ईशोऽनीशो जगन्मिथ्या न ..
जगत्सत्यत्वादिविषये सर्वानुगुणश्रुत्युदाहरणम्
श्रीमज्जयतीर्थटीका
स्पष्टं च तं दिदर्शयिषुरागमोदाहरणे तस्य जगत्सत्यतापरत्वोपपादने प्राबल्य-व्युत्पादनेऽनुपपत्त्यन्तरपरिहारे च प्रयासनिरासाय सर्वानुगुणां स्मृतिमुदाहरति -
मूल
***ईशोऽनीशो जगन्मिथ्या न पूज्यो गुरुरित्यपि । ***
एक आत्मा परब्रह्मभावो मुक्तिरिति ह्यपि ॥
इति शब्दः प्रत्येकमभिसम्बद्ध्यते । अत एव द्विर्ग्रहणम् । एवमपिशब्दोऽपि । हिशब्दो हेतौ
मूल
एवमादि विरुद्धानि वचनान्यथ युक्तयः ।
प्रमाणैर्बहुभिर्ज्ञेया आभासा इति वैदिकैः ॥
एवमादीति लुप्तविभक्तिकं भिन्नं पदम् । अथेति समुच्चये । यस्मादीशोऽनीश इत्येवमादीनि वचनानि बहुभिर्वैदिकैः प्रमाणैर्विरुद्धास् तस्मादाभासानीति ज्ञेयानि । तथैवमादयो युक्तयोऽपि यस्माद्बहुभिर्वैदिकैः प्रमाणैर्विरुद्धास्तस्मादाभासा इति ज्ञेया इति योज्यम् । वचनापेक्षया विरोधि-प्रमाणानां प्राबल्यसमर्थनाय बहुभिरित्युक्तम् । उपलक्षणमेतत् । निरवकाशत्वादिकमपि ग्राह्यम् । अवैदिकवचनापेक्षया युक्त्यपेक्षया च प्राबल्योपपादनाय बहुभिरिति वैदिकैरिति चोक्तम् ।
श्रीविजयीन्द्रभिक्षु
तम् आगमविरोधम् । आगमोदाहरण इति ॥ पृथगागमोदाहरण इत्यर्थः । तस्येति ॥ उपक्रमादिलिङ्गैरिति शेषः । प्राबल्येति ॥ निरवकाशत्वादिना परोक्तागमान्तरापेक्षया प्राबल्योप-पादन इत्यर्थः । अनुपपत्त्यन्तरेति ॥ परोक्तार्थान्तरशङ्कारूपानुपपत्त्यन्तरेत्यर्थः । सर्वानुगुणा-मिति ॥ उक्तप्रयासरहितां स्वाभिप्रेतार्थसाधिकामित्यर्थः । अनीशो जीवः । ईशश्चाऽत्मा । मुह्यते भोक्तृत्वादिनेति मूलार्थः । प्रत्येकमिति ॥ इशोऽनीश इति जगन्मिथ्येति गुरुः पूज्यो नेति एक आत्मेति परब्रह्मभावो मुक्तिरिति प्रत्येकमित्यर्थः । इतिशब्दाऽवृत्तौ प्रमाणमाह- अत एवेति ॥ एवमिति ॥ इतिशब्दवदपिशब्दोऽपि प्रत्येकं सम्बद्ध्यत इत्यर्थः । हिशब्द इति ॥ ‘न ह्यत्रानुयाजा इज्यन्ते’ इत्यादौ हिशब्दस्य हेत्वर्थकत्वदर्शनादिति भावः ।
एवमादिविरुद्धानीति पदैक्यश्रवणेऽपि विवक्षितार्थलाभाय पदच्छेदपूर्वकं व्याचष्टे-एवमादीति ॥ लुप्तविभक्तिकमिति ॥ ‘सुपां सुलुक्’१ इत्यादिना पाणिनिस्मरणादिति भावः । यद्यपि ‘सुपां सुलुक्’ इति छन्दोविषयं तथाऽपि छन्दोवत्पुराणानि भवन्तीत्युक्तेः पुराणानामपि छन्दस्त्वा-त्तद्विषयत्वमुपपद्यत इति भावः । समुच्चय इति ॥ अव्ययानामनेकार्थत्वादिति भावः । पदार्थमुक्त्वा वाक्यार्थमाह- यस्मादिति ॥ वचनापेक्षयेति ॥ ईशोऽनीश इत्याद्यर्थकवैदिकवचनापेक्षया । विरोधिप्रमाणानामिति ॥ बाधकप्रमाणानामित्यर्थः । बहुभिरित्युक्तमिति ॥ प्रमाणैरिति बहुवचनेनैव प्रमाणबाहुल्यलाभात् पुनर्बहुभिरित्युक्तिरत्यन्तबहुत्वं ज्ञापयतीति भावः । निरवकाश-त्वादीत्यादिपदेन विशेषविषयत्वादिपरिग्रहः । युक्त्यपेक्षयेति सामान्योक्त्या शुष्कयुक्त्यपेक्षया तु नितरां प्राबल्यं द्योतितम् ।
