०३ जीवेश्वरयोर्भेदवादिमतनिरासः

न चोपाधिभेदमात्रेणेश्वरस्य दुःखाभावः ..

जीवेश्वरयोर्भेदवादिमतनिरासः

श्रीमज्जयतीर्थटीका

अत्रापर आह- ‘नेश्वरेण स्वस्मात्संसारिणो भेददर्शनेऽपि मुक्तस्य भेदः सिद्ध्यति । न हि वयं मायावादिन इव जीवब्रह्मणोर्जीवानां वा भेदमपारमार्थिकं ब्रूमः । किं तूपाधिकृतमेव । अतः पारमार्थिकत्वादीश्वरेणानुभूयमानत्वं च युज्यते । उपाधिकृतत्वादुपाधिनाशे मुक्तौ तन्नाशात् स्वाभाविकाभेदश्च सिद्ध्यति’ इति । अत्रोच्यते । स्यादेवं यद्यभेदः स्वाभाविको भेदस्त्वौपाधिक इत्युपपद्येत । न चैवम् । अभेदस्य स्वाभाविकत्वे सुखदुःखाद्यनुसन्धानप्रसङ्गात् । न हि चैतन्यैक्ये स्वाभाविके वर्तमानसुखदुःखाद्यनुसन्धानं क्वचिद् दृष्टम् ।

ननु वयं जीवान् परब्रह्मणोंऽशानभ्युपगच्छामः । तत्रांशानामेव किमन्योन्यसुखदुःखाद्यनु-सन्धानमापाद्यते । उतांशिनः । नाऽद्यः । हस्तपादाद्यवच्छिन्नात्मांशानां तदभावात् । औपाधिक-भेदस्य विद्यमानत्वाच्च । अत एव न द्वितीयोऽपीति । मैवम् । अंशिनः परमेश्वरस्यैव स्वाभाविकाभेदे सकलजीवगतसुखाद्यनुसन्धानापादनात् ।

ननूक्तमत्र जीवेश्वरयोः स्वभावेनाभेदेऽप्युपाधिकृतभेदस्य सत्त्वान्न जीवगतसुखदुःखाद्यनु-सन्धानप्राप्तिरीश्वरस्येति, तत्राऽह-

मूल

न चोपाधिभेदमात्रेणेश्वरस्य दुःखाभावः ।

उपाधिकृतो भेद उपाधिभेदः । दुःखमित्युपलक्षणम् । सति स्वाभाविकाभेद इति मात्रशब्देन सूचयति ।

कुतो नेत्यत आह-

मूल

हस्तपादाद्युपाधिभेदेऽपि भोक्तुरेकत्वानुभवात् ।

अत्राप्युपाधिकृतो भेद उपाधिभेदः । भोक्तुरेकत्वानुभवादित्येकस्यैवांशिनः सर्वानुसन्धान-दर्शनादिति यावत् । इदमुक्तं भवति । यथा देवदत्तेन स्वगतं सुखाद्यनुसन्धीयते । तथेश्वरेणाप्यभेदे सति सकलजीवगतमनुभूयेतेत्यापादिते नोपाधिभेदादिति वदतः परस्य कोऽभिप्रायः । किं वैषम्यमात्रप्रदर्शनमुतानुसन्धाने नाभेदमात्रं प्रयोजकं, किन्नाम ? औपाधिकभेदाभावे सति । न चैतत्प्रयोजकं प्रकृतेऽस्तीति व्यापकनिवृत्त्या व्याप्यानुसन्धाननिवर्तनमिति । नाऽद्यः । तस्यानुप-युक्तत्वात् । न द्वितीयः । हस्तपादाद्युपाधिकृतभेदे सत्यप्यंशिनोऽनुसन्धानादौपाधिकभेदाभावस्य व्यापकत्वासिद्धेरिति ।

स्यादेवम् । यद्यौपाधिकभेदाभावे सत्यभेदमेवानुसन्धाने प्रयोजकं ब्रूमः । किन्तु विश्लिष्टोपाधि-कृतभेदाभावे सति । तथा च न व्यभिचारः । औपाधिकभेदसद्भावेऽप्येकस्मिन् शरीरे विश्लिष्टो-पाधिकृतभेदाभावात् । न चैतत्प्रयोजकं प्रकृतेऽस्ति । उपाधीनां विश्लेषात् । अतो नानुसन्धानमित्यत आह-

