नमो नारायणायार्यवृन्दवन्दितपद्द्वय..
अन्ते निवेशितशिष्यनिबद्धश्लोकार्थविवरणम्
नमो नारायणायार्यवृन्दवन्दितपद्द्वय
श्रीमज्जयतीर्थटीका
इतःपरं भगवदाचार्यशिष्यप्रणीताः श्लोकाः । एवमत्र कथां कथयन्ति । पुण्डरीक-वनाभिधानेन मायिना सह भगवत आचार्यस्य कथाप्रसक्तौ सभ्यसभापतिप्राश्निकेषु मिलितेष्वा-चार्यदर्शनमात्रेण भीतः प्रतिवादी तूष्णीं बभूव । तदाऽचार्येण तस्याकर्णयतः सतः मायामत-निकृन्तनोपन्यासोऽयं निर्मितस् तछ्रवणेनात्यन्तत्रस्तहृदयोऽसौ पलायितवान् । तदाऽऽचार्यशिष्याः प्रतिवादिभयङ्करं भगवन्तमाचार्यं तदभीष्टदेवतां नरहरिं चोपश्लोकयाम्बभूवुः । तेच श्लोका अविच्छिन्नप्रवृत्तये शिष्यैरर्थितेन भगवता प्रकरणान्ते निवेशिता इति । अत एव ते जाह्नवीजलानुगतयामुनोदकवत्प्रकरणान्तर्गता एव । अनेककर्तृकत्वान्न तेषामन्योन्यसङ्गतिः ।
आनन्दतीर्थपुंसिंहो मायावादिदितेः सुतान् ।
विदार्य युक्तिनखरैरप्रतीपोऽभिभासते ॥ १ ॥
श्रीमज्जयतीर्थटीका
‘मायावादिदितेः सुतान्’ इति ‘षष्ठ्या आक्रोशे’१ इत्यलुक् ।
पलायध्वं पलायध्वं त्वरया मायिदानवाः ।
सर्वज्ञहरिरायाति तर्कागमदरारिभृत् ॥ २ ॥
श्रीमज्जयतीर्थटीका
पलायध्वं पलायध्वमिति सम्भ्रमे द्विर्वचनम् । सर्वज्ञः पूर्णप्रज्ञाचार्यः ।
द्रवत द्रवताऽशु मायिनः प्रविशध्वमतन्द्रिता गुहाः ।
कमलारमणाम्बराश्रयः समुदेत्यखिलज्ञभास्करः ॥ ३ ॥
श्रीमज्जयतीर्थटीका
पूर्ववद् द्विर्वचनम् । मायिनश्चोरा मायावादिनश्च । समुदेति यत इति शेषः ।
नृहरिः सकलज्ञनामकः समुपैति हि मायिदानवान् ।
प्रपलायनमत्र तत्क्षमं त्वरया वसतिर्गुहासु च ॥ ४ ॥
श्रीमज्जयतीर्थटीका
हिशब्दो हेतौ ।
जयत्यानन्दतीर्थेष्टदेवता नरकेसरी ।
विपाटिताज्ञानतमःकपाटात्युरुहुङ्कृतः ॥ ५ ॥
श्रीमज्जयतीर्थटीका
जयत्युत्कृष्टो वर्तते । अज्ञानं तम इवाज्ञानतमः प्रकाशप्रतिबन्धकत्वात् । तच्च कपाट-मिवाज्ञानतमःकपाटम् । परमपुरुषाराधनधामप्रवेशप्रतिबन्धकत्वाद् विपाटितमज्ञानतमःकपाटं येन तद्विपाटिताज्ञानतमःकपाटं विपाटिताज्ञानतमःकपाटमत्युरुहुङ्कृतं हुङ्कारो यस्यासौ तथोक्तः । अत्राज्ञानं च मायामतमेवाभिमतं ; प्रसङ्गात् ।
जयत्यमितपौरुषः स्वजनतेष्टचिन्तामणिः ।
अजेशमुखवन्दितो गुणगणार्णवः श्रीपतिः ॥ ६ ॥
श्रीमज्जयतीर्थटीका