श्रीवेदेशतीर्थ
तम् आगमविरोधम् । आगमोदाहरणे पृथग्जगत्सत्यताप्रतिपादकागमोदाहरणे । तस्य जगत्सत्यतापरत्वोपपादन इति ॥ उपक्रमादिभिरिति शेषः । प्राबल्यव्युत्पादने निरवकाशत्वादिनेति शेषः । अनुपपत्त्यन्तरपरिहार इति ॥ परोक्तार्थान्तरपरत्वशङ्कारूपानुपपत्त्यन्तरपरिहार इति भावः । परोक्तार्थे उपक्रमाद्यनानुकूल्यप्रदर्शन इति यावत् । एवमपिशब्दोऽपीति ॥ प्रत्येकभिसम्बद्ध्यत इत्यन्वयः । एवमादीत्यस्य न विरुद्धानीत्यनेन समासः । विवक्षितार्थालाभात् । वचनानी-त्येतद्विशेषणत्वे त्वेवमादीनीति स्यादित्यत आह- एवमादीतीति ॥ ‘सुपां सुलुक्’ इति स्मरणादिति भावः । समुच्चय इति ॥ अव्ययानामनेकार्थत्वादिति भावः ।
पदार्थमुक्त्वा वाक्यार्थमाह- यस्मादित्यादिना ॥ वचनापेक्षयेति ॥ परपक्षसाधकवैदिकवचना-पेक्षयेत्यर्थः । बहुभिरित्युक्तमिति ॥ प्रमाणैरिति बहुवचनेनैव बहुत्वलाभे पुनर्बहुभिरित्युक्त्याऽ-त्यन्तं बहुत्वं सूचितमिति भावः । अत्र वैदिकैरित्येतत्स्वरूपकथनार्थम् । न वक्ष्यमाणरीत्या प्राबल्यव्युत्पादकम् । तदीयवचनेष्वपि वाचारम्भणमित्यादिषु वैदिकत्वस्य सत्त्वादित्यवधेयम् । अवैदिकवचनापेक्षयेति ॥ तदाचार्यवचनापेक्षयेत्यर्थः । युक्त्यपेक्षयेति ॥ मिथ्यात्वादिसाधक-दृश्यत्वादियुक्त्यपेक्षयेत्यर्थः ॥
श्रीराघवेन्द्रतीर्थ
१स्फुटं तमिति ॥ आगमविरोधमित्यर्थः । दिदर्शयिषुर् दर्शयितुमिच्छावान् । आगमोदाहरणेत्यादिसप्तम्यन्तानां निरासायेत्यनेनान्वयः२ । ‘विश्वं सत्यम्’ इति ॥ ‘यच्चिकेत सत्यम्’ इति ‘प्रघान्वस्य’ इति ‘द्वासुपर्णा’ (ऋ. २.३.१७) इत्याद्यागमोदाहरणे ३प्रयासः । तस्य सत्यतापरत्वं प्रामाण्यस्वतस्त्वादिनोपपादनीयमिति तदुपपादनमायासः । तेषां च मिथ्यात्वागमाद्य-पेक्षया बहुत्वनिरवकाशत्वादिना प्राबल्योपपादनमायासः । अर्थवादत्वानुवादत्वादिपरोक्तार्थान्तर-परत्वरूपानुपपत्त्यन्तरपरिहारश्चायासः । तत्सर्वायासनिरासायेत्यर्थः । सर्वानुगुणामिति ॥ आगमोदाहरणाद्यनुगुणामित्यर्थः । स्मृतिमिति ॥ तत्र प्रमाणैर्बहुभिरित्युक्त्या आगमादि-प्रमाणानामुक्तबहुत्व४प्रयुक्तप्राबल्यस्य ‘आभासाः’ इत्युक्त्या ‘अन्यार्थकल्पना’ इत्याद्युक्त्या चानुपपत्त्यन्तरपरिहारस्य च लाभादिति भावः । प्रत्येकमिति ॥ ईशोऽनीश इति जगन्मिथ्येति गुरुः पूज्यो नेति एक आत्मेति परब्रह्मभावो मुक्तिरिति प्रत्येकमित्यर्थः । अत एवेति ॥ प्रत्येकमभिसम्बन्धनीयत्वादेवेत्यर्थः । इतिशब्दस्येति शेषः । अपिशब्दोऽपीति ॥ प्रत्येकमभि-सम्बद्ध्यत इत्यर्थः । हिशब्दो हेताविति ॥ तस्योत्तरत्रान्वय इति भावः ।