मूल

उद्यतायुधदोर्दण्डाः पतितस्वशिरोक्षिभिः ।

पश्यन्तः पातयन्ति स्म कबन्धा अप्यरीन् युधि ॥

***इति भारतवचनान्न विश्लेषाद्विशेषः । ***

भारतवचनाद्विश्लिष्टोपाधिकृतभेदे सत्यप्यनुसन्धानप्रतीत्या तदभावस्य व्यापकत्वाभावादिति शेषः । विश्लेषादुपाधीनामिति शेषः । विशेषो हस्तपादादीत्युदाहरणादननुसन्धानलक्षणः ।

श्रीविजयीन्द्रभिक्षु

‘पारमार्थिकत्वान्न भेदो निवर्तते’ इत्येतदसहमानस्य भास्करस्य मतमुत्थापयति- अत्रेति ॥ ननु चैतन्यैक्यमात्रेण न सुखदुःखाद्यनुसन्धानं प्रसज्यते । जन्मान्तरीयसुखदुःखादेरस्माभिरप्यननु-भूयमानत्वादित्यत आह- न हि चैतन्यैक्य इति ॥ अत एवेति ॥ औपाधिकभेदस्य सत्त्वादेवे-त्यर्थः । अंशिन इति ॥ उपलक्षणं चैतत् । आद्यपक्षाश्रयणेऽपि न दोषः । न च पादावच्छिन्नसुख-दुःखादेर्हस्तावच्छिन्नेनानुसन्धानप्रसङ्गः । पादलग्नकण्टकोद्धरणाय हस्तावच्छिन्नस्य प्रवृत्ति-दर्शनेनेष्टापादनरूपत्वादित्यपि द्रष्टव्यम् । भोक्तुरेकत्वानुभवस्यौपाधिकभेदस्य सुखदुःखाद्यनु-सन्धानाननुसन्धानव्यवस्थापकत्वाविघातित्वाद् अप्रयोजकतामाशङ्क्य व्याचष्टे- भोक्तुरेकत्वानु-भवादितीति ॥ मूले दृष्टान्तमात्रमुपपादितम् । न तु दार्ष्टान्तिकमिति तदुपपादनायाऽह- इदमुक्तं भवतीति ॥ ईश्वरेणापीत्यस्यानन्तरं स्वस्य सकलजीवैरिति शेषः । सकलजीवगतमिति ॥ अत्र सुखदुःखादीत्यनुषङ्गः । उपाधिभेदादिति ॥ उपाधितो भेदादित्यर्थः । औपाधिकभेदाभावे सतीति ॥ औपाधिकभेदाभावविशिष्टाभेदः प्रयोजक इत्यर्थः । तस्येति ॥ वैषम्यमात्रप्रदर्शनस्ये-त्यर्थः । औपाधिकभेदाभावस्येति ॥ यद्यप्यौपाधिकभेदाभावसहिताभेद एवानुसन्धानप्रयोजकत्वे-नोक्त इति तस्यैवानुसन्धानव्यापकत्वाभावो वर्णनीयः । तथाऽपि यत्रानुसन्धानं न तत्रौपाधिक-भेदाभावसहिताभेद इति व्यभिचारवर्णनं विशेषणाभावप्रयुक्तविशिष्टाभावमादायैव कर्तव्यमित्या-वश्यकत्वादौपाधिकभेदाभाव एव तद्व्यापकत्वाभाववर्णनं कृतमित्यविरोधः । इतीति ॥ इतिकरणम् इदमुक्तं भवतीत्यनेन सम्बद्ध्यते ।

नन्वनुसन्धानव्यापकाभेदे औपाधिकभेदसामान्याभावो न विशेषणं, किन्तु तद्विशेषाभाव इति नोक्तव्यभिचार इति शङ्कते- स्यादेवमिति ॥ औपाधिकेति ॥ संश्लिष्टोपाधिकृतभेदसद्भावेऽपी-त्यर्थः । ननु हस्तपादाद्युपाधीनामपि शरीराङ्गहस्तपादादिना विश्लेषसद्भावादुक्तप्रयोजकाभावेन व्यभिचारतादवस्थ्यमित्यत उक्तम्- एकस्मिन्निति ॥ उपाधीनामिति ॥ तत्तच्छरीररूपाणामि-त्यर्थः । पतनादिरूपस्यैव विश्लेषकृतविशेषस्य सत्त्वान्न विश्लेषाद्विशेष इत्युक्तं मूले । पूर्वोक्तानु-सन्धानप्रयोजकस्य दूषणाप्रतीतेः शङ्कोत्तरत्वं चायुक्तमित्याशङ्क्याऽह- भारतवचनादित्यादि ॥ तदभावस्येति ॥ विश्लिष्टोपाधिकृतभेदाभावस्येत्यर्थः ।

