ब्रह्मेशानादिभिर्देवैर्यत्प्राप्तुं नैव शक्यते ..
रामानुजमतनिरसनपूर्वकम् ईश्वरस्य मुक्तनियामकत्वसमर्थनम्
श्रीमज्जयतीर्थटीका
अपर आह- अस्तु मुक्तस्येश्वराद्भेदस्तथापि न तन्नियन्तृत्वमीश्वरस्योपपद्यते । नियम्यनियामकभावो हि न भेदमात्रेण सम्भवति । किन्तु हीनोत्तमभावेन च । न चासौ प्रकृतेऽस्ति प्रमाणाभावादित्यत आह-
मूल
‘ब्रह्मेशानादिभिर्देवैर्यत्प्राप्तुं नैव शक्यते ।
तद्यत्स्वभावः कैवल्यं स भवान् केवलो हरे ॥’
ब्रह्मेशानादिशब्देन मुक्तामुक्ता गृह्यन्ते । सङ्कोचे कारणाभावात् । यत्कैवल्यं सर्वोत्तमत्वम् । यत्स्वभावो यस्य नैसर्गिकम् ।
मूल
***परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति । ***
कर्तृविशेषानुक्तेर्मुक्ता अमुक्ताश्चेति शेषः । साम्यवचनानां गतिरन्यत्रैवोक्ताऽस्तीत्यत्र नावादीदाचार्यः । एवं मुक्तनियन्तृत्वादावपीति ।
श्रीविजयीन्द्रभिक्षु
इयतैव प्रबन्धेन सिषाधयिषितार्थसिद्धेरुत्तरग्रन्थवैयर्थ्यमित्याशङ्क्य तदवतारणाय मतान्तरमुत्थापयति- अपर आहेति ॥ एतन्मतनिरासकत्वेन मूलमवतारयति- अत आहेति ॥ ब्रह्मेशानादिपदेनेति ॥ आदिपदेनेत्यर्थः । सङ्कोच इति ॥ यद्यपि देवशब्द एव सङ्कोचेनोक्तमात्रग्रहणे कारणम् । पदविशेषस्थजीवानामेव देवशब्दार्थत्वात् । तथाऽप्यत्र न देवशब्द ईशादिपदविशेष-परः । किन्तु मुक्तियोग्यजीवस्वरूपमात्रपर एव ।
‘त्रिविधा जीवसङ्घास्तु देवमानुषदानवाः ।’
इत्यादौ देवशब्दस्य तदर्थत्वदर्शनात् । आदिशब्देनामुक्तमात्रपरत्वेन सङ्कोच इति भावः । परो मात्रयेति श्रुतौ मुक्तामुक्तग्रहणे नियामकं वदन् शेषं पूरयति- कर्तृविशेषानुक्तेरिति ॥
ननु ‘निरञ्जनः परमं साम्यमुपैति’, ‘यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति’ इत्यादिश्रुतौ मुक्तस्य परमात्मसाम्यप्रतिपादनान्न तदपेक्षयेश्वरस्योत्तमत्वसिद्धिरित्यत आह- साम्यवचनाना-मिति ॥ उक्तेति ॥ ‘न त्वत्समश्चाभ्यधिकश्च दृश्यते’ ‘एतावताऽलं ननु सूचितेन गुणैरसाम्याति-शयेन’ इत्यादिश्रुतिस्मृत्यनुसारेण ‘पुण्यपापे विधूय’ इत्याद्युपपादनानुसारेण च पापविमुक्तत्वादिना सादृश्यमेव तच्छ्रुत्यर्थ इत्युक्तेत्यर्थः । ननु मुक्तनियामकत्वं यथा परमात्मन एवं ब्रह्मादेरपि श्रूयते इति सम्भवतीति कथं परमात्मनः सर्वोत्तमत्वमित्यत आह- एवमिति ॥ ब्रह्मादीनां स्वापेक्षयाऽ-वरनियामकत्वेऽपि न सकलनियामकत्वमित्यन्यत्रोक्तमिति भावः ।
