अनिर्वचनीयासिद्धेरेवानुमानस्याप्यसिद्धिः..
दृश्यत्वाद्यनुमानानां प्रतितर्कपराहतिसमर्थनम्
अनिर्वचनीयासिद्धेरेवानुमानस्याप्यसिद्धिः
श्रीमज्जयतीर्थटीका
अथवा प्रतिकूलतर्कपराहतिमनेनाऽह- यदि जगन्मिथ्या स्यात्तदा दृश्यत्वाद्यनुमानस्यापि जगदन्तःपातित्वेन मिथ्यात्वेनासिद्धिः स्यात् । अन्यथा तेन व्यभिचारापातात् ।
ननु न वयं मिथ्यापदेन जगतोऽसत्त्वमाचक्ष्महे । किं नामानिर्वचनीयत्वमेवातः कथं तदन्तःपातित्त्वेनानुमानस्यासिद्धिरिति चेन् न । तथा सत्यनिर्वचनीयासिद्धेरप्रसिद्धविशेषणत्व-स्योक्तत्वादिति ।
श्रीविजयीन्द्रभिक्षु
उक्तपौनरुक्त्यपरिहारेऽपरितुष्यन्नाह- अथवेति ॥ यथाश्रुते तत्परत्वस्याप्रतीतेरुदाहृत्य व्याचष्टे- यदीति ॥ अनिर्वचनीयासिद्धेरेवेत्यस्य वैयर्थ्यमाशङ्क्य तन्निवर्त्याऽशङ्कां दर्शयति- ननु न वयमिति ॥ तथा सतीति ॥ मिथ्यापदस्यानिर्वचनीयार्थत्वे दृश्यत्वानुमानस्याप्रसिद्धविशेषणत्वं स्याद् अनिर्वचनीयासिद्धेः प्रागुपपादितत्वादित्यर्थः । अनिर्वचनीयासिद्धेरिति ॥ अनिर्वचनीयत्वा-सिद्धेरित्यर्थः ।
श्रीराघवेन्द्रतीर्थ
प्रतिकूलतर्केति ॥ दृश्यत्वाद्यनुमानस्येति योज्यम् । अनेनेति ॥ अनिर्वचनीयासिद्धे-रेवेत्यादिवाक्येनेत्यर्थः । अन्यथेति ॥ सत्यत्वे तेन दृश्यत्वादिनैव व्यभिचारापातात् । दृश्यत्वादौ दृश्यत्वाभावश्चेदज्ञानासिद्धिरिति भावः । असिद्धिः स्वरूपासिद्धिः । अन्यथा मिथ्यात्वाभावे । तेनेति ॥ दृश्यत्व एवोक्तरीत्या व्यभिचारापातादित्यर्थः ।
गुरुराजीया
अन्तःपातित्वेनेति ॥ मिथ्याभूतगन्धर्वनगरान्तर्गतदेवदत्तभवनवन्मिथ्याभूत-जगदन्तर्गतानुमानस्य मिथ्यात्वावश्यम्भावादिति भावः । व्यभिचारापातादिति ॥ दृश्यत्वाद्यनुमानस्यादृश्यत्वेऽज्ञानासिद्धिप्रसक्तेरिति भावः ।
जनार्दनभट्टीया
अन्यथेति ॥ १असत्यत्वं चेत्यर्थः ।