अतः कैर्विशेषणैर्विशिष्ट ..
प्रकृष्टादिवाक्ये प्रश्नप्रतिवचनयोर्विशिष्टविषयकत्वसमर्थनेनाखण्डार्थत्वभङ्गः
श्रीमज्जयतीर्थटीका
यदि तर्हि प्रश्नपरिहारयोर्न स्वरूपमात्रं विषयः किं विषयौ तावित्यत आह-
मूल
***अतः कैर्विशेषणैर्विशिष्ट इति प्रश्ने ***
***प्रकृष्टप्रकाशतद्देशकालादिविशिष्ट एव वाक्यार्थः । ***
उपपद्यत इति वाक्यशेषः । तेन प्रश्न इति सप्तम्युपपत्तिः । प्रकृष्टप्रकाश इति भावप्रधानो निर्देशः ।
आदिपदं पूर्वोक्तपक्षद्वयसङ्ग्रहार्थम् । तदयमर्थः। यत एवं चन्द्रादिस्वरूपमात्रे प्रश्नो न युज्यते । अतः कश्चन्द्रः कोऽयमित्यनया वाचोभङ्ग्या कैर्विशेषणैर्विशिष्ट इति विशिष्टविषय एव प्रश्नोऽङ्गी-कार्यः । प्रश्ने च विशिष्टविषये सति परिहारवाक्यस्यापि विशिष्ट एवार्थो युज्यते । तत्र प्रकृष्ट-प्रकाशश्चन्द्र इत्यादिवाक्यं प्रकृष्टप्रकाशत्वादिविशिष्टं चन्द्रादिकं प्रतिपादयति । नक्षत्राऽदि-व्यावृत्तिस्त्वर्थलभ्या । सोऽयं देवदत्त इत्यादिवाक्यं कदाचित्तद्देशकालविशिष्टस्यैतद्देशकाल-वैशिष्ट्यं प्रतिपादयति । एतद्देशकालवैशिष्ट्यस्य सिद्धत्वेऽपि तद्देशकालविशिष्टस्येति विशेषणात् । कदाचिदेतद्देशकालविशिष्टस्य तद्देशकालवैशिष्ट्यम् । ऐक्यं त्वर्थलभ्यम् । कदाचिद्विशिष्ट-द्वयैक्यञ्चेति ।
एवमेव ‘ब्रह्मविदाप्नोति परम्’ इत्युक्त्या सामान्यतोऽवगतं ब्रह्म कैर्विशेषणैर्विशिष्टमिति विशेषणविवित्सया पृष्टे ‘सत्यं ज्ञानमनन्तम्’ इति सत्यत्वादिविशिष्टमेव बोध्यते । जीवात्मा च प्रत्यक्षेण सामान्यतोऽवगतो विशेषापेक्षया पृष्टः सिंहो देवदत्त इतिवत् ‘तत्त्वमसि’ इति वाक्येन परमात्मसादृश्यविशिष्टः प्रतिपाद्यते । अभेदस्य प्रमाणबाधितत्वात् ।
श्रीविजयीन्द्रभिक्षु
प्रश्न इति सप्तम्यनुपपत्तिमाशङ्क्याऽह- उपपद्यत इतीति ॥ ननु प्रकृष्टः प्रकाशो यस्येति बहुव्रीह्याश्रयणेन प्रकृष्टप्रकाशशब्देन चन्द्रस्य प्रत्यायनान्न तद्विशिष्टो वाक्यार्थ इत्यनुपपत्तेराह- भावप्रधान इति ॥ पूर्वोक्तेति ॥ तद्देशकालविशिष्टे एतद्देशकालवैशिष्ट्यं विशिष्टद्वयैक्यञ्चेति पूर्वोक्तपक्षद्वयेत्यर्थः । ननु यदि प्रश्नोत्तरे विशिष्टविषयके तदा किंविशेषणविशिष्टश्चन्द्रादिरिति प्रश्नः प्रकृष्टत्वादिविशेषणविशिष्टश्चन्द्रादिरित्युत्तरञ्च स्यात् । न तूक्तरीत्येत्यत आह- तदयमर्थ इति ॥ तत्रेति ॥
