानेऽतिव्याप्तेः ।

एकदेशिमतानुसारेण स्मरणलक्षणं

नैष दोषः। यावत्स्वविषयविषयकविशिष्टानुभवजन्यज्ञानत्वस्य स्मृतित्वात् । न चैवं प्रत्यभिज्ञानानुभवेऽतिव्याप्तिः । प्रत्यभिज्ञायाः पूर्वाननुभूततत्ताविषयि-काया यावत्स्वविषयविषयकविशिष्टानुभवजन्यत्वाभावादिति केचित्परिहरन्ति ।

एकदेश्यभिमतस्मृतिलक्षणे असम्भवदोषः

‘तत्रैकं सन्धित्सोरपरं च्यवते’ इति न्यायेनातिव्याप्तिं समादधतोऽसम्भव-स्योत्थानात् । स्मृतेरप्यननुभूततत्ताविषयकत्वात् । ननु च तत्ता नाम तद्देशकालसम्बन्धः । सोऽपि पूर्वमनुभूत एवेति चेन्न । तथात्वे तदानीमेव ‘तत्’ इति प्रतीतिप्रसङ्गात् । ननु विषयभेदाभावेऽपि संस्कारजन्यत्वा-जन्यत्वाभ्यां तत्तोल्लेखानुल्लेखाविति चेन्न । प्रतीतिवैलक्षण्यस्य विषय-वैलक्षण्याधीनत्वात् । कारणभेदमात्रेण प्रतीतिवैलक्षण्याङ्गीकारे प्रत्यक्षज्ञाने ‘वह्निः’ इति प्रतीयेत । अनुमितौ तु ‘व्याघ्रः’ इति प्रतीयेत । सामग्रीभेदस्य तत्र सत्वात् । तस्माद् एकदेशिनां परिहारो न युक्तः ।

स्वमतेन स्मृतिलक्षणं

वयं तु ब्रूमः ।

संस्कारमात्ररूपा या मनसो व्यापृतिस्तया ।

मन्यन्ते स्मरणं जन्यं ज्ञानं मध्वमतानुगाः ॥

संस्कारमात्ररूपावान्तरव्यापारजन्यज्ञानत्वं स्मृतित्वम् । अवान्तरव्यापार-जन्यज्ञानत्वमित्युक्ते अनुभवे अतिव्याप्तिः । अनुभवस्यापि इन्द्रियार्थसंनिकर्ष-लक्षणावान्तरव्यापारजन्यत्वात् । तत्परिहारार्थं व्यापारं संस्कारात्मकत्वेन विशेषयितुं संस्कारग्रहणम् । तावत्युक्ते प्रत्यभिज्ञानेऽतिव्याप्तिः । तस्यापि तत्तांशे संस्काराख्यप्रत्यासत्तिजन्यत्वात् । तत्परिहाराय अवधारणार्थक-मात्रग्रहणम् । एवं च नातिव्याप्तिः । प्रत्यभिज्ञाया इदमंशे इन्द्रिय-सम्प्रयोगलक्षणव्यापारेणापि जन्यत्वात् ।

तत्ताया अनुभवविषयत्वसमर्थनं

ननु तत्ताया अननुभूतत्वात् तत्र संस्कारस्य अवान्तरव्यापारत्वाभावान् मात्रग्रहणं व्यर्थम् । न व्यर्थम् । तत्ताया अपि कथञ्चिदनुभूतत्वात् । अतीतो देशकालसम्बन्धो हि तत्ता । ‘तत्र तदा तद् आसीत्’ इति स्मरणोत्पत्तेः । तत्र ‘आसीत्’ इति भूतार्थवाचिलङादिप्रत्ययप्रयोगात् तद्देशकालसम्बन्धस्या-तीतत्वप्रतीतेः । भूतत्वमतीतत्वं प्रध्वंसप्रतियोगित्वमिति च पर्यायः । तथा चोक्तं तत्वोद्योतटीकायां टीकाकारैः ‘न हि स इत्यस्य तद्देशकाल-सम्बन्धमात्रमर्थः । किं नाम? तस्यातीतत्वमपि’ इति । तच्च स्मरणे प्रतीय-मानं तद्देशकालसम्बन्धस्यातीतत्वं यद्यपि न पूर्वमनुभूतं, पूर्वं तद्देशकाल-सम्बन्धस्य वर्तमानत्वेनातीतत्वाभावात् तदानीमेव तच्छब्दप्रयोगप्रसङ्गाच्च तथापि तद्देशकालसम्बन्धस्वरूपमात्रस्य अनुभूतत्वात् प्रत्यभिज्ञायास्तस्मिन्नंशे संस्कारः सन्निकर्षो भवत्येवेति न व्यर्थं मात्रग्रहणम् ।

अननुभूतस्य तत्तातीतत्वस्य स्मृतिविषयत्वसमर्थनं

ननु तर्ह्यननुभूतस्यापि तद्देशकालसम्बन्धातीतत्वस्य स्मरणाङ्गीकारेऽतिप्रसङ्गः स्यात् । न स्यात् । पूर्वमनुभूतस्य तद्देशकालसम्बन्धस्य यदतीतत्वं तस्यैवाननु-भूतस्यापि स्मरणम् । अन्यस्य सर्वस्यानुभूतस्यैव स्मरणमिति नियमात् । अननुभूतस्याप्यतीतत्वस्य स्मरणदर्शनात् । न ह्यतिप्रसङ्गभिया दर्शनापलापो युक्तः । किं तर्हि ? दृष्टमङ्गीकृत्य ततोऽन्यत्रातिप्रसङ्गं परिहर्तुं व्यवस्था कल्प्या । अन्यथा तत्रैवातिप्रसङ्गात् ।

तत्तातीतत्वेनासंनिकृष्टस्यापि मनसस्तज्ज्ञानजनकत्वं

नन्वथापि अतीतत्वस्याननुभूतत्वात् तत्र संस्कारलक्षणसन्निकर्षाभावात् सन्निकर्षान्तरस्य च अङ्गीकार्यत्वात् स्मृतौ संस्कारमात्रप्रत्यासत्तिजन्यत्वं नास्तीति लक्षणस्यासम्भवः स्यादिति चेन्न । तद्देशकालसम्बन्धेन सह संस्काराख्यप्रत्यासक्तियुक्तेन मनसा करणेन तद्देशकालसम्बन्धातीतत्वस्या-सन्निकृष्टस्याप्याकलनात् । स्मृतिरपि यदि सम्बन्धमेवाकलयेत् तदा प्रत्यभिज्ञानवदनुभवः स्यात् । प्रत्यभिज्ञायां तु इदन्ताया इन्द्रियार्थसन्निकर्षः प्रामाणिक इत्युक्तम् । उद्बुद्ध एव संस्कारः प्रत्यासत्तिर् न संस्कारमात्रम् । तेन संस्कारे सत्यपि स्मरणानुदयान् नास्य प्रत्यासत्तित्वमिति चोद्यं निरस्तम् । तस्मात् सुष्ठूक्तं प्रतियोगिनः स्मरणमपेक्षते इति ।

॥ न चैवमिति ॥ ‘विमतं शरीरं हिताहितप्राप्तिपरिहारेच्छापूर्वक-व्यापाररहितं न भवति शरीरत्वान् मच्छरीरवत्’ इत्यनुमानेन हेतुसाधनादिति भावः । नन्वेवं तर्ह्यनेनैव सात्मकत्वं साध्यतां किमनया प्रणाड््या ? इति चेन्न । शरीरत्वमात्रस्य सात्मकत्वेन मृतशरीरे व्यभिचारात् । हिताहित-प्राप्तिपरिहारेच्छापूर्वकव्यापारविशिष्टस्य च शरीरत्वस्यासिद्धत्वात् साक्षा-त्साधनायोगात् । सावयत्वादिनैव सकर्तृकत्वादिसाधनसम्भवेन कार्यत्वादे-र्वैयर्थ्यप्रसङ्गाच्च । अनुभूयत एव सर्वैरिति कारिकास्थावधारणार्थमाह ॥ न चैवमिति ॥ ततश्च प्रत्यक्षाप्रत्यक्षधर्मत्वेन अप्रत्यक्षत्वसाधनं बाधितमिति भावः । अनुभवे विप्रतिपद्यमानं प्रत्याह ॥ न हि चेष्टेति ॥ भेदकज्ञानस्य भेदज्ञानसामग्रीव्याप्तत्वाद् विरुद्धधर्मरूपभेदकज्ञाने तद्व्यापकभेदज्ञानसामग््य्र-वश्यम्भावात् सामग्रीसद्भावेऽपि कार्यानङ्गीकारे व्याघातादिति हिशब्दार्थः ।

श्रीनिवासतीर्थीयटिप्पणी

अस्मत्सिद्धान्तप्रतिष्ठापकं प्रमाणमस्तीति वक्तुमुत्तरवाक्य-मित्याह ॥ भेदसाधकेति ॥ प्रत्यक्षादि(प्रमाण)सिद्ध इति । विदोषत्वेन चेत्यत्र चशब्देन प्रत्यक्षादिप्रमाणसिद्धत्वस्य समुच्चितत्वादिति भावः ॥ स्वात्मैव प्रत्यक्ष इति । अहमित्यनुभवादिति शेषः ॥ न च प्रत्यक्षेति । तथा च स्वस्मिन् जीवान्तरेश्वरप्रतियोगिको भेदो ऽप्रत्यक्षो भवितुमर्हति । प्रत्यक्षा-प्रत्यक्षधर्मत्वाद् वायुवनस्पतिसंयोगवदित्यनुमानमनेनोक्तं भवतीति ज्ञातव्यम् ॥ तत्कथं(भेदः)प्रत्यक्ष इति । जीवेश्वरभेदः परस्परं जीवभेदश्च कथं प्रत्यक्षसिद्ध इत्यर्थः । जीवभेदस्य परस्परं जीवभेदस्य ॥ नैक एवानेकधर्म इति । तार्किकादिमते संयोगादिवदेकस्यैवानेकधर्मिनिष्ठत्वे वा उभयोरपि धर्मिणोः प्रत्यक्षताऽपेक्षिता स्यात् । न चैवमिति भावः ॥ तस्य चेति । एकधर्मिकस्य परनिरूप्यस्य भेदस्येत्यर्थः ॥ धर्मिणः प्रत्यक्षतामिति । भेदो नामान्योन्या-भावः । अन्योन्याभावप्रत्यक्षे च धर्मिप्रत्यक्षमेव तन्त्रम् । न तु प्रतियोगि-प्रत्यक्षत्वम् । अन्यथा स्तम्भः पिशाचादिर्न भवतीति स्तंभे पिशाचान्योन्या-भावः प्रत्यक्षो न स्यादिति भावः । अत एवोक्तं मणिकृता । स्तंभे पिशाचा-न्योन्याभावः प्रत्यक्ष एव । अधिकरणस्य प्रत्यक्षत्वादिति ॥

प्रतियोगीति । प्रतियोगी परमात्मेत्यर्थः । परशरीरं सात्मकं चेष्टावत्त्वा-दित्यनुमाने आश्रयासिद्धपरिहारायाह ॥ परशरीरमिति । ननु रथादौ परिस्पंदापरपर्यायचेष्टावत्त्वसद्भावेऽपि सात्मकत्वाभावाद्व्यभिचार इत्याशंकायां हेतोरेवाभावान्न व्यभिचार इत्यभिप्रेत्य चेष्टाशब्दस्य विवक्षितमर्थमाह ॥ चेष्टा नामेति । व्यापारः प्रयत्नः प्रयत्नविशेष इति वक्ष्यमाणत्वात् । ननु प्रयत्नश्चात्मधर्मः स्यादुत्साहो भावना च स इत्यभिधानात् परशरीरे प्रयत्न-रूपव्यापारवत्त्वमसिद्धमिति चेत् । उच्यते । अत्र प्रयत्नवत्त्वं नाम तदायतनत्वं विवक्षितम् । तदवच्छेदकत्वमिति यावत् । अशरीरस्य प्रयत्नायोगात् । यदाश्रित्य यदवच्छेदेनेति यावत् । अयं प्रयत्नवान् भवतीति तदर्थः । तथा च एतादृशप्रयत्नवत्त्वस्य परशरीरे सत्त्वान्नासिद्धिरिति भावः । येनेत्यनन्तरं रथादाविति शेषः ।

ननु परचित्तवृत्तीच्छादेरप्रत्यक्षत्वेन पक्षीभूतपरशरीरावच्छेदेनात्मना क्रियमाणे व्यापारे हिताहितप्राप्तिपरिहारेच्छापूर्वकत्वनिश्चायकाभावेन तत्पूर्वक-व्यापारवत्त्वहेतोः संदिग्धासिद्धिरित्याशंक्य निषेधति ॥ न चैवमिति । पक्षे निरुक्तं चेष्टावत्त्वरूपं हेतुं साधयति ॥ हिताहितेति । परशरीरावच्छेदेन क्रियमाणस्यात्मव्यापारस्य हिताहितप्राप्तिपरिहारानुगुणतायास्तदिच्छापूर्वकताया इति यावदित्यर्थः । चेष्टावत्त्वादिति हेतुनेति शेषः । चेष्टाविशेषानुमितेति वक्ष्यमाणत्वात् ॥ स्वात्मेति । स्वात्मावच्छेदकीभूतशरीरदृष्टान्तेनेत्यर्थः ॥ अवगमादिति । तथा च परशरीरं हिताहितप्राप्तिपरिहारेच्छापूर्वव्यापार-वद्भवितुमर्हति । तदवच्छेदकं भवितुमर्हतीति यावत् । परिस्पंदापरर्यायचेष्टा-विशेषवत्त्वान्मच्छरीरवदित्यनुमानेन हेतोः साधनान्न सन्दिग्धासिद्धिरिति भावः । तत्रोन्मत्तादिचेष्टायां व्यभिचारवारणाय विशेषपदमिति द्रष्टव्यम् ।

ननु तद्धेतोरेवास्तु तद्धेतुत्वम् । मध्ये किं तेनेति न्यायेन व्याप्यव्याप्यस्य सुतरां व्याप्यत्वेन चेष्टावत्त्वलिङ्गेनैव सात्मकत्वं परशरीरस्यानुमीयताम् । किं मध्ये निरुक्तचेष्टावत्त्वानुमानेनेति चेत्सत्यम् । सावयवत्वसाधितेन कार्यत्वेन क्षित्यादेः सकर्तृकत्वस्य तार्किकैः साधितत्वेन तद्वदत्राप्युपपत्तेः । अन्यथा तत्रापि वैयर्थ्यमाशङ्क्येतेति न दोषः । तस्मादित्यस्यार्थः परशरीराधिष्ठातु-रिति । सकाशादिति शेषः । सर्वैरेवानुभूयत इत्येतद्व्याख्यातुं तन्निवर्त्यामा-शङ्कामाह ॥ न चैवमिति । स्वात्मनस्तस्मादन्यत्वं प्रत्यक्षतो ज्ञायत इत्येतदित्यर्थः ॥ सम्भावनामात्रमिति । उत्कटकोटिकः संशयः सम्भावना । यद्धर्मसहचरितानेकधर्मोपलम्भो यस्मिन्धर्मिणि तत्कोटावुत्कटत्वम् । यथा पुरुषत्वरूपधर्मसहचरितकरचरणाद्यनेकधर्मोपलम्भः पुरोवृत्त्यूर्ध्वपदार्थरूपे धर्मिणि भवति । तत्कोटौ पुरुषत्वकोटावुत्कटत्वम् प्रतीयते । प्रायेणानेन पुरुषेण भवितव्यमिति । तथा च सम्भावनामात्रमेवेदं न निश्चयः । निश्चायकप्रमाणाभावादित्यर्थः । एवकारो भिन्नक्रम इत्यभिप्रेत्य व्याख्याति ॥ अनुभूयत एवेति । तथा चानुभव एव निश्चायकप्रमाणमस्तीत्युक्तं भवतीति द्रष्टव्यम् । कथमनुभूयत इत्यतस्तदुपपादयति ॥ न हीत्यादिना ॥ चेष्टाविशेषेति । परिस्पंदरूपचेष्टाविशेषानुमितेत्यर्थः । तथा च चेष्टावत्त्व-रूपहेतोः संदिग्धासिद्धिर्नास्तीति भावः ॥ प्रयत्नविशेषवत इति । हिताहित-प्राप्तिपरिहारेच्छापूर्वकव्यापाररूपप्रयत्नविशेषावच्छेदकभूतशरीरवत इत्यर्थः । तथा च परिस्पंदापरपर्यायचेष्टाविशेषेण परशरीरे अनुमितं यन्निरुक्तचेष्टावत्त्वा-परपर्यायप्रयत्नविशेषावच्छेदकत्वं तदुपेतशरीरवत इत्यर्थः ॥ स्मृतौ सत्यामिति । अनुमानेन पूर्वमनुभूतत्वादिति भावः ॥ तथाविधप्रयत्नेति । हिताहितप्राप्तिपरिहारेच्छापूर्वकव्यापाररूपप्रयत्नावच्छेदकीभूतशरीरविरहिणमित्यर्थः । तस्मात्परमात्मनः सकाशान्नानुभवतीति न हि वा युज्यत इत्यन्वयः । अनुभवत्येवेत्यन्वयः । प्रत्यक्षे धर्मिणि भेदकधर्मसाक्षात्कारस्य भेदसाक्षात्कार-व्याप्तत्वादिति भावः । तथा च स्वात्मनि जीवान्तरे स्वप्रतियोगिकभेदस्य प्रत्यक्षाप्रत्यक्षधर्मत्वहेतुना यदप्रत्यक्षत्वं साधितं तदनुभवबाधितत्वादप्रमाण-मित्युक्तं भवतीति विज्ञातव्यम् ।

परशुनाम्नीटिप्पणी

प्रतियोगिनः स्मरणमिति । प्राय इति शेषः ।

एतेन, ‘‘पुरोवृत्तिघटात् पटस्य भेदग्रहसमये प्रतियोग्यनुभवस्य सत्त्वेन स्मरणाभावात्, ‘भेदप्रत्यक्षता प्रतियोगिस्मरणम् अपेक्षते’ इत्युक्तम् अयुक्तम्’’ इति परास्तम् ।

भेदस्य स्वाभाविकत्वसमर्थनम्

टीका

स्यादेतत्, तथापि तस्य भेदस्य स्वाभाविकत्वं कुतः? इति चेत्, मैवं स्वाभाविकत्वं हि यदा सत्यत्वं स्यात् तदा प्रमाणसिद्धत्वादेव तत् सिद्ध्यति । प्रामाण्यं च प्रत्यक्षस्य अन्यत्रोपपादितम् । सत्योपाधिकृतत्वं तु पूर्वमेव निरस्तमिति न पुनः प्रयतितव्यम् ।

मन्दारमञ्जरी

आक्षिपति ॥ स्यादेतदिति ॥ परिहरति ॥ मैवमिति ॥ स्वाभाविकत्वं, किं सत्यत्वम् ? किं वा अनौपाधिकत्वम् ? इति विकल्पं हृदि निधाय आद्यमनूद्य दूषयति ॥ स्वाभाविकत्वं हीति ॥

सत्यत्वस्य दुर्निरूपत्वपूर्वपक्षः

अथ किं सत्यत्वं? अबाध्यत्वमिति चेत् तदेव विविच्यताम् । निषेधाप्रतियोगित्वमिति चेन्न । घटादेरपि निषेधप्रतियोगित्वेन लक्षणा-सम्भवात् । त्रैकालिकनिषेधाप्रतियोगित्वमिति चेन्न । अश्वत्वस्य गवि त्रैकालिकनिषेधप्रतियोगित्वेन तत्राव्याप्तेः । न हि गौः कदाचिदप्यश्वत्वाश्रयः। प्रतिपन्नोपाधाविति विशिष्यत इति चेन्न । तथाप्यनित्यस्य घटादेरसत्यत्व-प्रसङ्गः । त्रैकालिकनिषेधाप्रतियोगित्वं हि त्रैकालिकनिषेधप्रतियोगित्वाभावः। घटादेरनित्यस्य स्वसमयात् प्रागूर्ध्वं च निषेधप्रतियोगित्वेन त्रैकालिको योऽयं निषेधप्रतियोगित्वाभावस् तद्रहितत्वात् । अथ त्रैकालिकत्वं न तन्निषेध-प्रतियोगित्वाभावविशेषणम् । किं तर्हि ? निषेधविशेषणम् । एवं च त्रिकालावस्थायी यो निषेधस् तत्प्रतियोगित्वाभावः सत्यत्वमिति लक्षण-वाक्यार्थः । स च घटादेरपि सम्भवति । घटादेर्निषेधस्य त्रिकाला-वस्थायित्वाभावादिति चेद् एवमपि घटस्यैव प्रतिपन्नोपाधौ पटात्मना त्रिकालावस्थायिनिषेधप्रतियोगित्वं वर्तत इत्यव्याप्तिस्तदवस्था ।

अथ यदात्मना यस्त्रिकालावस्थायिनिषेधाप्रतियोगी स तदात्मना सन्निति लक्षणवाक्यार्थः । तथा च घटस्य घटात्मना त्रिकालनिषेधाप्रतियोगित्वात् तदात्मना सत्वं पटात्मना तु तत्प्रतियोगित्वात् तदात्मना असत्वम् । अत एव सर्वं स्वात्मना सत् तदन्यात्मना असदित्यस्माकं मतमिति चेत् तर्हि असतोऽपि सत्वापातः । तस्यापि येन केनचिदाकारेण त्रैकालिकनिषेधा-प्रतियोगित्वात् । न ह्यसत् त्रैकालिकनिषेधप्रतियोगित्वाकारेण त्रैकालिकनिषेध-प्रतियोगि । तेनाकारेण असदपि सदस्तु को दोषः? इति चेद् अस्ति महान् दोषः । सदसतोरुभयोरपि आकारभेदेन सत्वासत्वाभ्युपगमे सदसद्विवेकानु-पपत्तेः । तस्मात्सत्वं दुर्निरूपमिति प्रामाणिकत्वेन तत्साधनमसङ्गतमिति ।

केषाञ्चिन्मतेन प्रतिबन्द्या सत्त्वस्य दुर्निरूपत्वनिराकरणम्

अत्र केचित्, ब्रह्मणि यादृशं परेषां सत्त्वं तादृशमेवास्माकं भविष्यतीति प्रतिबन्द्या परिहरन्ति ।

अन्येषां मतेन सत्त्वनिरुक्तिः

अपरे तु त्रैकालिकनिषेधप्रतियोगित्वतदविनाभूतेतरधर्मावच्छिन्नतया त्रैकालिकनिषेधाप्रतियोगित्वं सत्वम् । न चैवमसत्यतिव्याप्तिः । असत-स्त्रैकालिकनिषेधप्रतियोगित्वतदविनाभूतधर्मान्तरैस्त्रैकालिकनिषेधाप्रतियोगि-त्वेऽपि तदितरधर्मावच्छिन्नतया तत्प्रतियोगित्वात् । न चासम्भवः । घटादे-स्त्रैकालिकनिषेधप्रतियोगित्वतदविनाभूतेतरघटत्वादिधर्मावच्छेदेनत्रैकालिक निषेधाप्रतियोगित्वादित्याहुः ।

स्वमतेन सत्त्वनिरुक्तिः

वयं तु ब्रूमः ।

स्वदेशकालनिष्ठश्च स्वनिष्ठेन प्रकारतः ।

विशिष्टस्य निषेधो यस्तदयोगि सदुच्यते ॥

स्वसमानकालीनस्वसमानाधिकरणस्वनिष्ठधर्मावच्छिन्ननिषेधप्रतियोगित्वाभावाश्रयत्वं सत्त्वम् ।

एकदेशिमतेन सत्वलक्षणस्य असति अतिव्याप्तिनिरासः

निषेधप्रतियोगित्वाभावाश्रयत्वमित्यनेनैव असत्यतिव्याप्तिः परिहृता । तस्य निस्स्वरूपस्योक्तधर्माश्रयत्वाभावात् ।

असति एकधर्माभावे तद्विरुद्धधर्मशङ्का तत्परिहारश्च

ननु यद्यसतो न निषेधप्रतियोगित्वाभावाश्रयत्वं तर्हि निषेधप्रतियोगि-त्वाश्रयत्वं स्यादिति चेत्, न स्यात् । सतामेव हि सत्स्वरूपाणामाश्रयत्व-योग्यानां तदाश्रयत्वाभावे तद्विरुद्धधर्माश्रयत्वनियमः । असतस्तु निःस्वरूप-स्याश्रयत्वयोग्यतैव नास्तीति कुतस्तद्विशेषप्रसक्तिः । अन्यथा गवि ब्राह्मणत्वा-भावे क्षत्रियत्वाद्यन्यतमः स्यादित्युक्ते कः परिहारः ?

