अङ्गीक्रियमाणत्वाद्विशिष्टादे..
विशिष्टस्य सत्यत्वसमर्थनम्
अङ्गीक्रियमाणत्वाद्विशिष्टादे
श्रीमज्जयतीर्थटीका
अथोच्येत ‘अङ्गीक्रियमाणोऽपि ब्रह्मणि विशिष्टादिर्न सत्य इति न परमार्थब्रह्मतया प्रतिपादयितुं युक्त इत्येवानुपपत्तिः’ इति । मैवम् । अङ्गीक्रियमाणोऽपि विशिष्टाकारो न तावदसन्नेव । तथा सत्युपलक्षणत्वानुपपत्तेः । न च ४नीलं नभ इतिवदुपपत्तिः । तत्रापि प्रतिपत्तेरुपलक्षणत्वात् । न चानिर्वचनीयः । तत्र प्रमाणाभावात् । विशिष्टाकारादिरनिर्वाच्यो विशिष्टाकारादित्वान् नीलं नभ इतिवदिति चेन्न । तत्र अनिर्वचनीयाभावेनाप्रसिद्धविशेषण-त्वात् । तदेवमसत्त्वानिर्वचनीयत्वाभावेन विशिष्टादेः सत्यत्वञ्च सिद्धमित्यनुपपत्त्यभावाद् विशिष्ट एव सत्यज्ञानादिवाक्यार्थः ।
श्रीविजयीन्द्रभिक्षु
ननु सत्यज्ञानादिवाक्यानां परमार्थब्रह्मस्वरूपप्रतिपादनपरत्वे च तदयोगात् तात्पर्यानुप-पत्त्यैव स्वरूपमात्रे लक्षणाऽऽवश्यिकीति शङ्कते- अथोच्येतेति ॥ विशिष्टादिर्न सत्य इति वदन् प्रष्टव्यः । किमसत्यः किं वाऽनिर्वचनीय इति विकल्प्य क्रमेण दूषयति- मैवमिति ॥ सत्त्वाद्युप-लक्षितब्रह्मस्वरूपस्यैव त्वया ज्ञेयत्वाङ्गीकारादत्यन्तासतश्चोपलक्षणत्वस्य क्वाप्यदर्शनादिति भावः । यद्यपि व्यावृत्तिधीकाले असतोऽपि काकादेरुपलक्षणत्वमस्ति, यदा कदाचित्सत्त्वञ्चानुपयुक्तं तथाऽपि तत्कृतस्योत्तृणत्वादेः सत्त्वाद्युक्तं काकादेरुपलक्षणत्वम् । सर्वत्र व्यावृत्तिधीकाले उप-लक्षणत्वाभिमतस्य तत्कृतस्य वा सत्त्वमुपलक्षणत्वे तन्त्रम् । न चासति तत्सम्भवतीति भावः । नीलं नभ इतिवदिति ॥ नभोनैल्यवदित्यर्थः । विशिष्टाकारस्यापि सत्त्वात् सत्यज्ञानादिवाक्यानां तत्प्रतिपादकत्वेऽपि परमार्थसद्ब्रह्मप्रतिपादनपरत्वस्योपपन्नत्वेनानुपपत्त्यभावान्न लक्षणया स्वरूपमात्रार्थकत्वम् । किन्तु विशिष्टार्थकत्वमेवेत्युपसंहरति- तदेवमिति ॥
श्रीवेदेशतीर्थ
अङ्गीक्रियमाण इति ॥ सत्यादिपदमुख्यार्थतयाऽङ्गीक्रियमाणोऽपि विशिष्टाकारोऽ-परमार्थसन्निति न तात्पर्यविषयीभूतपरमार्थसद्ब्रह्मस्वरूपान्तर्गतः । किं नाम तटस्थः सन्नुप-लक्षकः । अन्यथा व्यावृत्तिबोधासम्भवात् । एवञ्च तटस्थतया व्यावर्तके स्वरूपानन्तर्गते उपलक्षणे तात्पर्यायोगात् तात्पर्यानुपपत्तिरेव स्वरूपमात्रलक्षणोपपादिका भविष्यतीति शङ्कितुर्हृदयम् । अत एवाऽह- उपलक्षणत्वानुपपत्तेरिति ॥ न ह्यत्यन्तासत उपलक्षणतया व्यावर्तकत्वं क्वचिद् दृष्टमिति भावः । असतोऽपि नभोनैल्यस्योपलक्षणत्वं दृष्टमित्याशङ्क्य निराकरोति- न चेति ॥ प्रतिपत्ते-रिति ॥ तस्याश्च सत्त्वात्प्रकृते च त्वया तस्या अपि मिथ्यात्वाङ्गीकारादिति भावः । यद्यपि व्यावृत्ति-धीकालेऽसतोऽपि काकादेरुपलक्षकत्वमस्ति कदाचित्सत्त्वञ्चानुपयुक्तम् । तथाऽपि तत्कृतस्यो-त्तृणत्वादेः सत्त्वाद्युक्तं काकस्योपलक्षणत्वम् । सर्वत्र व्यावृत्तिधीकाले उपलक्षणत्वाभिमतस्य तत्कृतस्य वा सत्त्वमुपलक्षणत्वे तन्त्रम् । न चासति तत्सम्भवतीति द्रष्टव्यम् । यद्यपि प्रतिपत्ति-रात्मधर्मस्तथाऽपि विषयविषयिभावसम्बन्धेन नभोधर्मोऽपि भवतीत्युपलक्षणत्वं तस्या इति ध्येयम् । उपसंहारव्याजेनावशिष्टं मूलं योजयन्नेव तत्फलितमाह- तदेवमित्यादिना ॥ अनुपपत्त्यभावादिति ॥ विशिष्टादेरपरमार्थत्वे खलु तस्योपलक्षणत्वेन तत्र तात्पर्याभावः । यदा तु सत्यत्वं सिद्धं तदा तात्पर्यविषयीभूतब्रह्मस्वरूपान्तर्गतविशेषणत्वसम्भवेन विशिष्टाकारेऽपि तात्पर्यसम्भवादनुपपत्त्य-भावादिति भावः ।
श्रीराघवेन्द्रतीर्थ
उपलक्षणत्वानुपपत्तिरिति ॥ सत्यादिपदबोधितसत्यत्वादिविशिष्टाकारोऽसत्यश्चित उपलक्षणमुपेयते । न चात्यन्तासतस्तत्सम्भवतीत्यर्थः । यन्नीलमिति ॥ यन् नीलतया प्रतीतं तन्नभ इतिवत् सत्यादिवाक्येन यद्विशिष्टाकारतया प्रतीतं तद्ब्रह्मेत्युपपत्तिः । नैल्यस्य तत्रासत एवोप-लक्षणत्वदृष्टेरित्यर्थः । प्रतिपत्तेरिति ॥ नैल्यप्रतीतेरित्यर्थः । अनिर्वचनीय इति ॥ विशिष्टाकार इत्यनुषङ्गः। तस्य चासद्विलक्षणत्वादुपलक्षणता युक्तेति भावः । मूलशेषार्थमाह- तदेवमिति ॥ अनुपपत्त्यभावेनेत्युक्तमसदित्याशङ्कते- अथोच्येतेति ॥ ब्रह्मतयेति ॥ ब्रह्माभेदेनेत्यर्थः । तत्स्वरूपान्तर्गतविशेषणत्वेनेति यावत् । न युक्त इत्यन्वयः । किन्तु सत्यत्वादिर्विशिष्टाकारो ब्रह्मणि तटस्थतयोपलक्षणत्वेनैव प्रतिपाद्यत इति वाक्यशेषः । इत्येवेति ॥ एवंरूपमुख्यार्थेऽ-नुपपत्तिरस्तीत्यर्थः । उपलक्षणत्वानुपपत्तेरिति ॥ सर्वथाऽसत उपलक्षणत्वायोगात् काकादेरपि कदाचित्सत्त्वादिति भावः । नीलमिति ॥ नभः कीदृशमिति प्रश्ने नीलं नभ इति वदति तत्र असतोऽपि नैल्यस्योपलक्षणत्वं दृष्टम् । अतोऽत्राप्यसतोऽपि विशिष्टाकारादेरुपलक्षणत्व-मस्त्वित्यर्थः । प्रतिपत्तेरिति ॥ ज्ञानस्येत्यर्थः । तथाच नभसि नैल्यं नोपलक्षकं किन्तु तज्ज्ञानमेव यन्नीलत्वेन प्रतीतं तन्नभ इति तदर्थत्वात् । ज्ञानं च सत्यमेवेति सत्यस्यैवोपलक्षकत्वमिति भावः । इति वदति विशिष्टाकारवदित्यर्थः । अनुपपत्त्यभावादिति ॥ मुख्यार्थ इति शेषः ।
गुरुराजीया
