नक्षत्राऽदिव्यतिरेकमात्रस्यापि..
प्रकृष्टादिवाक्यस्य चन्द्रादिस्वरूपमात्रबोधकत्वे कश्चन्द्र इत्यादिप्रश्नानुपपत्तिसमर्थनम्
श्रीमज्जयतीर्थटीका
ननु चन्द्रदेवदत्ताऽदिस्वरूपं सिद्धमपि सङ्कीर्णतयैव । न तु व्यावृत्तत्वाऽदिना । अतः स्वरूप एव प्रश्नो युज्यते । अत एव प्रकाश इत्येवोक्ते नक्षत्रादौ प्रसङ्गात् प्रकृष्ट इत्येव चाभिहिते सन्तमसेऽपि प्रसङ्गान् नक्षत्रादिव्यावृत्त्या चन्द्रस्वलक्षणप्रतिपादनाय प्रकृष्टप्रकाशश्चन्द्र इत्याह । एवं स इति वाऽयमिति वा वचने भेदभ्रमानिरासात्तन्निरासेन देवदत्तस्वरूपमात्रप्रतिपादनाय सोऽयं देवदत्त इत्याहेति गम्यत इति चेन्न । विकल्पानुपपत्तेः । तथा हि । किं व्यावृत्त्यादिमत्स्वरूपं प्रश्नप्रतिवचनविषय इत्यभिप्रायः । उत स्वतन्त्रमेव नक्षत्रादिव्यावृत्त्यादिकम् । आद्ये विशिष्टार्थताऽनिस्तारः । अर्थाक्षिप्तमेव व्यावृत्त्यादि । न शब्दार्थ इति चेन्न । विशेषणार्पणेन विनाऽर्थाक्षेपासिद्धेः । द्वितीयं निराकरोति -
मूल
***नक्षत्राऽदिव्यतिरेकमात्रस्यापि सिद्धत्वान्न व्यतिरेकमात्रे ***
अत्रापि प्रश्न इत्यनुवर्तते । व्यतिरेक इत्युपलक्षणम् । भेदाभावोऽपि ग्राह्यः । मात्रशब्देन व्यतिरेकादेः स्वातन्त्र्यं सूचयति । सिद्धत्वाद् घटादाविति शेषः । न हि प्रष्टा घटादौ नक्षत्रादिव्यतिरेकं भेदाभावं वा न जानातीति युज्यते । स्वरूपमात्रस्य सिद्धत्वाद् इत्युक्तम् । तत्कुत इत्यत आह-
मूल
***अन्यथा प्रश्नस्यैवासम्भवात् ***
यदि प्रष्टा चन्द्रादिस्वरूपमात्रं न जानीयात्तदा चन्द्र इति अयमिति चानूद्य क इति कथं पृच्छेत् । न ह्यविदितं वस्त्वनुवदितुं शक्यते । तेन ज्ञायते चन्द्रादिस्वरूपं तस्य सिद्धमिति ।
श्रीविजयीन्द्रभिक्षु
चन्द्रादिस्वरूपस्येतरव्यावृत्ततया भेदाभाववत्तया च सिद्ध्यभावात् स्वरूपमात्रविषयक-प्रश्नोपपत्तिरिति शङ्कते- ननु चन्द्रेति ॥ सङ्कीर्णतयेति ॥ सिद्धमित्यनुषज्ज्यते । प्रतिवचनानु-गुण्यादपीतरव्यावृत्तभेदाभाववच्चन्द्रदेवदत्तादिस्वरूपमेव प्रश्नविषय इत्याशयेनाऽह- अत एवेति ॥ व्यावृत्त्यादिमदित्यादिपदेन भेदाभावपरिग्रहः । स्वतन्त्रमेवेति ॥ चन्द्रादिस्वरूपाविषयमेवेत्यर्थः । आद्य इति ॥ चन्द्रस्वरूपनक्षत्रादिव्यावृत्त्योर्भेदाभावदेवदत्तस्वरूपयोश्च संसर्गप्रत्यायनादिति भावः । अर्थाक्षिप्तमेवेति ॥ तथा च शाब्दप्रतीतेः संसर्गागोचरत्वेन न शब्दस्याखण्डार्थत्वहानिरिति भावः । विशेषणार्पणेनेति ॥ वस्तुतो व्यावर्तकधर्मवैशिष्ट्याबोधने, तत्तेदन्तयोः सामानाधिकरण्याबोधने चानुपपत्त्यभावेन व्यावृत्तेर्भेदाभावस्य चाऽक्षेप्यत्वानुपपत्तेरित्यर्थः । तथा च चन्द्रादिस्वरूपे व्यावृत्तिबोधमिच्छता देवदत्तादिस्वरूपे भेदाभावबोधमिच्छता च प्रकृष्टादिलक्षणवाक्येन तत्र व्यावर्तकधर्मवैशिष्ट्यप्रत्यायनं तत्तेदन्तयोः सामानाधिकरण्यप्रत्यायनञ्चावश्यमङ्गीकार्यमिति सखण्डार्थत्वं वज्रलेपायितमिति भावः । मूले व्यतिरेकपदं भेदार्थकम् । उक्तदूषणस्योदाहरण-द्वयसाधारण्यायाऽह- व्यतिरेक इतीति ॥ स्वातन्त्र्यमिति ॥ चन्द्रादिस्वरूपान्विततयाऽनुपस्थित-त्वमित्यर्थः । अन्यथेत्युत्तरवाक्यस्याव्यवहितपूर्ववाक्येनान्वयस्यानुपपन्नत्वादवतारयति- स्वरूप-मात्रस्येति ॥ असम्भवमुपपादयति- यदीति ॥
श्रीवेदेशतीर्थ
व्यावृत्तत्वादिनेति ॥ आदिपदेन भेदाभाववत्तयेति ग्राह्यम् । तथा च चन्द्रस्वरूपं नेतरव्यावृत्तत्वेन सिद्धम् । देवदत्तस्वरूपन्तु भेदाभाववत्तया न सिद्धमित्यर्थः । स्वरूप एवेति ॥ असङ्कीर्णाभिन्नस्वरूप एवेत्यर्थः । अत एवेति ॥ असङ्कीर्णाभिन्नस्वरूपस्य पृष्टत्वादेवेत्यर्थः । व्यावृत्त्यादिमदित्यादिपदेन भेदाभावपरिग्रहः । एवमुत्तरत्रापि ॥ स्वतन्त्रमेवेति ॥ चन्द्रादि-स्वरूपाविशेषणमेवेत्यर्थः । आद्य इति ॥ व्यावृत्तत्वादिविशिष्टस्वरूपबोधनादिति भावः । अर्था-क्षिप्तमेवेति ॥ तथा च शाब्दप्रतीतेर्विशिष्टागोचरत्वेन न शब्दार्थस्याखण्डत्वक्षतिरिति भावः । विशेषणार्पणेनेति ॥ वस्तुतो व्यावर्तकधर्मवैशिष्ट्याबोधने तत्तेदन्तयोः सामानाधिकरण्याबोधने चानुपपत्त्यभावेन व्यावृत्तेर्भेदाभावस्य चाऽक्षेप्यत्वानुपपत्तेरित्यर्थः । तथा च चन्द्रादिस्वरूपे व्यावृत्तिबोधमिच्छता भेदाभावबोधमिच्छता च प्रकृष्टादिलक्षणवाक्येन तत्र व्यावर्तकधर्मवैशिष्ट्य-प्रतिपादनं सोऽयमिति वाक्येन तत्तेदन्तयोः सामानाधिकरण्यप्रतिपादनञ्चावश्यमङ्गीकार्यमिति सखण्डार्थत्वं वज्रलेपायितमिति भावः ।
श्रीराघवेन्द्रतीर्थ