श्रीवेदेशतीर्थ
नन्वस्मिन् प्रमाणे ईश्वरस्य मुक्तोत्तमत्वं कथं प्राप्तमित्यत आह- ब्रह्मेशानेत्यादि ॥ आद्ययच्छब्दस्यान्वयाप्रतीतेराह- यत्कैवल्यमिति ॥ इयमत्र योजना । हे हरे ब्रह्मेशानादि-भिर्देवैर्यत्कैवल्यं प्राप्तुं नैव शक्यते । तत्कैवल्यं यद् यस्य स्वभावो नैसर्गिकम् । स भवानेव केवलः केवलशब्दवाच्यः । तत्प्रवृत्तिनिमित्तस्य कैवल्यस्य त्वय्येव स्वभावत्वेन सत्त्वादिति । मुक्ता-मुक्तोत्तमत्वरूपप्रकृतार्थलाभाय शेषं पूरयति– कर्तृविशेषेति ॥
ननु यथा मुक्तेश्वरयोर्हीनोत्तमभावे प्रमाणमस्ति तथा साम्येऽपि ‘निरञ्जनः परमं साम्यमुपैति’‘मम साधर्म्यमागताः’ इत्यादिप्रमाणमस्ति । अतः सत्प्रतिपक्षतेत्यत आह- साम्यवचनानामिति ॥ परानन्ददुःखाभावादिनैव साम्यं न तु सर्वात्मनेत्यन्यत्रोक्तास्तीत्यर्थः ।
ननु परमप्रमेये मुक्तनियन्तृत्वे तथा चिच्चेत्यनियन्तृत्वाखिलसच्छक्तित्वादौ च श्रुत्यादिक-माचार्यैः कुतो नोक्तमित्यत आह- एवमिति ॥ अन्यत्र श्रुत्यादिकमुदाहृतमिति शेषः ।
श्रीराघवेन्द्रतीर्थ
नैसर्गिकमिति ॥ सहजमनौपाधिकमिति यावत् । मात्रया मात्राया मितेः परोऽसि हे विष्णो तन्वा वृधान वर्धमान ते महित्वं महिमानं नान्वश्नुवन्ति । के इत्यत आह- कर्तृविशेषेति ॥
ननु ‘निरञ्जनः परमं साम्यमुपैति’‘शुद्धे शुद्धमासिक्तं तादृगेव भवति । एवं मुनेर्विजानत आत्मा भवति गौतम’ इत्यादिश्रुतिभिः साम्यावगतेः कथं हीनोत्तमभाव इत्यत आह - साम्यवचनाना-मिति ॥
‘लिङ्गभेदः परानन्दो दोषाभावः समा मताः ।’
इत्यादिना द्वितीयगीताभाष्ये, १ज्ञानपादीयानुव्याख्याने च ‘दुःखाद्यभावसाम्यं च’ इत्यादिना गतिरुक्तेत्यर्थः । एवमिति ॥ साम्यवचनगतेरन्यत्रोक्तत्वेनात्रानुक्तत्ववन्मुक्तनियन्तृत्वादावपि प्रमाणानामन्यत्र ज्ञानपादीयानुव्याख्यानादावुक्तत्वादत्र नावादीदिति ज्ञेयमित्यर्थः ।अपरो रामानुजः । हीनोत्तमभावेनेति ॥ नीचोच्चभावेनेत्यर्थः । असौ हीनोत्तम-भावः । प्रकृत इति ॥ मुक्तेश्वरयोरित्यर्थः । नन्वस्मिन् प्रमाणे ईश्वरस्य मुक्तोत्तमत्वं न प्रतिपादितं ब्रह्माद्यमुक्तोत्तमत्वस्यैव प्रतिपादनप्रतीतेरित्यत आह-ब्रह्मेशानादिशब्देनेति । तथा च अयमर्थः । हे हरे ब्रह्मेशानादिभिर्देवैर्यत् कैवल्यं सर्वोत्तमत्वं प्राप्तुं नैव शक्यते । तत्कैवल्यं यत्स्वभावः यस्य तव नैसर्गिकरूपं स्वाभाविकं स्वरूपं स भवान् केवलः ‘अस्माकमस्तु केवलः’ इति श्रुतौ केवलशब्दवाच्यत्वेन प्रसिद्धः केवलशब्दप्रवृत्तिनिमित्तस्य सर्वोत्तमत्वस्य त्वय्येव सद्भावादिति । अनेन वाक्येन मुक्तेश्वरयोर्हीनोत्तमभावः स्पष्टमवगम्यते । अत्रैव पुनः प्रमाणान्तरमुच्यते मूले– परो मात्रयेति ॥ अत्र ते महित्वम् अमुक्ता नाऽप्नुवन्तीति प्रतीतेर्मुक्तोत्तमत्वरूपप्रकृतार्थालाभाच्छेषं पूरयति- कर्तृविशेषेति ॥ तथा च तन्वा १शरीरेण च वृधान वावृधान अभिवृद्धः न तु कीर्ति-मात्रेण । तथा च हे विष्णो त्वं मात्रया मितेः परोऽसि अपरिमितोऽसीत्यर्थः । ते महित्वं महिमानं मुक्ता अमुक्ताश्च केऽपि नाश्नुवन्तीति श्रुत्यर्थः । ननु यथा मुक्तेश्वरयोर्हीनोत्तमभावे प्रमाणमस्ति तथा साम्येऽपि ‘निरञ्जनः परमं साम्यमुपैति’ इत्यादि प्रमाणमस्ति अतः सत्प्रतिपक्षतेत्यत आह– साम्यवचनानामिति ॥ परानन्ददुःखाभावादिनैव साम्यं न तु सर्वात्मनेत्येवं गतिरन्यत्र तत्त्वनिर्णयादौ ‘दुःखाभावः परानन्दः’ इत्यादिप्रमाणोदाहरणेनोक्तास्तीत्यर्थः । ननु परमप्रमेये मुक्तनियन्तृत्वे तथा चिच्चेत्ययन्तृत्वेऽखिलसच्छक्तित्वे स्वतन्त्रत्वेऽशेषदर्शनशब्दोक्तसर्वज्ञत्वे च श्रुत्यादिकमाचार्यैः कुतो नोदाहृतमित्यत आह- एवमिति ॥ अन्यत्र श्रुत्यादिकमुदाहृतमिति शेषः । अतोऽत्र नावादीदिति सम्बन्धः । ‘अमृतस्यैष सेतुः’, ‘मुक्तानां परमा गतिः’, ‘चेतनाचेतनसर्वसत्तादि च यदिच्छया लभते’, ‘पराऽस्य शक्तिर्विविधैव श्रूयते’, ‘स एष हरिः परमः स्वतन्त्रोऽधिगुणः’, ‘यः सर्वज्ञः सर्ववित्’ इत्यादि श्रुत्यादिकं द्रष्टव्यम् ।
गुरुराजीया
ननु साधकबाधकभावाभावाभ्यामेव वस्तुसिद्धेर् भेदे प्रमाणान्यभिधाय भेदाभावसाधक-प्रमाणानां ‘सादृश्याद्यर्थान्येव योजनीयानि’ इत्यादिना यथा गतिः कथिता, तथा हीनोत्तमभाव-साधकानि ब्रह्मेशानादिभिर्देवैर् इत्यादीनि स्मृतिश्रुतिरूपप्रमाणान्यभिधाय, तद्विपरीतसाम्यादि-बोधकानां ‘परमं साम्यमुपैति, मम साधर्म्यमागताः’ इत्यादिवचनानां गतिरपि आचार्येणावश्य-मभिधातव्या । अन्यथा निर्णयानुपपत्तेः । तथा च साम्यादिवचनानां गतेरनुक्तत्वान् न्यूनत्वमित्यत आह- साम्यवचनानामिति ॥