जनता जनसमूहः । इष्टसिद्धौ चिन्तामणिरिवेष्टचिन्तामणिः ।
सर्वज्ञसन्मुनीन्द्रोच्चसन्मनःपङ्कजालयः ।
अजितो जयति श्रीशो रमाबाहुलताश्रयः ॥ ७ ॥
श्रीमज्जयतीर्थटीका
रमाबाहुलतयोराश्रयो रमाबाहुलताश्रयः ।
श्रीविजयीन्द्रभिक्षु
आचार्यवाचकपदा, आनन्दतीर्थपुंसिंह इत्यादिश्लोकाः शिष्यकृतत्वान्न प्रकरणे निवेशार्हाः । निवेशिता अपि न व्याख्येयाः । प्रकरणानन्तर्गतत्वादित्यत आह- एवमत्रेति ॥ मायावादिनां दितिसुतत्वेन निरूपणस्य मायावादित्वस्य दितिसुतान्वयं विनाऽसम्भवाद्यथाश्रुतेऽ-पार्थकत्वमाशङ्क्याऽह- षष्ठ्या इति ॥ आक्रोशे गम्यमाने षष्ठ्या अलुक् स्यादिति सूत्रार्थः । द्विर्वचनस्य वैयर्थ्यमाशङ्क्याऽह- पलायध्वमिति ॥ आचार्यवाचकपदाभावादाचार्यस्य हरित्वेन निरूपणं कथमित्यत आह- सर्वज्ञ इति ॥ अस्मिन् श्लोके मायिनश्चोरत्वेन निरूप्यन्त इति ज्ञापनाय मायिशब्देनोभयग्रहणमित्याह- मायिन इति ॥ यथा चोराणां निश्येव सञ्चारो न भास्करोदयानन्तरं तथा मायिनामाचार्योदयात्प्रागेव सञ्चारो न तदुदयानन्तरमिति भावः । सकलज्ञनामक इति ॥ पूर्णप्रज्ञनामक इत्यर्थः ।
इति श्रीविजयीन्द्राख्यभिक्षुणा प्रीतये हरेः ।
तत्वोद्योतस्य विवृतौ गूढो भावः प्रकाशितः ॥
॥ इति श्रीपरमहंसपरिव्राजकाचार्याणां श्रीमत्सुरेन्द्रतीर्थश्रीपादानां शिष्येण विजयीन्द्रभिक्षुणा विरचितस्तत्वोद्योतविवृतेर् भावप्रकाशः समाप्तः ॥
श्रीवेदेशतीर्थ
नन्वानन्दतीर्थपुंसिंह इत्यादिग्रन्थेन कथमाचार्यैः स्वस्तुतिः कृता तस्या गर्हितत्वादित्यत आह- इतःपरमिति ॥ ननु तर्हि न प्रकरणान्ते निवेशनीया इत्यत आह- एवमत्रेति ॥ नन्वस्तु प्रकरणान्ते निवेशस् तथाऽपि न व्याख्येया । अन्यकृतत्वेन प्रकरणानन्तर्गतत्वादित्यत आह- अत एवेति ॥ अतो व्याख्यायन्त इति शेषः । तथा यामुनोदकं गङ्गानिविष्टं गङ्गोदकत्वेन व्यवह्रियते उपादीयते च तथैते श्लोका अपि भगवत्पादीयप्रकरणनिविष्टास्तत्प्रकरणत्वेनैव व्यवह्रियन्ते अतोऽ-स्माभिर्व्याख्यायन्त इति भावः ।