विश्लेषस्य सम्बन्ध्यपेक्षत्वादाह- उपाधीनामिति ॥ विश्लेषकृतस्य पतनादिरूपविशेषस्य सत्त्वान्न तन्निषेधो युक्त इत्याशङ्कां वारयन् विशेषस्य सावधिकत्वादवधिं दर्शयति- विशेष इति ॥ तथा च विश्लिष्टोपाधिकृतभेदाभावोऽपि व्यभिचारान्नानुसन्धानव्यापक इति भावः ।

ननु संश्लेषानर्होपाधिकृतभेदाभाव एवानुसन्धानव्यापकविशेषणम् । भारतवचनप्रतिपन्नोऽयं विशेषो न संश्लेषानर्होपाधीनाम् । तत्र शिरःकबन्धयोः पूर्वं श्लिष्टत्वेन संश्लेषानर्हत्वाभावात् । अत एवेन्द्रदक्षप्रजापत्यादेरपि मेषवृषणछागशिरस्कत्वेऽपि तत्तदवयवगतसुखदुःखाद्यनुसन्धानमिति चेन्न । इन्द्रप्रजापत्यादेर्वृषणशिरःसंयोजनात् प्रागपि तत्तदवयवगतसुखदुःखाद्यनुसन्धानसत्त्वाच्च । विस्तृतं चैतदस्माभिर् औतशिक्षायाम् इत्यलम् ।

श्रीवेदेशतीर्थ

अपारमार्थिकमिति ॥ येन तद्द्रष्टुरीश्वरस्य भ्रान्तत्वं भवेदिति शेषः । यदि ब्रह्म स्वभावतो जीवाभिन्नं स्यात्तर्हि जीवगतसुखदुःखाद्यनुसन्धातृ स्याद् यथा सम्प्रतिपन्न’ इति व्याप्तिर्दर्शितेति द्रष्टव्यम् । जन्मान्तरीयसुखादेरस्मदादिभिरप्यननुसन्धानाद् व्यभिचार इत्यत आह- वर्तमानेति ॥ तथा च वर्तमानत्वमापाद्यप्रविष्टसुखादिविशेषणमिति न व्यभिचार इति भावः । औपाधिक-भेदस्यापीति ॥ तद्वत्प्रकृत इति शेषः ।

उपाधीनां भेद इति प्रतीतिवारणायाऽह - उपाधिकृत इति ॥ उपलक्षणमिति ॥ सुखादेरिति शेषः । इति यावदिति ॥ अन्यथा मूलस्य व्यभिचारप्रदर्शनपरत्वासम्भवादिति भावः । ननु न परेणानुसन्धानव्यापकत्वेन भेदाभाव उक्तः । येनेदं व्यभिचारप्रदर्शनपरं मूलं सङ्गतं स्यादित्याशङ्का-परिहाराय पराभिप्रायं विशदयन् तत्र मूलं सङ्गमयति- इदमुक्तं भवतीत्यादिना ॥ वैषम्यमात्र- (प्रदर्शन)मिति ॥ दृष्टान्तदार्ष्टान्तिकयोरिति शेषः । किन्नामेति ॥ ततश्चोक्ततर्के उपाधिभेदा-भावसहितं स्वरूपैक्यं व्यापकत्वाभिमतानुसन्धानव्यापकत्वाद् व्याप्यत्वाभिमतस्वरूपैक्या-व्यापकत्वादुपाधिरिति सोपाधिकस्तर्क इति भावः।