ननु क्षत्रियत्वादीनां मनुष्यत्वव्यापकत्वाद् व्यापकस्य मनुष्यत्वस्य अभावे तद्व्याप्यक्षत्रियत्वादेरप्यभावः । ‘एकस्य विशेषस्याभावे तद्विरुद्धविशेषान्तरस्य भावः’ इति नियमस्तु यत्र विरुद्धविशेषद्वयव्यापकं सामान्यमस्ति तत्रैव । गवि तु विशेषद्वयव्यापकं मनुष्यत्वसामान्यमेव नास्तीति परिहार इति चेत् स एव प्रकृतेऽपि परिहारः । असतो हि यदि नाम आश्रयत्वसामान्यं स्यात् तदा त्वदुक्तं स्यात् । अपि तु तन्नास्ति निःस्वरूपत्वादित्यन्ये ।

ग्रन्थकृन्मतेन असति अतिव्याप्तिनिरासः

वस्तुतस्तु नासतो देशकालौ । किं तु? तदत्यन्ताभावस्येति ।

सत्वलक्षणस्यात्माश्रयाव्याप्त्यसत्वदोषशङ्का

नन्वेतल्लक्षणम् एतल्लक्षणे अस्ति? उत न ? आद्ये आत्माश्रयः । द्वितीये लक्षणस्याव्याप्तिः । अलक्ष्यत्वे च कथमस्यासतो लक्षणत्वम् ? इति चेन्न ।

अनुगतलक्षणमङ्गीकुर्वतां प्रमेयत्वे प्रमेयत्वाङ्गीकार इवात्माश्रयस्योत्पत्ति-ज्ञप्त्यप्रतिबन्धकतया अदोषत्वात् ।

सिद्धान्ते आत्माश्रयत्वादिदोषपरिहारः

प्रतिव्यक्तिलक्षणभेदमङ्गीकुर्वतामस्माकं त्वात्माश्रयप्रसक्तेरेवाभावात् । प्रतिव्यक्तिलक्षणभेदाङ्गीकारे लक्षणस्याव्याप्तिः स्यादिति चेन्न दोषः । न हि लक्षणस्य सकललक्ष्यानुगतिर्व्याप्तिः । किं तर्हि ? लक्षणवाक्यस्य विवक्षिततत्तद्व्यक्तिपर्यवसानम् । सर्वलक्षणेऽप्येवमेवेति सिद्धान्तरहस्यम् । तच्च प्रकृतेऽपि सम्भवत्येव । स्वशब्दस्य सर्वनामत्वेन विवक्षितव्यक्तिपर्यवसान-सम्भवात् । विवक्षितव्यक्त्यपर्यवसाने च स्वशब्दस्य सर्वनामत्वं व्याहन्येत । यथाह पतञ्जलिः ‘सर्वेषां नामानि सर्वनामानीत्यन्वर्थसञ्ज्ञा’ इति ।

सत्वलक्षणान्तरम्

अथ वा साक्षात्प्रमाविषयतावच्छेदकधर्माश्रयत्वं सत्वम् । ‘भ्रमो ममासीत्’ इति प्रमाणज्ञानस्य शुक्तिरजतत्वादिकमपि परम्परया विषयो भवतीत्यति-व्याप्तिः स्यात् । तदर्थं साक्षादित्युक्तम् । न च साध्यावैशेष्यं शङ्क्यम् । सत्वप्रकारकप्रमाणविषयत्वस्य हेतुत्वात् । प्रमाणविषयतावच्छेदकधर्माश्रयत्वस्य च साध्यत्वात् । अवच्छेद्यावच्छेदकयोश्च भिन्नत्वात् ।

प्रामाणिकत्वसत्त्वयोर्व्याप्तिसमर्थनं

नन्वथापि कथं प्रामाणिकत्वस्य सत्वेन व्याप्तिः ? शुक्तिरजतस्यासत्यस्यापि ‘शक्तिरजतज्ञानं ममासीत्’ इति प्रमाविषयत्वादिति चेन्न । ज्ञानान्तरप्रणाडी-मनपेक्ष्य साक्षात्प्रमाविषयत्वस्य हेतुत्वात् । शुक्तिरजतादेश्च ज्ञानद्वारा प्रमाविषयत्वात् ।

प्रमासामान्यलक्षणपूर्वपक्षः

अथ केयं प्रमा? यथार्थज्ञानं प्रमेति चेद् यथाशब्दः किं सादृश्यवाची? किं वा अनतिक्रमाद्यन्यतमवाची ? नाद्यः घटज्ञानयोर् घटत्वादिना सादृश्या-भावात् । कथञ्चित्सादृश्यस्य चातिप्रसञ्जकत्वात् । न द्वितीयः ‘यथाऽसादृश्ये’ इत्यसादृश्यार्थे अव्ययीभावविधानात् । अव्ययीभावस्य च नपुंसकत्वविधानात् ‘उपकुम्भं’ इत्यादिवत् ‘यथार्थं प्रतीतिः’ इत्यादिप्रयोगापातात् । न चैवं व्यवहारः । ‘यथार्था प्रतीतिः’ इत्येव व्यवहारात् । तस्मात् प्रमात्वं दुर्निरूपमिति ।

सिद्धान्ते प्रमालक्षणम्

अत्रोच्यते

यथार्थज्ञानमित्येव प्रमाया लक्षणस्थितिः ।

स्मृतेरपि च लक्ष्यत्वादतिव्याप्तिकथा मुधा ॥

यथार्थज्ञानं प्रमा । न च स्मृतावतिव्याप्तिस् तस्या अपि लक्ष्यत्वात् । न च यथाशब्दार्थानिरुक्तिः सादृश्यस्य यथाशब्दार्थत्वात् । सादृश्यं च ज्ञानार्थयोः सत्तया । न च भ्रमेऽतिव्याप्तिः । तत्र ज्ञानस्य सत्त्वाद् अर्थस्य च असत्त्वाज् ज्ञानार्थयोः सत्तया सादृश्याभावात् । एवं च यथा सादृश्यविशिष्ट एव अर्थो यस्येति बहुव्रीह्याश्रयणे यथार्थशब्दस्याभिधेयवल्लिङ्गं लोकसिद्धं सिद्धम् ॥ यथाशब्दोऽतिक्रमे वर्तत इति टीकाकारवचनं तु फलितप्रदर्शनपरतया व्याख्येयम् । ज्ञानार्थयोः सादृश्यकथनेन ज्ञानस्य अर्थानतिक्रमणस्य आवश्यकत्वाच्च । एवमेव च ‘धर्माय जिज्ञासा धर्मजिज्ञासा’ इति पूर्वमीमांसाभाष्यं, धर्मजिज्ञासयोर् यूपदार्वादिवद् उपादानोपादेयलक्षणप्रकृति-विकृतिभावाभावात् ‘धर्माय’ इति चतुर्थीसमासे व्याकरणविरोधमाशङ्क्य फलितप्रदर्शनपरतया भट्टेन व्याख्यातमिति ।

स्मृतिप्रामाण्यसमर्थनम्

इह केचित्, स्मृतेः प्रामाण्ये विप्रतिपद्यन्ते । ते प्रष्टव्याः, किं क्लृप्त-प्रमाकरणाभावात् स्मृतेः प्रमात्वानभ्युपगमः? किं वा अनुमानाद्यजन्यत्वेऽपि असन्निकृष्टार्थोल्लेखित्वात्? किं वा असदर्थोल्लेखित्वात्? यद्वा वृद्ध-व्यवहाराभावात्? नाद्यः सुखादिप्रमायां क्लृप्तस्यैव मनसः स्मृतावपि करणत्वात् । बाह्यप्रमायां न क्लृप्तमिति चेन्न ‘घटो मयाऽनुभूतः? इत्यनु-व्यवसायस्य मनोमात्रकरणकत्वेन मनसो बाह्यार्थविषयकप्रमायामपि क्लृप्तत्वात् । साक्षाद्बाह्यप्रमितौ न क्लृप्तं मन इति चेत्, मा भूद् इहापि संस्कारद्वारैव मनसा स्मरणोत्पादनात् । एतेन स्मरणकरणे संस्कारे प्रमाकरणत्वव्यवहाराभावान्न तस्य प्रमापकत्वमिति निरस्तम् । मनस एव तत्करणत्वात् । न द्वितीयः प्रत्यभिज्ञायां व्यभिचारात् । प्रत्यभिज्ञायामपि तद्देशकालसम्बन्धस्या-सन्निकृष्टस्यैव आकलनात् । तत्र संस्काराख्यः सन्निकर्षोऽस्तीति न व्यभिचार इति चेदिहापि तथैवेत्यसिद्धिः ।

तृतीयेऽपि किमत्यन्तासदर्थोल्लेखित्वम् ? किं वा स्वकाले अविद्य-मानार्थोल्लेखित्वम् ? यद्वा अन्यथोल्लेखित्वम् ? नाद्यो ऽसिद्धेः । न द्वितीयो ऽतीतानागतविषयिकायाम् अव्यभिचरितशकुनादिलिङ्गजन्यानुमितौ व्यभिचारात् । ननु ‘अग्निरासीत्’ वृष्टिर्भविष्यति’ इत्याद्यनुमितावपि अग्निप्रध्वंसस्य व्यवहित-वृष्टिप्रागभावस्य विषयत्वाङ्गीकारात् तस्य च तदा वर्तमानत्वान्न व्यभिचार इति चेत्तर्हि तत्कालादिप्रध्वंस एव विषयीक्रियते । स च स्मृतिकाले वर्तमान एवेति त्वद्धेतोरसिद्धिः । न चाननुभूतस्य तत्कालसम्बन्धप्रध्वंसस्य आकलने स्मृतेरनु-भूतमात्रविषयकसंस्कारसीमोल्लङ्घनं स्यादिति अन्यस्यापि स्मरणं स्यादिति युक्तम् । कालान्तरभाव्यनुभवस्य कालान्तरभाविनीं स्मृतिं प्रति कारणता-निर्वाहार्थं कल्प्यमानस्य संस्कारस्य यादृशस्वभावाङ्गीकारे स्मृतिकारणता निरूढा भवेत् तादृशस्वभावस्यैव धर्मिप्रमाणसिद्धत्वेनानतिप्रसङ्गात् ।

न तृतीयो ऽसिद्धेः । स्मृतिर्हि ‘तत्र तदा तत् तादृशमासीत्’ इति उल्लिखति । न च तत् तादृशं तत्र नासीत् । येन स्मृतिरन्यथोल्लेखिनी स्यात् ।

एतेन ‘स्मृतिः स्वविषयस्य वर्तमानतोल्लेखिनी संस्कारजन्यज्ञानत्वात् प्रत्यभिज्ञावत्’ इत्यनुमानेन स्मृतेरनुभूततत्कालसम्बन्धादिविशिष्टस्वविषयस्य वर्तमानतोल्लेखितासाधनात् तादृशावस्थाविशिष्टस्य च अवर्तमानत्वाद् अवर्तमाने वर्तमानतोल्लेखिनी स्मृतिरन्यथोल्लेखिनी’ इति निरस्तम् । ‘आसीत्’ इत्यतीतोल्लेखस्यानुभवसिद्धत्वेन वर्तमानतोल्लेखितासाधने बाधात् । अतीत-कालादिसम्बन्धप्रध्वंसस्य स्मृतिविषयस्य वस्तुतो वर्तमानस्यैव वर्तमानतो-ल्लेखितासाधने सिद्धसाधनत्वात् । एतेन ‘याचितमन्नं कमनीयमिव स्मृतेः प्रामाण्यं’ इति उदयनोपालम्भोऽपि निरस्तः । प्रध्वंसांशे अनुभवाभावेन तदंशे प्रमात्वस्य तत्प्रमात्वानधीनत्वात् ।

किं च स्मृतिविषये विशेष्यमात्रस्य वर्तमानतोल्लेखसाधने सिद्धसाधनम् । विशिष्टस्य तथात्वसाधने साध्यवैकल्यं दृष्टान्तस्य । ननु यदि स्मृतिः स्वविषयस्य घटादेर्वर्तमानतां नाकलयेत् तदा ‘गृहे घटः’ इति ज्ञानानन्तरं घटार्थी न प्रवर्तेतेति चेन्न । न हि स्मृतिः ‘स घट इदानीं वर्तते’ इत्यु-ल्लिखति । किं तर्हि ? ‘तदा आसीत्’ इत्वेव । विशेष्यस्य घटादेर्वर्तमानताऽ-वर्तमानतयोस्तु उदासीनैव । अन्यथा काञ्चीतः काशीं गतस् तत्र यथानु-भूतपुत्रस्मरणेनैव तस्य स्थितिनिश्चये पुत्रः पुनः क्वास्ते’ इति न सन्दिह्येत । क्वचित्प्रवृत्तिस्तु ‘इदानीमेव घटस्तत्रानुभूतः, न चैतन्मध्ये तस्यापहर्ता सम्भावितः’ इति सम्भावनारूपेण ज्ञानान्तरेणेत्यनुभवसिद्धम् ।

नापि चतुर्थो ऽस्मदीयवृद्धैः स्मृतेः प्रमात्वेन व्यवहारात् । त्वदीयवृद्ध-व्यवहाराभावस्य त्वयाप्यनादरणीयत्वात् । लौकिकैरपि प्रमात्वेन व्यवहाराच्च । तस्मात्स्मृतेः प्रमात्वं सुस्थमिति न लक्षणस्यातिव्याप्तिः ।

प्रमालक्षणान्तरनिरासेन स्वोक्तलक्षणसमर्थनम्

एतदेव प्रमालक्षणं, लक्षणान्तराभावात् । तथा हि, किं संवाद्यनुभवत्वम्? किं वा अविसंवाद्यनुभवत्वम्? यद्वा समर्थप्रवृत्तिजनकानुभवत्वम्? अथ वा तद्योग्यानुभवत्वम्? उत अबाधितानुभवत्वम्? आहोस्वित् तद्वति तत्प्रकार-कानुभवत्वम्? नाद्यः ज्ञानान्तरेण तथोल्लेख्यमानत्वस्य च संवादित्वे धारावाहिकविभ्रमेऽतिव्याप्तेः । प्रमान्तरेण तथोल्लेख्यमानत्वस्य संवादित्वे प्रमात्वस्यैव निरूप्यमाणत्वेनात्माश्रयात् । न द्वितीयो ऽनुपसञ्जातबाध-भ्रमेऽतिव्याप्तेः । न तृतीय उपेक्षाज्ञानेऽव्याप्तेः । न चतुर्थः निर्विकल्पकेऽ-व्याप्तेः । न हि निर्विकल्पकजातीयं किञ्चिदपि प्रवृत्तिं जनयति । तज्जातीयस्य क्वचित्प्रवृत्त्यजनकत्वे च तत्र योग्यतायाः कल्पयितुमशक्यत्वात् । निर्विकल्प-कस्य प्रमात्वानङ्गीकारे अपसिद्धान्तात् । न पञ्चमो ऽन्योन्याश्रयत् । अबाधितत्वं हि बाधरहितत्वम् । बाधश्च विरोधिप्रमा । ततश्च प्रमाज्ञानं विना बाधज्ञानाभावाद् बाधज्ञानं विना च बाधरहितानुभवरूपप्रमाज्ञानाभावात् कथं नान्योन्याश्रयः? षष्ठेऽपि यावन्तो धर्मा वर्तन्ते तावत्सर्वधर्मप्रकारकत्वं विवक्षितम्? तन्मध्ये यत्किञ्चिद्धर्मप्रकारकत्वं वा ? नाद्यो ऽसम्भवात् । न हि ‘घटोऽयं’ इति प्रमा घटगतसर्वधर्मप्रकारिका । न द्वितीयः भ्रमेऽति-व्याप्तेः । भ्रमेऽपि इदन्त्ववति शुक्तिकाशकले इदन्त्वप्रकारकत्वात् । इदमंशे भ्रमोऽपि प्रमैवेति चेन्न । प्रमात्वाप्रमात्वयोरेकत्रानवस्थानात् । इदमंशे प्रमात्वं रजतांशे भ्रमत्वमिति अंशभेदेनाविरोध इति चेन्न । त्वया हि प्रमाया गुण-जन्यत्वं दोषाजन्यत्वं च, अप्रमाया दोषजन्यत्वं गुणाजन्यत्वं च अङ्गी-क्रियते । तत्कथं स्यात्? एकस्यैव तज्जन्यत्वातज्जन्यत्वयोर्विरोधात् । तत्राप्यंशभेदादविरोध इति चेन्न । ज्ञानस्य गुणत्वेनांशाभावात् । ज्ञानस्य निरवयत्वेनांशासम्भवेऽपि इदन्त्वं रजतत्वं चेति प्रकारावेवांशाविति चेन्न । इदन्त्वरजतत्वयोः प्रकारयोर्भेदेऽपि तयोर्गुणदोषजन्यत्वाभावेन विरोधाशाम-कत्वात् । गुणदोषजन्ये च ज्ञाने अंशभेदाभावेन विरोधस्य तदवस्थत्वात् । तस्मात् प्रमा चेत् सर्वथापि प्रमैव । अप्रमा चेदपि सर्वथा अप्रमैव । अप्रमा-विषयस्यापि इदमंशस्याबाधः स्मृतिविषयघटादेर्वर्तमानतावदुपपद्यते । इदमं-शाबाधमात्रेण च तत्र प्रमात्वव्यवहारः ।

किञ्च अंशभेदेन प्रमात्वाप्रमात्वयोरङ्गीकारे ‘घटोऽयं’ इति प्रमाया अपि घटत्वांशे अप्रमात्वं स्यात् । तत्र तद्वति तत्प्रकारकत्वाभावात् । न हि ‘घटोऽयं’ इति ज्ञाने घटत्वे प्रकाररूपं विशेषणं प्रतीयते । प्रतीतौ वा तस्मिन् विशेषणे विशेषणान्तराप्रतीतेस् तत्रैवाप्रमात्वं स्यात् । तत्रापि विशेषणान्तर-प्रतीत्यङ्गीकारे अनवस्था स्यात् । न च अनवस्था न दोष इति शङ्क्यम् । उत्तरोत्तरप्रकारापरिज्ञाने पूर्वपूर्वप्रकारिज्ञानासम्भवेन मूलक्षतेः । त्वन्मते प्रकारज्ञानस्य प्रकारावच्छिन्नप्रकारिज्ञानहेतुत्वात् । तथा च अनवस्थापरिहारार्थं क्वचिन् निष्प्रकारकस्य पदार्थस्य प्रमितिविषयत्वावश्यम्भावेन तत्रैवांशे तस्याः प्रतीतेरप्रमात्वावश्यम्भाव इति अंशभेदेन प्रमाप्रमयोरुभयोरपि प्रमाप्रमो-भयात्मकत्वापातात् प्रमाप्रमाविभागो न स्यादिति महानतिप्रसङ्गः ।

