१५ ग्रन्थान्ते मङ्गलाचरणम्

नमो नारायणायार्यवृन्दवन्दितपद्द्वय..

श्रीमज्जयतीर्थटीका

श्रीमदानन्दतीर्थार्यहृदयाम्भोजमन्दिरः ।

कमलाश्लेषरसिकः प्रीयतां नः परः पुमान् ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिततत्त्वोद्योतविवरणं

जयतीर्थभिक्षुविरचितं सम्पूणम् ॥

श्रीवेदेशतीर्थ

एवं समापितप्रकरणव्याख्यानो भगवांष्टीकाकारः स्वग्रन्थप्रचयायान्तेऽपि भगवत्प्रीति-प्रार्थनरूपं मङ्गलं कृत्वा शिष्यशिक्षायै ग्रन्थे निबध्नाति- श्रीमदानन्दतीर्थेति ॥ श्रीमदानन्दतीर्थेत्यादि-विशेषणेन कमलाश्लेषरसिक इत्यनेन च कमलानन्दतीर्थयोरपि प्रीतिराशासितेति ज्ञातव्यम् ।

वेदभेदसुशाखेतं बोधादिफलसंयुतम् ।

भजतामिष्टदं व्याससुरद्रुममहं भजे ॥

मात्सर्यादथवाऽतिकौशलधिया यद्वाऽखिलार्थज्ञता-

मानान्नेदमकारि किन्तु सुधियां तुष्ट्यै स्वधीशुद्धये ।

यद्वा मन्दधियाममन्दमतिवाक्टीकार्थविज्ञप्तये

यत्नोऽयं हरितुष्टिकार्यपि भवेद्वेदेशभिक्षोर्मम ॥

गुरुरघूत्तमयोगिसुशिक्षितो जयमुनेरभिसन्धिरयं मया ।

प्रकटितोऽलवबोधहृदम्बुजस्थितरमापतितृप्तिमभीप्सता ॥

॥ इति श्रीमद्वेदेशभिक्षुविरचितं तत्त्वोद्योतपञ्चिकाव्याख्यानं सम्पूर्णम् ॥

द्वैतद्युमणि

निखिलनिगमगीतानन्तकल्याणधर्मा-

तुलमणिगणभूषो निर्भिदानन्तमूर्तिर्

अघटितघटनायां शक्तशक्तिर्विशेषाद्

अखिलसुजनपालः प्रीयतां वेदनाथः ॥ १ ॥

स्वप्रेरणामात्रत एतदुक्तं मया सुबद्धमथवाप्यबद्धम् ।

तत्सर्वमस्मान्न च मेऽपराधस्ततः प्रसीदेन्मयि मोदतीर्थः ॥ २ ॥

परोत्प्रेक्षितदोषाणामसहिष्णुतया मया ।

यदुक्तं तन्मात्रतः स्यात् प्रीतो जयमुनीश्वरः ॥ ३ ॥

यन्मन्त्राक्षतमाहात्म्याद् ग्रन्थोऽयं पूर्णतां गतः ।

तान् वन्दे सत्यसङ्कल्पानन्वर्थाभिधया युतान् ॥ ४ ॥

औतवादप्रतिभासमार्जितैर्यशोभिरामोदितसन्मनस्ततिः ।

श्रीवासुदेवार्यगुरूत्तमः पिता विद्याप्रदाताऽस्तु मयि प्रसन्नः ॥ ५ ॥

अनया ग्रन्थकृत्या यत्पुण्यं स्यात् तदशेषतः ।

गुरुहृत्पद्मवासाय प्राणेशायार्पयाम्यहम् ॥ ६ ॥

औतचन्द्रिकाछद्मतमोहृत्पाटने पटुः ।

सन्मनःपङ्कजोल्लासी जेजीयाद्द्वैतभास्करः ॥ ७ ॥

तुङ्गातीरस्थसद्व्याघ्रपुरीस्थेन विनिर्मितः ।

श्रीनाथनाम्ना पूर्णोऽयं द्वैतद्युमणिसञ्ज्ञितः ॥ ८ ॥

॥ इति श्री हुलगीश्रीनाथाचार्यकृतं तत्वोद्योतटीकायाव्याख्यानं सम्पूर्णम् ॥

श्रीराघवेन्द्रतीर्थ

ग्रन्थान्ते मङ्गलमाचरति- श्रीमदिति ॥ कमलाश्लेषरसिकत्वोपपादनं परः पुमानिति ॥

तत्त्वोद्योतस्य टीकाया भावदीपो यथामति ।

राघवेन्द्रेण यतिना कृतो विष्णुप्रसत्तये ॥