ननु विवक्षितस्य मायावादिनां दितिसुतत्वेन निरूपणस्य मायावादिदितिसुतानिति समास-करणेन विनाऽलाभात्कथं मायावादिदितेः सुतानिति पदद्वयमित्यत आह- षष्ट्या इति ॥ ‘आक्रोशे गम्यमाने षष्ठ्या अलुक्स्यात्’ इति सूत्रार्थः । आचार्यवाचकपदाभावादाचार्यस्य हरित्वेन निरूपणं कथं लभ्यत इत्यत आह- सर्वज्ञ इति ॥ अस्मिन् श्लोके मायिनश्चोरत्वेन निरूप्यन्त इति ज्ञापनाय मायिशब्देनोभयग्रहणमित्याह- मायिन इति ॥ यथा चोराणां भास्करोदयात्पूर्वमेव सञ्चारो न भास्करोदयानन्तरं तथा मायिनामाचार्योदयात्पूर्वमेव सञ्चारो नाचार्योदयानन्तरमपीति भावः । सकलज्ञनामक इति मूलम् ॥ पूर्णप्रज्ञनामक इत्यर्थः। प्रसङ्गादिति ॥ दूष्यत्वेन प्रस्तुतत्वादिति भावः। रमाबाहुलताश्रय इत्यत्र बहुव्रीहिभ्रान्तिं वारयति- रमाबाहुलतयोरिति ॥
श्रीराघवेन्द्रतीर्थ
१माया(वाद)मतनिकृन्तनेति ॥ यद्यपि ‘कृती-१ छेदने’ इत्येव धातुः प्रसिद्धः । तत्र च निकर्तनेति रूपेण भाव्यम् । तथाऽपि ‘नखनिकृन्तनेन’ इत्यादिप्रयोगदर्शनेन ‘कृति छेदने’ इत्यपि धातोरङ्गीकार्यत्वात् ‘इदितो नुं धातोः’ इति नुमागमे सति निकृन्तनेति साधुरिति बोध्यम् । तथा च गीतगोविन्दे-
‘विरहनिकृन्तनकुन्तसमाकृतिकैतकदन्तुरिताः ।’ इति ।
असाविति ॥ पुण्डरीकवननामा मायावादीत्यर्थः । उपश्लोकयाम्बभूवुरिति ॥ श्लोकरूपेण स्तुतिमकुर्वन्नित्यर्थः । निवेशिता इतीतिपदस्य कथां कथयन्तीति पूर्वेणान्वयः । अत इति ॥ आचार्येण निवेशितत्वादेवेत्यर्थः । प्रकरणान्तर्गता एवेति ॥ तथा चास्ति व्याख्येयत्वमिति भावः। मायावादिपदस्य दितिसुतपदेनान्वययोग्यतया यथाश्रुतेऽनन्वयात् समस्तमेवेदं पदं न भिन्नमिति भावेनाऽह - षष्ठ्या इति ॥ आक्रोशो निन्दा । आक्रोशे गम्यमाने षष्ठ्या अलुग् भवतीति सूत्रार्थः । चोरस्य कुलमित्यादाविवेति भावः । दितिसुतवन्निन्दिता मायावादिना इत्यर्थः । अस्मिन् श्लोके मायिनश्चोरत्वेन रूप्यन्त इति भावेनाऽह- मायिनश्चोरा इति ॥ यथा चोराणां सञ्चारो निश्येव न भास्करोदये । तथा मायावादिनामाचार्योदयात्प्रागेव न तदुदयानन्तरमिति भावः ।
सकलज्ञेति ॥ पूर्णप्रज्ञनामकः । हिशब्दो हेताविति ॥ हि यस्मान्मायिदानवानुपैति तस्मादि-त्यर्थः । भावे निष्ठेति भावेनाऽह- हुङ्कृतं हुङ्कार इति ॥ मायिमतनिरासप्रसङ्गादित्यर्थः । ‘ग्रामजन-बन्धु(सहाये)भ्यस्तल्’१ इति समूहार्थे तल्प्रत्यय इति भावेनाऽह- जनता जनसमूह इति ॥ कर्मधारयभ्रान्तिं निराह- इष्टसिद्धौ चिन्तामणिरिवेति ॥ बहुव्रीहिभ्रान्तिं वारयति- रमाबाहुल-तयोराश्रयो रमाबाहुलताश्रय इति ॥ननु आनन्दतीर्थपुंसिंहेत्यादिग्रन्थेनाऽचार्यैः कथं स्वस्तुतिः क्रियते ? तस्या गर्हितत्वा-दित्यत आह– इतः परमिति ॥ ननु तर्हि न प्रकरणान्ते निवेशनार्हा इत्यत आह- एवमत्रेति ॥ निकृन्तनेति ॥ कृती च्छेदने । तत्खण्डनरूपोपन्यास इत्यर्थः । उपश्लोकयाम्बभूबुरिति ॥ उपश्लोकः स्तुतिः । तथा च स्तुतिमकुर्वन्नित्यर्थः । नन्वस्तु प्रकरणान्ते निवेशस्तथापि न व्याख्येया, अन्यकृतत्वेन प्रकरणानन्तर्गतत्वादित्यत आह– अत एवेति ॥ प्रकरणान्ते निवेशनादेवेत्यर्थः । जाह्नवीति ॥ यथा यामुनोदकं गङ्गानिविष्टं गङ्गोदकत्वेन व्यवह्रियते एवमन्यकृतमपि श्लोकजातं प्रकरणनिविष्टं प्रकरणत्वेन व्यवह्रियते । अतोऽस्माभिर्व्याख्यायत इति भावः । मूले आनन्द-तीर्थाख्यः पुंसिहः नरसिंहः । युक्तिनखरैर् युक्तिलक्षणैर्नखैः । प्रतीपः विरोधी तच्छून्योऽप्रतीपः । ननु मायावादिदितिसुतानिति समासे षष्ठीविभक्तेर्लोपेन भाव्यम् अतो दितेः सुतानिति कथं पदद्वयमित्यत आह- षष्ठ्या आक्रोश इति ॥ आक्रोशः निन्दा, तस्यां गम्यमानायां षष्ठ्या अलुक् लोपो न भवतीति सूत्रार्थः । चोरस्य कुलमित्युदाहरणम् । तथा च दितिसुतानां निन्द्यत्वज्ञापनाय षष्ठ्या लोपो न जातः । तथा च सरसि जायत इति सरसिजमितिवदलुक्समासोऽयम् । ततश्चैकमेव पदमिति भावः । सम्भ्रमादिति ॥ कुतूहलातिशयवशादित्यर्थः । नन्वत्राचार्यवाचकपदाभावाद् आचार्यस्य कथं हरित्वेन निरूपणं लभ्यत इत्यत आह- सर्वज्ञ इति । तथा च हे दानवाः१ तर्कागमलक्षणशङ्खचक्रधृत् पूर्णप्रज्ञाख्यो हरिरायाति । अतः पलायध्वमित्यर्थः । हरेर्दानवारित्वादिति भावः । पूर्ववदिति ॥ सम्भ्रमादित्यर्थः । अस्मिन् श्लोके मायावादिनश्चोरत्वेन निरूप्यन्त इति ज्ञापनाय मायिशब्देनोभयग्रहणमित्याह- मायिन इति ॥ आकाशे भास्करोदये तस्कराणां द्रवणादिकं प्रसिद्धम् । भास्करस्य तस्कररिपुत्वात् । एवं हि यस्मात् हे मायावादिरूपाश्चोरा लक्ष्मी-रमणांबराश्रयो ऽखिलज्ञभास्करः पूर्णप्रज्ञाचार्यरूपः सूर्यः सम्यक् उदेति अहो द्रवत द्रवत । अतन्द्रिता आलस्यशून्याः सन्तः गुहां प्रविशध्वमित्यर्थः । मायावादिनां चोरत्वं च, ‘मा वदो मा विजानीहि त्यजास्मच्छास्त्रचोरताम्’ इत्यनुव्याख्याने । यच्च प्रमाणदृष्टानामपि पदार्थानां मिथ्यात्वकल्पनं तच्च प्रमाणविरुद्धत्वादेव प्रकाशतस्करत्वमिति तत्त्वनिर्णये नवकृत्वोऽभ्यासे चोरापहार्यदृष्टान्ते मायावादिनां चोरत्वं निपुणतरमुपपादितमस्तीति ज्ञातव्यम् । हिशब्द इति ॥ हि यस्मात् सकलज्ञनामको नृहरिर्नरसिंहो मायिदानवान् प्रति समुपैति हि तस्मात् । अत्र नृसिंहागमने प्रकर्षेण पलायनं त्वरया शीघ्रं गुहासु वसतिर् निलीनभावेन वासश्चेति द्वयं यत्क्षमं तस्य नृसिंहस्य क्षान्तिकरं कोपोपशमकरमित्यर्थः । नृसिंहागमनसमये भवद्भिः पुरतः स्थितं चेत्कोपेन वधिष्यति तं दृष्ट्वा भवद्भिः पलायनादिकं कृतं चेत्तर्हि तस्य कोपशान्तिर्भविष्यतीति भावः । तमस्साम्यमुपपादयति- प्रकाशेति ॥ तमश्शब्दवाच्यप्रसिद्धान्धकार आलोकादिप्रकाशप्रति-बन्धकः । अज्ञानाख्यं तमस्तु प्रकाशशब्दवाच्यज्ञानप्रतिबन्धकमित्यर्थः । तच्च तदिति । अज्ञानतमश्च तत्कपाटं चेत्यर्थः । तस्य कथं कपाटत्वमित्यतः कपाटमिवेत्युक्तम् । तत्साम्यमुपपादयति– परमपुरुषेति ॥ धाम गृहम् । प्रसिद्धकपाटं धामप्रवेशप्रतिबन्धकं प्रसिद्धम्, अज्ञानतमआख्यं कपाटं च परमपुरुषाराधनरूपधामप्रवेशप्रतिबन्धकमित्यर्थः । हुङ्कारोऽत्युत्कृष्ट-हुङ्कारः । यदीयोत्कृष्टहुङ्कारेणाज्ञानतमःकपाटं विपाटितं भवतीति यावत् । अत्राज्ञानं चेति ॥ सम्यग्ज्ञानविरोधि चेत्यर्थः । प्रसङ्गादिति ॥ दूष्यत्वेन प्रस्तुतत्वादित्यर्थः । यस्मिन् मायावादिमते प्रवृत्ते सति परमपुरुषाराधनं न सम्पद्यत इति भावः । यथोक्तं मध्वविजये-
‘विश्वं मिथ्या विभुरगुणवानात्मनां नास्ति भेदो
दैत्या इत्थं व्यदधत गिरां दिक्षु भूयः प्रसिद्धिम् ।
आनन्दाद्यैर्गुरुगुणगणैः पूरितो वासुदेवो
मन्दं मन्दं मनसि च सतां हन्त नूनं तिरोभूत् ॥’१
‘विज्ञानभानुमति कालबलेन लीने दुर्भाष्यसन्तमससन्ततितो जनेऽन्धे ॥’ इति ।
जनता जनसमूह इति । २ग्रामजनबन्धुसहायेभ्यस्तल् । एभ्यः शब्देभ्यः समूहार्थे तल्प्रत्ययः स्यादिति सूत्रार्थः । तथा चानेन सूत्रेण जनशब्दात् समूहार्थे तल्प्रत्ययविधानादिति भावः । मध्यमपदलोपी समास इत्यभिप्रेत्य व्याचष्टे- इष्टसिद्धाविति ॥ मूले सर्वज्ञा ये सन्तो मुनयो वसिष्ठाद्यास्तेषामिन्द्रः श्रेष्ठो भगवानाचार्यः । अथवा सर्वज्ञः पूर्णप्रज्ञश्चासौ सन्मुनीन्द्रश्च विशेषणस्य परनिपातः । सर्वज्ञाश्च ते सन्मुनीन्द्राश्चेति वा । अथवा सर्वज्ञश्चासौ सन्मुनीन्द्रोच्चसन्मनःपङ्क-जालयश्चेति श्रीशविशेषणम् । बहुलग्रहणाद्विशेषणयोरेव समास इत्यपि केचित् । मनस उच्चत्वं च उत्कृष्टत्वं बह्वर्थविषयकत्वमिति यावत् । बह्वर्थविषयकज्ञानस्यान्तःकरणोपादानकत्वादिति ज्ञातव्यम् । सत्त्वं रागादिदोषाकलुषितत्वम् । एतादृशं मनोलक्षणं यत्पङ्कजं तदेवाऽलयः स्थानं यस्यासौ तथोक्तः । अजितो ऽपराजितः । रमाबाहुलतैवाश्रयो यस्येति बहुव्रीहिभ्रान्तिं वारयति- रमाबाह्विति ॥ तथा च रमाया बाहू रमाबाहू रमाबाहू लते इव कोमलत्वसाम्यात् । तयोराश्रय इत्यर्थः । बाहुभ्यां रमयाऽऽलिङ्गित इति यावत् ।
गुरुराजीया
नन्वव्याख्यातस्योत्तरग्रन्थस्यापि सत्त्वात्कथमशेषमतिमङ्गलमिति ग्रन्थसमाप्तिसूचन-मित्यतस्तेषाम् आचार्यशिष्यप्रणीतत्वेन तत्कृतत्वाभावात्, ३तद्ग्रन्थसमाप्त्यभिप्रायेण युक्तं तत्सूचन-मित्यभिप्रेत्याऽह- इतःपरमिति ॥ शिष्यप्रणीतत्वे तेषां प्रकरणान्ते निवेशो न स्यादित्य-तस्तमुपपादयति- एवमत्रेति ॥ मायिनेति ॥ व्रीह्यादित्वादिनिरिति भावः । निकृन्तनेति ॥ यद्यपि निकर्तनेति वक्तव्यम् । अनिदित्वेन ‘इदितो नुं धातोः’ इति नुमोऽप्राप्तेः । तथाऽपि धातोरिति इष्टसिद्ध्यर्थं योगविभागाश्रयणस्य आकरे स्थितत्वान्नुमि सति तदुपपत्तिरित्यन्यत्र विस्तरः । अविच्छिन्नेति ॥ अन्ते आचार्येणानिवेशे विच्छेदध्रौव्यान्नाविच्छेदेन प्रवृत्तिरिति भावः । तथात्वे पाठनव्याख्यानादिरूपप्रवृत्त्युपपत्तिरित्यतस्तां दृष्टान्तोपदर्शनेनोपपादयति- अत इत्यादिना ॥
सङ्गतिरिति ॥ अतस्तदनुक्तिर्न दोषायेति भावः । ननु दितेः सुता दितिसुताः, मायावादिनश्च ते दितिसुताश्चेति षष्ठीतत्पुरुषगर्भविशेषणसमासे ‘सुपो धातुप्रातिपदिकयोः’ इति सुब्लोपे च सति मायावादिदितिसुतानिति भवितव्यम् । तत्कथं दितेः सुतानिति षष्ठीश्रवणमित्यतस्तदलोपे निमित्त-कथनेन तच्छ्रवणमुपपादयति- मायावादिदितेःसुतानिति ॥ ननु पलायध्वमित्येकोक्त्यैव विवक्षिताभिधानसिद्धेर्द्विरुक्तिरधिकेत्यतः, सम्भ्रमेण प्रवृत्तौ यथेष्टमनेकधा प्रयोगः कार्य इति न्यायाद्युक्ता द्विरुक्तिरिति भावेनाऽह- सम्भ्रमे द्विर्वचनमिति ॥ नन्वत्राऽचार्यवाचकपदाश्रवणात् कथमियं तत्स्तुतिरित्यतः सर्वज्ञपदमेव तथेति भावेन तत्परतया व्याचष्टे- सर्वज्ञः पूर्णप्रज्ञाचार्य इति ॥