विशेष्यावृत्त्यप्रकारकत्वं विवक्षितमिति चेन्न । ‘देवदत्तस्य गौः’ ‘ईश्वर-स्येच्छा’ इत्यादौ विशेष्यगवाद्यवृत्तेर्देवदत्तादेः प्रकारतानुभवेनाव्याप्तेः । त्वत्पक्षे जातिसमवाययोः सर्वगतत्वेन शुक्त्यादावपि रजतत्वादेर्वृत्त्याऽतिव्याप्तेश्च । तयोराधाराधेयभाव एव नास्तीति चेन्न । समवायस्यैव इहप्रत्ययहेतुत्वेन तदतिरिक्तस्याधाराधेयसम्बन्धस्याभावात् । तदेतदभिप्रेत्योक्तं प्रमाणपद्धतौ टीकाकारैर् यथावस्थितमेव ज्ञेयं यद्विषयीकरोति तत्प्रमाणमिति । यदि पुनरिदमंशे प्रमात्वं स्यात्तदा एवकारो व्यर्थः स्यात् । लक्ष्ये इदमंशे वर्तमानत्वस्यादोषत्वात् । प्रकारांशे च यथावस्थितज्ञेयविषयीकारित्वाभावात् । यद्वा यादृच्छिकसंवादिविप्रलम्भकवाक्यस्यानुप्रमाणताव्युदासाय एवकारो व्याख्येयः । तथा च न शुद्धाऽप्रमासाधनप्रयास इत्यलं प्रपञ्चेन ।

आत्मभेदस्य सत्यमिथ्योपाधिकृतत्वमेव स्वाभाविकत्वमिति शङ्कानिरासः

द्वितीयं दूषयति ॥ सत्योपाधिकृतत्वं त्विति ॥ मिथ्योपाधिकल्पितत्वं तु सत्यत्वसाधनेन निरस्तमिति भावः ।

श्रीनिवासतीर्थीयटिप्पणी

स्वाभाविकत्वं नाम किं सत्यत्वम् उत सोपाधिकृतत्वं वेति विकल्पं हृदि निधायाद्यमनूद्य दूषयति ॥ स्वाभाविकत्वं हीति ॥ प्रमाणेति । अनुभूयत इत्युक्तप्रत्यक्षरूपप्रमाणसिद्धत्वादेवेत्यर्थः । तत् सत्यत्वम् । प्रत्यक्षेण तावद्भेदो गृह्यते । तस्य च बाधकाभावात्सत्यत्वमेव सिध्यतीति भावः । ननु प्रत्यक्षस्यातत्वावेदकत्वेनाप्रामाण्यात्तद्गृहीतभेदोऽसत्य एवेति चेत्तत्राह ॥ प्रामाण्यं चेति ॥ अन्यत्रेति । प्रत्यक्षवच्च प्रामाण्यमित्यादिनाऽनु-व्याख्यानादावित्यर्थः । द्वितीयं दूषयति ॥ सत्योपाधिकृतत्वं त्विति ॥ पूर्वमेवेति । भेदश्चोपाधितः कुत इत्यादिना पूर्वमेवेत्यर्थः ॥ न पुनः प्रयतितव्यमिति । तन्निराकरणाय पुनः प्रयत्नो न कर्तव्य इत्यर्थः ॥

जीवानां मिथो भेदस्य अनुमानसिद्धत्वसमर्थनम्

टीका

अनेन जीवभेदस्य विरुद्धधर्मसंसर्गेणानुमानेनापि सिद्धिरुक्ता भवति ।

मन्दारमञ्जरी

अनुमानं च जीवभेदे प्रमाणयति ॥ अनेनेति ॥ विरुद्ध-धर्मकथनेनेत्यर्थः । ननु पारमार्थिको भेदः साध्यते? किं वा अपारमार्थिकः? नाद्यो ऽप्रसिद्धविशेषणत्वात् । अस्माभिः पारमार्थिकस्य कुत्राप्यनङ्गीकारात् । न द्वितीयः सिद्धसाधनत्वादिति चेन् नैष दोषः धर्मिसत्तासमानसत्ताकभेदस्य साध्यत्वात् । एवं च नाप्रसिद्धविशेषणता । व्यावहारिकसत्ताश्रयघटधर्मिकस्य तद्भेदस्य त्वयापि धर्मिसत्तासमानव्यावहारिकसत्ताङ्गीकारात् । नापि सिद्ध-साधनता अत्र चैतन्यस्य पारमार्थिकसत्ताश्रयस्य धर्मित्वात् । तद्भेदस्यापि धर्मिसत्तासमानसत्ताकत्वेन साध्यमानस्य पारमार्थिकसत्ताश्रयत्वेन पर्यवसानात् । धर्माणां विरोधश्च सहानवस्थानलक्षणो विवक्षितः । न चैकात्मवादिनामसिद्धो विरोध इति वाच्यम् । सहानवस्थितत्वेन प्रतीयमानत्वस्य वा सहावस्थित-त्वेनाप्रतीयमानत्वस्य वा सहानवस्थानशब्देन विवक्षितत्वात् ।

तथा च प्रयोगः, ‘देवदत्तो यज्ञदत्तप्रतियोगिकस्वसत्तासमानसत्ताकभेदाश्रयस् तदनिष्ठत्वेन प्रतीयमानधर्माश्रयत्वात् तन्निष्ठत्वेनाप्रतीयमानधर्माश्रयत्वाद्वा, यदेवं तदेवं यथा घटानिष्ठत्वेन प्रतीयमानस्य घटनिष्ठत्वेन अप्रतीयमानस्य वा पटत्वादिधर्मस्याश्रयः पटो घटप्रतियोगिकस्वसत्तासमानसत्ताकभेदाश्रयः’ इति ।

श्रीनिवासतीर्थीयटिप्पणी

अनेनेति । परस्परं जीवभेदस्य प्रत्यक्षत्वोपपादनपरेण चेष्टा-लिङ्गेनेति मूलवाक्येनेत्यर्थः । जीवभेदस्य परस्परं जीवभेदस्य ॥ विरुद्धधर्म-सर्ङ्गेणानुमानेति । प्रयत्नविशेषवतः परमात्मनः स्मृतौ सत्यां तथाविध-प्रयत्नविरहिणं स्वात्मानमनुभवन्निति विरुद्धधर्मसंसर्गस्योपपादितत्वात्तद्रूपानु-मानेनेत्यर्थः । तथा च देवतत्तात्मा यज्ञदत्तादीतरात्मभ्यो भिन्नः निरुक्त-चेष्टारूपप्रयत्नविशेषवत्त्वतदभावरूपविरुद्धधर्माधिकरणत्वात् । यद् यद्विरुद्ध-धर्माधिकरणं तत्ततो भिन्नम् । यथा शीतस्पर्शाधिकरणं जलमुष्णस्पर्शाधि-करणादनलादित्यनुमानप्रकारो द्रष्टव्यः ॥ अनुमानेनापीति । न केवलं प्रत्यक्षेणेत्यपिशब्दार्थः ॥

जीवेश्वरभेदे प्रत्यक्षप्रमाणसमर्थनम्

टीका

एवं जीवानां परस्परभेदस्य प्रत्यक्षत्वे असम्भवं परिहृत्य प्रत्यक्षता चोपपादिता । इदानीं जीवेश्वरभेदस्य प्रत्यक्षता-मुपपादयति

मूलम्

अज्ञता चाल्पशक्तित्वं दुःखित्वं स्वल्पकर्तृता ॥ १२ ॥

सर्वज्ञत्वादीशगुणविरुद्धा ह्यनुभूतिगाः ।

जीवनिष्ठतयेति पूरणीयम् । हिशब्दो यस्मादित्यर्थे । तस्मा-दीशादपि स्वात्मनोऽन्यत्वं सर्वैरनुभूयत एवेति पूर्वोक्तानुवृत्त्या अन्वयः । न हीशधर्मविरुद्धधर्मवन्तमात्मानं प्रत्यक्षतः पश्यन् ततोऽन्यत्वं न पश्यतीति युज्यते । अतिस्फुटतां भेदप्रत्यक्ष-स्योपपादयितुं विरुद्धधर्मबाहुल्योपपादनम् ।

जीवेश्वरभेदे अनुमानप्रमाणसमर्थनम्

अनेन जीवेश्वरभेदस्य अनुमानसिद्धता चोपपादिता भवति ।

मन्दारमञ्जरी

विरुद्धधर्मकथनेनैव ईश्वरप्रतियोगिकजीवाश्रयभेदेऽप्यनुमानं प्रमाणमुक्तमित्याह ॥ अनेनेति ॥ प्रयोगस्तु ‘विमतौ अन्योन्यप्रतियोगिक-धर्मिसत्तासमानसत्ताकभेदाश्रयौ अन्योन्यानिष्ठतया प्रतीयमानधर्माश्रयत्वात् संमतवत्’ इति । ननु किमत्र अन्तःकरणावच्छिन्नं चैतन्यं पक्षः? किं वा चैतन्यमात्रम्? नाद्यः सिद्धसाधनत्वात् । अवच्छेदकभेदेनावच्छिन्नभेदस्यास्मा-भिरङ्गीकारात् । अवच्छिन्नस्य व्यावहारिकत्वात् तत्समानसत्ताकस्य व्यावहारि-कस्य भेदस्य अस्माभिरप्यङ्गीकारात् । न द्वितीयस् तत्र विरुद्धधर्माभावेन असिद्धेरिति चेन् नैष दोषः । ययोर्ब्रह्मत्वादिकल्पना तत्पक्षे तयोस्तत्त्वं-पदार्थयोः पक्षीकरणात् । अन्यथा अभेदसाधकानुमानेऽपि अवच्छिन्नपक्षीकारे अपसिद्धान्तात् । अन्यथा सिद्धसाधनताप्रसङ्गादिति । न चैवमसिद्धिः । संसारिण्यल्पज्ञत्वादेः प्रत्यक्षेण, ब्रह्मणि च सार्वज्ञ्यादेः श्रुत्या सिद्धत्वात् ।

श्रीनिवासतीर्थीयटिप्पणी

असम्भवमिति । असम्भावनाशङ्कानुभवरूपनिश्चायक-प्रमाणोक्त्या परिहृत्येत्यर्थः ॥ पूरणीयमिति । अनुभूतिगा इत्यतः पूर्वमिति शेषः । तस्मादित्यस्यार्थ ईशादिति । सार्वज्ञादिविशिष्टादित्यर्थः । स्वात्मनस् तद्विरुद्धाल्पत्वादिविशिष्टस्य ॥ पूर्वोक्तेति । अन्यत्वं स्वात्मनस्तस्मादित्यर्ध-स्यानुवृत्त्येत्यर्थः ॥ न पश्यतीति युज्यत इति । पश्यत्येवेत्यर्थः । प्रत्यक्षे धर्मिणि भेदकधर्मसाक्षात्कारस्य भेदसाक्षात्कारव्यापकत्वादिति पूर्वोक्त एवाभिप्रायः ॥ अनेनेति । जीवेश्वरभेदस्य प्रत्यक्षसिद्धत्वोपपादनपरेणाज्ञता चेति मूलवाक्येनेत्यर्थः ॥ अनुमानसिद्धता चेति । तथा च जीव ईश्वराद्भिन्नो भवितुमर्हति ईश्वरीयधर्मविरुद्धधर्माधिकरणत्वात् । यद्यद्विरुद्धधर्माधिकरणं तत्ततो भिन्नम् । यथा जलानलमित्यनुमानं द्रष्टव्यम् ।

परशुनाम्नीटिप्पणी

अतिस्फुटतामिति । स्फुटत्वं च ज्ञानगत एव विशेषः, न विषयोपाधिकः; इति द्रष्टव्यम् ।

जीवेश्वरभेदसाधकानुमानस्यासिद्धिशङ्कापरिहारः

टीका

स्यादेतत्, यदि सार्वज्ञ्यादिगुणवत्तया ईश्वरः सिद्धः स्यात् तदेव कुतः? इत्यत आह–

मूलम्

सार्वज्ञ्यादिगुणा विष्णोः श्रुतिषु प्रतिपादिताः ॥ १३ ॥

‘यः सर्वज्ञः स सर्ववित्,’ ‘पराऽस्य शक्तिर्विविधैव श्रूयते,’ ‘य आत्माऽपहतपाप्मा,’ ‘स हि सर्वस्य कर्ता’ इत्याद्यास्विति शेषः ।

मन्दारमञ्जरी

चोदयति ॥ स्यादेतदिति ॥ परिहरति ॥ अत आहेति ॥ सार्वज्ञ्यादिकमल्पज्ञत्वादिविरुद्धं श्रुत्या ईश्वरस्य प्रतिपादयितुं क्रमेण ताः पठति ॥ यः सर्वज्ञ इत्यादिना ॥

श्रीनिवासतीर्थीयटिप्पणी

तदेव ईश्वरस्य सार्वज्ञादिगुणवत्त्वमेव ॥ कुत इति । कस्मा-त्प्रमाणात्सिद्धमित्यर्थः । मूले सार्वज्ञ्यादीत्यादिपदेन पूर्णशक्तित्वनिर्दुःखत्व-सर्वकर्तृत्वादीनां ग्रहणम् । तत्र पूर्णशक्तित्वे परास्य शक्तिर्विविधैवेति मानम् । य आत्मेति निर्दुःखत्वे मानम् । दुःखादीनां पापकार्यत्वेन तदभावे तदभाव-सिद्धिरित्याशयः । सर्वकर्तृत्वे स हि सर्वस्य कर्तेत्यादिश्रुतिर्मानमिति द्रष्टव्यम् ।

परशुनाम्नीटिप्पणी

यः सर्वज्ञः (स) सर्वविदिति । ‘यः सर्वज्ञः’ इत्यादि-श्रुतिषु यः प्रसिद्धः, स सर्वविदेव; न तु सर्वज्ञत्वोपचारविषयः; इत्यर्थः ।

भेदस्य धर्मिस्वरूपत्वपक्षे प्रतियोगिज्ञानादिनैष्फल्यशङ्का तन्निरासश्च

टीका

ननु भेदो नाम वस्तुस्वरूपमेव । अतस्तद्दर्शनमेव भेददर्शनमिति किं प्रतियोगिप्रतीत्यनुसरणेन? किं च तदुपपाद-नाय विरुद्धधर्मोपन्यासेन? मैवं, न निर्विशेषवस्तुमात्रं भेदः । तथा सति वस्तुमात्रस्य परेणाप्यङ्गीकृतत्वाद् विवादानुपपत्तेः । किं नाम? अन्योन्याभाव एव । स च रूपादिवद् वस्तुना सविशेषाभिन्न इत्येव स्वरूपं भेद इत्यस्यार्थः । अन्योन्याभावश्च प्रतियोगिनिरूप्य इत्युपपन्नमेव तत्प्रतीत्यनुसरणम् । सादृश्यादिना सन्नप्यन्योन्याभावो नोपलभ्यत इति विरुद्धधर्मोपन्यासोऽप्युप-पद्यते । अत एव भेद इति प्रस्तुतेऽपि अन्यत्वम् इत्युक्तम् ।

मन्दारमञ्जरी

शङ्कते ॥ ननु भेदो नामेति ॥ अतस्तदृर्शनमेव भेददर्शनमिति ॥ तच्च प्रतियोगिप्रतीत्यनपेक्षमिति वाक्यशेषः । विरुद्धधर्मकथनं च असङ्गतं, स्वरूपाभिन्ने भेदे कस्यापि विप्रतिपत्तेरभावादित्याह ॥ किं चेति ॥ तदुपपादनाय विरुद्धधर्मोपन्यासेन च किं ? इति चशब्दो भिन्न-क्रमः। परिहरति ॥ मैवमिति ॥ ननु स्वरूपातिरेके भेदस्यानवस्थाप्रसङ्गात् स्वरूपमात्रत्वं भेदस्येति शङ्कते ॥ किं नामेति ॥ परिहरति ॥ अन्योन्या-भाव इति ॥ तादात्म्यनिषेध इति यावत् ॥ सविशेषेति ॥ विशेषेण सहैकाधिकरणक इत्यर्थः ।

विशेषाङ्गीकारे प्रमाणाक्षेपः

ननु विशेषे किं प्रमाणम् ? ‘घटस्य भेदः’ इति सम्बन्धव्यवहारः प्रमाण-मिति चेन्न । ‘देवदत्तस्य कम्बलः’ इतिवद् भेदेनैवोपपत्तेः । अभेदे सत्यपि सम्बन्धव्यवहारः प्रमाणमिति चेन्न ‘घटस्य रूपम्’ इतिवद् अभेदेनाप्युप-पत्तेः । भेदासहिष्ण्वभेदे सत्यपि सम्बन्धव्यवहारः प्रमाणमिति चेन्न । तस्यासिद्धेः । तत्प्रतीतौ तत्प्रतीतिरित्याद्यभेदकार्यस्य अभेदमात्रेणोपपत्तौ ‘घटस्य भेदः’ इति सम्बन्धप्रतीतिप्रापितस्य भेदस्याप्यङ्गीकार्यत्वेन भेदस्य घटेन आत्यन्तिकाभेदासम्भवात् ।

नन्वीश्वरतद्गुणयोर् भेदो नाङ्गीकार्यः । ‘‘एवं धर्मान् पृथक् पश्यंस्तानेवानु-विधावति’’ इति भेदप्रतिषेधात् । तथा च भेदासहिष्णुरभेदोऽङ्गीकार्यः । अथापि श्रूयते ‘आनन्दो ब्रह्मणः’ इति ब्रह्मानन्दयोः सम्बन्धः । तथा च तन्निर्वाहार्थं विशेषोऽङ्गीकर्तव्य इति चेत्, नाङ्गीकर्तव्यः । ‘एवं धर्मान्’ इति श्रुतौ च आत्यन्तिकभेदनिषेधात् । भेदमात्रनिषेधे सम्बन्धव्यवहारे कारणत्वेन क्लृप्तभेदस्य परित्यागप्रसङ्गात् । क्लृप्तकारणपरित्यागेन अक्लृप्तकारणान्तरकल्पने च संसर्गव्यवहारे कारणत्वेन क्लृप्तसंसर्गप्रत्ययस्य परित्यागेन असंसर्गाग्रहस्यैव कारणत्वकल्पनेन अख्यातिपक्षपातप्रसङ्गात् । न च भेदाभेदयोर्विरोधात् तद्विरोधशमनाय विशेषोऽङ्गीकार्य इति वाच्यम् । विशेषस्यापि भेदकार्यस्य भेदवदभेदविरोधित्वेन अभेदेन सहावस्थानासम्भवात् । तत्र प्रतीतत्वादविरोध इति चेत्समं भेदाभेदयोरपीति ।

एतेनैतदपि परास्तम् । घटभेदशब्दौ तावदपर्यायतया प्रसिद्धौ । न चैतयोरपर्यायत्वं घटपटशब्दादाविवात्यन्तभिन्नार्थवाचित्वेन सम्भवति । घटतद्भेदयोरात्यन्तिकभेदाभावात् । नापि घटरूपादिशब्दवद्भिन्नाभिन्नार्थ-वाचित्वेन, घटतद्भेदयोरत्यन्ताभेदात् । तस्मात् तदपर्यायतानिर्वाहकः कश्चिदङ्गीकार्यः स एव विशेष इति । उक्तन्यायेन भेदाभेदाङ्गीकारेणैव सर्वव्यवस्थोपपत्तेः । तस्मान्न विशेषे प्रमाणमस्ति ।

विशेषे लक्षणाभावशङ्का

नापि लक्षणमस्ति । तथा हि, न तावद्भेदव्यवहारनिर्वाहकत्वं तल्लक्षणं, घटपटभेदव्यवहारनिर्वाहके भेदेऽतिव्याप्तेः । नाप्यभिन्ने भेदव्यवहारनिर्वाहकत्वं, घटाभिन्ने रूपे ‘घटस्य रूपं’ इति भेदनिबन्धनसम्बन्धव्यवहारनिर्वाहक-भेदेऽतिव्याप्तेः । अत्यन्ताभिन्ने भेदव्यवहारनिर्वाहकत्वमिति चेन्न असम्भवात् । एकपदार्थाभिधाय्यनेकशब्दापर्यायतानिर्वाहकत्वमिति चेन्न । ‘शुक्लः पटः’ इत्यत्र एकपटाभिधाय्यनेकशब्दापर्यायतानिर्वाहके शुक्लपदप्रवृत्तिनिमित्ते शौक्ल्ये पटपदप्रवृत्तिनिमित्ते पटत्वे चातिव्याप्तेः । प्रवृत्तिनिमित्तभेदरहितैकार्थाभि-धाय्यनेकशब्दापर्यायतानिर्वाहकत्वं लक्षणमिति चेन्न असम्भवात् । घटभेदादि-शब्देष्वपि घटत्वभेदत्वादिप्रवृत्तिनिमित्तभेदसद्भावात् । तस्मान्न विशेषे प्रमाणं लक्षणमप्यस्तीति ।

विशेषस्य भेदस्वरूपत्वशङ्का

अपि चायं विशेषः किं भेदकार्यं करोति? उत न ? न चेत्किमने-नाङ्गीकृतेन । आद्ये भेद एवायं नामान्तरेणोच्यते । भेदकार्यकरस्यैव भेदत्वात् । क्लृप्तकारणं विना कार्यायोगात् ।

विशेषाङ्गीकारे भेदस्वरूपापलापशङ्का

एकस्यैव सम्बन्धव्यवहारकार्यस्य कारणद्वयं भेदो विशेषश्चेति । तत्र भेदो ‘देवदत्तस्य कम्बलः’ इत्यादिसम्बन्धव्यवहारहेतुः । ‘घटस्य भेदः’ इत्यादेस्तु व्यवहारस्य विशेषो हेतुरिति व्यवस्थाऽस्त्विति चेत्, किमनया कल्पनया ? देवदत्तस्य कम्बलः’ इत्यादिप्रत्ययप्रयोगयोरपि विशेष एव हेतुरस्तु । तथात्वेऽनुगमात्किं भेदेन ? इति । तथा च भेदकार्यनिर्वाहार्थं कल्प्यमानो विशेषो भेदमेवोन्मूलयतीति ।

