०६ विश्वमिथ्यात्वसाधकाभिमतानुमानागमयोरागमविशेषविरोधसमर्थनम्

नासतोऽदृष्टत्वात्..

विश्वमिथ्यात्वसाधकाभिमतानुमानागमयोरागमविशेषविरोधसमर्थनम्

श्रीमज्जयतीर्थटीका

एवं सामान्यतोऽनुमानागमयोरागमविरोधमभिधाय विशेषतोऽपि तं दर्शयति -

मूल

*‘नासतोऽदृष्टत्वात्’२, ***

***‘नाभाव उपलब्धेः’३, ***

***‘वैधर्म्याच्च न स्वप्नादिवत्’४ ***

इत्यादिभगवद्वचनेनापि निरस्ताः ।

आदिपदेन पृथगुपदेशात् (ब्र.सू. २.३.२७) इत्यादिकमात्मभेदप्रतिपादकं सूत्रं गृह्यते । यद्यपि प्रागुदाहृतानि भगवद्वचनान्येव तथाऽपि विशेषतो विरोधित्वं निर्णायकत्वेन प्राबल्यं वा सूचयितुं भगवद्वचनेनापीत्युक्तम् । निरस्ताः प्रपञ्चमिथ्यात्वादिपरा अनुमानागमा इति शेषः । तद्वादिन इति वा ।

श्रीविजयीन्द्रभिक्षु

इत्यादिकमित्यादिपदेन ‘भेदव्यपदेशाच्चान्यः’१ ‘शारीरश्चोभयेऽपि हि भेदेनैनमधीयते’२ ‘भेदव्यपदेशात्’३ ‘स्थित्यदनाभ्यां च’४ ‘सुषुप्त्युत्क्रान्त्योर्भेदेन’५ इत्यादिसूत्रं गृह्यते । भगवत्पद-मव्यावर्तकमिति शङ्कते- यद्यपीति ॥ सूत्राणां श्रौतन्यायनिबन्धनरूपत्वेन परमाप्तप्रणीतत्वेन च निर्णायकत्वात् प्राबल्यमित्यर्थः । प्रपञ्चमिथ्यात्वादिपरा इति ॥ तत्साधकत्वेन परोक्ता इत्यर्थः । तद्वादिन इति वेति ॥ यद्यपि तद्वादिनिरासोऽपि तदुक्तप्रमाणनिरास एव पर्यवस्यति तथाऽपि तद्वादिन इति बहुवचनेन तद्वादिमात्रनिरासप्रतिपादनेन ‘पराजयो वादिदौर्बल्यप्रयुक्त एव । न तु शास्त्रदौर्बल्यप्रयुक्तः’ इति परोक्त्यवकाशनिरासं ज्ञापयितुं पक्षान्तरोक्तिः ।

श्रीवेदेशतीर्थ

इत्यादिकमिति ॥ अत्र आदिपदेन ‘भेदव्यपदेशाच्चान्यः’ इत्यादिकं गृह्यत इति द्रष्टव्यम् । भगवद्वचनेनापीत्युक्तमिति ॥ पूर्वं भगवद्वचनमित्यनुक्त्वाऽत्र भगवद्वचनतोक्त्योदाहृत-वचनेष्वतिशयो दर्शितः । स चोक्तरूप एवेति ज्ञायत इति भावः । प्रपञ्चमिथ्यात्वादिपरास् तत्साधकत्वेन परोदाहृताः ।

श्रीराघवेन्द्रतीर्थ

अनुमानेति ॥ मिथ्यात्वानुमानागमयोरित्यर्थः । इत्यादिकमात्मभेदेति ॥ ‘अंशो नानाव्यपदेशात्’६ । ‘अत एव चोपमा सूर्यकादिवत्’७ । ‘भोक्त्रापत्तेरविभागश्चेत्’८ इत्यादिरादि-पदार्थः । भगवद्वाक्यान्येवेति । व्यासस्मृतिरित्युक्तत्वादिति भावः । विशेषत इति ॥ मायावादिमतनिरासार्थमेव प्रवृत्तत्वादिति भावः ।