ननु ‘अस्मिन् ज्योतिर्मण्डले कश्चन्द्रः’ इति प्रश्नो न प्रकृष्टत्वादिविशेषणवैशिष्ट्यविषयकः । प्रकृष्टत्वादीनामपि योग्यत्वेन तद्वैशिष्ट्यस्य तत्र निश्चितत्वात् । अत एव न तद्वैशिष्ट्यबोधकं प्रतिवचनमपि । अत एव च न व्यावृत्तिरर्थसिद्धा । प्रत्यक्षेण व्यावर्तकधर्मग्रहे सति व्यावृत्तेरपि तेनैव निश्चयात् । नापि चन्द्रवाचकशब्दवाच्यत्वं तयोर्विषयः । चन्द्रशब्दवाच्यं किञ्चिदस्तीति जानतोऽपि प्रश्नदर्शनादिति चेन्न । प्रश्नमूलभूतसंशयजनकदोषेण प्रतिबन्धान्न प्रकृष्टादिवैशिष्ट्या-निश्चय इति तद्वैशिष्ट्यमेव प्रश्नप्रतिवचनयोर्विषयः । न हीन्द्रियसन्निकर्षमात्रेणार्थनिश्चयः । भ्रमसंशयोच्छेदापत्तेरिति ।
सोऽयं देवदत्त इत्यादिवाक्यमिति ॥ यद्यपि पूर्वानुभवजनिततत्तादिवैशिष्ट्यगोचरसंस्कार-सहकृतेन्द्रियेण देवदत्ते तद्देशकालवैशिष्ट्यस्य तद्विशिष्टाभेदस्य चैतद्देशतत्कालविशिष्टे निश्चयात् प्रश्नप्रतिवचने न सम्भवतस्तथाऽपि संस्कारस्यानुद्बोधे प्रमोषे वा प्रत्यक्षेण निश्चयाभावेन प्रश्न-प्रतिवचने भवत इति भावः । तदैक्यञ्चार्थलभ्यमिति ॥ नन्वेतद्देशकालवैशिष्ट्यं न प्रतिपादनीयं प्रत्यक्षसिद्धत्वादित्याशङ्क्य देवदत्तस्वरूपमात्रे सिद्धत्वेऽपि तद्देशकालविशिष्टे तस्मिंस्तस्या-सिद्धेस्तत्प्रतिपादनोपपत्तिरित्याह- एतद्देशकालवैशिष्ट्यस्येति ॥ विशेषणादिति ॥ अत्र तद्विशिष्टस्य तस्यासिद्धत्वादिति शेषः । एवं दृष्टान्तयोर्विशिष्टविषयत्वमुपपाद्य दार्ष्टान्तिकेऽपि तदुपपादयति- एवमेवेति ॥ पृष्ट इति ॥ यद्यपि प्रश्नो न दृश्यते तथाऽप्युत्तरानुरोधेन कल्प्यप्रश्नमादाय पृष्ट इत्युक्तम् । नन्वभेद एव किं न बोध्यत इत्यत आह- अभेदस्येति ॥ नाहमीश्वरः नाहं सर्वज्ञः नाहं चिन्मात्रमित्यादिप्रत्यक्षेण विरुद्धधर्माधिकरणत्वरूपलिङ्गेन ‘कर्मक्षये याति स तत्त्वतोऽन्यः’ इत्यादिश्रुत्या च जीवेश्वराभेदस्य बाध्यत्वादित्यर्थः ।
श्रीवेदेशतीर्थ
तेनेति ॥ उपपद्यत इति शेषानुक्तौ प्रश्नस्य वाक्यार्थाधारत्वविषयत्वयोरभावात् सप्तम्यनुपपन्ना स्यात् । तदुक्तौ तु प्रश्ने सतीत्यर्थलाभात्सप्तम्युपपत्तिरिति भावः । ननु प्रकृष्टः प्रकाशो यस्येति बहुव्रीह्याश्रयणेन प्रकृष्टप्रकाशशब्देन चन्द्रस्य प्रत्यायनान्न तद्विशिष्टो वाक्यार्थ इत्यत आह- भावप्रधान इति ॥ तथा च प्रकाशवैशिष्ट्यं वाक्यार्थत्वेन प्राप्तमिति भावः । पूर्वोक्तेति ॥ तद्देशकालविशिष्टे एतद्देशकालवैशिष्ट्यं वा विशिष्टद्वयैक्यं वेति पूर्वोक्तपक्षद्वयेत्यर्थः ।
