अतद्विषयज्ञानेन..
आत्माविषयकस्याऽत्मज्ञानस्याऽत्माज्ञाननिवर्तकत्वे घटज्ञानस्यापि तन्निवर्तकत्वाऽपादनम्
श्रीमज्जयतीर्थटीका
अथानात्मविषयमपि तद् आत्माज्ञानं निवर्तयेत् हन्त तर्हि घटज्ञानमपि कस्मान्न निवर्त-येत् । अनात्मविषयत्वाविशेषादित्याह-
मूल
***अतद्विषयज्ञानेन तदज्ञाननिवृत्तौ घटज्ञानेनापि निवर्तेत । ***
आत्माज्ञानमिति शेषः ।