विषयाऽश्रयं चेदज्ञानं..
आत्मज्ञानस्याऽत्माविषयकत्वे तेनात्माज्ञानाऽनिवृत्त्यापादनम्
विषयाऽश्रयं चेदज्ञानं
श्रीमज्जयतीर्थटीका
किञ्च अस्तु वा आत्माज्ञानम् । तथाऽपि न वेदान्तवाक्यजनितविज्ञानस्याऽत्मज्ञानत्वं सम्भवति । तस्यानात्मविषयत्वेन तन्निवर्तकत्वायोगात् । यद्विषयं हि यद्विज्ञानं तदेव तदज्ञानं निवर्तयदुपलब्धम् ।
श्रीविजयीन्द्रभिक्षु
अनात्मविषयत्वेनेति ॥ आत्मविषयकत्वरहितत्वेनेत्यर्थः । एवमग्रेऽपि ।
श्रीवेदेशतीर्थ
अनात्मविषयत्वेनेति ॥ आत्मविषयत्वरहितत्वेनेत्यर्थः । एवमग्रेऽपि ।
श्रीराघवेन्द्रतीर्थ
अनात्मेति ॥ १आत्माविषयत्वेनेत्यर्थः ।
जनार्दनभट्टीया
तस्य अनात्मविषयत्वेनेति ॥ वेदान्तवाक्यजन्यज्ञानस्य सत्यज्ञानादिपदप्रवृत्ति-निमित्ततत्तद्गुणादिविशिष्टविषयत्वेन भिन्नविषयतया शुद्धाज्ञाननिवर्तकत्वासम्भवादिति भावः ।