तस्यानुपयुक्तत्वादिति ॥ वैषम्यमात्रस्य साधनबाधनाक्षमत्वादिति भावः । औपाधिक-भेदाभावस्येति ॥ तद्घटितोक्तोपाधेरित्यर्थः । व्यापकत्वासिद्धेरिति ॥ तथा च व्यापकत्वाभि-मताव्यापकत्वान्नोपाधित्वमिति भावः । हस्तपादाद्युदाहरणात् प्रकृतेऽननुसन्धानलक्षणो नेत्यत्र भारतवचनादिति हेतुरसङ्गतोऽतस्तत्साध्यं पूरयन् व्याचष्टे- भारतवचनादिति ॥ अननुसन्धानलक्षण इति ॥ प्रकृत इति शेषः ।

द्वैतद्युमणि

‘न चोपाधी’त्युत्तरमूलस्य पूर्वमूलेन सह सङ्गत्यप्रतीतेः सत्योपाधिकृतसत्यभेदवादि-भास्करमतनिरासकतया तन्मूलं सङ्गमयितुं पूर्वमूलोक्तदूषणपरिहारपूर्वकं मतान्तरमुत्थापयाति- अपर इति ॥ सिद्ध्यतीति ॥ मायावादिमते भेदनिवृत्तिर्नाम तद्बाध एव । तथा चेश्वरज्ञानविषयबाधे ईश्वरस्य भ्रान्तत्वापत्त्या तस्य स्वाभाविकत्वप्राप्त्या मुक्तभेदः सिद्ध्यति । मन्मते त्वस्वाभाविक-स्यापि भेदस्योपाधिजन्यतया तन्नाशेन नश्यमानतया घटादितुल्यतयैव सिद्ध्यतीत्यर्थः । वर्तमान-सुखादीति ॥ अत्र सुखादौ वर्तमानत्वोत्कीर्तनम् अननुसन्धानस्य सर्वानुभवविरोधदृढीकरणाय स्वरूपकीर्तनमात्रम् । न त्वतीतसुखादौ व्यभिचारवारणायापाद्यकोटिप्रविष्टम् । तदघटितस्यैव व्यभिचाराभावप्रदर्शनपूर्वकमापाद्यताया उपाधिखण्डनटीकायां स्पष्टत्वात् । क्वचिद् दृष्टमिति ॥ न चांशेऽर्जुने इन्द्रेण सहैकीभूत इन्द्रगतसुखाद्यननुसन्धानं दृष्टमिति वाच्यम् । सर्वात्मना सुखाद्यननुसन्धानस्यानङ्गीकारात् । विदुरधर्मादीनां स्वरूपैक्यात् परस्परसुखाद्यनुसन्धानादि-सत्त्वेऽपि उपदेष्टृत्वश्रोतृत्वादिकं सर्वं लोके तदप्रकाशेनैव । तथा व्यवहारस्यैवेश्वरसङ्कल्पानुसारेण देवधर्मत्वात् । तदुक्तं ‘मानुषं च स्वाध्यायप्रवचने च’ इति श्रुतौ तद्भाष्योदाहृतायाम्-

‘मानुषं मानुषो धर्मो देवा अपि हि मानवे ।

मनुष्यवत् प्रकाशन्ते नैवैश्वर्यप्रकाशिनः ॥’

इति स्मृतौ च । इन्द्रार्जुनयोः खाण्डवार्थे युद्धे प्रवृत्तिर् यमस्य स्वरूपभूतधर्मराजव्यामोहनार्थ-प्रवृत्तिश्चेश्वराज्ञाया अप्रतिहतत्वात् । ‘भीषाऽस्माद्वायुः पवते । भीषोदेति सूर्यः । भीषास्मादिन्द्र-श्चाग्निश्च । मृत्युर्धावति पञ्चमः ।’ इत्यादिश्रुत्यादिभिर्देवानामतिपरतन्त्रत्वाद् भगवदाज्ञया मनुष्यलोके स्वांशभूतानां तेषां स्वयशःसिद्ध्यर्थं च तत्प्रवृत्तिसम्भवात् । धर्मराजादेः सुषुप्त्यादिवत् तन्नियामके-श्वरेणैव तदंशसम्बन्ध्यन्तःकरणवृत्त्याद्यजननाद् व्यामोहनम् । विदुराद्यंशसन्निधौ तज्जननात् तदव्यामोहनमित्यादिकं युक्तम् । कदाचिदंशिगतात्यल्पसुखाद्यनुसन्धानाभावोंऽशस्येत्ययं विशेष ईशाचिन्त्यशक्तिनिमित्तक एव । ‘विशेषस्तु कश्चिदीश्वरकृतो भवेद्’ इत्युक्तत्वात् ।