व्यावृत्तत्वादिनेत्यादिपदेन भेदशून्यतयेति ग्राह्यम् । अत एवेति ॥ व्यावृत्तत्वादिना सिद्धत्वाभावादेवेत्यर्थः । अस्य नक्षत्रादिव्यावृत्त्येत्युत्तरवाक्येनान्वयः । सन्तमस इति । ‘अव-समन्धेभ्यस्तमसः’१। इति समासान्तः । स्वलक्षणेति ॥ स्वरूपमात्रेत्यर्थः । व्यावृत्त्यादिमत्स्वरूप-मित्यत्र भेदाभाववत्स्वरूपमिति वा अभेदवत् स्वरूपमिति वाऽदिपदेन ग्राह्यम् । एवमग्रेऽपि । अर्थाक्षिप्तमेवेति ॥ तथा च व्यावृत्त्यादेः शब्दार्थत्वाभावान्नाखण्डार्थत्वप्रच्युतिः शब्दस्येति भावः । विशेषणेति ॥ प्रकृष्टप्रकाशत्वादिविशेषणार्पणेन विना नक्षत्रादिव्यावृत्त्यादेराक्षेपा-सिद्धेरित्यर्थः । द्वितीयमिति ॥ विशेष्यासंस्पृष्टस्वतन्त्रव्यावृत्तिभेदाभावौ प्रश्नप्रतिवचनयोर्विषया-विति पक्षमित्यर्थः । व्यतिरेक इतीति ॥ व्यावृत्तिरित्यर्थः । सोऽयमित्युदाहरणाभिप्रायेणाऽह- भेदाभावोऽपि ग्राह्य इति ॥ स्वातन्त्र्यमिति । चन्द्रादिधर्म्यसंस्पृष्टत्वेन भानमित्यर्थः । भेदाभाव-मिति ॥ यत्र क्व च विद्यमानं वा घटादौ स्वप्रतियोगिकभेदाभावं वेत्यर्थः । सिंहावलोकनन्यायेन प्रागुक्तस्य विवरणमुत्तरवाक्यमिति भावेनावतारयति- स्वरूपमात्रस्येति ॥ सङ्कीर्णतयेति । नक्षत्रादिसाधारण्येनेत्यर्थः । सन्तमसेऽपीति ॥ अन्धकारेऽपीत्यर्थः । तस्यापि बहुतरत्वेन प्रकृष्टत्वादिति भावः । स्वलक्षणेति ॥ शुद्धं वस्तु स्वलक्षणमिति वचनात् १इतर-व्यावृत्तशुद्धचन्द्रस्वरूपप्रतिपादनायेत्यर्थः । देवदत्तेति ॥ असङ्कीर्णदेवदत्तस्वरूपमात्रेत्यर्थः । अर्थाक्षेपासिद्धेरिति ॥ व्यावृत्त्यादेरर्थादाक्षिप्तत्वस्याप्यसिद्धेरित्यर्थः । ग्राह्य इति ॥ सोऽयमिति वाक्यबोध्यस्य भेदाभावमात्रस्यासिद्धत्वान्न भेदाभावमात्रे प्रश्न इति ग्राह्यमित्यर्थः ।
गुरुराजीया
व्यावृत्तत्वादिनेत्यादिपदेन भेदाभाववत्त्वपरिग्रहः । ततश्चन्द्रस्वरूपमसङ्कीर्णत्वेन देवदत्तस्वरूपं भेदाभाववत्त्वेन न सिद्धमिति योजना । स्वरूपमात्रेति ॥ असङ्कीर्णाभिन्नचन्द्र-देवदत्तस्वरूपमात्रेत्यर्थः । अत एवेति ॥ असङ्कीर्णचन्द्रस्वरूपस्य पृष्टत्वात् तत्प्रतिपादयितुं प्रसङ्गद्वयपरिहारकपदद्वयोपादानमर्थवत् । अन्यथा तन्न स्यादिति भावः । अत एवेति ॥ भिन्न-देवदत्तस्वरूपस्य पृष्टत्वात्तत्प्रतिपादयितुं पदद्वयोपादनमर्थवत् । अन्यथा तन्न स्यादिति भावः । व्यावृत्त्यादीत्यादिपदेन भेदाभावपरिग्रहः । स्वतन्त्रमेवेति ॥ चन्द्राद्यविशेषणभूतमेवेत्यर्थः । आद्य इति ॥ व्यावृत्त्यादिविशिष्टस्वरूपबोधनादिति भावः । अर्थाक्षिप्तमेवेति ॥ अर्थाक्षिप्तस्य शब्दार्थत्वाभावेन शब्दार्थस्य नाखण्डत्वक्षतिरिति भावः । विशेषणार्पणेनेति ॥ अन्यथा तीरस्या-गङ्गात्वाबोधनेऽपि गङ्गाव्यावृत्तिसिद्धिप्रसङ्गादिति भावः । ततश्च विशेषणार्पणस्यावश्यम्भावाद् वाक्यद्वयस्य सखण्डार्थत्वमवर्जनीयमिति भावः । तेनेति । अनुवादादिनेत्यर्थः ।