ननु यदि प्रश्नोत्तरे विशिष्टविषयके तदा किंविशेषणविशिष्टश्चन्द्रादिरिति प्रश्नः प्रकृष्टत्वादि-विशेषणविशिष्टश्चन्द्रादिरित्युत्तरं च स्यात् । न तूक्तरीत्येत्यत आह- तदयमिति ॥ सतिसप्तमीत्व-मुपपादयति- प्रश्न इति ॥ प्रकृष्टप्रकाशत्वविशिष्ट एव वाक्यार्थ इतीममंशं व्याख्याति- तत्रेति ॥ प्रकृष्टादिवाक्य-सोऽयमित्यादिवाक्ययोर्मध्य इत्यर्थः । ननु प्रकाशवैशिष्ट्यस्य वाक्यार्थत्वे नक्षत्रादि-व्यावृत्तिबोधः कथं स्यादित्यत आह- नक्षत्रेति ॥ तद्देशकालादिविशिष्ट एव वाक्यार्थ इत्यंशं व्याख्याति- सोऽयमित्यादिना ॥ एतद्देशकालवैशिष्ट्यस्य प्रत्यक्षसिद्धत्वेनाबोध्यत्वादिति प्रागुक्तदोषं परिहरति- एतद्देशकालवैशिष्ट्यस्येति ॥ विशेषणादिति ॥ तद्विशिष्टे च तस्यासिद्धत्वादिति भावः । एवं दृष्टान्तयोर्विशिष्टविषयत्वमुपपाद्याऽदिशब्दमहिम्ना दार्ष्टान्तिकद्वयेऽपि तदुपपादयति- एवमेवेत्यादिना ॥
द्वैतद्युमणि
तद्देशेत्यादि ॥ पूर्वोक्तरीत्या ध्वंसप्रागभावावनुसन्धेयौ । अर्थलभ्यमिति ॥ अनुषङ्गप्राप्तम् । न मुख्यतात्पर्यविषयीभूतमित्यर्थः । यथाश्रुतं त्वसङ्गतम् । ऐक्यस्य साक्षाच्छब्दवेद्यत्वस्यैव सत्त्वात् । विशिष्टद्वयैकयमिति ॥ वस्तुतस्त्वित्यादिना पूर्वप्रदर्शितपक्षे विशिष्टपदमाश्रयमात्रपरम् । तद्देशकाल-सम्बन्धैतद्देशकालसम्बन्धाश्रयैक्यमित्यर्थः ।
श्रीराघवेन्द्रतीर्थ
तेनेति उपपद्यत इति शेषकथनेनेत्यर्थः । अन्यथा ‘यस्य च भावेन भावलक्षणम्’१ इति सूत्रे वृत्त्यादौ ‘यस्य च क्रियया क्रियान्तरं लक्ष्यते ततः सप्तमी स्यात् । गोषु दुह्यमानासु गतः’ इत्याद्युक्तत्वेन प्रकृते लक्ष्यभूतक्रियाया अदर्शनात् सप्तम्यनुपपत्तिरिति भावः । प्रकृष्टप्रकाशपदस्य बहुव्रीहितया १धर्मिवाचित्वे तद्वैशिष्ट्यायोगादाह- भावप्रधान इति ॥ पूर्वोक्तेति ॥ तद्देशतत्काल-विशिष्ट इत्युक्त्या वर्तमानदेशकालविशिष्टे तद्देशतत्कालवैशिष्ट्यं बोध्यते इति पक्षस्य प्राप्तत्वात् तद्देशकालविशिष्टे एतद्देशकालवैशिष्ट्यमिति पक्षस्य विशिष्टद्वयैक्यमिति पक्षस्य च संग्रहायाऽदि-पदमित्यर्थः ।