न च भास्करमतेऽप्यनयैव रीत्या वक्ष्यमाणसुखाद्यनुसन्धानापादनपरिहारः सम्भवतीति तन्मतदूषणं न सम्भवतीति वाच्यम् । उक्तार्थस्य दृढतरप्रमाणसिद्धत्वे युक्त्यगोचरत्वे चाचिन्त्यशक्त्या तदङ्गीक्रियते ।

‘यदि युक्त्या विरुद्ध्येत तदीशकृतमेव हि ।’

इति भाष्योदाहृतस्मृतेः । अपवादविशेषात् क्वचित् तथात्वेऽपि सर्वत्र तथाङ्गीकारे लोकव्यवहारमात्रोच्छेदापत्तेः । इत्थं चेश्वरस्य सर्वज्ञस्य जीवैक्ये तदीयसुखाद्यनुसन्धानस्य तत्समवेतत्वेन तत्प्रत्यक्षमवर्जनीयम् । अन्यथा तस्याज्ञत्वप्रसङ्गः ।

श्रीराघवेन्द्रतीर्थ

अपर आहेति ॥ सत्योपाधिकृतसत्यभेदवादी ब्रवीतीत्यर्थः । अत इति ॥ उपाधि-कृतत्वात् पारमार्थिकत्वं पारमार्थिकत्वादीश्वरेण संसारिभेदादेरनुभूयमानत्वं युज्यत इत्यर्थः । तन्नाशाद् भेदनाशादित्यर्थः। इत्याहेत्यन्वयः । तर्कस्य व्याप्त्यभावादिकमाशङ्कते- ननु (वयं) जीवानिति ॥ आत्मांशानामिति ॥ जीवांशानामन्योन्यमैक्ये विद्यमानेऽपि हस्तपादाद्युपाधिकृतभेदसद्भावहेतुना हस्तावच्छिन्नजीवांशे जायमानसुखादेः पादावच्छिन्नांशेऽ१ननुभवात्तथा पादावच्छिन्नांशे जायमान-सुखादेर्हस्तावच्छिन्नांशेऽननुसन्धानाच्चैतन्यैक्येऽनुसन्धानं स्यादित्यस्य न व्याप्तिरैक्यमात्रमनुसन्धाने न प्रयोजकमिति वाऽभिप्रायः । अत एवेति ॥ औपाधिकभेदसत्त्वादेवेत्यर्थः ।

प्रकृतोपयोगितया वाक्यशेषस्यार्थमाह- एकस्यैवांशिन इत्यादि ॥ सर्वेति ॥ हस्ताद्यवच्छिन्न-सर्वांशगतसुखाद्यनुसन्धानमित्यर्थः । मूले दृष्टान्तमात्रोक्तेरुपयोगाय दार्ष्टान्तिकमपि संयोज्यमिति भावेनाऽह- इदमुक्तमिति ॥ नोपाधीति ॥ उपाधिभेदान्नानुभव इति वक्तुरित्यर्थः । वैषम्यमात्रेति ॥ सत्यप्यैक्येऽनुसन्धानं नेत्यत्र स्थलप्रदर्शनमात्रमित्यर्थः । न चैतदिति ॥ औपाधिकभेदाभाव-विशिष्टस्वरूपैक्यमनुसन्धाने प्रयोजकमीश्वरस्य जीवगतसुखाद्यनुसन्धानापादनस्थल इत्यर्थः । अनुपयुक्तत्वादिति ॥ मदुक्तापादनेऽङ्गवैकल्यादेरनुक्तेरिति भावः ।