गोविन्दीया
नन्विति ॥ चन्द्रदेवदत्तादिस्वरूपसं(सिद्धत्वासिद्धत्वाभ्यां)कीर्णतया भेदवत्तया सिद्धमपि सर्वव्यावृत्तत्वभेदाभाववत्त्वेन न सिद्धमित्यर्थः । विकल्पेति ॥ चन्द्रदेवदत्तादिस्वरूपस्य सिद्धत्वासिद्धत्वाभ्यां विकल्पाऽनुपपत्तेरित्यर्थः । तथा हीति ॥ व्यावृत्तिमच्चन्द्रस्वरूपभेदाभाव-वद्देवदत्तस्वरूपं प्रश्नप्रतिवचनविषयः किमुत नक्षत्रादिव्यावृत्तिर् भेदाभावश्च स्वतन्त्रमेव तन्मात्रमेव विषयः किम् ? इत्यर्थः । न शब्दार्थ इति ॥ चन्द्रदेवदत्तशब्दार्थौ नेत्यर्थः । विशेषणेति ॥ प्रकृष्टप्रकाशः, सोऽयमिति च विशेषणार्पणेन विना वृत्तिभेदाभावरूपार्थाक्षेपस्य चन्द्रदेवदत्तादा-वसिद्धेरित्यर्थः । तथा च तद्विशेषणयुक्तत्वाद्विशिष्टार्थतानिस्तार इति भावः । व्यतिरेकमिति ॥ व्यावृत्तिरित्यर्थः । तदिति ॥ चन्द्रदेवदत्तादिस्वरूपस्य सिद्धत्वं कुतो ज्ञायत इत्यर्थः । अन्य-थेति ॥ स्वरूपस्य सिद्धत्वाभाव इत्यर्थः ॥ स्वरूपमर्थापत्तिप्रमाणसिद्धमिति भावः ।
जनार्दनभट्टीया
सङ्कीर्णतयैवेति ॥ इतरविलक्षणत्वाविलक्षणत्वौदासीन्येनेत्यर्थः । सन्तमस इति ॥ सन्तमसेऽपि स्पष्टचाक्षुषसाक्षात्कारविरोध्यक्षिपटलाद्यपेक्षया तादृशप्रकर्षवत्त्वादिति भावः । व्यावृत्त्यादिमदिति ॥ व्यावृत्त्यादिविशिष्टमित्यर्थः । स्वतन्त्रमेवेति ॥ अन्याविशेषणीभूतमित्यर्थः । अर्थाक्षिप्तमिति ॥ ‘प्रकृष्टप्रकाशश्चन्द्रः’ इत्यादौ अप्रकाशव्यावृत्त्यादिकम् अर्थेन= प्रकाशपदबोधितेन प्रकाशरूपार्थेन, आक्षिप्तम्= अनुमितं, न तु शब्दार्थः । शब्दवृत्तिज्ञानजन्यज्ञानविषयो नेत्यर्थः । वाक्यार्थज्ञानानन्तरम् आक्षेपः । स च विशिष्टार्थप्रतिपादनमन्तरेण नोपपद्यत इत्याह – विशेषार्पणे-नेति ॥ ‘पर्वते धूमोऽस्ति’ इति वाक्यश्रवणानन्तरं वह्न्याक्षेपस्थले आधाराधेयभावरूप-संसर्गबोधनानन्तरमेव वह्न्याक्षेपस्य दर्शनात् । अन्यथा ‘पर्वतधूमौ’ इति ज्ञानानन्तरमपि वह्न्याक्षेपापत्तेरिति भावः । नहि ‘पर्वते धूमः’ इति ज्ञानानन्तरं वह्न्याक्षेपो दृश्यत इति भावः । भेदाभावं वेति ॥ घटादिभेदाभावं वेत्यर्थः ।