०५ आगमेनापि मुक्तेश्वरभेदसमर्थनम्

‘इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ..

आगमेनापि मुक्तेश्वरभेदसमर्थनम्

श्रीमज्जयतीर्थटीका

एवं प्रत्यक्षानुमानाभ्यां मुक्तेश्वरभेदं प्रसाध्याऽगमेनापि साधयति-

मूल

***‘इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । ***

सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥’१

अत्र साधर्म्यमागता इति भेदोक्तिः । न ह्यभेदे समानधर्मत्वमस्ति । न चैते न मुक्ता इति वाच्यम् । सर्गप्रलयाभावलिङ्गात् ।

मूल

***‘यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् । ***

तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ॥’२

पश्यतीति पश्यो जीवः । अत्रापि साम्यमुपैतीति भेद उच्यते । संसारेऽपि साम्यसद्भावात् परममिति विशेषणम् । अभिव्यक्तमिति यावत् । अत्र ‘पुण्यपापे विधूय’ ‘निरञ्जनः’ इति मुक्तलिङ्गम् ।

मूल

इ(त्यादि)ति मुक्तभेदवचनेभ्यश्च ।

मुक्तेश्वरभेदः सिद्ध्यतीति शेषः ।

श्रीविजयीन्द्रभिक्षु

एवमिति ॥ मूले प्रथमं स्मृत्युदाहरणं श्रुत्युपबृंहणत्वेन तदर्थनिर्णायकतामभिप्रेत्य । ननूदाहृतस्मृत्यादिकं न भेदपरम् । तत्र तस्याप्रतीतेरित्याशङ्क्य व्याचष्टे- अत्रेति ॥ भेदनियतधर्म-प्रतिपादकत्वाद्भेदपरत्वमिति भावः । सर्गेति ॥ न चैतज्जीवन्मुक्तलिङ्गतयाऽप्युपपन्नमिति वाच्यम् । जीवन्मुक्तौ प्रमाणाभावादिति भावः । ननु परमसाम्यमत्यन्ताभेद एवान्यस्यानिरूपणादित्यत आह-अभिव्यक्तमितीति ॥ नन्वेतावता मुक्तेश्वरभेदपरत्वं कथं प्रतीयत इत्यत आह- अत्रेति ॥ मुक्तभेदवचनेभ्यश्चेति ॥ मुक्तस्वरूपप्रतिपादकवचनेभ्यश्चेत्यर्थः ।

श्रीवेदेशतीर्थ

साधर्म्यमिति मूलम् ॥ दुःखाभावपरानन्दत्वादिना साधर्म्यमित्यर्थः । एवमुत्तरत्रापि । सर्गप्रलयेति ॥ अनेनैतत्प्रदर्शनार्थमेव द्वितीयार्धोदाहरणमिति सूचितम् । पुण्यपापे विधूय इति मूले पुण्यमनिष्टमिति ज्ञेयम् । ननु परमं साम्यं नामाभेद एवान्यस्यानिर्वचनादित्यत आह- अभि-व्यक्तमिति ॥

श्रीराघवेन्द्रतीर्थ

प्रत्यक्षेति ॥ ईश्वरप्रत्यक्षमुक्तत्वाद्यनुमानाभ्यामित्यर्थः । इदं ज्ञानमिति ॥ चतुर्दशेऽध्याये गीतायामुच्यमानबन्धत्यागोपायभगवज्ज्ञानमित्यर्थः । इत्यादिभेदवचनेभ्यश्चेत्यग्रेऽभिधानादत्र भेद-प्रत्यायकं दर्शयति- अत्रेति ॥ उत्तरार्धोक्तेरुपयोगमाह- न चैत इति ॥ पश्यतीति पश्यो जीव इति ॥ ‘दृशिर्= प्रेक्षणे’ इत्यतः पचाद्यचि कृते, छान्दसे पश्यादेशे रूपमिति भावः१ । विधूतपुण्यपापत्वादेव निरञ्जन इति भावेनोक्तम्- पुण्यपापे विधूय निरञ्जन इतीति ॥

संसारेऽपीति । ज्ञानानन्दादिसाम्यस्य जीवस्वरूपत्वादित्यर्थः ।

गुरुराजीया

सर्गेऽपीत्युत्तरवाक्योदाहरणस्य प्रकृतानुपयुक्ततया वैयर्थ्यमाशङ्क्य तद्व्यावर्त्यशङ्कोप-दर्शनेन तदिति भावेन तामुत्थापयति- न चैत इति ॥ ननु परमं साम्यं नामाभिन्नत्वमेव । तद्व्यति-रेकेण तदनिर्वचनादतस्तदन्यथा निर्वक्ति- अभिव्यक्तमिति ॥ ज्ञापकश्चायमर्थो न कारक इति भावेनानुरूपं शेषमाह- भेदः सिद्ध्यतीति शेष इति ॥