किञ्चिद्विशेषणेन व्यापकतां शङ्कते- स्यादेवमिति ॥ विश्लिष्टेति ॥ क्वचित्संश्लेषहीना ये उपाधयस्तत्कृतेत्यर्थः । हस्तपादाद्युपाधयस्तु शरीरे संश्लिष्टाः । ब्रह्मांशोपाधिभूतशरीराणि तु न संश्लिष्टानीति भावः। न व्यभिचार इत्युक्तं व्यनक्ति-औपाधिकभेदेति ॥ हस्तपादाद्युपाधीत्यर्थः । एकस्मिन् शरीर इत्येतदुभयत्रान्वेति । उपाधीनामिति ॥ शरीराणामित्यर्थः । कबन्धाश् च्छिन्नशिरस्कदेहा उद्यतायुधदोर्दण्डाः पतितस्वशिरोक्षिभिर् अरीन् पश्यन्तः युध्यरीन् पातयन्त्यायुधैरिति वचनार्थो व्यक्त इति नोक्तः ।तदभावाद् अन्योन्यसुखाद्यनुसन्धानाभावादित्यर्थः । अनुसन्धानाभावे हेत्वन्तरमाह- औपाधिकेति ॥ अत एवेति ॥ औपाधिकभेदसद्भावादेवेत्यर्थः । उपलक्षणमिति ॥ सुखादेरुप-लक्षणमित्यर्थः । न उपाधिभेदादिति ॥ ईश्वरेण सकलजीवगतं सुखादि नानुभूयते । कुतः ? उपाधिभेदादित्यर्थः । वैषम्येति ॥ देवदत्तेन स्वगतं सुखादिकमनुभूयते उपाधिभेदाभावात् । ईश्वरेण तु सर्वजीवगतं सुखादिकं नानुभूयते उपाधिभेदादिति दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यमित्यर्थः । उपाधीनामिति ॥ देवदत्तयज्ञदत्तोपाधीनामित्यर्थः । उद्यतायुधेति मूलं, उद्यतानि आयुधानि येषु ते उद्यतायुधा उद्यतायुधा दोर्दण्डा येषान्ते उद्यतायुधदोर्दण्डाः, एतादृशाः , कबन्धा अपि स्वस्य शिरांसि स्वशिरांसि, पतितानि च तानि स्वशिरांसि च पतितस्वशिरांसि । शिरस्सु स्थितानि अक्षीणि तैर् अरीन् युधि पश्यन्तस् तानेवारीन् पातयन्तीत्यर्थः । विशेषशब्दार्थमाह- अननुसन्धानलक्षण इति ॥ कस्मान्न विशेष इत्यतो हस्तपादाद्युदाहरणादिति शेषः पूरितः ।

गुरुराजीया

अपारमार्थिकमिति ॥ ततश्च द्रष्टुरीश्वरस्य न भ्रान्तत्वप्रसङ्ग इति भावः । तर्कस्य प्रशिथिलमूलत्वादाभासत्वमाशङ्क्य परिहरति- न हीति ॥ अनेन ‘यो येन स्वाभाविकाभेदवान् चेतनः स तद्गतवर्तमानसुखाद्यनुसन्धाता यथा सम्मतः’ इति व्याप्तिः सूचिता भवति । स्वाभाविकैक्येऽपि जन्मान्तरीयसुखादेरेतज्जन्मनि अस्मदादिभिरननुसन्धानात्तत्र व्यभिचार-परिहाराय वर्तमानेति विशेषणम् । तथा चास्मदादीनां जन्मान्तरीयसुखाद्यननुसन्धातृत्वेऽपि वर्तमानतदननुसन्धातृत्वाभावान्न व्यभिचार इति भावः ।

ननु हस्तपादाद्यवच्छिन्नात्मांशानां सत्यपि स्वाभाविकैक्ये औपाधिकभेदस्य विद्यमानत्वादननु-सन्धानेऽपि प्रकृते तदभावादनुसन्धानं स्यादेवेत्यतो जीवानां जीवब्रह्मणोर्वा औपाधिकभेदस्य सत्त्वादननुसन्धानं युक्तमित्याह- औपाधिकभेदस्येति ॥ अत्रापीति शेषः । अत एवेति ॥ औपाधिकभेदस्य सत्त्वादेवेत्यर्थः । उक्तशङ्काया मूलारूढत्वलाभाय उपाधिभेदपदम् उपाधिकृत-भेदार्थतया व्याख्याति-उपाधिकृत इति ॥ मूलव्यभिचारप्रदर्शनपरत्वलाभायाऽह-एकस्यैवेत्यादि ॥

