०१ मूल

नारायणोऽगण्यगुणनित्यैकनिलयाकृतिः

श्री आनन्दतीर्थभगवत्पादाचार्यविरचितम्

उपाधिखण्डनम्(मूल)

नारायणोऽगण्यगुणनित्यैकनिलयाकृतिः ।

अशेषदोषरहितः प्रीयतां कमलालयः ॥ १ ॥

अज्ञताऽखिलसंवेत्तुर्घटते न कुतश्चन ।

उपाधिभेदाद् घटत इति चेत् स स्वभावतः ।

अज्ञानतो वा द्वैतस्य सत्यता स्वत एव चेत् ॥ २ ॥

अनवस्थितिरज्ञानहेतौ वाऽन्योन्यसिद्धिता ।

चक्रकापत्तिरथवा भेदश्चोपाधितः कुतः ॥ ३ ॥

विद्यमानस्य भेदस्य ज्ञापको नैव कारकः ।

उपाधिर्दृष्टपूर्वो हि खेऽपि देशान्तरस्य सः ।

ज्ञापको विद्यमानस्य मूढबुद्धिव्यपेक्षया ॥ ४ ॥

न चेदुपाधिसम्बन्ध एकदेशेऽथ सर्वगः ।

एकदेशेऽनवस्था स्यात् सर्वगश्चेन्न भेदकः ॥ ५ ॥

सुखदुःखादिभोगश्च स्वरूपैक्ये न भेदतः ।

दृश्यो ह्युपाधिभेदेऽपि हस्तपादादिगो यथा ॥ ६ ॥

नानादेहगभोगानुसन्धानं योगिनो यथा ।

न चेद् भोगानुसन्धानं तदिच्छा योगिनः कुतः ॥ ७ ॥

अनुसन्धानरहितदेहबाहुल्यमन्यथा ।

सिद्धमेव हि तत्पक्षे विशेषो योगिनः कुतः ॥ ८ ॥

सिद्धौ हि कर्मभेदस्य स्यादुपाधिविभिन्नता ।

तत्सिद्धौ चैव तत्सिद्धिरित्यन्योन्यव्यपाश्रयः ॥ ९ ॥

आत्मस्वभावभेदस्य विदोषत्वेन चाखिलः ।

प्रत्यक्षादिविरोधाच्च दुष्टः पक्षोऽयमञ्जसा ॥ १० ॥

चेष्टालिङ्गेन सात्मत्वे परदेहस्य साधिते ।

अन्यत्वं स्वात्मनस्तस्मात् सर्वैरेवानुभूयते ॥ ११ ॥

अज्ञता चाल्पशक्तित्वं दुःखित्वं स्वल्पकर्तृता ।

सर्वज्ञतादीशगुणविरुद्धा ह्यनुभूतिगाः ॥ १२ ॥

सार्वज्ञादिगुणा विष्णोः श्रुतिषु प्रतिपादिताः ।

‘‘सत्यः सो अस्य महिमे’’त्यादिवाक्यान्मृषा न च ॥ १३ ॥

न च वेदोक्तमिथ्यात्वे मानं तन्मानताऽपि न ।

अतोऽज्ञासम्भवादेव नाधिकार्यैक्यवादिनाम् ॥ १४ ॥

अतो नाज्ञातमिति च विषयो विषयान्तरे ।

अज्ञाभावात् फलं कस्य योगः शशनृशृृङ्गयोः ॥ १५ ॥

दुर्घटत्वं भूषणं चेत् स्यादविद्यात्वमात्मनः ।

अन्धन्तमोऽप्यलङ्कारो नित्यदुःखं शिरोमणिः ॥ १६ ॥

अतः ‘‘परो मात्रये’’ति पूर्वश्रुतिनिदर्शितः ।

‘‘अन्यमीशमि’’ति श्रुत्या भिन्नजीवदृशं गतः ।

भिन्नत्वेनात्मसादृश्यदो ‘‘यदे’’ति श्रुतेः सदा ॥ १७ ॥

मायावादतमोव्याप्तमिति तत्वदृशा जगत् ।

भातं सर्वज्ञसूर्येण प्रीतये श्रीपतेः सदा ॥ १८ ॥

नमोऽमन्दनिजानन्दसान्द्रसुन्दरमूर्तये ।

इन्दिरापतये नित्यानन्दभोजनदायिने ॥ १९ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितम् उपाधिखण्डनं संपूर्णम् ॥