अथ पदार्थं विवृण्वन् मूलवाक्यं व्याचष्टे - तदयमर्थ इति ॥ तस्यायं तदयमिति । अत इति ॥ स्वरूपमात्रे प्रश्नस्यायोगादित्यर्थः । वाचोभङ्ग्येति ॥ प्रश्नवाक्यरीत्येत्यर्थः । भिन्नपदमेतत् । सोऽयमिति वाक्यमपि विशिष्टविषयमिति । नन्वेतद्देशकालवैशिष्ट्यं न प्रतिपादनीयम् । प्रत्यक्ष-सिद्धत्वाद् इत्याशङ्क्य तद्देशकालविशिष्टे न सिद्धमित्याह- एतद्देशकालेति ॥ कदाचिदिति ॥ श्रोतृबुभुत्साऽनुरोधेनेति भावः । विशेषणविवित्सयेति ॥ विविदिषयेत्यर्थः । आगमशासन-स्यानित्यत्वादिडभावेन निर्देशः । एवं प्रकृष्टप्रकाशाऽदिवाक्यदृष्टान्तेनोक्तमखण्डार्थत्वं लक्षण-वाक्यस्य निरस्येदानीं सोऽयमित्यादिवाक्यदृष्टान्तेनोक्तमखण्डार्थत्वं तत्त्वमस्यादिवाक्यस्य निराह- जीवात्मा चेत्यादिना ॥ प्रत्यक्षेणेति ॥ अहमिति मानसप्रत्यक्षेण वा साक्षिणा वा जडात्मत्वज्ञानाद्यात्मत्वाद्यौदासीन्येनावगतः ‘कोऽहम्’ इति पृष्टः प्रश्नकर्ता श्वेतकेतुः प्रति-पाद्यते । कथम् ? ‘तत्त्वमसि’ तद्वत्= ब्रह्मवत् त्वमसि= ज्ञानानन्दरूपोऽसि इत्येवमित्यर्थः । तदाह सूत्रे ‘तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत्’२ इतीति भावः । प्रमाणेति ॥ ‘द्वा सुपर्णा’ इत्यादिप्रमाणेति वा वक्ष्यमाणभेदप्रमाणेति वाऽर्थः । किंविषयौ प्नश्नपरिहारौ । वाचोभङ्ग्या वाग्विन्यासविशेषेण । विशेषणादिति ॥ तद्देशकालविशिष्टे एतद्देशकालवैशिष्ट्यस्यासिद्धत्वेन बोध्यत्वं युक्तमित्यर्थः । ननु पक्षद्वयेऽप्यैक्यस्य शब्दबोध्यत्वाभावात्कथं तथा ३बोधनेन भेदभ्रमनिवृत्तिरित्यत आह- ऐक्यं चेति ॥ सत्य-ज्ञानादिवाक्ये सखण्डार्थतामुपपाद्य तत्त्वमसीत्यादिवाक्येऽपि तामुपपादयति- जीवात्मा चेति ॥ प्रत्यक्षेण अहमिति साक्षिप्रत्यक्षेण । सामान्यतः विशेषणाविशिष्टतया । षृष्ट इति । कोऽहमिति श्वेतकेतुना पृष्ट उद्दालक इत्यर्थः । प्रतिपाद्यते गौण्या वृत्त्येति भावः । तथा च तत्त्वमसीत्यस्य तत्सदृशोऽसीत्यर्थो द्रष्टव्यः । ननु गौण्या वृत्त्या परमात्मसादृश्यविशिष्टतया प्रतिपादनं कस्मादङ्गी-क्रियते । भिन्नप्रवृत्तिनिमित्ततयाऽस्तु तत्त्वंपदयोरेकस्मिन्नर्थे १वृत्तिरूपसामानाधिकरण्यस्य२ असीत्यनेन बोधितत्वान्मुख्यवृत्त्याऽभेद एवात्र प्रतिपाद्यः किं न स्यादित्यत आह- अभेदस्येति ॥
गुरुराजीया