विशेषस्वरूपस्य दुर्निरूपत्वशङ्का

अपि च कोऽयं विशेषः ? किं स्वभावभेदः? किं वा शक्तिविशेषः? आद्येऽपि किं घटस्य स्वभावः? किं वा भेदस्य ? नाद्यः, स्वभावः स्वरूपमिति पर्यायौ । तथा च घटस्य विशेषाश्रयताया अनुपपत्तिः । स्वस्य स्वाश्रयतानुपपत्तेः । न द्वितीयः भेदस्यापि घटस्वरूपत्वेन भेदस्वभावस्यापि विशेषस्य घटाश्रितत्वानुपपत्तेः । नापि द्वितीयो ऽभिन्ने भेदव्यवहारजनन-समर्थायाः शक्तेरदर्शनात् । न हि शक्तिरपि स्वाविषये स्वकार्यं करोति । न चाभिन्नो भेदव्यवहारजननसमर्थशक्तिविषयः । व्याघातात् । किं च विशेषेऽपि

विशेषाङ्गीकारेऽनवस्था । अनङ्गीकारे तु विशेषतत्स्वरूपतद्भेदशब्दानां पर्यायतापत्तिः। तस्माद्विशेषस्यानुपपन्नत्वात् सविशेषाभिन्न इत्युक्तमयुक्तमिति ।

विशेषे प्रमाणाभिधानम्

अत्र ब्रूमः ।

आनन्दो ब्रह्मणः कुम्भस्वरूपमिति भाषितम् ।

सम्बन्धव्यवहारत्वात्सम्बन्धं कल्पयिष्यति ॥

‘आनन्दो ब्रह्मणः’ ‘घटस्य भेदः’ इत्यादिव्यवहारः सम्बन्धपूर्वकः सम्बन्धव्यवहारत्वात् संमतवत् । अन्यथा कारणं विना कार्याङ्गीकारे व्याघातः । व्यवह्रियमाणस्य व्यवहारं प्रति विषयतया कारणत्वात् । औपचारिकोऽयं व्यवहार इति चेत् । कोऽर्थः ? किं निर्निमित्त इति ? किं वा आरोपितविषय इति ? यद्वा

क्लृप्तनिमित्ताभावेऽपि निमित्तान्तरवानिति ? नाद्यः व्याघातादित्युक्तत्वात् । न द्वितीयः ‘आनन्दो ब्रह्मणः’ इत्यादि श्रौतव्यवहारस्याप्यारोपितविषयत्वे श्रुतेरप्रामाण्यप्रसङ्गात् । ‘न घटस्य भेदः’ ‘न घटस्य स्वरूपं’ इति विपरीत-व्यवहाराभावेन ‘घटस्य स्वरूपं’ इत्यादिलौकिकव्यवहारस्याप्यभ्रान्तत्वात् । तृतीये सिद्धं नस्समीहितम् । क्लृप्तभेदाख्यनिमित्ताभावेऽपि यन्निमित्तान्तर-मङ्गीक्रियते तस्यैवास्माभिर्विशेषत्वेन व्यवहरणात् । स च सम्बन्धो भेदगर्भः सोमासम्भवे पूतिकावद् भेदासम्भवे तत्प्रतिनिधिं कल्पयति यतः ।

घटस्य स्वरूपमित्यादिव्यवहारस्य भेदाभेदाभ्यामुपपत्तिनिरासः

न च भेदासम्भवोऽसिद्धः । भेदाभेदाङ्गीकारेणाप्युपपत्तेरिति युक्तम् । ‘एवं धर्मान्’ इति तन्निषेधात् । न च तत्राप्यात्यन्तिकभेद एव निषिद्ध्यत इति युक्तम् । लोकेऽपि धर्मधर्मिणोरात्यन्तिकभेदाभावस्य सिद्धत्वेन विशिष्य कथनानुपपत्तेः । धर्मधमिणोरात्यन्तिकभेदाभावश्च भाष्यकारटीकाकाराभ्या-मेवान्यत्रोपपादितः । ‘घटस्य स्वरूपं’ इत्यादावपि न भेदाभेदावङ्गीकारार्हौ । घटस्य स्वरूपातिरेकेण घटस्याभावेन तयोर्मात्रयाऽपि भेदासम्भवात् । भेदाभेदयोर्विरोधेन तद्विरोधशमनार्थं विशेषस्य आवश्यकत्वाच्च ।

अभेदविरोधिभेदप्रतिनिधेर्विशेषस्याभेदाविरोधित्वम् ।

न च विशेषस्यापि भेदप्रतिनिधित्वेनाभेदविरोधः समान इति वाच्यम् । माणवके मुख्यसिंहव्यवहारनिमित्तस्य सिंहत्वस्य विरोधेऽपि अमुख्यक्रौर्यादेर-विरोधवदत्राप्युपपत्तेः । धर्मिग्राहकप्रमाणेन विशेषस्य भेदकार्यकरस्यापि अभेदाविरोधेनैव सिद्धत्वात् । तत्र विरोधापादकर्तकस्यापि धर्मिग्राहक-प्रमाणविरोधेनानुत्थानाच्च ।

विशेषेण भेदकार्यनिर्वाहे भेदवैयर्थ्यशङ्कानिरासः

न चानेनैव सर्वकार्यनिर्वाहे भेदो दत्ततिलाञ्जलिः स्यादिति युक्तम् । तथात्वे सर्वत्र पूतिकाग्रहणे सम्भवति सोमापेक्षाभावप्रसङ्गात् । सिंहेऽपि क्रौर्यस्यानुगतत्वेन सिंहव्यवहारनिर्वाहकत्वे सम्भवति सिंहत्वस्य दत्त-तिलाञ्जलित्वप्रसङ्गाच्च । तत्र ‘मुख्ये सम्भवति नामुख्यं कल्प्यते’ इति चेत् समः समाधिः ।

घटस्य स्वरूपमिति व्यवहारस्य सामान्यविशेषविषयकत्वनिरासः

ननु ‘घटस्य स्वरूपं’ इत्यादिव्यवहारः सामान्यविशेषविषयकः । स्वरूपस्य पटादावपि साधारण्यात् । तथा च सामान्यविशेषभावेन भिन्न-विषयकत्वात् ‘घटस्य स्वरूपं’ इत्यादिव्यवहारो न विशेषकल्पक इति चेन्न । ‘घटस्य स्वरूपं’ इत्यत्र स्वरूपशब्देन किं घटस्वरूपं विवक्षितम्? किं वा अन्यस्य स्वरूपम्? सामान्यं वा? नाद्यस् तस्याप्यसाधारण्येन सामान्यविशेष-भावाभावात् । न द्वितीयस् तस्यैतदीयत्वायोगात् । न तृतीयः घटाद्यसाधारण-स्वरूपातिरिक्तस्य सर्वानुगतस्यैकस्याभावात् । भावे वा सर्वाद्वैतापत्तेः । ननु स्वरूपस्यानुगतस्याभावेऽपि स्वरूपत्वं नाम धर्मः घटादावप्यनुगतः । न तथा घटत्वम् । तावतैव सामान्यविशेषभाव इति चेन्न । अस्माभिरनुगतस्य स्वरूपत्वस्याप्यनङ्गीकारात् । अङ्गीकारे वा ‘द्रव्यं घटः’ ‘मनुष्यो ब्राह्मणः’ इत्यादिवत्सामानाधिकरण्यमेव स्यात् । न तु सम्बन्धव्यवहारः । सामान्य-विशेषभावमात्रेण षष्ठीप्रयोगे ‘ब्राह्मणस्य मनुष्यः’ इत्यपि स्यात् ।

विशेषे लक्षणाभिधानम्

एतेन अत्यन्ताभेदे भेदव्यवहारनिर्वाहकत्वं विशेषलक्षणं चोपपादितं द्रष्टव्यम् ।

विशेषे प्रमाणान्तराभिधानम्

अपि च ‘ब्रह्मतदानन्दघटतत्स्वरूपतद्भेदादिपदानि अपर्यायतानिर्वाहक-पदार्थवन्ति अपर्यायपदत्वाद् घटपटपदवत्’ इति । स चापर्यायतानिर्वाहकः न तावद्घटपटादाविव अत्रापि भेदः सम्भवति । ब्रह्मतदानन्दादीनां भेदाभावात् । नापि घटतद्रूपादिष्विव भेदाभेदौ, आत्यन्तिकाभेदस्योपपादितत्वात् । तथा च तन्निर्वाहकः कश्चित्पदार्थोऽङ्गीकर्तव्यः । स एव च विशेष इति हि गीयते । यथोक्तं भगवत्पादैः

‘‘भेदहीने त्वपर्यायशब्दान्तरनियामकः ।

विशेषो नाम कथितः सोऽस्ति वस्तुष्वशेषतः ॥’’ इति ।

अथ मतं ‘घटतद्भेदादिपदानामत्यन्ताभिन्नार्थत्वं भवेत् । तथापि तेषामपर्यायतानिर्वाहार्थं न विशेषः कल्पनीयः । घटत्वभेदत्वादिप्रवृत्तिनिमित्त-भेदादेव अपर्यायतोपपत्तेः । न च घटतद्भेदयोर्भेदाभावे कथं घटत्वभेदत्वयोरपि भेदः? इति वाच्यम् । धर्मिभेदाभावेऽपि धर्मभेददर्शनात्’ इति । तन्न । अत्यन्ताभिन्नार्थाभिधायिनां शब्दानां प्रवृत्तिनिमित्तभेदमात्रेणापर्यायत्वे घटकल-शादिशब्दानामप्यपर्यायताप्रसङ्गात् । कपालोपादानत्वं घटत्वं, कपालसंयोगा-समवायिकारणकत्वं कलशत्वं वक्तुं शक्यत्वात् । ‘स्थितस्य गतिश्चिन्त्यते’ इति कथमतिप्रसङ्गः? इति चेन्न । अनतिप्रसञ्जकस्यैव चिन्तनीयत्वात् । तस्मात् ‘शुक्लः पटः’ इत्यादावपि विशेषबलादेवापर्यायत्वं वाच्यम् ।

विशेषलक्षणान्तरस्थापनम्

एवं च अभिन्नार्थाभिधाय्यनेकशब्दापर्यायतानिर्वाहकत्वं च विशेषलक्षणं स्थापितं भवति । भेदसञ्जीविन्यां त्वस्माभिर्विशेषमाच्छाद्य नैयायिकादि-पक्षाश्रयणेन भेदपटादिशब्दानामपर्यायत्वं प्रत्यपादीति न तेनास्य विरोधः ।

विशेषे अनुमानान्तरम्

‘अयं घट एतद्घटनिष्ठभेदातिरिक्तभेदकार्यकराश्रयः घटत्वाद् घटान्तरवत्’ इत्यनुमानाच्च विशेषसिद्धिः । न चास्यानुमानस्य आभाससमानयोगक्षेमत्वं शङ्क्यम् । तर्कानुग्रहाननुग्रहाभ्यां विशेषात् ।

विशेषस्य शक्तिविशेषरूपत्वसमर्थनं

यच्चोक्तं, अपि च कोऽयं विशेषः? इत्यादि । तत्र शक्तिविशेषो विशेष इति ब्रूमः । न च शक्तेः स्वाविषये कथं कार्यकरत्वम् ? इति वाच्यं, विशेषाख्यायाः शक्तेर्धर्मिग्राहकप्रमाणेन अभिन्ने भेदकार्यविषयकत्वाकारेणैव सिद्धत्वाद् अभिन्ने भेदकार्यस्य स्वाविषयत्वाभावात् ।

विशेषस्य धर्मिपदार्थस्वरूपत्वसमर्थनं

स च विशेषस्तत्पदार्थस्वरूपमेव । न च तथात्वे आश्रयाश्रयि-भावानुपपत्तिः । स्वाभिन्नेऽपि स्वाश्रयत्वसम्पादकत्वाकारेणैव तत्सिद्धेः ।

विशेषाङ्गीकारे अनवस्थादोषपरिहारः

यच्चोक्तं ‘किं च विशेषे विशेषाङ्गीकारे अनवस्था’ इत्यादि । तत्र विशेषो नास्तीति ब्रूमः । कथं तर्हि तत्र भेदकार्यदर्शनम् ? आधारभूतविशेषमाहात्म्य-बलादेवेत्यवेहि ।

अन्यत्रादृष्टं विशेषे माहात्म्यं धर्मिग्राहकमानसिद्धं

कुत एतत्? इत्थं, यथा ‘ज्योतिष्टोमेन यजेत’ इति तृतीयया यागस्य करणत्वे प्रामाणिके सति तन्निर्वाहाय कालान्तरदेशान्तरदेहान्तरभोग्यफलं कल्पयित्वा तस्य च फलस्य सद्यःप्रध्वस्तयागजन्यत्वानुपपत्तिपरिहारार्थं मध्ये अपूर्वमित्यादिकं कल्प्यते । प्रमाणसिद्धार्थनिर्वाहार्थं कल्प्यमानस्यापि प्रामाणि-कत्वात् । एवं प्रकृतेऽप्यक्तप्रकारेण विशेषे प्रामाणिके सति तस्य यावता विना न निर्वाहस्तावत्सर्वमपि कल्पयामः । विशेषनिर्वाहकस्य सर्वस्यापि विशेष-ग्राहकप्रमाणेनैव आक्षिप्तत्वात् । यथाहुः

‘‘प्रमाणवन्त्यदृष्टानि कल्प्यानि सुबहून्यपि’’ इति ।

तस्माद्विशेषे साधकसद्भावाद् बाधकाभावाच्च विशेषोऽङ्गीकर्तव्य इति सविशेषाभिन्न इति साधूक्तम् ।

श्रीनिवासतीर्थीयटिप्पणी

पृथक्त्वान्यत्वस्वरूपभेदानां त्रयाणां भेदवादी तार्किकः शङ्कते ॥ नन्विति । तदृर्शनमेव वस्तुस्वरूपदर्शनमेव ॥ प्रतियोगीति । प्रतियोगिभूतपरमेश्वरेत्यर्थः । न हि स्वरूपप्रतीतौ प्रतियोगिप्रतीतेरुप-योगोऽस्तीति भावः । तदुपपादनाय विरुद्धधर्मोपन्यासेन च किमिति चशब्दो भिन्नक्रमः । भेदोपपादनाय चेष्टालिङ्गसार्वज्ञादिरूपविरुद्धधर्मोपन्यासश्च व्यर्थः । स्वरूपदर्शनविरुद्धधर्मादेरुपयोगाभावादिति भावः । निर्विशेषात्यन्त-भिन्नो नेत्यर्थः । कुतो नेत्यत आह ॥ तथा सतीति । निर्विशेषवस्तुमात्रत्वे इत्यर्थः ॥ विवादेति । भेदविषये विप्रतिपत्त्यनुपपत्तेरित्यर्थः । ननु भेदस्य वस्तुस्वरूपत्वाभावे भेदो नाम कः पदार्थः । स च वस्तुस्वरूपमिति च कोऽर्थ इत्याशङ्कते ॥ किं नामेति । उत्तरमाह ॥ अन्योन्याभाव एवेत्यादिना । अन्योन्याभाव एव भेदो नातिरिक्तः स्वरूपभेदो नाम कश्चिदस्तीत्यर्थः । यथोक्तमनुव्याख्याने ।

पृथक्त्वान्यत्वभेदास्तु पर्यायेणैव लौकिकैः ।

व्यवह्रियंते सततं लोकवेदानुसारतः ॥ इत्यादि ।

रूपादिवदिति । यावद्वस्तुभाविरूपपरिमाणादिवदित्यर्थः । सविशेषाभिन्नः सविशेषात्यन्ताभिन्नः । एवं सति प्रतियोगिप्रतीत्यनुसरणं युक्तमित्याह ॥ अन्योन्याभावश्चेति ॥ प्रतियोगिनिरूप्य इति । सद्भ्यामधिकरण-प्रतियोगिभ्यामभावो निरूप्यत इति वचनादिति भावः । तथा च वस्तुप्रतीतेः प्रतियोगिप्रतीतिसापेक्षत्वाभावेऽपि भेदप्रतीतेस्तत्सम्भवत्येव । वस्तुना सविशेषाभेदाङ्गीकारात् । विशेषस्य च भेदकार्यकारित्वादिति भावः । भेदोपपादनाय विरुद्धधर्मोपन्यासोऽपि युक्त इत्याह ॥ सादृश्यादिनेति । सादृश्यदूरस्थत्वादिरूपदोषेणेत्यर्थः । नोपलभ्यते । गोगवययोर् द्रवीभूत-घृततैलयोर् दूरस्थयोश्चूतपनसयोश्चेत्यर्थः । अतो वस्तुप्रतीतेर्विरुद्धधर्म-सापेक्षत्वाभावेऽपि भेदप्रतीतेस्तद्युक्तं वस्तुना सविशेषाभेदाङ्गीकारात् । विशेषस्य भेदकार्यकारित्वादिति भावः । भेदो नामान्योन्याभाव एव न तदतिरिक्तः स्वरूपभेदो नाम कश्चिदस्तीत्यत्रोपष्टंभकमाह ॥ अत एवेति । यतो भेदो नामान्योन्याभाव एव न ततोऽतिरिक्तः । अत एवात्मस्वभाव-भेदस्येति भेदशब्दस्य प्रस्तुतत्वाद् भिन्नत्वं स्वात्मनस्तस्मादिति वक्तव्यम् । तथानुक्त्वा अन्यत्वमिति यदोक्तम् । तदा ज्ञायते भेदो नामान्योन्याभाव एवेत्यर्थ इति ।

परशुनाम्नीटिप्पणी

स चेति । अन्योन्याभावः रूपादिवद् धर्मिणा सविशेषा-भिन्नः, इत्यर्थः । ननु एवं तर्हि ‘स्वरूपं भेदः’ इति प्राज्ञवचनविरोधः, इत्यत आह इत्येवेति । स्वरूपं भेदः’ इति प्राज्ञवचनस्य ‘इत्येव’ सविशेषाभिन्नो भेद इत्येव अर्थ इत्यर्थः ।

ईश्वरगतसार्वज्ञ्यादिगुणानां सत्यत्वाक्षेपपरिहारौ

टीका

भवेदेवं, यदि सार्वज्ञ्यादिकमीश्वरस्य सत्यं स्यात् । न चैतदस्ति । तत्र प्रमाणाभावात् । ‘यः सर्वज्ञः’ इत्यादिश्रुतयस्तु सार्वज्ञ्यादिकमेव प्रतिपादयन्ति । न पुनस्तस्य सत्यताम् । तथा अश्रवणात् । मृषा विरुद्धधर्माधिकरणतया तात्विकभेदप्रतीत्युप-पादनमयुक्तम् । अतिप्रसङ्गादिति । अत आह

मूलम्

सत्यः सो अस्य महिमेत्यादिवाक्यान्मृषा न च ।

सार्वज्ञ्यादिगुणा विष्णोरिति वर्तते । यद्यपि ‘यः सर्वज्ञः’ इत्यादिश्रुतयः सार्वज्ञ्यादिकमेव प्रतिपादयन्ति तथापि सः वेदोदितः, अस्य महिमा सर्वज्ञत्वादिः, सत्य एव इति वाक्यान्तरात् सत्यतावगमान् न सार्वज्ञ्यादिकं मृषा इति ।

मन्दारमञ्जरी

॥ तथा अश्रवणादिति ॥ ‘सर्वज्ञत्वादिकं सत्यं’ इति अश्रवणादित्यर्थः । यत्र शब्दो गृहीतसङ्गतिकस् तत्र प्रतीतिं जनयति । न च सर्वज्ञ्यादिशब्दास् तत्सत्यत्वगृहीतसङ्गतिका इति भावः । ननु विरुद्धधर्मैरेव भेदसिद्धौ न तत्सत्यता अपेक्ष्यत इति । तत्राह ॥ मृषेति ॥ अतिप्रसङ्गा-दिति ॥ शुक्तिकायां शुक्तिकात्वविरुद्धस्य रजतत्वस्यारोपितस्य सत्वेन शुक्तिकातो भेदप्रसङ्गादित्यर्थः ।

श्रीनिवासतीर्थीयटिप्पणी

ननु यः सर्वज्ञ इत्यादिश्रुतय एव सार्वज्ञ्यादीनां सत्यत्वे प्रमाणमिति । तत्राह ॥ यः सर्वज्ञ इत्यादिश्रुतयस्त्विति । तस्य सार्वज्ञ्यादि-गुणजातस्य तथा श्रवणादिति । सार्वज्ञादिगुणजातं सत्यमित्येवं यः सर्वज्ञ इत्यादिश्रुतिष्वश्रवणादित्यर्थः । नन्वस्तु सार्वज्ञ्यादिगुणानां न सत्यत्वम् । तथापि मृषाभूतविरुद्धधर्माधिकरणत्वेनापि जीवेश्वरयोर्भेदः साध्यत इति चेत्तत्राह ॥ मृषेति । मिथ्याभूतेत्यर्थः । स्यादेवं मिथ्याभूतविरुद्धधर्माधि-करणत्वेनापि जीवेश्वरयोर्भेदसाधनम् । यदि साध्यमानस्तद्भेदोऽप्यतात्विकः स्यात् । न चैवम् । भवद्भिस्तद्भेदस्य तात्विकत्वाङ्गीकारात् । अतोऽतात्विक-विरुद्धधर्माधिकरणत्वेन तात्विकभेदसाधनमयुक्तमित्यर्थः । कुतोऽयुक्तमित्यत आह ॥ अतिप्रसङ्गादिति । शुक्तिकायां शुक्तिकात्वविरुद्धस्य रजतत्व-स्यारोपितस्य सद्भावेन शुक्तिकाया अपि शुक्तिकातो भेदप्रसङ्गात् । प्रतिपाद-यन्तीत्यनन्तरं तत्सत्यत्वमिति शेषः । वाक्यादित्यनंतरमध्याहार्यमाह ॥ सत्यतावगमादिति ॥