॥ इति श्रीमत्सुधीन्द्रगुरुपादशिष्येण सर्वतन्त्रस्वतन्त्रेण राघवेन्द्रयतिना विरचितस्तत्त्वोद्योतटीकाभावदीपः सम्पूर्णः ॥एवं समापितप्रकरणव्याख्यानो भगवांष्टीकाकारः स्वग्रन्थप्रचयायान्तेऽपि भगवत्प्रार्थन-रूपं मङ्गलं कृत्वा शिक्षायै ग्रन्थान्ते निबध्नाति- कमलेति ॥ ‘रसो’ रागः ‘सक्तिः’ प्रीतिरिति यावत् । तथा च कमलाया महालक्ष्म्याः ‘कमला श्रीर्हरिप्रिया’ इत्यभिधानात् । आश्लेष आलिङ्गनं तत्र रसिकः प्रीतिविशेषयुक्त इत्यर्थः । ‘परः पुमान्’ उत्तमपुरुष इत्यर्थः । श्रीमदानन्दीर्थेत्यादि-विशेषणेन कमलाश्लेषरसिक इत्यनेन च कमलानन्दतीर्थयोरपि प्रीतिराशासितेति ज्ञातव्यम् ।

वेदेशतीर्थैष्टिप्पण्यामव्याख्यातानि यानि च ।

व्याख्यातान्यपि दुःस्थानि वाक्यानि विवृतान्यलम् ।

श्रीनिवासेन बालानां बोधायैव हि केवलम् ।

अतोऽस्य व्यर्थता नैव शङ्कनीया सुबुद्धिभिः ॥ २ ॥

॥ इति श्रीश्रीनिवासतीर्थविरचिततत्वोद्योतटिप्पणी समाप्ता ॥

गुरुराजीया

समापितग्रन्थव्याख्यानष्टीकाकारः गुर्वन्तर्गतभगवत्प्रीतिमाशास्ते- श्रीमदिति ॥ कमलेत्यनेन भगवत्या अपि प्रीतिः प्रार्थिता भवतीत्यशेषमतिमङ्गलम् ।

यद्विद्याधीशगुरोश्शुश्रूषाऽन्या न रोचते तस्मात् ।

अस्त्वेषा भक्तियुता श्रीविद्याधीशपादयोः सेवा ॥

इति श्रीमत्सकलविद्वच्चक्रचूडामणीनां पदवाक्यप्रमाणविदामग्रेसराणां श्रीमद्विद्याधीशपादानां शिष्येण केशवेन कृतं तत्वोद्योतविषमपदवाक्यार्थविवरणं समाप्तम् ।

॥ इति श्रीपाण्डुरङ्गिकेशवाचार्यविरचिततत्वोद्योतटिप्पणी गुरुराजीया समाप्ता ॥

गोविन्दीया

कमलेति ॥ कमलाश्लेषे रसिक इत्यर्थः । सदयेति ॥ दयासहितेत्यर्थः । कमलामहिले-नेति ॥ लक्ष्मीपतिनेत्यर्थः ।

श्रीकान्तविष्णवे तुभ्यं मुक्तामुक्तेश्वराय च ।

नमः कृष्णाय शान्ताय वन्दिताङ्घ्रिद्वयाय च ॥ १ ॥

राघवेन्द्रार्यशिष्येण गोविन्दाख्यद्विजन्मना ।

तत्त्वोद्योतस्य वाक्यार्था दर्शिता मन्ददृष्टये ॥ २ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिततत्त्वोद्योतविवरणस्य जयतीर्थार्यविरचितस्य वाक्यार्थविवरणं राघवेन्द्रतीर्थशिष्यगोविन्दविरचितं समाप्तम् ॥

नारोपन्तीया

एवं कृतस्य ग्रन्थविवरणस्य भगवत्तत्त्वज्ञापनद्वारा मोक्षसाधनीभूतमहाप्रसादसाधनत्वं, तस्य गुरुप्रीतिद्वारकत्वं दर्शयन्, भगवत्प्रार्थनरूपं ग्रन्थान्तेऽपि मङ्गलमाचरति– श्रीमदानन्देति ॥

इत्यानन्दयतीन्द्रवर्यभगवत्पादद्युनाथोच्चर-

त्तत्त्वोद्योतसुपञ्चिकां जयमुनिर्यो निर्ममे निर्ममः ।

यत्तत्रेह यथामति व्यरचयन्नारायणष्टिप्पणं

तत्कारुण्यबलेन तेन भगवाल्लक्ष्मीपतिः प्रीयताम् ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिततत्त्वोद्योतविवरणस्य जयतीर्थविरचितस्य

टिप्पणं नारोपन्तविरचितं सम्पूर्णम् ॥

जनार्दनभट्टीया

ननूत्तरत्र ‘आनन्दतीर्थपुंसिंहः …’ इत्यादिश्लोका आत्मस्तुतिरूपा अपि

‘इति सर्वज्ञमुनिना मायावादतमोऽखिलम् । निरस्तं ….’