वाक्यार्थं प्रत्याधारत्वविषयत्वयोरभावात् सप्तम्यनुपपत्तिमाशङ्क्य तदुपपत्त्यर्थमाह- उप-पद्यत इतीति ॥ ततश्च वक्ष्यमाणप्रकारेण प्रश्ने सतीति सतिसप्तमीत्वलाभेन तदुपपत्तिरित्याशयः ।
ननु प्रकृष्टप्रकाशपदेन प्रकृष्टः प्रकाशो यस्येति बहुव्रीहिणा चन्द्रस्यैव प्रतिपादनात् तद्विशिष्टस्य परिहारवाक्यार्थत्वप्राप्तावपि विशेषणविशिष्टस्य चन्द्रस्य तदप्राप्तेर्न तस्य प्रकृष्टादिवाक्यार्थत्वमित्यत आह- भावप्रधान इति ॥ लक्षणया भावप्रधान इत्यर्थः । तथा चोक्तरीत्या चन्द्रस्य प्रकृष्ट-प्रकाशरूपत्वेऽपि प्रकृष्टप्रकाशत्वरूपत्वाभावेन तद्विशिष्टचन्द्रस्य युक्तं वाक्यार्थत्वमिति भावः । पूर्वोक्तेति ॥ तद्देशकालविशिष्टे एतद्देशकालवैशिष्ट्यं विशिष्टद्वयैक्यञ्चेत्यवशिष्टपक्षद्वयेत्यर्थः ।
ननु प्रश्नस्य विशिष्टविषयकत्वे ‘कैर्विशेषणैर्विशिष्टः’ इत्येव प्रश्नाकारेण भवितव्यम् । ‘कः’ इत्याकारत्वं तु कथमित्यत आह- अनयेति ॥ वाचोभङ्ग्येति षष्ठ्या अलुक् । प्रकृष्टप्रकाशत्वविशिष्ट एव वाक्यार्थ इत्यंशं योजयति- तत्रेति ॥ वाक्यद्वयमध्य इत्यर्थः ।
ननु प्रकाशत्ववैशिष्ट्यस्य शब्दबोध्यत्वे नक्षत्रादिव्यावृत्तेः शब्दाल्लाभो न स्यादित्यतोऽर्थ-लभ्यत्वान्नक्षत्रादिव्यावृत्तेरशाब्दत्वमिष्टमेवेत्याह- नक्षत्रेति ॥ तद्देशकालादिविशिष्ट एव वाक्यार्थ इत्यंशं योजयति- सोऽयमित्यादिना ॥ विशेषणादिति ॥ तद्विशिष्टे च तस्यासिद्धत्वाद्युक्तं शब्दबोध्यत्वमिति भावः । एवं दृष्टान्तवाक्ये प्रश्नपरिहारयोर् विशिष्टविषयकत्वोपपादनेन सूचितं दार्ष्टान्तिकेऽपि तयोर्विशिष्टविषयकत्वं स्वयमुपदर्शयति- एवमेवेति ॥
गोविन्दीया
तेनेति ॥ वाक्यशेषेणेत्यर्थः । आदीति ॥ आदिपदं पूर्वोक्तस्यैतद्देशकालविशिष्टः विशिष्टद्वयं चेति पक्षद्वयस्य सङ्ग्रहार्थमित्यर्थः। वाचोभङ्ग्येति ॥ वाचो व्यक्तेरित्यर्थः । एतद्देशेति ॥ एतद्देशकालवैशिष्ट्यस्य प्रत्यक्षसिद्धत्वेऽपि तद्देशकालविशिष्टस्येति विशेषणादसिद्धत्वं विशेषण-स्यासिद्धत्वे तस्याप्यसिद्धत्वेन शब्दबोध्यत्वं युक्तमित्यर्थः ।
जनार्दनभट्टीया
सप्तम्युपपत्तिरिति ॥ ‘उपपद्यते’ इति विशेषाकरणे प्रश्ने वाक्यार्थ इति सप्तमीबोधिताधारत्वं नोपपद्यते प्रश्नस्य इति भावः ।१ मूले अतःशब्दार्थम् आदिशब्दलब्धार्थं च प्रतिजानीते– तदय-मिति ॥ ‘सम्पन्नः’ इति शेषः ।