परशुनाम्नीटिप्पणी

मृषा विरुद्धधर्माधिकरणतयेति । मिथ्याभूतविरुद्धधर्माधि-करणतया इत्यर्थः ।

सार्वज्ञ्यादिगुणबोधकानामेव श्रुतीनां तत्सत्यत्वे प्रमाणत्वसमर्थनम्

टीका

अङ्गीकृत्य चेदमुदितम् । वस्तुतस्तु वस्तुविषयकमेव ज्ञानं तत्सत्यत्वे प्रमाणम् । न पुनस्तत्र प्रमाणान्तरापेक्षा । प्रामाण्यस्वतस्त्वस्य सिद्धत्वात् । अतो ‘यः सर्वज्ञः’ इत्यादि-श्रुतिरेव तत्सत्यतां प्रतिपादयतीत्यनुपपन्न एवाक्षेपः । एवं सति शुक्तिरजतादिसत्यतापि स्यादिति चेन्न । औत्सर्गिकप्रामाण्यस्य करणदोषैर्बाधकप्रमाणैरपनयनेन तन्मिथ्यात्वस्य स्थितत्वात् । न चैवमेवास्तु प्रकृतेऽपीति वाच्यम् । करणदोषबाधकप्रमाणा-भावादित्याह–

मूलम्

न च वेदोक्तमिथ्यात्वे मानं… ।

टीका

अत्र न च तन्मिथ्यात्वे मानम् इति वक्तव्ये वेदोक्तेति करणदोषाभावोपपादनार्थमुक्तम् । अपौरुषेयतया वेदे दोषा-भावेऽपि प्रतिपत्तुरेव दोषः सम्भवतीति चेन्न । तस्यापि बाधकप्रमाणोन्नेयत्वेन तदभावे अभावनिश्चयात् ।

मन्दारमञ्जरी

॥ अङ्गीकृत्य चेदमुदितमिति ॥ यथा ‘विज्ञानमानन्दं ब्रह्म’ इत्यादौ सत्यपदाभावेऽपि स्वतः प्रमाणभूतया श्रुत्यैव विज्ञानाद्यात्मकत्वं ब्रह्मणः पारमार्थिकसत्यं सिद्ध्यति तथा सर्वज्ञत्वादिकमपि श्रुत्या पारमार्थिकं सत्यं सिद्ध्यतीत्यर्थः । यद्यपि सत्यत्वं न पदार्थः नापि वाक्यार्थः सत्यत्वस्य सर्वज्ञादिपदार्थत्वाभावात् संसर्गव्यतिरिक्तत्वाच्च, तथापि श्रुतेः प्रामाण्यात् तदर्थेन सत्येन भवितव्यम् इति आर्थिकं सत्यत्वं वाक्यार्थः । शक्यार्थस्य च अर्थात् सत्यत्वानङ्गीकारे ‘सत्यं ज्ञानं’ इत्यादावपि ‘ब्रह्मण एव सत्यत्वं प्रतिपाद्यते न सत्यत्वस्य सत्यत्वं’ इति ब्रह्मणि या सत्यता तस्याः सत्यता न स्यात् । इष्टापत्तिरिति चेन्न । ब्रह्मसत्यताया असत्यत्वे ब्रह्मासत्यताप्रसङ्गादिति भावः ।

ननु श्रुतेः प्रामाण्यमेव कुतः येन सत्यत्वं पारमार्थिकं स्यादित्यत आह ॥ प्रामाण्यस्येति ॥ सिद्धत्वादिति ॥ स्थितत्वादित्यर्थः । ननु प्रामाण्यं स्वतस्तिष्ठतु । किं चातः? तस्मिन् हि ज्ञातेऽर्थसत्यता ज्ञायते इति, अत्राप्ये-तदेवोत्तरम् ॥ प्रामाण्यस्येति ॥ सिद्धत्वादिति ॥ ज्ञातत्वादित्यर्थः । पक्षद्वयेऽप्यतिप्रसङ्गं शङ्कते ॥ एवं सतीति ॥ स्यादित्युपलक्षणम् । प्रमीयेतेत्यपि द्रष्टव्यम् । परिहरति ॥ नेति ॥ प्रामाण्यस्येत्युपलक्षणं तत्प्रमितेश्चेत्यपि द्रष्टव्यम् । तत्र प्रामाण्यस्यापनयने हेतुः करणदोषैरिति । तत्प्रमित्यपनयने हेतुर् बाधकप्रमाणैरिति । अनुसंहितैरिति शेषः । बाधक-प्रमाणोदयात्पूर्वं तु प्रामाण्यं ज्ञायत एवेति भावः । स्थितत्वादित्यत्र प्रमितत्वादित्यप्यध्याहर्तव्यम् । शङ्कते ॥ अपौरुषेयतयेति ॥ परिहरति ॥ नेति ॥ प्रतिपत्तुर्हि दोषः पदवाक्ययोः शक्तितात्पर्यापरिज्ञानम् । तदपि प्रतीतार्थबाधकप्रमाणोन्नेयम् । बाधकप्रमाणाभावेऽपि पदवाक्ययोः शक्ति-तात्पर्यसन्देहमात्रेण प्रतीतार्थपरित्यागे गवानयनवाक्यं श्रुत्वा तात्पर्यसन्देहेन न प्रवर्तेतेत्यर्थः ।

श्रीनिवासतीर्थीयटिप्पणी

अङ्गीकृत्य चेदमुदितमिति । भवेदियमित्यादिना यस्सर्वज्ञ इत्यादिश्रुतयः सार्वज्ञमेव प्रतिपादयन्ति । न पुनस्तत्सत्यत्वमिति शङ्कित-मङ्गीकृत्य सत्यः सोऽस्य महिमेति वाक्यान्तरात्सत्यत्वं सिध्यतीत्युत्तर-मुदितमित्यर्थः ॥ वस्तुविषयकमेव ज्ञानमिति । यथा विज्ञानमानन्दं ब्रह्मे-त्यादौ सत्यपदाभावेऽपि स्वतःप्रमाणया श्रुत्यैव विज्ञानानन्दात्मकत्वं पारमार्थिकसत्यमिति सिद्ध्यति । तथा प्रकृतेऽपि यः सर्वज्ञ इत्यादिश्रुतौ सत्यपदाभावेऽपि सार्वज्ञ्यादिकं पारमार्थिकसत्यमेव सिध्यतीत्यर्थः कुत इत्यत आह ॥ प्रामाण्यस्वतस्त्वस्येति । उत्पत्तौ ज्ञप्तौ चेति शेषः । ज्ञानजनक-मात्रजन्यत्वमुत्पत्तौ प्रामाण्यस्य स्वतस्त्वम् । ज्ञानग्राहकमात्रग्राह्यत्वं ज्ञप्तौ प्रामाण्यस्य स्वतस्त्वम् । ज्ञानं येन जायते तेन प्रामाण्यं सहैव जायते । तथा तज्जन्यं ज्ञानमपि येन ज्ञायते तेनैव तत्प्रामाण्यमपि ज्ञायते । तथा च यथावस्थितार्थज्ञेयविषयकारित्वरूपप्रामाण्यस्यार्थसत्तादिघटितत्वेन वस्तुविषयकमेव ज्ञानम् । तत्सत्यत्वे प्रमाणमित्यर्थः । ततः किं प्रकृत इत्यत आह ॥ तत्सत्यतामिति । यः सर्वज्ञ इत्यादिश्रुतेः प्रमाणभूतज्ञानजनकत्वा-त्प्रामाण्यस्य चार्थसत्ताघटितत्वाद्यः सर्वज्ञ इत्यादिश्रुतिरेव सार्वज्ञ्यादिगुणसत्यतां प्रतिपादयतीत्यर्थः ॥ आक्षेप इति । भवेदेवं यदीत्यादिना कृत इत्यर्थः ।

ननु यदि प्रामाण्यस्य स्वतस्त्वाद् वस्तुविषयकं ज्ञानमेव तत्सत्यत्वे प्रमाणं स्यात् तर्हीदं रजतमिति ज्ञानप्रामाण्यस्यापि ज्ञानजनकजन्यत्वेन स्वतस्त्वापत्त्या तस्य चार्थसत्ताघटितत्वेन शुक्तिरजतस्यापि सत्यता स्यादिति शङ्कते ॥ एवं सतीति ॥ औत्सर्गिकेति । सव्यभिचारनियमो ह्युत्सर्गः। जायमानं ज्ञानं प्रमाणं सदेव जायत इत्युत्सर्गः । तथा प्रामाण्यमपि ज्ञानग्राहकेणैव गृह्यत इत्यप्युत्सर्गः । अपवादादप्रामाण्यमपि जायते ज्ञायते च । प्रामाण्योत्पत्त्यप-वादकः करणदोषः । ज्ञप्त्यपवादको बाधकप्रत्ययः । तथाचेन्द्रियदोषेण काचादिना शुक्तिरजतादिज्ञानेऽप्रामाण्यमेव जायते । बाधकप्रत्ययेन च प्रामाण्यमेव ज्ञायते । तथा चाप्रामाण्यस्यार्थासत्त्वघटितत्वान्न तद्विषयकं ज्ञानं तत्सत्यत्वे प्रमाणमिति न तेन तस्य सत्यतासिद्धिरित्यर्थः । न चैवं प्रामाण्य-स्वतस्त्वहानिः । अप्रामाण्यजनकसामग्य्रसमवहितज्ञानजनकसामग्रीजन्यत्व-स्योत्पत्तौ स्वतस्त्वेन तथाऽप्रामाण्यग्राहकसामग्य्रसमवहितज्ञानग्राहकग्राह्यत्वस्य ज्ञाप्तौ स्वतस्त्वेन च विवक्षितत्वादिति ज्ञातव्यम् ॥ एवमेवास्त्विति । शुक्तिरजतादिज्ञानवदेव यः सर्वज्ञ इत्यादिश्रुत्या जायमानमपि ज्ञानम् अप्रमाणमेव जायताम् । तथैव ज्ञायताञ्च । तथा च यस्सर्वज्ञ इत्यादिश्रुतिर् न सत्यतां प्रतिपादयतीत्यर्थः ॥ करणेति । प्रामाण्योत्पत्त्यपवादकस्य करण-दोषस्य तज्ज्ञप्त्यपवादकस्य बाधकप्रत्ययस्य चाभावादित्याहेत्यर्थः ॥ करण-दोषेति । नित्या वेदाः समस्ताश्चेत्यादिप्रमाणेन वेदापौरुषेयतायाः प्रमितत्वेन करणदोषनिबन्धनदोषाभावोपपादनाय वेदोक्तेत्युक्तमित्यर्थः ॥ दोष इति । पदवाक्ययोः शक्तितात्पर्यापरिज्ञानमेव दोष इत्यर्थः ॥ सम्भवतीति । तथा च प्रतिपत्तृदोषेण वेदजन्यज्ञाने अप्रामाण्यमेव ज्ञातव्यमित्यर्थः ॥ तस्यापीति । शक्तितात्पर्यापरिज्ञानरूपप्रतिपत्तुर्दोषोऽपि प्रतीतार्थे बाधकप्रमाणसद्भावे-नोन्नेयः । तस्य च वेदेऽभावेन प्रतिपत्तुर्दोषाभावनिश्चयादित्यर्थः । बाधक-प्रमाणाभावेऽपि शक्तितात्पर्ययोः संदेहमात्रेण श्रुतिप्रतीतार्थपरित्यागे गवानयनादिवाक्यं श्रुत्वा तात्पर्यसंदेहेन न प्रवर्तेतेति ज्ञातव्यम् ॥

परशुनाम्नीटिप्पणी

ननु सत्यं ‘वस्तुविषयकं ज्ञानम्, तत्सत्ताविषयकम्’ इति । तथापि न सार्वज्ञ्यादिगुणानां सत्यत्वसिद्धिः, ज्ञानप्रामाण्यजनकस्य आप्त-वाक्यत्वरूपगुणस्य वेदे अभावेन तज्जन्यप्रामाण्यायोगादित्यत आह प्रामाण्य-स्येति । ज्ञानप्रामाण्यस्वतस्त्वस्य (आप्तोक्तत्वं विनैव वेदप्रामाण्यस्य) स्थापितत्वात्, न तज्जन्यज्ञानप्रामाण्यानुपपत्त्या तद्विषयसत्यत्वस्य असिद्धिः; इत्यर्थः । एवं तर्हीति (सतीति) । ‘ज्ञानं सत्ताग्राहि, तत्प्रामाण्यं च स्वत एव’ इत्यङ्गीकारे, शुक्तिरजतादिज्ञानविषयस्यापि सत्यता स्यात्, अविशेषात्, इत्यर्थः । तदभाव इति । तदेकप्रमाणके तदभावे अभावनियमात्, इति भावः।

सार्वज्ञ्यादिगुणानां मिथ्यात्वाभावेन परमते अज्ञानासम्भवोपसंहारः

टीका

ननु ‘नेह नानाऽस्ति किञ्चन’ इत्यादिश्रुत्या ‘विमतो विशिष्टाकारो मिथ्या विशिष्टाकारत्वान् नीलं नभ इति विशिष्टा-कारवत्’ इत्याद्यनुमानेन च सार्वज्ञ्यादेर्मिथ्यात्वप्रतीतेः कथं तत्र प्रमाणाभावः? अतो व्यावहारिकसार्वज्ञ्यादिविषयाः ‘यः सर्वज्ञः’ इत्यादिश्रुतय इत्यत आह–

मूलम्

…तन्मानताऽपि न ॥ १४ ॥

‘नेह नाना’ इत्यादिश्रुतेस् तत्र सार्वज्ञ्यादिमिथ्यात्वे मानताऽपि नास्ति । तथोपपादितमन्यत्र । एवं तस्य अनुमानस्यापि मानता नास्ति । धर्मिग्राहकप्रमाणविरोधादिति व्याख्येयम् ।

न मानमित्युक्तम् । यद् उच्यते तस्यापि मानता नास्तीति अपिशब्दसम्बन्धः । तदेवम् औतमते अज्ञानासम्भवोऽभिहितः ।

अज्ञानासम्भवादेव औतवादे अधिकार्याद्यसम्भवः

ततः किं? इत्यत आह–**

मूलम्

अतोऽज्ञासम्भवादेव नाधिकार्यैक्यवादिनाम् ।

अज्ञो हि शास्त्रेऽधिक्रियते । उक्तविधया अज्ञानानुपपत्त्या अज्ञो न सम्भवति । ततश्च ऐक्यवादिनां मते शास्त्रस्य अधिकारी न सम्भवति ।

मूलम्

अतो नाज्ञातमिति च विषयो विषयान्तरे ॥ १५ ॥

अतो ऽज्ञानासम्भवाद् अज्ञातं वस्तु न सम्भवति इति हेतोर् ऐक्यवादिनां मते शास्त्रस्य विषयश्च न सम्भवति । किं तु ? विषयान्तरे देशान्तरे भेदवादे अधिकार्यादिकं सम्भवतीति उक्तोच्यमानवक्ष्यमाणशेषतया व्याख्येयम् । अज्ञातो हि शास्त्रस्य विषयो भवति शास्त्रस्य परार्थत्वात् ।

मूलम्

अज्ञाभावात्फलं कस्य… ।

अज्ञे हि सति अज्ञाननिवृत्तिलक्षणं शास्त्रफलं तस्य सम्भवति । उक्तप्रकारेण अज्ञानानुपपत्त्या अज्ञाभावात् फलं कस्य स्यात्? न कस्यापीति ।

मूलम्

…योगः शशनृङ्गयोः ।

एवम् अधिकारिविषयप्रयोजनानाम् असत्वात् तत्सम्बन्धः शशनृ-शृृङ्गयोः सम्बन्ध इवानुपपन्न एव । तथा च औतमते शास्त्रस्य अनारम्भणीयत्वं स्यादिति ।

मन्दारमञ्जरी

व्यावहरिकसार्वज्ञ्यादिविषयकत्वात् सर्वज्ञादिवाक्यानामत्यन्ता-प्रामाण्यं च नास्तीत्याह ॥ अत इति ॥ तन्मानताऽपि न इत्युक्तं मूलग्रन्थे । तदयुक्तं, श्रुत्यनुमानयोः सिद्धान्तिनापि प्रामाण्याङ्गीकारादित्याशङ्क्याह ॥ नेह नानेति ॥ तन्मानतेत्यत्र तच्छब्देन श्रुत्यनुमाने परामृश्येते । तत्र श्रुतेः परोक्तार्थप्रच्यावनरूपमप्रामाण्यम् । अनुमानस्य तु सर्वथेति मूलग्रन्थार्थ इत्यर्थः ॥ धर्मिग्राहकप्रमाणविरोधादिति ॥ सार्वज्ञ्यादीनामसिद्धौ आश्रया-सिद्धिः । सिद्धौ च श्रुत्यैव च सिद्धत्वं वाच्यम् । श्रुतेश्च प्रामाण्यात् सत्यत्वञ्च अर्थात् सिद्धमिति मिथ्यात्वसाधने धर्मिग्राहकप्रमाणबाध इत्यर्थः ।

मूलस्थातःशब्दार्थमाह ॥ उक्तविधयेति ॥ विषय इति कारिकाखण्डे अतो न इत्यस्माद्ग्रन्थान् न इत्यनुकृष्यते । चशब्दश्च भिन्नक्रम इत्याह ॥ विषयश्च न सम्भवतीति ॥ विषयान्तरे इत्येतद् वाक्यान्तरमित्याह ॥ किं त्विति ॥ उक्तोच्यमानेति ॥ भेदस्योपपादितत्वेन भेदमूलस्य विषयादेर् उपपादित-प्रायत्वात्, इदानीं च परमतनिरासेन स्वमते विषयादेरर्थादुक्तत्वाद् अधिकार्यादेः सविस्तरं वक्ष्यमाणत्वाच्च त्रितयशेषत्वं विषयान्तरे इत्यस्य वाक्यस्येत्यर्थः । तत्र विषयाभावमुपपादयति ॥ अज्ञातो हीति ॥ शास्त्र-स्येति ॥ शास्त्रस्य परज्ञानप्रयोजनकत्वात् । परस्य चाज्ञात एव जिज्ञासा न ज्ञात इत्यर्थः । अज्ञाभावात्फलं कस्य इति वाक्यान्तरम् । योगः शशनृशृृङ्गयोर् इत्यस्य असङ्गतार्थत्वमाशङ्क्य इवशब्दाध्याहारेण वाक्यार्थमाह ॥ एवमधिकारीति ॥

श्रीनिवासतीर्थीयटिप्पणी

नेह नानेति । इह ब्रह्मणि किञ्चन गुणकर्मादिकं नानाभूतः प्रपञ्चश्च नास्तीत्यर्थः । विष्णुसम्बन्धिविशिष्टाकारः यस्सर्वज्ञ इत्यादि-श्रुत्युक्तविशिष्टाकारः विशिष्टं स्वरूपमित्यर्थः । ननु तर्हि यस्सर्वज्ञ इत्यादि श्रुतीनां का गतिरित्यत आह ॥ व्यावहारिकेति । ब्रह्मज्ञानबाध्यत्वेन मिथ्याभूतेत्यर्थः ॥ अन्यत्रेति । मिथ्यात्वं यदि दुःखादेस्तद्वाक्यस्याग्रतो भवेदित्यादिनाऽनुव्याख्यानेनेत्यर्थः । (तथा हि । यदि सार्वज्ञ्यादेरात्माति-रिक्तस्य मिथ्यात्वं नेह नानेति श्रुतिबलेन स्यात्तर्हि श्रुतिवाक्यस्यैव मिथ्यात्वं स्यात् । आत्मातिरिक्तत्वात् । अन्यथा स्वस्मिन्नेव प्रामाण्यरहितं न कञ्चिदर्थं प्रतिपादयेत् । यदि चैकं वाक्यं मिथ्या स्यात्तथापि सार्वज्ञ्यादिमिथ्यात्वं न प्रतिपादयेत् । मिथ्याभूतस्य वन्ध्यासुतवचसः साधकत्वादर्शनादिति । तथा च नेह नानेति वाक्यस्य अप्रामाण्यमिथ्यात्वाभ्यां सार्वज्ञ्यादिमिथ्यात्वप्रतिपादना-सामर्थ्यात् । न तेन सार्वज्ञ्यादिमिथ्यात्वसिद्धिरिति भावः । तर्हि कः श्रुत्यर्थ इति चेदुच्यते । इह ब्रह्मणि नाना भिन्नं किञ्चन गुणकर्मादिकं नास्तीति निषेधेन सार्वज्ञ्यादिमिथ्यात्वं भवति । सविशेषणे हि विधिनिषेधौ विशेषणमुपसंक्रामतः सति विशेष्यबाधे इति न्यायात् । उभयनिषेधे गौरवात् । विशेषणस्य प्रथमप्राप्तत्वात् । अन्यथा तदुपपादनवैयर्थ्यात् । न जीर्णमलव-द्वासाः स्नातकः स्यादित्यादौ दर्शनाच्च । अत एवोक्तं ‘‘विशेष्यं नाभिधा गच्छेत्क्षीणशक्तिर्विशेषण’’ इत्येवं पदवाक्यप्रमाणविदामग्रेसरेण परमास्तिकेन भगवता श्रीमदाचार्येणोक्तो गुणकर्मभगवत्स्वरूपभेदाभाव एव श्रुत्यर्थोऽत्र ज्ञेय इति ।)