गुरुराजीया

स्पष्टास्पष्टागमविरोधस्य ‘न च मायाविना’ इत्यादिनैवोक्तत्वात् पुनस्तदभिधाने पुनरुक्ति-रित्यत उक्तम्- सामान्यत इति ॥ इत्यादिकमिति ॥ भाव्या दिशा ‘अत एव चोपमा’९ इत्यादेरुत्तरस्य विपरीतक्रमेण ‘भेदव्यपदेशात्’१० इत्यादेश्च भेदप्रतिपादकसूत्रान्तरस्य परिग्रहः । भगवद्वचनान्येवेति ॥ तथा च व्यावर्त्याभावात् तदुक्तिरनर्थिकेति भावः । अतिशयं दर्शयति- तथाऽपीति ॥ प्रपञ्चमिथ्यात्वादिपरा इति ॥ आदिशब्देन भेदाभावपरिग्रहः । यद्यप्युदाहृतश्रुतयो वस्तुतो न प्रपञ्चमिथ्यात्वपराः । तथाऽपि तत्साधकतया परेणोपन्यस्तत्वमेव तत्परत्वमित्यभि-प्रेत्यैवमुक्तमिति ध्येयम् । अत एवापरितोषात् पक्षान्तरमाह- तद्वादिन इति वेति ॥

गोविन्दीया

नासतोऽदृष्टत्वात्१ इति ॥ निर्विशेषस्य ब्रह्मणः जगत्कारणत्वं नास्ति, कुतः ? अदृष्टत्वादित्यर्थः । नाभाव उपलब्धेः२ इति ॥ जगद् अभावो ऽसद् न । अबाधितत्वे सति सत्त्वेन प्रतीयमानत्वात् । शुक्तिरजतादौ व्यभिचारवारणायाबाधितेति विशेषणमित्यर्थः । ‘जगद् असत् सत्त्वेन प्रतीयमानत्वात्, स्वप्नादिवत्’ इत्यनुमानेन जगतोऽसत्त्वोपपत्तेरित्याशङ्क्याऽह- वैधर्म्याच्च न स्वप्नादिवत्३ इति ॥ स्वप्नमनोरथजन्यवस्तुवत् सत्त्वेन प्रतीयमानमपि जगद् असन् न, स्वप्नादिवस्त्वपेक्षया जगति बाधाभावलक्षणविरुद्धधर्मस्य सत्त्वात् । न केवलं प्रत्यक्षविरोधाज्जगदसन् न, अपि तु वैधर्म्याच्चेति दूषणान्तरसमुच्चयार्थश् चशब्द इत्यर्थः । एतानि सूत्राणि मूलारूढानि । मूलस्थादिपदसङ्गृहीतं सूत्रमाह- पृथगुपदेशात्४ इति ॥ ब्रह्म जीवात्मनः सकाशात् पृथक् भिन्नं कुतः ? उपदेशात् । श्रुत्यादिषूक्तत्वादित्यर्थः । व्याख्यानस्थादिपदसङ्गृहीतसूत्रं ५चाह- ‘भेदव्यपदेशाच्चान्यः’ इति ॥ जीवात्मा अन्यः श्रुत्यादिषु भेदेन व्यपदेशाद् उक्तत्वाच्चेत्यर्थः ।

जनार्दनभट्टीया

अनुमानागमयोरिति ॥ मिथ्यात्वानुमानागमयोरित्यर्थः । पृथगुपदेशादित्यादिकमिति ॥ आदिशब्देन ‘शारीरश्च उभयेऽपि हि भेदेनैनमधीयते’६, ‘भेदव्यपदेशाच्च’७ इति सूत्रे गृह्येते ।