नन्वेवमस्तु मुक्तेश्वरयोर् हीनोत्तमभावस् तथाऽपीश्वरस्य मुक्तनियन्तृत्वादौ साधकश्रुत्यादि-प्रमाणानामनुपन्यासे तद्विपरीतार्थबोधकप्रमाणानां गत्यकथने तस्य मुक्तनियन्तृत्वाद्यसिद्ध्यापत्त्या तत्सिद्ध्यर्थं तत्साधकप्रमाणान्यभिधाय तद्विपरीतार्थबोधकानां प्रमाणानां गतेरवश्यं वक्तव्यत्वात् प्रकृते चाऽचार्येण तदनुक्तेर् न्यूनत्वमेवेत्यत आह- एवमिति ॥ आदिपदेन सर्वत्राखिलसच्छक्ति-रित्यादीनां परिग्रहः । ततश्च यथा साम्यवचनानां गतिरन्यत्रैवोक्तेति न तामत्रावादीदाचार्यः । तथा मुक्तनियन्तृत्वादौ साधकप्रमाणान्यभिधाय तद्विपरीतार्थबोधकानां प्रमाणानां गतिरप्या-चार्येणान्यत्रैवोक्तेति न तामप्यत्रावादीदाचार्य इति पूर्वानुवृत्त्या सम्बन्ध इति भावः ।
यत्तु यथा हीनोत्तमभावे प्रमाणमस्ति तथा साम्येऽपि ‘निरञ्जनः परमं साम्यमुपैति’, ‘मम साधर्म्यमागताः’ इत्यादिप्रमाणमस्ति । अतः सत्प्रतिपक्षतेत्याशङ्कानिवर्तकतया साम्यवचनाना-मित्यादिवाक्यप्रवृत्तिमभिधाय, ‘परानन्ददुःखाभावादिनैव साम्यं न तु सर्वात्मना’ इत्यन्यत्र गतिरुक्ता’ इत्यर्थवर्णनम् । तदसत् । उक्तयोजनायां ‘साम्यवचनानां गतिरन्यत्रोक्ता’ इत्येव वक्तव्यतया ‘नात्रावादीदाचार्यः’ इत्यंशस्याधिकत्वेन वैयर्थ्यापातात् । एतदनुरोधेन साम्य-वचनानामत्र गत्यकथनप्रयुक्तन्यूनताशङ्कामात्रनिवर्तकत्वावगत्या, शङ्कानिवर्तकतयैवैतद्ग्रन्थाव-तारस्य कर्तव्यतया, त्वदुक्तरीत्यैतद्ग्रन्थावतारस्यायुक्तत्वाच्च ।
यच्च परमप्रमेये मुक्तनियन्तृत्वे तथा चिच्चेत्यनियन्तृत्वाखिलसच्छक्तित्वादौ च साधकं श्रुत्यादिकम् आचार्यैः कुतो नोक्तमित्याशङ्कानिवर्तकतया एवमित्यादिग्रन्थमवतार्य ‘अन्यत्र श्रुत्यादिकमुदाहृतं’ इति शेषपूरणेन वाक्यनैराकाङ्क्ष्योपपादनम् । तदसत् । मुक्तनियन्तृत्वादौ साधकानुक्त्यैव तद्विपरीतार्थबोधकप्रमाणगत्यनुक्त्याऽपि न्यूनताशङ्काया उत्थापयितुं शक्यत्वेन त्वदुक्तरीत्याऽऽक्षेपस्यापरिपूर्णत्वात् । ‘साधकोक्तिपूर्वकं तद्विपरीतार्थबोधकप्रमाणगति-रन्यत्रोक्तेति नात्रोक्ता’ इति पूर्वानुवृत्त्यैवैतद्ग्रन्थनिराकाङ्क्षताया वक्तव्यत्वेन शेषपूरणेन तन्निराकाङ्क्षताव्युत्पादनस्याश्लिष्टत्वाच्च ।
अत एव ‘मुक्तेश्वरयोर् हीनोत्तमभावविरोधिप्रमाणं भगवत्साम्यवचनं वा तस्यैवोत्तमवचनं वेति विकल्प्य आद्यपक्षं दूषयति- साम्यवचनानामिति ॥ द्वितीयं दूषयति- एवमिति ॥ मुक्त-कर्तृकनियमनादावित्यर्थः । तद्विषयकवचनानां गतिरन्यत्रोक्तेति पूर्वानुवृत्त्याऽन्वयः’ इति केषाञ्चित्पक्षोऽपि निरस्तः । नात्रावादीदित्यंशवैयर्थ्यमित्यादिदोषस्यात्राप्यविशिष्टत्वात् । ‘मुक्त-कर्तृकनियमनादिविषयवचनानां गतिरन्यत्रैवोक्तेति नात्रोक्ता’ इति पूर्वानुवृत्त्यैवान्वयस्य श्लिष्टत्वेन, अन्यत्रोक्तेति पूर्वान्वयस्याश्लिष्टत्वाच्च ।