पूर्ववदिति ॥ ‘पलायध्वं पलायध्वम्’ इतिवत् ‘द्रवत द्रवत’ इति सम्भ्रमे द्विर्वचनमित्यर्थः । मायिशब्दस्य मायावादिमात्रपरत्वभ्रमनिरासाय चोरपरत्वमपि द्रष्टव्यमित्याह- मायिनश्चोरा इति ॥ यथा चोराणां भास्करोदयात्पूर्वमेव सञ्चारो, न तदुदयानन्तरमपि तथा मायावादिनामप्याचार्योदयात् प्रागेव सञ्चारो युक्तः । न तदुदयानन्तरमपीति भावेन योजयति- समुदेति यत इति शेष इति ॥ सकलज्ञ इति ॥ सर्वज्ञ इतिवद्व्याख्येयम् ।
ननु जयेः, राजा शत्रून् जयतीत्यादौ कर्मापेक्षत्वदर्शनाद् अत्र कर्मानुक्तिर्दोष इत्यतोऽभि-भवार्थकस्य सकर्मकत्वेऽपि उत्कर्षप्राप्त्यर्थकस्य जयेरकर्मतया-
‘जयेर्जयाभिभवयोराद्येऽर्थेऽसावकर्मकः ।
उत्कर्षप्राप्तिराद्योऽर्थः द्वितीयेऽर्थे सकर्मकः ॥ ’
इति वचनानुसारेण सकर्मकत्वनियमाभावात् कर्मानुक्तिर्न दोषायेति भावेनोत्कर्षार्थतया व्याचष्टे- जयत्युत्कृष्टो वर्तत इति ॥ इवार्थमुपदर्शयति- प्रकाशेति ॥ इवार्थकथनम्- परमपुरुषेति ॥ प्रसङ्गादिति ॥ दूष्यत्वेनेति शेषः ।
समूह इति ॥ ‘ग्रामजनबन्धु(सहाये)भ्यस्तल्’ इति तल्प्रत्यय इति भावः । गुणगणार्णव इति ॥ गुणैरर्णव इत्यर्थः । गुणगणैरिति प्रकृत्यादिभ्य उपसंख्यानात्तृतीया । तृतीयेति योगविभागाद्बहुलग्रहणाद्वा तृतीयासमास इति भावः । रमाबाहुलतयोराश्रय इति ॥ बहुव्रीह्यर्थस्य बाधितत्वाद् वर्तिपदार्थप्रधानत्वेन समासप्राधान्याच्चेति भावः ।
गोविन्दीया
अवच्छिन्नेति ॥ विच्छित्त्यभावेन प्रवृत्तय इत्यर्थः । तेषामिति ॥ श्लोकानामित्यर्थः । दितेः सुतानितीति ॥ ‘दितेःसुतान्’ इत्यत्र दितिप्रातिपदिकात् स्थितायाः षष्ठीविभक्तेः ‘षष्ठ्या आक्रोशः’ इति सूत्रेणालुगित्यर्थः । तर्केति ॥ तर्कागमावेव दरारी तौ । कमलेति ॥ कमलारमण एवाम्बरमाकाशः स एवाश्रयो यस्येत्यर्थः । प्रकाशेति ॥ ज्ञानप्रतिबन्धकत्वादित्यर्थः । परमेति ॥ परमपुरुषाराधनाख्यधामप्रवेशप्रतिबन्धकत्वादित्यर्थः । सर्वज्ञेति ॥ सर्वज्ञश्चासौ सन्मुनीन्द्रश्च, तस्योच्चसन्मन एव पङ्कजं तदेवाऽलयं यस्य स इत्यर्थः । रमेति ॥ रमाबाह्वाख्यलतयोराश्रयतीत्याश्रय इत्यर्थः ।