ननु परेणानुसन्धानव्यापकत्वेन भेदाभावस्यानुक्तत्वान्न तत्र व्यभिचारोपदर्शकत्वं मूलस्येत्यतो व्यापकत्वाभिप्राय एव एतदुक्तेर्नानुपपत्तिरिति भावेन सम्भावितविकल्पप्रदर्शनपूर्वकम् आद्यं प्रदूष्य द्वितीयपक्षनिरासकत्वेन मूलं योजयितुं विकल्पद्वयप्रसञ्जकप्रदर्शनपूर्वकं विकल्पयितुं वृत्तमनुवदति- इदमुक्तं भवतीत्यादिना ॥ वैषम्येति ॥ दृष्टान्तदार्ष्टान्तिकयोरिति शेषः । किं नामेति ॥ तथा चोक्ततर्के उपाधिभेदाभावसहितं स्वरूपैक्यं व्यापकत्वाभिमतानुसन्धानव्यापकत्वाद्व्याप्यत्वाभि-मतस्वरूपैक्याव्यापकत्वादुपाधिरिति सोपाधिकस्तर्क इत्येतद् विकल्पाभिप्रायः । तस्यानुपयुक्तत्वा-दिति ॥ यथाकथञ्चिद्विशेषस्य सर्वत्रोपदर्शयितुं शक्यत्वेनातिप्रसक्ततया साधनबाधनाक्षमत्वादिति भावः । औपाधिकभेदाभावस्येति ॥ तद्घटितोक्तोपाधेरित्यर्थः । व्यापकत्वासिद्धेरिति ॥ तथा च व्यापकत्वाभिमताव्यापकत्वान्नोपाधित्वमिति भावः ।

गोविन्दीया

नेति ॥ ईश्वरेण मुक्तस्य भेदः न सिद्ध्यतीत्यर्थः । अत इति ॥ उपाधिकृतत्वेन भेदस्य पारमार्थिकत्वादीश्वरेणानुभूयमानत्वं च युज्यत इत्यर्थः । तन्नाशादिति ॥ भेदनाशादित्यर्थः । नाऽद्य इति ॥ स्वरूपैक्ये विद्यमानेऽपि हस्तपादाद्यवच्छिन्नात्मांशानां सुखाद्यनुसन्धानाभावात् । औपाधिकभेदस्य विद्यमानत्वाच्चाऽद्यः पक्षो न सङ्घटत इत्यर्थः । अत एवेति ॥ औपाधिकभेदस्य विद्यमानत्वादेवेत्यर्थः । उपलक्षणमिति ॥ दुःखाभावः सुखाभावश्चेत्यर्थः । नोपाधिभेदादिति ॥ उपाधिभेदात् सकलजीवगतसुखादिकमीश्वरेण नानुभूयत इत्यर्थः । किं वैषम्येति ॥ दृष्टान्त-दार्ष्टान्तिकयोर्वैषम्यमात्रदर्शनमननुसन्धाने कारणं किमित्यर्थः । उतेति ॥ अनुसन्धानेऽभेदमात्रं न प्रयोजकम्, न कारणं किन्नामौपाधिकभेदाभावरूपधर्मे सत्येवेत्यर्थः । औपाधिकभेदाभाव-रूपधर्मस्यैवोपाधित्वाद् अभेदमात्रस्यानुसन्धानेन सम्बन्ध उपाधिकृत इति भावः । न चेति ॥ प्रकृतसकलजीवगतसुखाद्यनुसन्धाने उपाधित्वेनाभिमतधर्मस्यैवाभावात् तत्सहकृताभेदमात्रं प्रयोजकं नास्तीत्यनुसन्धानं प्रति व्यापकत्वेन व्यापकत्वाभिमतौपाधिकभेदाभावरूपोपाधेर्निवृत्त्या व्याप्यत्वेनाभिमतानुसन्धाननिवर्तनं वेत्यर्थः । औपाधिकेति ॥ औपाधिकभेदाभावरूपधर्मस्या-नुसन्धानं प्रति व्यापकत्वासिद्धेर्नौपाधिकत्वमित्यर्थः । साधनानुमाने साध्यव्यापकत्वे सति साधना-व्यापकोपाधिस् तर्के चाऽपाद्यव्यापकत्वे सत्यापादकाव्यापकोपाधिः । अत्र त्वभेदमात्रेणापादक-मनुसन्धानमापाद्यम् । तथा च यत्रानुसन्धानं तत्रौपाधिकभेदाभाव इति व्याप्तेरभावाद् उपाधे-रनुसन्धानं प्रति व्यापकत्वासिद्धेरिति भावः । विशेष इति ॥ हस्तपादाद्युदाहरणे संश्लेषादुपाधीना-मनुसन्धानं वर्तते । अत्र तूपाधीनां विश्लेषादननुसन्धानरूपविशेषोऽस्तीति न वक्तव्यमस्मिन्नुदाहरणे भारतवचनाद् विश्लिष्टोपाधिकृतभेदे सत्यप्यनुसन्धानप्रतीत्या तदभावस्य व्यापकत्वाभावादित्यर्थः ।