अनुपपत्तिरितीति ॥ तथा चानुपपत्त्यभावस्यासिद्धत्वादावश्यकमेव तद्वशात्स्वरूप-लक्षणाश्रयणमिति भावः । उपलक्षणत्वानुपपत्तेरिति ॥ व्यावर्तकत्वानुपपत्तेरित्यर्थः । असतो व्यावर्तकत्वस्य कुत्राप्यदृष्टत्वादिति भावः । नन्वसतोऽपि नभोनैल्याकारस्य तद्व्यावर्तकत्वदर्शनात् तद्वदेव विशिष्टाकारस्यासतोऽपि व्यावर्तकत्वं किं न स्यादिति शङ्कते- न चेति ॥ असतो नैल्याकारस्य व्यावर्तकत्वमेव नास्ति येनासत एव विशिष्टाकारस्य व्यावर्तकत्वं स्यात् । किन्तु तत्प्रतीतेरेव । तस्याश्च सत्त्वान्न व्यावर्तकत्वानुपपत्तिरित्याशयेन परिहरति- तत्रापीति ॥ न च ‘नीलं नभः’ इत्यादौ नीलाकारस्यासत्त्वेऽपि तत्प्रतीतेः सत्त्वेन तस्या एवानीलाकाराद्व्यावर्तकत्व-वत्प्रकृते च विशिष्टाकारस्यासत्त्वेऽपि तत्प्रतीतेः सत्त्वाद्व्यावर्तकत्वं किं न स्यादिति वाच्यम् । नैल्यादेरसत्त्वेऽपि मया तत्प्रतीतेः सत्त्वाङ्गीकारेण तस्या व्यावर्तकत्वोपपत्तावपि त्वया विशिष्टा-कारस्येव तत्प्रतीतेरपि सत्त्वानङ्गीकारेण तस्या अपि व्यावर्तकत्वानुपपत्तेरित्याशयात् । प्रमाणा-भावादिति ॥ विशिष्टाकारस्यानिर्वचनीयत्वे प्रमाणाभावादित्यर्थः । प्रत्यक्षादेरभावेऽप्यनुमानस्यैव प्रमाणत्वात् प्रमाणाभावोऽसिद्ध इति शङ्कते- विशिष्टाकारादिरिति ॥ अनुमानस्य चाप्रसिद्ध-विशेषणः पक्ष इति प्राचीनमूलं मनसि निधायाऽह- अनिर्ववचनीयाभावेनेति ॥ उपसंहार-व्याजेनावशिष्टं मूलं व्याकुर्वन्नेव तत्फलमाह- तदेवमिति ॥
गोविन्दीया
तथा सतीति ॥ लक्षणं द्विविधं स्वरूपं तटस्थं चेति । तत्र स्वरूपं वस्त्वन्तर्गतम्, तटस्थं वस्त्वनन्तर्गतम् ; उपलक्षणमित्युच्यते । तथा सति विशिष्टाकारादिर् असंश्चेत्तस्य ब्रह्मोपलक्षणत्वा-नुपपत्तेः । सत एव विशेषणादेरुपलक्षणत्वमित्यर्थः । काकवद्देवदत्तगृहमित्यत्र काकादेः सर्वदा विद्यमानत्वाभावेऽपि कदाचिदपि सत्त्वादुपलक्षणत्वमिति भावः । न चेति ॥ नीलं नभ इत्यत्रा-सतोऽपि नभोनैल्यस्य यथोपलक्षणत्वं तथाऽसतोऽपि विशिष्टाकारादेरुपलक्षणत्वोपपत्तिरिति न वाच्यमित्यर्थः । तत्रापीति ॥ तत्र स्थलेऽसतो नैल्यस्योपलक्षणत्वमेव नास्ति तत्प्रतीतेः सत्त्वेनोपलक्षणत्वाङ्गीकारादित्यर्थः । प्रकृते विशिष्टाकारादिप्रतीतेर्मिथ्यात्वेनोपलक्षणत्वं नास्तीति भावः । दण्डपुरुषसम्बन्धमिति जात्येकवचनमादाय दण्डपुरुषसम्बन्धान् विना अथवा दण्डपुरुषयोः सम्बन्धमन्तरेण वेत्यर्थः ।
जनार्दनभट्टीया
प्रतिपत्तेरुपलक्षणत्वादिति ॥ नैल्यप्रतिपत्तेर् नभं प्रत्युपलक्षणत्वादित्यर्थः । यद्विषयानन्तर्गतत्वे सति व्यावर्तकं तदुपलक्षणमिति तल्लक्षणयोगादिति भावः । न च अज्ञाताया नैल्यप्रतिपत्तेः कथम् उपलक्षणत्वम्? इति वाच्यम् । पृथिवीपदशक्यतायां गन्धवत्त्वस्येव अज्ञाताया एव प्रतिपत्तेरुप-लक्षणसम्भवात् । ‘अङ्गीक्रियमाणत्वात्’ इत्यस्य सत्यत्वं च सिद्धमित्यंशस्य च विशिष्टार्थतायां परम्परया उपयोगं दर्शयन् उपसंहरति – तदेवमित्यादिना ॥