बलवद्दृष्ट्यबाधे..
प्रत्यक्षाभासस्यापि तर्कबाध्यत्वाभावसमर्थनम्
श्रीमज्जयतीर्थटीका
ननु यदा वस्तुतोऽनन्ने प्रत्यक्षेणान्नबुद्धिर्जायते । तदाऽस्त्येवोक्ततर्केण बाधः, परित्याग-दर्शनात् । तत्कथमेतदित्यत आह-
मूल
***बलवद्दृष्ट्यबाधे । ***
पूर्वेणान्वयः । यदा परित्यागस् तदा बलवदनन्नत्वदृष्ट्याऽन्नत्वदृष्टेर्बाधे सत्येव । न तु केवल-तर्केण । अन्यथाऽन्यत्रापि तत्प्रसङ्गादिति ।
श्रीविजयीन्द्रभिक्षु
बलवद्दृष्ट्यबाध इति मूलस्य तर्कदौर्बल्यप्रतिपादनपरत्वाभावादानर्थक्यमाशङ्क्य तन्निवर्त्याशङ्कामाह- नन्विति ॥
श्रीवेदेशतीर्थ
अन्यथेति ॥ केवलतर्केण बाधे अन्नेऽन्नत्वदृष्टावपि तर्कबाधप्रसङ्गादित्यर्थः ।
श्रीराघवेन्द्रतीर्थ
प्रत्यक्षाभासे तर्कबाधो दृष्ट इत्याशङ्कते- नन्विति ॥ पूर्वेणेति ॥ बलवद्दृष्ट्या बाधाभावे सति दृष्टान्नेतरतर्केणानन्नत्वज्ञाने सत्यपि नान्नमत्तीति न हीति योजनेति भावः । परोक्तस्थलेऽपि बलवद्विपरीतदृष्टिबाधो न तर्केणेति भावेनाऽह - यदेति ॥ दृष्टस्य परित्याग इत्यर्थः । अन्यत्रा-पीति ॥ बलवद्दृष्ट्यबाधस्थलेऽपीत्यर्थः ।
गुरुराजीया
अन्यथेति ॥ केवलतर्केणैवान्नदृष्टेर्बाधे वस्तुतोऽन्नेऽन्नत्वदृष्टेरपि तर्कबाधितत्वात् तत्परित्यागप्रसङ्गादिति भावः । अनन्ने कार्पासबीजादौ । पूर्वेणान्वय इति ॥ बलवद्दृष्ट्यबाधे सति केवलं युक्तिपराजितोऽपि नान्नमत्तीति न हि अन्नमत्त्येव स्वीकरोत्येवेत्यर्थः । यदेति ॥ यदा तु अनन्ने अन्नत्वप्रत्यक्षस्य तर्कबाधे सति परित्यागस्तदा तन्मूलभूतबलवत्प्रत्यक्षबाधे सत्येव न केवल-तर्कबाधेनेत्याशयः । अन्यथेति केवलतर्केण चेत्परित्याग इत्यर्थः । अन्यत्रापीति ॥ वस्तुतोऽन्नेऽपि यदीदमन्नं स्यात्तदा परिचितरसाद्युपेतं स्यान्न चेदं तथा तस्मान्नेदमन्नमिति तर्कबाधेन परित्यागप्रसङ्गादित्यर्थः ।
गोविन्दीया
परित्यागेति ॥ अन्नत्वाभावेनानन्नस्य परित्यागदर्शनादित्यर्थः । एतदिति ॥ तर्केण प्रत्यक्षस्य बाधो नास्तीति यदुक्तं तदेतत् कथमुक्तमित्यर्थः । पूर्वेणान्वय इति ॥ बलवद्दृष्ट्या बलवत्प्रत्यक्षेण बाधे सत्येव युक्तिपराजितोऽपि क्षुधितोऽन्नं नात्तीति न हि, अत्त्येवेत्यर्थः । नतु इति ॥ प्रत्यक्षासहकृततर्केणेत्यर्थः । अन्यथेति ॥ केवलतर्केण प्रत्यक्षस्य बाधोऽङ्गी-क्रियमाणेऽन्यत्राप्यबाधितान्नेऽपि तर्केण बाधप्रसङ्गादित्यर्थः ।
जनार्दनभट्टीया
ननु बलवद्दृष्टस्थले१ तर्केण प्रत्यक्षबाधाभावेऽपि प्रत्यक्षबाधस्थले तर्केणापि बाधोऽस्तु । एवञ्च ‘दृष्टस्य वस्तुनः बलवद्दृष्टिं विना’ इति पूर्वग्रन्थानुपपत्तिरित्यत आह – यदेत्यादिना ॥ नतु केवलतर्केणेति ॥ तथा च ‘दृष्टस्य वस्तुनः’ इति प्रत्यक्षस्य केवलतर्काबाधत्वपरमिति भावः । अन्य-त्रेति ॥ २अन्नप्रमितिस्थलेऽपीत्यर्थः ।