अनुमानस्य विशिष्टाकारत्वानुमानस्य ॥ धर्मिग्राहकप्रमाणेति । सार्वज्ञ्यादिविशिष्टाकारः सिद्धो न वा । नेति पक्षे आश्रयासिद्धिः । आद्ये श्रुत्यैव तत्सिद्धिर्वाच्या । तथा च सत्यत्वेनैव सिद्धत्वात्सत्यत्वेन श्रुतिसिद्धं विशिष्टाकारं पक्षीकृत्य मिथ्यात्वसाधने धर्मिग्राहकप्रमाणविरोध इत्यर्थः । श्रुतेः प्रतीतार्थे मानता नास्ति । अनुमानस्य सर्वथा नास्तीति विवेको द्रष्टव्यः ।

अपिशब्दस्य कुत्रान्वय इत्याकाङ्क्षायां तद्दर्शयति ॥ न मानमित्युक्तमिति । तथा च नन्ववेदोक्तमिथ्यात्वे मानमित्युक्तम् । यदुच्यते नेह नानेति श्रुति-रुक्तानुमानं च मानमिति । तस्यापि मानता नास्तीत्यपिशब्दसम्बन्धो द्रष्टव्य इत्यर्थः । ऐक्यवादिनामित्येतदत्राप्यनुवर्तत इत्यभिप्रेत्योक्तम् । ऐक्यवादिनां मत इति । इति च विषय इत्यत्र चशब्दो भिन्नक्रम इत्याह ॥ विषयश्चेति । नञोऽनुवृत्तिमभिप्रेत्य न सम्भवतीत्युक्तम् ॥ उक्तोच्यमानवक्ष्यमाणशेष-तयेति । अज्ञानासम्भवादेव नाधिकार्यैक्यवादिनां सम्भवति विषयान्तरे भेदवादेऽधिकार्युपपद्यत इति पूर्ववाक्योक्तशेषतया, तथा अतो नाज्ञातमिति चेति ऐक्यवादे विषयो नोपपद्यते । विषयान्तरे भेदवादे विषयस्तूपपद्यत इति उच्यमानवाक्यशेषतया तथा अज्ञाभावात्फलं कस्येत्यैक्यवादिनां मते प्रयोजनं सम्भवति विषयान्तरे भेदवादे फलं सम्भवतीति तथा योगः शशनृशृृङ्गयो-रित्यैक्यवादिनां मते सम्बन्धो न सम्भवति विषयान्तरे भेदवादे सम्बन्धः सम्भवतीति वक्ष्यमाणशेषतया विषयान्तर इत्येतत्पदं व्याख्येयमित्यर्थः । एतदुपपादयति ॥ अज्ञातो हीति । कुत इत्यत आह ॥ शास्त्रस्येति ॥ परार्थत्वादिति । परो जिज्ञासुस्तदर्थत्वादित्यर्थः । तथा च शास्त्रस्य जिज्ञासुं प्रति प्रयोजनवत्त्वाज्ज्ञातुमिच्छारूपजिज्ञासायाश्चात एव सम्भवात्त्वन्मते चाज्ञानासम्भवेनाज्ञातवस्त्वभावान्न शास्त्रविषयः सम्भवतीत्यर्थः । शास्त्रफलं शास्त्रप्रयोजनम् । तस्य अज्ञस्य ॥ सम्भवतीति । प्रतियोगितदभावयोरेकाधि-करणनिष्ठत्वनियमादिति भावः ॥ न कस्यापीति । तथा चैक्यवादे प्रयोजनं न सम्भवतीति भावः । तत्सम्बन्धस् तेषां परस्परं सम्बन्धः ॥ अनुपपन्न एवेति । सम्बन्धिनामेवासम्भवादिति भावः ॥ तथा चेति । विषयाद्यनु-बन्धचतुष्टयशून्यत्वादित्यर्थः ॥

परशुनाम्नीटिप्पणी

नेह नानाऽस्तीति । इह=ब्रह्मणि, नाना=सर्वज्ञत्वादिधर्मः, पारमार्थिकत्वाकारेण नास्ति; इति पूर्वपक्षिमते श्रुत्यर्थः । एतेन ‘श्रुत्या असत्यत्वप्रतिपादनात्, अनुमानेन मिथ्यात्वप्रतिपादने तयोर्विरोधः’ इति निरस्तम् । नीलं नभ इतीति । ‘नीलं नभः’ इति व्यवह्रियमाणविशिष्टा-कारवद् इत्यर्थः । न मानमित्युक्तमितीति । अस्माभिः ‘मानं नास्ति’ इति उक्तम्; ‘मिथ्यात्वे इदं मानम्’ इति यद् उच्यते, तस्यापि मानता न; इति ‘अपि’शब्दसम्बन्धः; इत्यर्थः । अधिकार्यादिकं सम्भवतीति । ‘अधिकार्या-दिकं सम्भवति’ इत्यनेन विषयान्तर इत्यस्य उक्त–उच्यमान–वक्ष्यमाण–शेषतया व्याख्यानेन लब्धस्य अर्थस्य निरूपणं कृतम् ॥ अज्ञानासम्भवादेव अधिकारी ऐक्यवादिनां न विद्यते, किन्तु विषयान्तरे विद्यते; इति उक्तशेषतया व्याख्यानम् । अतो नाज्ञातं वस्तु विद्यते, इति मायावादिमते विषयो नास्ति, किन्तु विषयान्तरे अस्ति; इति उच्यमानशेषतया व्याख्यानम् । अज्ञाभावान् मायावादिमते फलं कस्य स्यात्, ‘अधिकारिप्रधानकामनाविषयः फलम् । अधिकार्यभावेन मायावादिमते न फलम्’ इति यावत्, किन्तु विषयान्तरे फलम्; इति वक्ष्यमाणशेषतया व्याख्यानम्; इति द्रष्टव्यम् ।

अज्ञानदौर्घट्यस्य भूषणत्वशङ्का तन्निरासश्च

टीका

नन्वज्ञानासम्भव एव कथम्? ब्रह्मणो जीवस्य वा अज्ञानोपपत्तेः । न च तत्र दौर्घट्यमुक्तमज्ञानस्येति वाच्यम् । यतोऽ- ज्ञानमारोपितमेव । परमार्थसतो हि दौर्घट्यं बाधकं नारोपितस्य । प्रत्युत भूषणमेव । अन्यथा आरोपितत्वानुपपत्तेः । तदुक्तं–

दुर्घटत्वमविद्याया भूषणं न तु दूषणम् ।

कथञ्चिद्घटमानत्वेऽविद्यात्वं दुर्घटं भवेत् ॥ इति ।

तथा च कथमधिकार्यभावः? इत्याशङ्कां सिंहावलोकनन्यायेन परिहरति

मूलम्

दुर्घटत्वं भूषणं चेत्स्यादविद्यात्वमात्मनः ॥ १६ ॥

यद्यविद्याया अनुपपन्नतैव भूषणमित्यङ्गीक्रियते तदा आत्मनोऽ- विद्या इत्यपि नाङ्गीकर्तव्यं वस्तुद्वयकल्पने कल्पनागौरवात् । किं नाम ? आत्मैव अविद्या इत्यङ्गीकार्यम् । ततश्च आत्मैव आत्मावरणं चेत् सर्वदा आवृतत्वप्रसङ्गो मोक्षे च आत्मनिवृत्तिरित्याद्यनुपपत्तिर् अविद्याया भूषणम् इत्येव समाधानं वाच्यं स्यात् । तस्मादनुपपत्तिर्वा परिहर्तव्या, अज्ञानं वा त्याज्यम् ।

सत्यां प्रतीतौ इदमुच्यते । न च आत्मनोऽविद्यात्वं प्रतीयत इति चेत्समं प्रकृतेऽपि । न हि सर्वज्ञस्य ब्रह्मणोऽज्ञानं प्रतीयते । नापि ‘परमात्मैवोपाध्यवच्छिन्नोहमज्ञः’ इति प्रतीतिरस्ति । यथा-स्वरूपं प्रतिभासाभावश्च आत्मरूपाविद्ययैव कल्प्यतां लाघवा-दित्युक्तमेवेति ।

किञ्च अनुपपत्तिर्भूषणमित्यङ्गीकुर्वता अधिगतवेदान्तस्याप्य द्वैतवादिनो नित्यनिरयप्राप्तिरङ्गीकर्तव्या । सर्वज्ञस्य अज्ञाना-नुपपत्तेरिव अधिगतमहावाक्यस्य नित्यदुःखानुपपत्तेरपि भूषणत्व सम्भवात् । निरयादेरप्यविद्यामयत्वादित्याह

मूलम्

अन्धं तमोप्यलङ्कारो नित्यदुःखं शिरोमणिः ।

स्यादिति वर्तते । अधिगतमहावाक्यस्येति शेषः । अनेन परब्रह्मणोऽज्ञानमङ्गीकुर्वाणानामिदं फलं भवतीति सूचितं भवति ।

मन्दारमञ्जरी

॥ परमार्थसतो हीति ॥ अरजते रजतत्वस्य मिथ्याभूतस्य दुर्घटस्यैव दर्शनादित्यर्थः । नन्वस्याः शङ्काया अतोऽज्ञासम्भवादेव इत्यतः प्रागेव प्रसक्तत्वाद् अधिकारिविषयाद्यभावप्रतिपादनानन्तरं तत्परिहारोऽनवसर-पराहतः । किं तु तत्परिहारानन्तरमेव अतोऽज्ञासम्भवादेव इत्यादिना अधिकारिविषयाद्यभावः प्रतिपादनीय इत्यत आह ॥ सिंहावलोकनन्याये-नेति ॥ सर्वदा आवृतत्वप्रसङ्ग इति ॥ आवरणस्य आत्मनो नित्यत्वा-दित्यर्थः ॥ मोक्षे च आत्मनिवृत्तिरिति ॥ आवरणानिवृत्तौ मोक्षस्यैवा-सम्भवादित्यर्थः । ‘अरजते रजतत्वं च दोषवशात् प्रतीयते’ इत्याद्युपपत्तिभि-रेवोपपाद्यत इति दृष्टान्तोऽप्यसङ्गत इति द्रष्टव्यम् । चोदयति ॥ सत्यां प्रतीताविति ॥ किमत्राज्ञानमात्रं प्रतीयते ? किं वा सर्वज्ञस्याज्ञानम् ? आद्ये इष्टापत्तिः । तत्रानुपपत्त्यभावश्चेत्यभिप्रेत्य द्वितीयं दूषयति ॥ न हीति ॥ नन्वथाऽपि ‘अहमज्ञः’ इति प्रतीयते । अहमर्थश्चास्माभिः परमात्मा-भिन्नोऽङ्गीक्रियत इति कथं सर्वज्ञस्याज्ञानप्रतीत्यभावः? इति चेत् तत्रापि किमहमर्थमात्रस्याज्ञानं प्रतीयते ? किं वा अहमर्थस्य परमात्माभेदोऽपि? आद्योऽङ्गीक्रियत इति मत्वा द्वितीयं दूषयति ॥ नापीति ॥ ननु तर्हि अनुपपत्तिपरिहाराय अज्ञानपरित्यागश्चेद् अपरिच्छिन्नानन्दाद्यात्मकब्रह्म-प्रतिभासाभावः किं निबन्धनः? इत्यत आह ॥ यथेति ॥ किञ्चेति ॥ युक्तिविरोधस्य भूषणत्वे श्रुतिविरोधस्यापि भूषणत्वप्रसङ्गादिति भावः । नन्वविद्याया एव दुर्घटत्वं भूषणं न निरयादेरित्यत आह ॥ निरयादेरपीति ॥ उपादानोपादेययोरभेदादिति भावः ।

श्रीनिवासतीर्थीयटिप्पणी

तत्रेति । ब्रह्माश्रितत्वपक्षे जीवाश्रितत्वपक्षे चेत्यर्थः । दौर्घट्यमनुपपन्नत्वम् ॥ उक्तमिति । अज्ञताखिलसंवेत्तुर्घटते न कुतश्च-नेत्यादिनेत्यर्थः । आरोपितत्वोक्त्या कथं दौर्घट्यपरिहार इत्यत आह ॥ परमार्थसतो हीति ॥ भूषणमेवेति । आरोपितस्य दौर्घट्यमित्यर्थः ॥ अन्यथेति । आरोपितस्य दौर्घट्यं बाधकं चेदित्यर्थः । दुर्घटत्वम् आश्रयाद्य-निरूपणेनानुपपन्नत्वं घटमानत्वे आश्रयादिनिरूपणेनोपपद्यमानत्वम् इत्यर्थः ॥ अविद्यात्वं दुर्घटमिति । अविद्यात्वमेवानुपपन्नमित्यर्थः । यथोक्तम् । अविद्याया अविद्यात्वमिदमेव स्वलक्षणम् । यन्मानतासहिष्णुत्वमिति । अविद्याया अविद्यात्वमेव स्वलक्षणम् । किं तदविद्यात्वम् । यन्मानताऽ-सहिष्णुत्वं प्रमाणप्रवृत्त्यसहिष्णुत्वम् । स्वविषये प्रमाणं न सहत इत्यर्थः । इदमुपलक्षणम् । आश्रयादिविचारासहिष्णुत्वं चेत्यपि द्रष्टव्यमिति तदर्थः ॥

तथा च कथमिति । आरोपिताज्ञानेन सत्यमप्युपपद्यत इति भावः ॥ सिंहावलोकनन्यायेनेति । यद्यपि चक्रकापत्तिरथवेत्यनन्तरं भेदश्चोपाधितः कुत इत्यतः पूर्वमेवैषा शङ्का परिहर्त्तव्या । तथापि यथा सिंहो गच्छन् परावृत्त्य पश्चादवलोकयति तन्न्यायेनेत्यर्थः ॥ अनुपपन्नतैव । आश्रयाद्य-विचारेणेति शेषः ॥ वस्तुद्वयेति । आत्माविद्यारूपवस्तुद्वयेत्यर्थः ॥ अङ्गी-कार्यमिति । कल्पनालाघवादित्यर्थः । तथा चाविद्याया आवरणत्वाङ्गी-कारादात्मन एवावरणत्वमङ्गीकार्यमिति भावः । अस्त्विति चेत्तत्राह ॥ ततश्चेति । अनुपपत्तिप्रकारं विवृणोति ॥ आत्मैवेति ॥ सर्वदेति । आत्मन इति शेषः । आवरणस्यात्मनो नित्यत्वादिति भावः ॥ मोक्षे चेति । आवरणनिवृत्तिर्हि मोक्षः । आवरणनिवृत्तौ मोक्षे आत्मनिवृत्तिरेव स्यादिति भावः ॥ सत्यां प्रतीताविति । अहमज्ञ इत्यज्ञानस्य प्रतीतौ सत्यां तत्र दौर्घट्यं भूषणमित्युच्यत इत्यर्थः ।

तर्हि समानमेतन्ममापीत्यत आह ॥ न चेति । न हीत्यर्थः । येन तत्रापि दौर्घट्यं भूषणमित्यङ्गीकार्यं स्यादिति भावः ॥ सममिति । अज्ञानस्यापि प्रतीत्यभावादिति भावः । ननु कथमज्ञानस्य प्रतीत्यभावः । अहमज्ञ इति प्रतीतेः सर्वसिद्धत्वादिति चेत् । तत्र पृच्छामः । अज्ञानप्रतीतिः किं ब्रह्मणोऽङ्गीक्रियते उत जीवस्येति विकल्प्य आद्यं दूषयति ॥ न हीति । द्वितीयमाशंक्य निराकरोति ॥ नापीति । जीवस्येति शेषः । उपाध्यवच्छिन्नः परमात्मैवाहमज्ञो ऽज्ञानवानहमिति प्रतीतिर्जीवस्यापि नास्तीत्यर्थः । ननु जीवस्तावज्ज्ञानानन्दादिरूपब्रह्मात्मकस् तस्य च स्वरूपं प्रतिभासाभाव-स्तावदस्ति । अतस्तदावरकभूताविद्या आत्मातिरिक्ता जीवेऽस्तीत्यङ्गीकार्य-मित्याशंक्य निषेधति ॥ यथास्वरूपमिति । नन्वधिगतवेदान्तस्याद्वैतवादिनो नित्यनिरयप्राप्तिरिति चेत्तत्राह ॥ सर्वज्ञस्येति । सर्वज्ञस्याज्ञानं न सम्भव-तीत्युक्ते यथा सानुपपत्तिरज्ञानस्य भूषणमित्युच्यते तथेत्यर्थः । महावाक्यं तत्वमस्यादि । नन्वज्ञानस्यारोपितत्वात्तस्य दौर्घट्यं भूषणमित्युच्यते । निरयादिकं तु न घटत इति चेत्तत्राह ॥ निरयादेरपीति । उपादानोपादेययोर-भेदेनाविद्याव(न्निरया)च्छिन्ननिरयादेरपि आरोपितत्वेन तद्दौर्घट्यस्यापि भूषणत्वसम्भवादित्यर्थः ॥ इति शेष इति । तथाचाधिगताद्वैतवादिनः सङ्करादेर्नित्यदुःखस्वरूपमन्धन्तमः शिरोमणिर् अलङ्कारः शिरोरत्नभूतालङ्कारः स्यादिति मूलार्थो द्रष्टव्यः । इदं नित्यनिरयरूपम् ।

परशुनाम्नीटिप्पणी

‘अज्ञानमपि अज्ञानान्तरकल्पितम्’ इतिमतानुसारेण शङ्कते नन्विति । अन्यथेति । न हि यत्र आपणादौ रजतं सुघटं, तत्रत्यं रजतम् आरोपितम् इति व्यवहरन्ति; किन्तु यत्र शुक्तिकायां दुर्घटम्, तत्रैव रजतम् आरोपितम् इति व्यवहरन्ति; इति सुघटत्वम् आरोपितत्वविरोधि इति भावः । अनुपपत्तिर्वेति । दूषणस्य भूषणत्वानङ्गी(त्वाङ्गी)कारे ‘अज्ञताऽखिलसवेत्तुः’ इत्यादिनोक्तदूषणं वा परिहर्तव्यम्, आत्मनोऽज्ञानं वा त्याज्यम् इत्यर्थः । ननु आत्मस्वरूपस्य आनन्दादेर् इदानींतनप्रतिभासाभावोपपादनार्थं सर्वज्ञस्यापि अविद्या कल्प्यते इत्यत आह यथास्वरूपमिति । तर्हि सर्वज्ञस्य न अज्ञानं कल्पनीयम्, किन्नाम ‘सर्वज्ञ एव अज्ञानम्’ इति कल्पनीयम्; इति भावः ।

टीका

‘वेदवेदान्तयोर्जीवब्रह्मणोरेकत्वे तात्पर्यं’ इत्यङ्गीकारे अधिकार्याद्यनुपपत्त्या अनारम्भणीयत्वं स्यात् । भेदपक्षे तु अधिकार्यादिसम्भवाद् आरम्भणीयत्वोपपत्तिरिति विषयान्तरे इत्यनेनोक्तम् । तद्विवृणोति

मूलम्

अतः परो मात्रयेति पूर्वश्रुतिनिदर्शितः ॥ १७ ॥

अन्यमीशमितिश्रुत्या भिन्नजीवदृशं गतः ।

भिन्नत्वेनात्मसादृश्यदो यदेतिश्रुतेः सदा ॥ १८ ॥

अत इति औतपक्षे अधिकार्याद्यसम्भवं परामृशति । अत्र आद्यार्धश्लोकेन परमेश्वरः शास्त्रस्य विषयो दर्शितः । स च ईश्वरपदादेव विदित इति कथं शास्त्रस्य विषयः स्यात्? इत्यत उक्तं परो मात्रयेति । ईश्वरसत्तामात्रस्य कथञ्चिदधिगतत्वेऽपि तस्य अपरिमितगुणाकरतया श्रुतिनिदर्शितस्य तथा अनवगमात् सामान्यतो विशेषतश्च तदवगमार्थं शास्त्रमिति । द्वितीयार्धेन अधिकारी दर्शितः । स च परमात्मात्मकश्चेत् सर्वज्ञतया नाधिकारी स्यादिति श्रुत्या भिन्नत्वेन समर्थितः । यद्यपि औतपक्षे अधिकार्याद्यसम्भवस्योक्तत्वाद् भिन्न एवाधिकारी सिद्धः, तथापि प्राक् ‘प्रत्यक्षादिसिद्धो भेदः’ इत्युक्तं, तत्र प्रत्यक्षानुमाने दर्शिते, आगमप्रदर्शनायेदं श्रुत्युदाहरणम् । भिन्नत्वेन इत्यनेन प्रयोजनं दर्शितम् । तत्र भिन्नत्वेन इति स्वरूपसङ्कीर्तनम् । सादृश्योक्त्या भेदस्य लब्धत्वात् । सदा इति सादृश्यविशेषणम् । प्रयोजने विप्रतिपत्तेः ‘यदा पश्यः’ इति श्रुतिरुदाहृता । जीवदृशं गत इत्यनेन अधिकारिविषययोः सम्बन्धो दर्शितः । दृशं शास्त्रसाध्यामिति शेषः । तेन शास्त्रेण अधिकार्यादेः । सादृश्यद इत्यनेन विषयप्रयोजनयोः । तत्रापि शास्त्रस्येति शेषः । तेन अधिकारिप्रयोजनयोरपीति । विषयाद्युप-पन्नमिति वाक्य शेषः । तेन अत इत्यस्य सम्बन्धः । एव-मद्वैतमते शास्त्रस्यानारम्भणीयत्वप्रसङ्गान्नाद्वैतमतं सम्भवतीति युक्तमेव नारायणस्यागण्यगुणवत्वमुपपादितम् ।