गोविन्दीया
भेदमात्रेणेति ॥ केवलभेदेनैव नियम्यनियामकभावः सम्भवति, किन्तु हीनोत्तम-भावसहितेनेत्यर्थः । तदिति ॥ यत्स्वभावः यत्कैवल्यं सर्वोत्तमत्वं तद्द्वयमित्यर्थः । पर इति ॥ ते महित्वं महिमानं नान्वश्नुवन्ति न प्राप्नुवन्तीत्यर्थः । साम्यवचनानामिति ॥ आनन्दसुखानुभवेन साम्यं न तु सर्वात्मनेति साम्यवचनानां गतिरन्यत्रैव ग्रन्थान्तरे उक्तमस्तीत्यत्र नावादीदाचार्य इत्यर्थः । एवमिति ॥ हीने भ्रमभावे यथा प्रमाणमस्ति, एवं तथा मुक्तनियन्तृत्वादावपि प्रमाणमस्ति तच्चाप्यन्यथाऽत्रोक्तमित्यत्र न प्रदर्शितमाचार्येणेत्यर्थः ।
नारोपन्तीया
साम्यवचनानां गतिरिति । ‘निरञ्जनः परमं साम्यमुपैति’ इत्यादिभिर्दुःखादिनिवृत्ति-मादायैव भगवत्साम्यं बोध्यम् । न पुनस्तत्तुल्यज्ञानानन्दादिकमिति । अत एव श्रुतौ निरञ्जन इति पदं, यत्परमं साम्यमुपैति तन्निरञ्जनत्वेनैव । न तु सर्वगुणैरिति । अन्यथा तद्वैयर्थ्यापत्तेरिति । एवं क्वचित्स्वयोग्यगुणपूर्णताऽपि ग्राह्या । नैतावता साम्यम् । यथा समुद्रोऽपि पूर्णः पल्वलं च पूर्णमित्यु-च्यते । नैतावता द्वयोस्तुल्यता । तथा प्रकृतेऽपि साम्यश्रुतीनामभिप्राय इत्यर्थः ।
जनार्दनभट्टीया
न भेदमात्रेणेति ॥ देवदत्तयज्ञदत्तयोरपि परस्परनियामकत्वापत्तेरिति भावः । न चासा-विति ॥ हीनोत्तमाभाव इत्यर्थः । यत्पदकेवलपदयोर् व्यवहितत्वाद् विशेषविशेष्यभावाप्रतीतेस् तत्प्रदर्शनपूर्वकं कैवल्यपदेन द्वितीयराहित्यप्रतीत्या निर्गुणत्वादिप्रतीतिं वारयितुमाह– यत्कैवल्यमित्यादिना ॥ यत्स्वभाव इत्यत्र पदद्वयप्रतीतिं भावशब्दस्य धर्मार्थकप्रतीतिं च वारयितुमाह– यत्स्वभाव इत्यादिना ॥
ननु परमात्मनो मुक्तामुक्तनियामकत्वे ‘परमं साम्यमुपैति’ इति साम्यवचनानां का गतिः? इत्यत आह – साम्यवचनानामिति ॥ अन्यत्रेति ॥ उपनिषद्भाष्यादावित्यर्थः । संसारदशायां जीवस्य परमात्मना इतरजीवैश्च चिदानन्दाद्यात्मकत्वेन साम्यसत्त्वेऽपि मुक्तौ दुःखाभावसत्यसङ्कल्पत्वादिनाऽपि साम्यमुपैतीत्यत्र गतिरुक्ता इत्यर्थः । ‘लिङ्गभेदो परानन्दो दुःखाभावः समानता१’ इति स्मृतेः । अन्यथा मुक्तस्य ईश्वरवद् जगत्स्रष्टृत्वादिकं स्यात् । तच्च ‘जगद्व्यापारवर्ज्यम्’ इति सूत्रेण मायावादिनोऽपि निषिद्धमिति द्रष्टव्यम् ।