स्मृतिशेषं पठित्वा व्याचष्टे- एवमादीति ॥ विरुद्धपदेन योग्यताविरहाद्वचनादिपदेनान्वया-याऽह- लुप्तविभक्तिकं भिन्नं पदमिति ॥ ‘सुपां सुलुक्’५ इत्यादिना छान्दसः सुपो लुगित्यर्थः। लुब्लुपोरेकार्थत्वाल्लुप्तेति । ६आभासानीति ॥ आ ईषद् भासः सद्वचनवत्प्रतिभासा येषान्तानीति बहुव्रीहिः । तेन नपुंसकत्वं साध्विति ज्ञेयम् । तथेति ॥ समुच्चय इत्युक्तं व्यनक्ति - तथैवमादयो युक्तय इति ॥ ईशादेरनीशत्वादिसाधकयुक्तय इत्यर्थः । एवमादीति पदमत्राप्यन्वेतीति भावः । निरवकाशत्वादिकमिति ॥ उपजीव्यत्वमादिपदार्थः ।
‘द्विविधं बलवत्त्वं च बहुत्वाच्च स्वभावतः ।
तयोः स्वभावो बलवानुपजीव्यादिकश्च सः ॥’१
इत्युक्तेरिति भावः । बहुभिः प्रमाणैरित्येव पूर्तौ वैदिकैरित्युक्तेः कृत्यमाह- अवैदिकेत्यादिना ॥ स्पष्टं चेति ॥ जगत्सत्यत्वप्रतिपादकागमविरोधम् । आगमोदाहरणे अम्बरादिसत्यत्व-साधकागमोदाहरणेऽस्माभिः कृते सतीत्यर्थः । तस्य आगमस्य सर्वानुगुणां परोक्तसमस्तविरुद्ध-प्रमेयबाधकतयानुगुणामित्यर्थः । मूले ईशः विष्णुर् अनीशः जीववद् दुःखीत्यर्थः । द्विर्ग्रहण-मिति ॥ प्रत्येकं सम्बन्धसूचनार्थमेव द्विवारमितिशब्दो गृहीत इत्यर्थः ।
गुरुराजीया
ननु चाऽगमविरोधस्य ‘न च मायाविना’ इत्यादिनैवोक्तत्वात् पुनस्तत्प्रदर्शने कथं न पौनरुक्त्यम् इत्यत उक्तम्- स्पष्टमिति ॥ पूर्वत्रेवोत्तरत्राप्यस्पष्टागमविरोधस्योत्तरत्रेव पूर्वत्रापि स्पष्टागमविरोधस्यैवाभिधाने पौनरुक्त्यप्रसङ्गेऽपि पूर्वत्रास्पष्टागमविरोधस्योत्तरत्र स्पष्टागमविरोधस्य प्रदर्शने न तत्प्रसङ्ग इति भावः । तर्हि स एव प्रदर्शनीय इत्यत आह- आगमोदाहरण इति ॥ पृथग्जगत्सत्यत्वादिप्रतिपादकागमोदाहरण इत्यर्थः । तस्येति ॥ उपक्रमादिभिरिति शेषः । प्राबल्येति ॥ निरवकाशत्वादिनेति शेषः । अनुपपत्त्यन्तरेति ॥ परोक्तार्थान्तरपरताशङ्का-रूपानुपपत्त्यन्तरपरिहार इत्यर्थः । परोक्तार्थे उपक्रमाद्यनानुकूल्यप्रदर्शन इति यावत् । प्रत्येक-मिति ॥ ईशोऽनीश इति जगन्मिथ्येतीत्यादिरूपेण प्रत्येकमभिसम्बद्ध्यत इत्यर्थः ।
ननु किं तस्य प्रत्येकमभिसम्बन्धकल्पनया । यत्र श्रूयते तत्रैव सम्बन्धः किं न स्यादित्यत आह- अत एवेति ॥ प्रत्येकं सम्बन्धस्याभिप्रेतत्वादेवेत्यर्थः । अन्यथा एकेनैवेतिशब्देन पूर्त्या द्विस्तदुपादानवैयर्थ्यप्रसङ्गादिति भावः । २एवमपिशब्दोऽपीति ॥ ईशोऽप्यनीशेति जगदपि मिथ्येतीत्यादिरूपेणापिशब्दोऽपि प्रत्येकभिसम्बध्यत इत्यर्थः । अन्यथैकेनैवापिशब्देन पूर्त्या द्विस्तदुपादानवैयर्थ्यप्रसङ्गादिति भावः । एवमादीत्यस्य विरुद्धानीत्यनेनान्वये वैयर्थ्यं विवक्षितार्था-लाभश्चेत्यतो वचनविशेषणत्वं युक्तिविशेषणत्वं वा वाच्यम् । तत्र वचनविशेषणत्वे एवमादीनीति युक्तिविशेषणत्वे च एवमादय इति प्रसक्त्या एवमादीति निर्देशानुपपत्तिरित्यतस्तदुपपत्त्यर्थमाह- एवमादीति ॥ ततश्च तस्य न विरुद्धानीत्येतद्विशेषणत्वम् । अतो न वैयर्थ्यादिप्रसङ्गो दोषः । ‘सुपां सुलुक्’ इति विभक्तिलोपविधायकशास्त्रानुसारेण लुप्तविभक्तिकत्वाच्च एवमादीनीति एवमादय इति चाप्रसक्त्या एवमादीति निर्देशोपपत्तिश्चेत्यर्थः । समुच्चय इति ॥ अव्ययाना-मनेकार्थत्वादिति भावः । एवमादीत्यस्योभयविशेषणतामाश्रित्य वाक्ययोजनाप्रकारमाह- यस्मादित्यादिना ॥ वचनापेक्षयेति ॥ परपक्षसाधकवैदिकवचनापेक्षयेत्यर्थः । बहुभिरित्युक्त-मिति ॥ प्रमाणैरिति बहुवचनेन बहुत्वे लब्धेऽपि बहुभिरित्युक्त्याऽतिबहुत्वस्यैव सूचितत्वादिति भावः । अत्र च वैदिकैरिति स्वरूपकथनमेव । न प्राबल्यव्युत्पादकम् । वाचारम्भणमित्यादिपर-पक्षसाधकवाक्येष्वपि वैदिकत्वस्य सत्त्वेन तस्य प्राबल्योपपादकत्वासम्भवादिति ध्येयम् । अवैदिक-वचनापेक्षयेति ॥ बहुत्वस्येव वैदिकत्वस्यापि परपक्षसाधकदृश्यत्वाद्यनुमानार्वाचीनवचनेष्वसत्त्वेन विरोधकप्रमाणेष्वेव च सत्त्वेन तयोः प्राबल्योपपादकत्वादिति भावः ।
गोविन्दीया
स्पष्टं चेति ॥ तम् आगमविरोधं दिदर्शयिषुः पृथक् जगत्सत्यत्वादिप्रति-पादकागमोदाहरणे तस्यागमस्योपक्रमादिलिङ्गैर्जगत्सत्यतापरत्वोपपादने निरवकाशत्वादिना प्राबल्यव्युत्पादने परोक्तार्थान्तरपरताशङ्कारूपानुपपत्त्यन्तरपरिहारे च प्रयासनिरासाय सर्वानुगुणाम् उक्तप्रकारत्रयेणानुगुणां स्मृतिमुदाहरतीत्यर्थः । अत इति ॥ प्रत्येकमभिसम्बन्धार्थम् इतिशब्दस्य द्विग्रहणमित्यर्थः । वचनापेक्षयेति ॥ अनीशत्वादिप्रतिपादकवचनापेक्षयेत्यर्थः ।
नारोपन्तीया
लुप्तविभक्तिकमिति । ‘सुपां सुलुक्’ इति जसो लुप्तत्वाद्वचनानीत्यनेन सामानाधिकरण्यं युज्यत इति भावः ।
जनार्दनभट्टीया
‘इशोऽनीशः’ इत्यादेर् एकमतत्वं निवारयति- इति शब्द इति ॥ अत एवेति ॥ प्रत्येकसम्बन्धसूचनार्थमेवेत्यर्थः । ‘एवमादिविरुद्धानि’ इत्यस्य एकपदत्वे विरुद्धानीत्यस्य अन्यान्वितत्वेन ‘प्रमाणैः’ इत्येतदनन्वितं स्यादित्यत आह – एवमादीति ॥ ननु भिन्नपदत्वे एवमादीत्यस्य वचनविशेषणत्वाद् बहुवचनेन भाव्यमित्यत आह – लुप्तेति ॥ ‘हि’शब्दार्थहेतुं व्यञ्जयन् वाक्यं योजयति – यस्मादित्यादिना ॥ तस्मादिति ॥ वेदवेदानुसारीतरवाक्यजन्यज्ञानस्यापि ज्ञानकारणशब्दजन्यत्वेन प्रमाणत्वादित्यर्थः ।