मन्दारमञ्जरी

॥ विषयान्तरे इत्यनेनैव स्वमते विषयादेः समर्थितत्वादुत्तर-ग्रन्थवैयर्थ्यमित्याशङ्क्य तद्विवरणरूपत्वान्न वैयर्थ्यमित्याह ॥ भेदेत्यादिना ॥ ‘अतः परो मात्रया’ इति मूलग्रन्थे पूर्वशब्द आदिपर्यायः ॥ तथाऽनवगमा-दिति ॥ लोकत इति शेषः । ननु सामान्याकारेण ज्ञातत्वादेव न विषयत्वम् । विशेषाकारस्य च अत्यन्ताप्रसिद्धत्वादेव न विषयत्वमिति विषयोऽनुक्त एव स्यादिति चेन्न । जिज्ञासाविषयो हि द्विविधः । धर्मी प्रकारश्चेति । तत्र प्रकारप्रसिद्धेरहेतुत्वेऽपि धर्मिप्रसिद्धेरेव स्वजिज्ञासाहेतुत्वात् । अत्र च सकलकल्याणगुणत्वादीनां प्रकाराणामसिद्धत्वेऽपि नारायणो धर्मी प्रसिद्ध इति जिज्ञासोचितैव । अन्यथा तवापि प्रश्नो न स्यादित्यलम् ॥ सामान्यत इति ॥ अगण्यगुणाश्रयत्वेनेत्यर्थः ॥ विशेषत इति ॥ अगण्यगुणा आनन्दादय इति प्रतिपादनेनेत्यर्थः ॥ द्वितीयार्धेनेति ॥ विषयविशेषकथनेन अधिकार्यपि सूचित इत्यर्थः ॥ प्रत्यक्षादिसिद्धो भेद इति ॥ प्रत्यक्षेण सत्यतया भेदः सिद्ध इत्यर्थः । प्रत्यक्षेण सत्यतया भेदसिद्धिश्च भेदग्राहिप्रत्यक्षे बाधाभावात् ।

भेदग्राहिप्रत्यक्षे बाधाभावाक्षेपः

ननु किमत्र स्वबाधाभावो हेतुः? किं वा अन्यबाधाभावः ? बाधमात्राभावो वा ? नाद्यः प्रसिद्ध्यप्रसिद्धिभ्यां तदभावस्य दुर्ज्ञानत्वात् । न द्वितीयः रज्जुसर्पभ्रान्तिबाधरहितशुक्तिरजतज्ञाने व्यभिचारात् । न तृतीयः प्रामाणिकाप्रामाणिकयोः सामान्यस्याप्यसम्भवात् । किं च किमेतत्कालीय-बाधाभावो हेतुः? किं वा सार्वकालिकबाधाभावः? नाद्यस् तात्कालिकबाधा-भावस्य शुक्तिरजतादिज्ञानेऽपि सम्भवात् । न द्वितीयः कालान्तरभाविबाधका-भावस्य वर्तमानमात्रग्राहिणा प्रत्यक्षेण निश्चेतुमशक्यत्वात् । अपि च यत्किञ्चित्पुरुषबाधाभावो भ्रमेऽपि सुलभः । सर्वपुरुषबाधाभावस्तु प्रकृतेऽपि दुर्ज्ञान इति ।

भेदग्राहिप्रत्यक्षे बाधाभावोपपादनम्

अत्रोच्यते, स्वबाधराहित्यं हेतुः । तत्र यदुक्तं ‘तत्प्रसिद्ध्यप्रसिद्धिभ्यां तदभावस्य दुर्ज्ञानत्वादिति’ तत्रोत्तरं दत्तमेव अनादित्वनिर्वचनसमये, अत्यन्ताभावस्य प्रतियोगिसत्वानपेक्षत्वादिति ।

अत्यन्ताभावस्य निष्प्रतियोगिकत्ववादिनामाशयनिरूपणं

ननु कथमभावो निष्प्रतियोगिकः स्यात्? इति चेन्न । किमिदं निष्प्रतियोगि- कत्वम् ? प्रतियोगिप्रतीतिनिरपेक्षत्वं वा? प्रामाणिकप्रतियोगिहीनत्वं वा? नाद्यो ऽनुक्तोपालम्भात् । न ह्यस्माभिरत्यन्ताभावस्य प्रतीतिः प्रतियोगिप्रतीतिनिरपेक्षे-त्युक्तम् । किं तर्हि? ‘प्रसक्तप्रतिषेधः’ इत्युक्तम् ।

अत्यन्ताभावस्य प्रतियोगिसत्वानपेक्षत्वे अनुमानप्रमाणोदाहरणं

न द्वितीयः ‘अभावत्वं निष्प्रतियोगिकनिष्ठं सत्तासाक्षाद्व्याप्यधर्मत्वाद् भावत्ववत्’ इत्यनुमानेन निष्प्रतियोगिकत्वसाधनात् ।

अत्यन्ताभावस्य सत्प्रतियोगिकत्वानङ्गीकारे अनुपपत्तिशङ्का

अथ भूतलान्तरे घटे विद्यमान एव ‘एतद्भूतले घटो नास्ति’ इति घटा-भावोऽनुभूयते । न चायं प्रागभावप्रध्वंसाभावयोरन्यतरः । प्रतियोग्यसमान-कालीनत्वात् तयोः । नाप्यन्योन्याभावः । ‘भूतलं घटो न भवति’ इति प्रतीतिप्रसङ्गात् । ततः परिशेषाद् अत्यन्ताभाव इति गम्यते । ततश्च अत्यन्ताभावः कथं निष्प्रतियोगिकः स्यात्? इति चेन्न ।

अत्यन्ताभावस्य सत्प्रतियोगिकत्वनिरासः

‘इह भूतले घटो नास्ति’ इत्यादौ भूतलघटसंसर्गस्यैव निषिद्ध्यमानत्वात् । अवश्यं चैतत् त्वयाप्यङ्गीकरणीयम् । घटस्य भूतलान्तरे सत्वेन स्वरूपेण निषेधासम्भवात् । संसृष्टत्वाकारेण निषिद्ध्यते घट इति चेत् तर्हि प्राप्ताप्राप्त-विवेकेन संसर्ग एव निषिद्ध्यत इत्यायातम् । ‘सविशेषणे विधिनिषेधौ सति विशेष्ये बाधे विशेषणमुपसङ्क्रामते’ इति न्यायात् । कथं तर्हि घटशब्दो-पादानम्? इति चेन्न । ‘भूतले’ इत्यधिकरणसप्तम्या भूतलस्याश्रयत्वेऽभिहिते आश्रयत्वप्रतिसम्बन्धिनि आधेयत्वे च अर्थादुक्ते ‘किंनिष्ठा आधेयता ?’ इत्याकाङ्क्षायां ‘घटनिष्ठा’ इति ज्ञापयितुं घटशब्दोपादानात् । एवं च ‘इह भूतले घटो नास्ति’ इत्यत्रापि भूतलघटयोराधाराधेयभावो निषिद्ध्यत इति स्थितम् । तत्र यदि नाम तयोराधाराधेयभावः प्रागभूत् तदा अयमनुभव-स्तत्प्रध्वंसविषयकः । यदि भविष्यति तदा तत्प्रागभावविषयकः । यदि न जातः नास्ति न भविष्यति तदा अत्यन्ताभावविषयकः । एवं च ‘शशविषाणं नास्ति’ इत्यादेः ‘शशे विषाणं नास्ति’ इत्याद्यर्थोऽपि न कल्पनीयः । तत्राप्यप्रामाणिकस्य शशविषाणस्यैव प्रतियोगित्वोपपत्तेः । तस्मादत्यन्ता-भावस्य निष्प्रतियोगिकत्वात् स्वबाधात्यन्ताभावो हेतुरिति न कश्चिद्दोषः ।

भेदप्रत्यक्षे त्रैकालिकबाधाभावस्य प्रत्यक्षवेद्यत्वसमर्थनं

यच्चोक्तं ‘किमेतत्कालीनबाधाभावः? इत्यादि’ तत्र त्रैकालिकबाधाभावो हेतुरिति वदामः । न च तदनिश्चयः । प्रत्यक्षेणैव तन्निश्चयात् । तथा हि

भावि तद्बाधकज्ञानं बाध्यज्ञानार्थशून्यताम् ।

तत्काले नैव गृह्णाति कालभेदे त्वबाधकम् ॥

कालान्तरभावि बाधकज्ञानं बाध्यज्ञानविषयाभावं गृह्णाति? न वा ? न चेत् कथं बाधकं स्यात् ? गृह्णाति चेद् बाध्यज्ञानेन यस्मिन् काले स्वविषयोऽ-स्तीति गृहीतस्तस्मिन्नेव काले तद्विषयं नास्तीति गृह्णीयात्? किं वा कालान्तरे नास्तीति ? द्वितीये तद् बाधकमेव न स्यात् । कालभेदेन तयोर्विरोधपरि-हारात् । न हि घटकाले तस्यास्तित्वज्ञानं तदभावकाले तन्नास्तिताग्राहकेण बाध्यते । नाद्यो ऽनेन ज्ञानेन एतत्काले स्वविषयस्य प्रमितत्वेन कालान्तर-भाविनापि एतत्काले एतद्विषयाभावस्य गृहीतुमशमक्यत्वात् । कालान्तर-भाविना एतद्विषयाभावग्रहणे च एतद्विरोधेन तस्यैवाप्रामाण्यनिश्चयात् ।

भेदप्रत्यक्षे शुक्तिरजतप्रत्यक्षाद् वैलक्षण्योपपादनं

नन्वेवं तर्हि शुक्तिरजतादिज्ञानेनापि स्वविषयस्य त्रैकालिकबाधाभावो गृह्येतेति चेन्न तस्याप्रमाणत्वात् । अस्य तु प्रमाणत्वात् । प्रपञ्चग्राहिप्रत्यक्षस्य प्रामाण्यमेव कुतः? इति चेत् किं कुत उत्पद्यते? इति प्रश्नार्थः। किं वा कुतो ज्ञायते ? इति । उभयत्रापि स्वत एवेति परिहारः । प्रामाण्यस्वतस्त्वस्यान्यत्र निर्णीतत्वात् । नन्वयं परिहारः शुक्तिरजतज्ञानेऽपि समान इति चेन्न । संवादभावाभावाभ्यां विशेषात् ।

संवादस्य अप्रामाण्यशङ्कानिरासकत्वे अनवस्थादोषाशङ्का तत्परिहारश्च

ननु संवादेऽपि कथं विश्वासः? इति चेत् संवादान्तरादित्यवेहि । ननु तर्ह्यनवस्था स्यात् । न स्यात् । न हि सर्वत्र संवादापेक्षा येनानवस्था । किं तु यत्र मनोवृत्तिज्ञानेषु विषयव्यभिचारस् तत्रानाश्वासकारणसद्भावात् संवादापेक्षा । साक्षिज्ञाने तु न संवादापेक्षा । साक्षिणः कदापि विषयव्यभिचाराभावात् । एवं च साक्षिविषयेषु सुखादिषु यावत्पर्यवसानं तावदेव संवादापेक्षेति नानवस्था । प्रपञ्चितं चैतत् तत्र तत्र टीकाकारैरिति ।

भेदप्रत्यक्षे भाविबाधकनिश्चायकप्रमाणाभावः

अपि च कालान्तरे बाधकं भविष्यतीति किं निश्चीयते? किं वा सम्भाव्यते? नाद्यः निश्चायकप्रमाणाभावात् । औतश्रुतीनां च अन्यत्र अन्यथा व्याख्यातत्वात् ।

भेदप्रत्यक्षे भाविबाधकसम्भावनानिरासः

न द्वितीयः सम्भावनाबीजाभावात् । ज्ञानत्वमेव सम्भावनाबीजमिति चेत् तर्हि यद् बाधकज्ञानं सम्भाव्यते तस्यापि बाधकं ज्ञानत्वात् सम्भाव्यताम् । किं चैतादृशश्रद्वाजाड्यवता कालान्तरं भविष्यतीति कथं निरणायि? येन तत्र बाधकं सम्भाव्येत ।

भेदप्रत्यक्षप्रामाण्यनिरासार्थमुक्तानां दोषाणां तद्बाधकतयोक्तवचनेष्वतिदेशः

किं च त्वदुक्तबाधकवचनानि प्रमाणानि? न वा? द्वितीये फलितमस्म-न्मनोरथद्रुमेण । आद्ये कथं प्रामाण्यं निरणायि? अबाधादिति चेत् त्वदुक्तानि बाधकानि त्वमेवानुसन्धत्स्वेत्यलं दुर्बलहिंसया । तस्मात् प्रत्यक्षादिसिद्धो भेद इति साधूक्तम् ।

भेदप्रत्यक्षस्य व्यावहारिकभेदपरत्वे किं प्रमाणमिति प्रश्नायोग इति खण्डनोक्ताक्षेपः

इदं श्रुत्युदाहरणमिति ॥ नन्वत्र भेदप्रतिपादिका श्रुतिर् व्यावहारिकभेद-परेति चेत् किमत्र प्रमाणम् ? ननु भेदश्रुतेर्व्यावहारिकभेदपरत्वे खलु प्रमाणं पृच्छ््यते । तथा च यत्र प्रमाणं पृच्छ््यते सोऽर्थः प्रतीयते ? न वा? न चेत् कथं प्रमाणप्रश्नस्यावसरः? अप्रतीतार्थे प्रमाणप्रश्नायोगात् । प्रतीयते चेत् सा किं भ्रान्तिः? किं वा प्रमा? नाद्यः । भ्रान्तिसिद्धे प्रमाणं पृच्छतस् तवैव भ्रान्तत्वप्रसङ्गात् । न हि भान्तिसिद्धेऽर्थे प्रमाणं कश्चिदनुन्मत्तः पृच्छति । द्वितीये न नितरां प्रमाणप्रश्नः । त्वयैव प्रमितत्वाङ्गीकारात् । प्रमायाः प्रमितत्वेऽपि प्रमाकरणं पृच्छ््यत इति चेन्न । करणं विना प्रमानुदयेन प्रमाबलादेव तत्करणस्याप्यनुमानात् । प्रमाकरणसामान्यस्य सिद्धत्वेऽपि विशेषज्ञानार्थं प्रश्न इति चेन्न । ‘निर्विशेषं न सामान्यं’ इति न्यायेन विशेष-स्यापि सामान्यबलादेव कल्पनात् । तावतैवार्थसत्वसिद्धौ विशेषजिज्ञासाया निष्फलत्वाच्चेति कश्चित् स्वव्याघातमप्यजानानः खण्डनवादी मन्यते ।

खण्डनोक्ताक्षेपस्य स्वव्याहत्या निरासः

तं प्रति ब्रूमः ।

सा प्रमाप्रमयोरन्या या मतिस्तव वाक्यतः ।

निश्चेष्यते तद्विशेषः कथोत्तरमिति स्थितिः ॥

‘भेदश्रुतिर्व्यावहारिकभेदपरा’ इति तव वाक्यात्काचित्प्रतीतिरस्माकमपि जायत एव । तत्र यदुक्तं, सा किं प्रमा? अप्रमा वा? इति । तत्र प्रश्न एव नोपपद्यते । इदानीमपि तद्विशेषस्यास्माभिरनिश्चयात् । कथायां हि प्रवृत्तायां यदि त्वया भेदश्रुतीनां व्यावहारिकभेदपरत्वे प्रमाणमभिधीयेत तदा मूल-प्रमाणसत्वात् त्वद्वाक्यं प्रमाणमिति निश्चित्य करणदोषाभावात् त्वद्वाक्या-दस्माकं यज्ज्ञानमुत्पन्नं तत्प्रमाणमिति निश्चीयेत । यदि तु त्वया प्रमाणं नाभिधीयते परं त्वस्माभिरेव अव्यावहारिकपरत्वे प्रमाणमभिधीयेत तदा ‘भेदश्रुतिर्व्यावहारिकभेदपरा’ इति त्वद्वाक्यं मूलप्रमाणाभावाद् अस्मदुक्त-प्रमाणविरोधाच्चाप्रमाणमिति निश्चीयेत । करणदोषसद्भावात् त्वद्वाक्यजा प्रतीतिरप्रमेति निश्चीयेत । यदि च प्रागेवान्यतरनिश्चयः स्यात्तदा तवापि कथायां प्रवृत्तिर्न स्यात् । कथाफलस्य अन्यतरनिश्चयस्य प्रागेव सिद्धत्वात् । ननूत्पन्नं ज्ञानं प्रमात्वेनाप्रमात्वेन वा सिद्ध्येत् । उभयौदासीन्यं तु कथं? इति चेत् सिद्ध्येदिति कोऽर्थः? किमुत्पद्यत इति? किं वा ज्ञायत ? इति । आद्ये इष्टापत्तिः । वस्तुगत्या तस्य प्रमात्वाप्रमात्वयोरन्यतरापन्नत्वात् । न द्वितीयः संशयकारणसद्भावे अन्यतरकोटेर्निश्चेतुमशक्यत्वात् । न च संशयकारणमेव नास्तीति युक्तम् । वादिविप्रतिपत्तिरूपकारणसद्भावात् । वयं हि त्वद्वाक्यं मूलप्रमाणरहितमिति मन्यामहे । भवांस्तु मूलप्रमाणसहितमिति मन्यते । ततः कथं विप्रतिपत्त्यभावः? विप्रतिपत्त्यभावे च कथारम्भ एव न स्यादिति यत्किञ्चिदेतत् । स्वव्याघातस्तु स्पष्ट एव । तस्माद्युक्तः प्रमाणप्रश्नः ।

अथ प्रमाणप्रश्नमङ्गीकृत्य प्रमाणं ब्रूषे औतवाक्यविरोधादिकं, तत्रोत्तर-मन्यत्रोक्तमिति । किं चेदं व्यावहारिकत्वं नाम? किं बाध्यत्वम् ? किं वा प्रातिभासिकान्यत्वे सति बाध्यत्वम्? यद्वा पारमार्थिकान्यत्वे सति प्राति-भासिकान्यत्वम्? अथ वा ब्रह्मापरोक्षज्ञानातिरिक्तज्ञानाबाध्यत्वम् ? आहोस्विद् ब्रह्मापरोक्षज्ञानातिरिक्तज्ञानाबाध्यत्वे सति बाध्यत्वम् ? उत व्यवहारनिर्वाहकत्वम्? नाद्यः प्रातिभासिकेऽतिव्याप्तेः । अत एव न द्वितीयः प्रातिभासिकस्यापि यत्किञ्चित्प्रातिभासिकान्यत्वेनातिव्याप्तेः । अत एव न तृतीयः प्रातिभासिकस्य पारमार्थिकान्यस्य यत्किञ्चित्प्रातिभासिकान्यत्वात् । प्रातिभासिकत्वस्यापि व्यावहारिकज्ञानाधीनत्वेन अन्योन्याश्रयात् । अत्यन्तं विमर्शे व्यावहारिकत्वमनिरूप्य प्रातिभासिकत्वस्य निरूपयितुमशक्यत्वात् । न चतुर्थः ब्रह्मण्यतिव्याप्तेः । तस्यापि ब्रह्मापरोक्षज्ञानातिरिक्तज्ञानाबाध्यत्वात् । न पञ्चमः प्रारब्धकर्मण्यव्याप्तेः । तस्य ब्रह्मापरोक्षज्ञानानन्तरमप्यनुवर्तमानस्य ब्रह्मापरोक्षज्ञानबाध्यत्वायोगात् । किञ्च अस्मिन्नेव लक्षणेऽव्याप्तिः । स्वस्य स्वस्मिन्न वृत्तेः । न हि त्वया अस्माभिरिव लक्षणे लक्षणमङ्गीकृतम् । येन सत्यत्वादिलक्षणेष्विव विवक्षितव्यक्तिविशेषे पर्यवसानेन आत्माश्रयः परिह्रियेत । षष्ठस्तु अस्माभिः प्रार्थनीय एवेति व्यावहारिकत्वं दुर्निरूपमिति ।

॥ स्वरूपसङ्कीर्तनमिति ॥ स्वप्रयोजनशरीरानन्तर्भावादिति भावः । ननु ‘यदेति श्रुतौ परमं साम्यमुपैतीति साम्यमेवोच्यते न भेदः’ इत्यत आह ॥ सादृश्येति ॥ सदेति सादृश्यविशेषणमिति ॥ अभिव्यक्तानन्दत्वादिना सादृश्यस्य सदातनत्वं प्रध्वंसाप्रतियोगित्वम् । न तु त्रिकालवृत्तित्वम् । तथात्वे तस्य कृतिसाध्यत्वायोगात् ॥ अधिकारिविषययोः सम्बन्धो दर्शित इति ॥ ज्ञातृज्ञेयभावः सम्बन्धः ॥ तेनेति ॥ शास्त्रस्याधिकारिणा ज्ञातृज्ञापकभावः सम्बन्धः विषयेण ज्ञाप्यज्ञापकभावः सम्बन्धो दर्शित इत्यर्थः ॥ सादृश्यद इति ॥ विषयप्रयोजनयोर् दातृदेयभावः सम्बन्धो दर्शित इत्यर्थः ॥ तेनाधिकारीति ॥ भोक्तृभोज्यभावलक्षणः सम्बन्धो दर्शित इत्यर्थः ॥ तेनात इति ॥ तेन अध्याहृतेन विषयाद्युपपन्नमित्यनेनेत्यर्थः ।

श्रीनिवासतीर्थीयटिप्पणी

आरम्भणीयत्वोपपत्तिः । वेदवेदान्तयोरिति वर्तते ॥ तद्विवृणोतीति । विषयान्तर इति समान्यतः प्रतिज्ञातं तदनुपपत्तिपरिहाराय श्रुत्युदाहरणपूर्वकं विवृणोतीत्यर्थः ॥ आद्यार्धश्लोकेनेति । श्लोकस्याद्यार्धः । आद्यार्धश्लोकः । तेनेत्यर्थः । आद्यार्थेनेत्यपि क्वचित्पाठः ॥ ईश्वरपदादेवेति । लोक एवाविपालगोपालाङ्गनं विदित इत्यर्थः ॥ कथमिति । अज्ञातत्वा-भावादिति भावः । अप्राप्ते शास्त्रमर्थवदिति न्यायादिति द्रष्टव्यम् ॥