जनार्दनभट्टीया

अपर इति ॥ भट्टभास्कर इत्यर्थः । उपाधिकृतमेवेति ॥ ‘पारमार्थिकम्’ इति शेषः । अतीतसुखादिव्यावृत्त्यर्थं वर्तमानेत्युक्तम् । तदभावादिति ॥ सुखाद्यनुसन्धानाभावादित्यर्थः । न हि हस्तावच्छेदेन सुखं विद्यमानं पादावच्छेदेनानुभूयत इति भावः । अत एवेति ॥ औपाधिकस्य अविद्यमानत्वादेवेत्यर्थः । उपलक्षणमिति ॥ सुखादेरिति शेषः ।

नन्वनौपाधिकभेदेन दुःखाद्यनुसन्धानाभावे अंशिनः परेणाभिहिते ‘हस्ते’ति मूलवाक्येन भोक्तुरेकत्वानुभवाभिधानम् असङ्गतम् इत्यत आह – भोक्तुरेकत्वेत्यादिना ॥ मूले ‘भोक्तुरेकत्वानुभवात्’ इत्यस्य हेतोः साध्यानुक्त्या अंशांशिनोर् यत्किञ्चिद्विषये वैषम्यमात्रप्रदर्शनमात्रप्रतीतौ सत्यां तां वारयन् एकत्वानुभव इति हेतोर् दुःखाद्यनुसन्धानादौ औपाधिकभेदाभावस्य प्रयोजकाभावः साध्य इति वक्तुं मूलस्य अभिप्रेतार्थं विकल्पमुखेन परिशेषयति– इदमुक्तमित्यादिना ॥ सकल-जीवगतदुःखादिकमिति ॥१ औपाधिकभेदाभावे सतीति शेषः । अभेद इत्यनुषज्यते । तस्येति ॥ वैषम्यमात्रस्येत्यर्थः । सुखाद्यनुसन्धानविषये वैषम्यस्यैव प्रस्तुतत्वादिति भावः । अभेदमेवेति ॥ विशिष्टोपाधिकृतभेदाभावे सतीत्यविशेषितमिति एवकारार्थः । अत एव तथा एवकारव्यावर्त्यमाह – किन्त्विति ॥ उपाधीनामिति ॥ देवदत्ताद्यंशिनिष्ठानाम् उपाधीनां परस्परं विभागाद् इति भावः । ‘न विश्लेषाद् विशेषः’ इति मूले विश्लेषादित्यस्य अननुसन्धाने साक्षात् हेतुत्वं प्रतीयते । तच्च प्रकृता-सङ्गतम् । तथा सति अस्य मूलस्य ‘विश्लिष्टोपाधिकृतभेदाभावे सति अभेदानुसन्धाने प्रयोजकः । अतो न व्यभिचारः’ इति पूर्वप्राप्तचोद्यनिरासकत्वापत्तेरित्यतः शेषपूरणेन योजयति– भारत-वचनादित्यादिना ॥ तदभावस्येति ॥ विश्लिष्टोपाधिकृतभेदाभावस्येत्यर्थः । व्यापकत्वाभावादिति शेष इति ॥ अनुसन्धानव्यापकत्वाभावादिति शेष इत्यर्थः । रुधिरस्रावादिकृतवैषम्यस्य सत्त्वात् कथं ‘न विश्लेषाद् विशेषः’ इति मूलमित्याशङ्क्य मूले व्याख्येयं पदमुपादत्ते – विशेष इति ॥ विशेषपदस्य अननुसन्धानलक्षणविशेषपरतया व्याख्याने मूले ज्ञापकमाह – हस्तपादादीति ॥