इत्यादाविव प्रयोजनवशाद् आचार्यैरेव किं प्रणीताः । नेत्याह – इतःपर इति ॥ प्रणीता इति ॥ न तु आचार्यप्रणीता इति भावः । ननु आचार्यरचितग्रन्थान्तरसमाप्तौ आचार्यस्तुतिपरश्लोकं नप्रणीतवताम् आचार्यशिष्याणाम् अत्र तादृशश्लोकप्रणयने को विशेषहेतुः? इत्यत आख्यायिकाविशेषहेतुं दर्शयति– एवमत्रेत्यादिना ॥ ननु आचार्यस्तुत्यर्थं श्लोकप्रणयनेऽपि तेषां प्रकरणान्ते निवेशः कुतः? इत्यत आह – ते चेति ॥ नन्वाचार्यप्रणीतानां प्रकरणबहिर्भूतानाम् एषां कथं व्याख्येयत्वम्? इत्यत आह– अत इत्यादिना ॥ अथापि परस्य सङ्गतिरहितानाम् अनेकेषां कथं व्याख्येयता इत्यत आह – अनेकेति ॥ ननु ‘मायावादिदितेःसुतान्’ इति यदि समस्तं पदं तदा दितेरिति भिक्तिर् न श्रूयेत । यदि व्यस्तं पदं तदा मायावादीत्यस्य अनन्वयापत्तिरित्यत आह – मायावादीति ॥ आक्रोशे द्योते षष्ठ्या लोपो न भवतीति सूत्रार्थः । ‘सर्वज्ञहरिः’ इत्यत्र हरिशब्दस्य प्रसिद्धनारायणपरत्वे आचार्यवाचकपदाभावेन अस्य श्लोकस्य आचार्यस्तुतिपरता न स्यादित्यत आह – सर्वज्ञ इति ॥ प्रपलायनमत्रेति ॥ श्लोके ‘क्षमम्’ इत्यस्य ‘उचितम्’ इत्यर्थः । ‘जयत्यानन्दतीर्थ’ इति श्लोके जयतीति भावार्थकत्वे सकर्मकत्वेन कर्म श्रूयेत इत्यत आह – जयतीति ॥ प्रसङ्गादिति ॥ सम्यग्ज्ञानप्रतिबन्धकत्वेन मायावादिमतस्य प्रस्तावादित्यर्थः । ‘जनते’त्यत्र ताल्प्रत्ययस्य भावार्थकत्वभ्रान्तिं वारयति – जनेति ॥ ‘रमाबाहुलताश्रयः’ इत्यत्र – रमाबाहुलते आश्रयो यस्य असौ’ इति बहुव्रीहिभ्रान्तिं वारयति – रमेत्यादिना ॥ एवं समापिततत्वोद्योतव्याख्यानो भगवान् जयतीर्थमुनिर् अन्तेऽपि परमपुरुषं नमति– श्रीमदित्यादिना ॥

ग्रन्थान्ते मङ्गलाचरणम्

पद्मापद्मोद्भवादीदं जगद्यस्य वशे सदा ।

तस्मै नमो रमेशाय पूर्णबोधाय विष्णवे ॥

भैष्मीसत्याकुचद्वन्द्वकाश्मीराङ्कितवक्षसे१ ।

कल्याणगुणपूर्णाय कस्मैचिद्विष्णवे नमः ॥

तत्वोद्योतदयादुत्थतट्टीकाशिशिरद्युतेः ।

उत्थः प्रभामण्डलोऽयं भूयात् सत्पद्मसौख्यदः ॥

मनागेवाखिलैर् मानैर् वन्द्यं विधिशिवादिभिः ।

यद्रूपं देवकीसूनुं तं वन्दे पुरुषोत्तमम् ॥

॥ इति श्रीमज्जयतीर्थमुनिविरचितटीकायाष् टिप्पणं श्रीनिवासोपाध्यायानां शिष्येण जनार्दनवरनामिना विरचितं समाप्तम् ॥

॥ श्री कृष्णार्पणमस्तु ॥