परो मात्रयेतीति । ‘‘परो मात्रया तन्वा वृधान न ते महित्व-मन्वश्नुवन्ति’’ इति श्रुतेरयमर्थः । तन्वा शरीरेणैव न तु कीर्तिमात्रेण वावृधान ववृधान, हे विष्णो त्वं मात्रया गुणानां परिमितेः सकाशात्परोऽतीतोऽसि अपरिमितगुणोऽसीत्यर्थः। एतादृशस्य ते महित्वं केऽपि नाश्नुवन्तीति । मूले इति पूर्वश्रुतीत्यत्र पूर्वशब्द आदिशब्दार्थकः । तेन गुणाः श्रुतास्सुविरुद्धाश्च देवे संत्यश्रुता अपि नैवात्र शङ्का इत्यादिग्रहणम् । कथमनेन शङ्कापरिहार इत्यत आह ॥ ईश्वरसत्तेति । ईश्वरस्वरूपसद्भावमात्रस्येत्यर्थः ॥ अधिगत्वेऽ-पीति । ईश्वरपदादेव लौकिकैरिति शेषः । अतीन्द्रिये तस्मिन्नुपदेशाद्यसम्भवेन व्युत्पत्त्ययोगाद् ईश्वरपदादपि तदधिगतिर्न सम्भवतीत्याशयेन कथञ्चि-दित्युक्तम् । तस्येश्वरस्य ॥ अपरिमितेति । अगणितेत्यर्थः । आकरः खनिर् आश्रय इति यावत् ॥

श्रुतिनिदर्शितस्येति । श्रुतिप्रदर्शितस्य श्रुतिप्रतिपाद्यस्येति यावत् ॥ तथेति । ईश्वरपदेन लौकिकैरगण्यगुणाश्रयत्वानवगमादित्यर्थः । एवं सति अगण्यगुणाश्रयत्वेनेश्वरस्याज्ञातत्वाच्छास्त्रस्य विषयो भवतीत्याह ॥ सामान्यत इति । ईश्वरोऽगण्यगुणाश्रय इति सामान्यतो ज्ञानानन्दशक्त्याद्यगण्यगुणवानिति विशेषतश्चेत्यर्थः । तदधिगमार्थम् अगण्यगुणाश्रयत्वज्ञापनार्थम् ॥ द्वितीयार्धेनेति । भिन्नजीवदृशं गत इति विशेषणकथनेनाधिकारी दर्शित इत्यर्थः ॥ नाधिकारी स्यादिति । अज्ञ एवाधिकारीति भावः । स्यादित्यनन्तरमत उक्तमन्यमीश-मिति शेषः । तदभिप्रायमाह ॥ श्रुत्या भिन्नत्वेनेति । अन्यमीशमिति श्रुत्यु-दाहरणेन जीवाद्भिन्नत्वेनेश्वरः समर्थितः । तथा च जीवस्य परमात्मा-त्मकत्वाभावेनाज्ञत्वसम्भवादधिकारी भविष्यत्येवेत्यर्थः । तथा च जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोक इति श्रुत्या भिन्नत्वेनावगतो यो जीवस्तस्य दृशं शास्त्रसाध्यामिति शेषः । गतः प्राप्तः विषयीभूत इति मूलार्थो द्रष्टव्यः ।

जुष्टं जुषी प्रीतिसेवनयोः सर्वसेव्यम् । अन्यं जीवाद्भिन्नम् । ईशं भगवन्तम् । अस्य महिमानं माहात्म्यं तदेतत्सत्यमिति पूर्वोक्तप्रकारेण यदा पश्यति तदा वीतशोको मुक्तो भवतीत्यर्थः ॥ भिन्न एवेति । तथा च स च परमात्मात्मकश्च सर्वज्ञतया नाधिकारी स्यादिति शङ्काया एवाभावेनान्यमीश-मिति श्रुत्युदाहरणं व्यर्थमिति भावः ॥ इत्युक्तमिति । आत्मस्वभावभेदस्य विदोषत्वेन चेत्यत्र चशब्देन प्रामाणिकत्वस्य समुच्चितत्वेन भेदस्य प्रत्यक्षादि-प्रमाणसिद्धत्वादित्यर्थः ॥ दर्शिते इति । अज्ञता चेत्यादिना जीवेश्वरभेदे प्रत्यक्षानुमाने दर्शिते इत्यर्थः ॥ आगमेति । अन्यमीशमिति श्रुत्या स्फुटं भेदस्योक्तत्वादित्यर्थः ॥ भिन्नत्वेनेत्यनेनेति । भिन्नत्वेनात्मसादृश्यद इति तृतीयार्धेनेत्यर्थः ॥ प्रयोजनमिति । मोक्षरूपप्रयोजनमित्यर्थः । ज्ञानानन्दादि-रूपभगवत्सादृश्यात्मानन्दव्यक्तेरेव मोक्षत्वादिति भावः । भिन्नत्वेनात्म-सादृश्यद इत्यत्र भिन्नत्वेन घटितं यदात्मसादृश्यं तत्प्रद इत्येवं भिन्नत्वेनेत्ये-तत्सादृश्यरूपप्रयोजनशरीरान्तर्गतमिति प्रतीयते । अत आह ॥ भिन्नत्वेनेति ॥ स्वरूपसङ्कीर्तनमिति । न तु सादृश्यरूपप्रयोजन-शरीरान्तर्गतमित्यर्थः । कुत इत्यत आह ॥ सादृश्योक्त्येति । सादृश्यस्य भेद-व्याप्तत्वेन व्याप्योक्त्या व्यापकस्य भेदस्य लब्धत्वेन तच्छरीरान्तर्गतत्वाभावाद् धूमवत्त्वोक्त्या लब्धस्य वह्नेर् धूमशरीरान्तर्गतत्वाभाववदित्यर्थः । तथा च यत्र सादृश्यं तत्र भेदः यत्र भेदाभावस् तत्र सादृश्याभाव इत्येवं भिन्नत्वेनोपपाद्य-मानं यदात्मसादृश्यं तत्प्रद इति मूलार्थो द्रष्टव्यः ॥ सदेति सादृश्यविशेषण-मिति । अभिव्यक्तानन्दत्वादिरूपमोक्षादिसादृश्यस्य सदातनत्वरूपं विशेषणं सदेत्यनेनोक्तमित्यर्थः ॥

प्रयोजने विप्रतिपत्तेरिति । अभिव्यक्तानन्दत्वादिसादृश्यरूपमोक्षाख्य-प्रयोजनस्वरूपे प्रमाणाभावेन एकविंशतिदुःखध्वंस एव मोक्ष इति केचिदाहुः । आत्महानिरित्यन्ये । सन्ततोर्ध्वगतिरित्यन्ये । इत्येवं विप्रतिपत्तेः स्वाभिमत-मोक्षरूपप्रयोजनस्य प्रामाणिकत्वसूचनाय यदा पश्य इति श्रुतिरुदाहृतेत्यर्थः ।

‘‘यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैती’’ति श्रुतेरयमर्थः । पश्यतीति पश्यो जीवः । रुक्मर्णं स्वर्णवर्णं जगत्कर्तारम् अत एव ब्रह्मण-श्चतुर्मुखस्यापि योनिम् । ब्रह्मा वेदः स एव योनिर् ज्ञप्तिकारणं यस्येति वा । ईशं समर्थम् । ईशनशीलं वा । पुरुषं पूर्णषड्गुणं पुरि शेत इति पुरुषस् तमिति वा । एतादृशं भगवन्तं यदा पश्यते पश्यति । तदाऽयं विद्वान् पुण्यपापे पुण्यमनिष्टं पापं च सर्वात्मना विधूय अत एव निरञ्जनः निर्दुष्टः सन् परमं साम्यमुपैति । दुःखाभावपरमानन्दादिरूपसाम्यं सादृश्यमुपैति प्राप्नोति । यथोक्तम् । दुःखाभावः परानन्दो लिङ्गभेदः समामतेति ।

मुक्तेश्वरानन्दयोः साम्यं चानुकूलतया वेदनीयत्वादिरूपमेव नापरिच्छिन्न-त्वादिरूपम् । यथोक्तमनुव्याख्याने–

अन्यानन्दादिसादृश्यमानुकूल्यादिना परम् ।

पूर्णत्वादिमहत्तेषु वैलक्षण्यं श्रुतौ श्रुतमिति ॥

अधिकारिविषययोरिति । ज्ञातृज्ञेयभावरूपसम्बन्धो दर्शित इत्यर्थः । शास्त्रेण अधिकारिविषययोः सम्बन्धस्य मूले सूचितत्वज्ञापनाय जीवदृशं गत इत्यनन्तरं शेषं पूरयति ॥ शास्त्रसाध्यामिति ॥ तेनेति । ईश्वरस्य जीव-कर्तृकशास्त्रसाध्यज्ञानविषयत्वकथनेनेत्यर्थः ॥ अधिकार्यादेरिति । आदिपदेन विषयग्रहणम् । सम्बन्धो दर्शित इत्यनुवर्तते । तत्र शास्त्रस्याधिकारिणा पाठ्यपाठकभावरूपः सम्बन्धः। शास्त्रस्य विषयस्य च ज्ञाप्यज्ञापकभावरूपः सम्बन्धो दर्शित इत्यर्थः ॥ सादृश्यद इति । आत्मसादृश्यप्रदत्वोक्त्या विषय-प्रयोजनयोर्दातृदेयभावरूपः सम्बन्धो दर्शित इत्यर्थः । अधिकारिप्रयोजनयो-स्सम्बन्धस्य मूलसूचितत्वज्ञापनाय सादृश्यद इत्यनन्तरमध्याहार्यमाह ॥ जीवस्येति ॥ तेनेति । जीवसादृश्यप्रदत्ववचनेनाधिकारिप्रयोजनयोः प्राप्य-प्रापकभावरूपसम्बन्धो दर्शित इत्यर्थः । नन्वतः परो मात्रयेत्यत्र अत औतपक्षेऽधिकार्याद्यनुपपत्तेः । परोमात्रयेत्यारभ्यात्मसादृश्यद इत्यन्तमनन्वितं प्रतीयते । अतोऽध्याहरति ॥ इति विषयादीति ॥ वाक्यशेष इति । सादृश्यद इत्यनन्तरमित्यादिवाक्यरूपः शेष इत्यर्थः । परोमात्रयेत्यादिसादृश्यद इत्यन्तस्य वाक्यस्य इत्यादिशेष इत्यर्थ इत्याप्याहुः । तेनेति । इति विषया-द्युपपन्नमित्यनेनात इत्यस्य सम्बध इत्यर्थः । तथा च अत औतपक्षे विषयाद्यनुपपत्तेः । अस्मन्मते तु विषयाद्युपपन्नमित्यन्वयः । तत्प्रकारविवरणं परोमात्रयेत्यादीति द्रष्टव्यम् । अगण्यगुणत्वमगण्यगुणवत्त्वम् ॥

नारायणागण्यगुणवत्त्वादिनिबन्धनस्य प्रयोजनम्

टीका

किमस्य प्रयोजनम्? इत्यत आह

मूलम्

मायावादतमोव्याप्तमिति तत्वदृशा जगत् ।

भातं सर्वज्ञसूर्येण प्रीतये श्रीपतेस्सदा ॥ १९ ॥

मन्दारमञ्जरी

॥ किमस्येति ॥ नारायणस्यागण्यगुणानुसन्धानमात्रेण नारायणप्रीतेः स्वप्रयोजनस्य सिद्धत्वान्निबन्धनकरणं निष्प्रयोजनमित्याक्षेपार्थः किंशब्दः । निबन्धनकरणेन साधूनां दुर्वाद्यूहितदुर्युक्तिनिबन्धनाज्ञानस्य निराकरणं स्यात् । तेन चात्यन्तं श्रीपतिः प्रीणातीति परिहारार्थः ।

श्रीनिवासतीर्थीयटिप्पणी

अस्येति । नारायणस्यागण्यगुणत्वोपपादनस्येत्यर्थः । माया-वादेति मूलम् । तस्यायमर्थः । यथा सूर्येणांधकारव्याप्तं जगत्तन्नाशेन प्रकाशितं भवति तथा सर्वज्ञसूर्येण सर्वज्ञाचार्यसंज्ञकसूर्येण मायावादतमसा व्याप्तं जगद् इति पूर्वोक्तप्रकारेण तत्वदृशा तत्वज्ञानेन भातं प्रकाशितम् । न तेनान्यन्मम प्रयोजनं मन्तव्यमित्याशयेनोक्तम् । सदा श्रीपतेः प्रीतय इति ।

ग्रन्थसमाप्तौ मङ्गलाचरणम्

टीका

एवं समापितप्रकरणोऽपि भगवानाचार्योऽन्तेऽपि परमेश्वरप्रणामस्तवने विधत्ते–

मूलम्

नमोऽमन्दनिजानन्दसान्द्रसुन्दरमूर्तये ।

इन्दिरापतये नित्यानन्दभोजनदायिने ॥ २० ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितेषु

दशप्रकरणेषु तृतीयम् उपाधिखण्डनं सम्पूर्णम्

टीका

आत्मसादृश्यद इत्युक्तम् । न चायं पुरुषार्थः, इत्येतत्परिहाराय आद्यं विशेषणम् । नानन्दः स्वरूपेण पुरुषार्थ इत्यतो नित्यानन्देति विशेषणम् । भोजनं भोगो ऽनुभव इति यावत् ।

मन्दारमञ्जरी

॥ समापितप्रकरणोऽपीति ॥ प्रकरणस्य समापितत्वात् प्रणामादेर्निर्विघ्नपरिसमाप्तिलक्षणप्रयोजनाभावेऽपि भक्तिवशात् प्रणमति अभिष्टौति चेति अपिशब्दार्थः । आनन्दस्वरूपस्य परमेश्वरस्य सादृश्येन अधिकारिणः किं प्रयोजनम् ? आनन्दानुभवाभावादित्यत आह ॥ नित्यानन्देति ॥

श्रीनिवासतीर्थीयटिप्पणी

प्रकरणस्य निर्विघ्नेन परिसमाप्तत्वात्पुनः प्रणामो भक्तिवशा-देवेति ज्ञापनाय समापितप्रकरणोऽपीत्युक्तमिति ज्ञातव्यम् । यद्वान्तेऽ-पीत्यन्वयः मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते आयुष्मत्पुरुषकाणि भवन्तीति वचनादित्यवगन्तव्यम् ॥ प्रणामस्तवने इति । प्रधानगुणभावेनेति शेषः ॥ विधत्त इति । विपूर्वो दधातिः करोत्यर्थे । तथा च करोतीत्यर्थः ॥ सादृश्यद इत्युक्तमिति । भगवतः स्वात्मसादृश्यप्रदत्वोक्त्या जीवस्यात्मसादृश्यलाभः पुरुषार्थ इत्युक्तमिति भावः । न चायमिति । अयं जीवस्यात्मसादृश्यलाभो न पुरुषार्थः । वस्तुत्वादिरूपसादृश्यस्य सुखदुःख-प्राप्तिहान्योरन्यतरत्वाभावादिति भावः ॥ आद्यं विशेषणमिति । तथाचा-मन्दोऽनल्पः पूर्ण इति यावत् । निजः स्वाभाविकोऽयम् आनन्दस् तेन सांद्रा निबिडा मूर्तिर्देहस् तदुपेता येत्येवं देहस्यानन्दात्मकत्वोक्त्या तदभिन्नस्य भगवतोऽप्यानन्दात्मकत्वलाभात्तस्य स्वसादृश्यप्रदत्वे जीवस्याप्यानन्दात्मकत्वं प्राप्तमिति भवत्येवात्मसादृश्यलाभो जीवस्य पुरुषार्थ इति भावः ॥ स्वरूपेणेति । अननुभूयमानतयेत्यर्थः ।

(टी.)सदा सुरशिरोरत्नप्रभामोषिनखत्विषि ।

कमलाकमितुः पादयुगले रतिरस्तु मे ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिततत्वप्रकाशिकाविवरणं

श्रीमज्जयतीर्थभिक्षुविरचितं संपूर्णम् ॥

मन्दारमञ्जरी

एवं परिसमापिततत्वप्रकाशिकाव्याख्यो भगवांष्टीकाकार एतादृशटीकाकरणस्य अन्ततो नारायणप्रीतिः प्रयोजनमिति ज्ञापयन् तत्प्रीतिं प्रार्थयते ॥ सदा सुरेति ॥

हयग्रीवपदाम्भोजनखदीधितिचन्द्रिकाम् ।

मनश्चकोर संसारसन्तप्त सततं पिब ॥

इति श्रीमत्समस्तदेवतामस्तकमणिकिरणारुणितपादारविन्दस्य अरविन्दनेत्रस्य श्रीमुख्यप्राणहृदयारविन्दराजहंसस्य सज्जनकुमुदचन्द्रस्य श्रीलक्ष्मीनिवासस्य श्रीहयग्रीवस्य किङ्करेण श्रीमत्परमहंसपारिव्राजकाचार्याणां ब्रह्मण्यतीर्थपूज्यपादानां शिष्येण श्रीलक्ष्मीनारायणतीर्थाख्याद् यतिकुलतिलकाद् अधीतश्रीमध्वशास्त्रामृतेन श्रीव्यासयतिना विरचिता मन्दारमञ्जरी तत्वप्रकाशिकाव्याख्याटिप्पणी सम्पूर्णा ॥

श्रीनिवासतीर्थीयटिप्पणी

समापितग्रन्थो भगवांष्टीकाकारोऽन्तेऽपि मङ्गलमाचरति ॥ सदासुरेति । कमलाकमितुः पादयुगले मे सदा रतिरासक्तिरस्त्वित्यन्वयः । कमला महालक्ष्मीस् तस्याः कमितुः कमु कान्तौ कान्तिरिच्छा । तथा च कामुकस्येत्यर्थः । पत्युरिति यावत् । कामुके कमितानुक इत्यभिधानात् । कमलापतेर्दक्षिणसव्यपादयोः क्रमेणानन्दज्ञानप्रदत्वात् तदुभयप्रार्थनाय पादयुगल इत्युक्तम् । यथोक्तं बृहदारण्यकभाष्ये । सुवरिति । प्रतिष्ठति आभ्यामिति प्रतिष्ठा पादौ द्वै एते अक्षरे अक्षर इत्यत्र

स्वित्यानन्दः समुद्दिष्टो वरिति ज्ञानमुच्यते ।

मोक्षदानेन तद्दानात्सुवरस्य पदद्वयम् ।

दक्षिणश्चैव सव्यश्चेति । कथंभूते पादयुगले इत्यत उक्तम् । सुरशिरो-रत्नेति । सुराणां शिरांसि सुरशिरांसि सुरशिरस्सु स्थितानि रत्नानि सुरशिरो-रत्नानि सुरशिरोरत्नानां प्रभा सुरशिरोरत्नप्रभा सुरशिरोरत्नप्रभां मुष्णाति मुष स्तेये तिरस्करोतीति यावत् । इति सुरशिरोरत्नप्रभामोषिणी । नखानां त्विट् नखत्विट् । त्विट्कान्तौ । सुरशिरोरत्नप्रभामोषिणी नखत्विट् यस्य तत् सुरशिरोरत्नप्रभामोषिनखत्विट् । तस्मिन् सुरशिरोरत्नप्रभामोषिनखत्विषि । त्विट् त्विषीति षकारान्तनपुंसकलिङ्गस् त्विट्शब्दोऽयम् । सप्तमीति ज्ञातव्यम् । रतिरासक्तिर्भक्तिरिति यावदित्यशेषमतिमङ्गलम् ॥ छ ॥

यादवाचार्यहृत्पद्मगतश्रीमध्ववल्लभः ।

प्रीयतामनया ग्रन्थकृत्या व्यासो दयानिधिः ।

विघ्नध्वान्तनिवारणैकतरणिर्विघ्नाटवीहव्यवाट्

विघ्नव्यालकुलोपमर्दगरुडो विघ्नेभपञ्चाननः ।

विघ्नोत्तुङ्गगिरिप्रभेदनपविर्विघ्नाब्धिकुंभोद्भवः

विघ्नाघौघघनप्रचण्डपवनः पायात्प्रसादो गुरोः ।

इति श्रीमद्यदुपत्याचार्यपूज्यपादाराधकेन श्रीनिवासेन रचिता तत्वप्रकाशिकापरपर्यायोपाधिखण्डनव्याख्याविवृतिः संपूर्णा ॥ छ ॥

परशुनाम्नीटिप्पणी

कमलाकमितुरिति । कमु कान्तौ । कर्तरि तृच् । (आपादय आर्धधातुके वेत्युक्तत्वाण्णिड्भावः) वलादित्वाल्लिट् ॥ एवञ्च कमलां कामयते इति कमलाकमिता, तस्य । सदा सुरशिरोरत्नप्रभामोषि । सुरशिरोरत्न-प्रभाधिकप्रभाविशिष्टे ।

नखत्विषि । नखानां त्विट् यस्मिन् तन् नखत्विट्, तस्मिन् नखत्विषि ।

नखचन्द्रिकायुक्ते पादयुगले मे सदा रतिर् अस्तु, इत्यर्थः ॥

इति श्रीमत्सत्यनिधितीर्थश्रीचरणाराधकश्रीमत्सत्यनाथयतिविरचित

उपाधिखण्डनपरशुः समाप्तः ।

श्रीकृष्णार्पणमस्तु ॥

इति श्रीमत्सत्यनिधितीर्थश्रीचरणाराधकश्रीमत्सत्यनाथयतिविरचित

उपाधिखण्डनपरशुः समाप्तः ।

श्रीकृष्णार्पणमस्तु ॥इति श्रीमत्सत्यनिधितीर्थश्रीचरणाराधकश्रीमत्सत्यनाथयतिविरचित

उपाधिखण्डनपरशुः समाप्तः ।

श्रीकृष्णार्पणमस्तु ॥इति श्रीमत्सत्यनिधितीर्थश्रीचरणाराधकश्रीमत्सत्यनाथयतिविरचित

उपाधिखण्डनपरशुः समाप्तः ।