पुङ्गतमेव हि तमः ..
अज्ञानस्य ज्ञातृपुरुषगतत्वसमर्थनम्
श्रीमज्जयतीर्थटीका
यदि तर्हि न विषयाश्रितमज्ञानम् । क्व तदाश्रितमित्यत आह-
मूल
पुङ्गतमेव हि तमः ।
पुङ्गतं ज्ञातृपुरुषगतम् । तम इव तमोऽज्ञानम् । ज्ञानप्रतिबन्धकत्वात् । तमोग्रहणमुत्तरत्रोप-योक्ष्यते । प्रमाणेन हि विषयाश्रितत्वे निराकृते परिशेषतो ज्ञातृगतत्वं सिद्ध्यति । हिशब्दस्तु ‘अहमज्ञः, घटमहं न जानामि’ इत्याद्यनुभवमप्यत्र प्रमाणं दर्शयति । प्रमाणान्तरञ्चाऽह–
मूल
ज्ञानेन निवर्तते ।
तम इति वर्तते । यथा खलु तमः प्रकाशसमानाश्रयमेव तेन निवर्तते । न व्याश्रयम् । तथाऽज्ञानमपि ज्ञानेन निवर्तत इति ज्ञानसमानाश्रयमेव भवितुं युक्तम् । ज्ञानाश्रयश्च ज्ञातैवेत्यज्ञानस्यापि स एवाऽश्रयो युक्तः ।
श्रीविजयीन्द्रभिक्षु
ननु यद्यज्ञानं न विषयाश्रितं तर्हि निराश्रयमेव स्यात् । न च ज्ञात्राश्रितं तत् । ज्ञातुरपि ‘मामन्यञ्च न जानामि’ इत्यज्ञानविषयत्वानुभवादिति पृच्छति- यदि तर्हीति ॥ ननु पुंशब्दस्य मुमुक्षुज्ञेयपरब्रह्मसाधारणत्वात् ‘पुङ्गतमेव हि तमः’ इत्युक्ते मुमुक्षुज्ञेयब्रह्मणो नाज्ञानाश्रयत्व-व्यावृत्तिरित्यत आह- ज्ञातृपुरुषगतमिति ॥ संसारिगतमित्यर्थः । अज्ञानस्य पुङ्गतत्वे वाच्ये तमसस्तद्गतत्वाभिधानमसङ्गतमित्यत आह- तम इवेति ॥ तमःशब्दस्याज्ञाने प्रवृत्तौ गुणयोगं दर्शयति- ज्ञानप्रतिबन्धकत्वादिति ॥ स्वायत्ते शब्दे अवाचकपदप्रयोगो न न्याय्यः । प्रतिपत्तिगौरवादित्यत आह- तमोग्रहणमिति ॥ ‘पुङ्गतमेव हि तमः’ इत्येतदुपपादयति- प्रमाणेन हीति ॥ ‘विमतं ब्रह्मज्ञानं न विषयाऽश्रितम् अज्ञानत्वाद् घटाज्ञानवत्’ इति प्रमाणेन हीत्यर्थः । परिशेषत इति ॥ ‘विमतमज्ञानं ज्ञात्राश्रितं तदन्यानाश्रितत्वे सति आश्रितत्वादिति एवकारसूचितपरिशेषादित्यर्थः । अज्ञानाऽश्रयचिन्तायां ज्ञाननिवर्त्यत्वप्रतिपादनस्यायुक्तत्व-माशङ्क्यावतारयति- प्रमाणान्तरञ्चेति ॥ यथा खल्विति ॥ विमतमज्ञानं ज्ञानसमानाऽश्रयं तन्निवर्त्यत्वात् तमोवद् इति सामान्यव्याप्तिमूलकप्रयोगो द्रष्टव्यः ।
श्रीवेदेशतीर्थ
ज्ञातव्यपरब्रह्माश्रितत्वेऽपि पुङ्गतत्वमक्षतमित्यत उक्तम्- ज्ञातृपुरुषगतमिति ॥ हिशब्दाभिप्रायमाह- परिशेषत इति ॥ विमतमज्ञानं ज्ञात्राश्रितं तदन्यानाश्रितत्वे सत्याश्रित-त्वादिति एवकार-सूचितपरिशेषादित्यप्याहुः । प्रकारान्तरेणापि तदर्थमाह- हिशब्दस्त्विति ॥ अत एवोक्तम्- अनुभवमपीति ॥ अज्ञानस्याऽश्रयचिन्तायां ज्ञाननिवर्त्यत्वप्रतिपादनस्यायुक्तत्व-माशङ्ख्यावतारयति- प्रमाणान्तरं चेति ॥ यथा खल्विति ॥ अनेन अज्ञानं ज्ञानसमानाश्रयं ज्ञान-निवर्त्यत्वाद् यद्येन निवर्तते तत्तत्समानाश्रयं यथा तमः प्रकाशेनेति सामान्यव्याप्तिमूलकप्रयोग उक्तो भवति । नन्वज्ञानस्य ज्ञानसमानाश्रयत्वसिद्धावपि न पुङ्गतत्वसिद्धिः । ज्ञानस्यापि विषय-गतत्वे विषयगताज्ञानस्य तत्समानाश्रयत्वोपपत्त्याऽर्थान्तरत्वादित्यत आह- ज्ञानाश्रयश्चेति ॥
द्वैतद्युमणि
उत्तरत्रेति ॥ उत्तरमूलाभिप्रेतार्थे दृष्टान्ततयोपयुज्यते इत्यर्थः ।
श्रीराघवेन्द्रतीर्थ
उत्तरत्रेति ॥ उत्तरवाक्ये दृष्टान्तत्वेनेति भावः । प्रमाणान्तरं चेति । अज्ञानं ज्ञान-समानाश्रयं सदेव निवर्तते । ज्ञाननिवर्त्यत्वात् । यद्यन्निवर्त्यं तत्तत्समानाश्रयमेव सन्निवर्तते । यथा प्रकाशनिवर्त्यं तम इत्येवं प्रमाणान्तरमित्यर्थः ।
व्याश्रयं व्यधिकरणं भिन्नाधिकरणमिति यावत् ।
गुरुराजीया
ज्ञातव्यपरब्रह्माश्रितत्वेऽपि पुङ्गतत्वानपायात् तद्भ्रान्तिनिरासाय पुङ्गतमित्येतद्व्याचष्टे- ज्ञातृपुरुषगतमिति ॥ परिशेषत इति ॥ विमतमज्ञानं ज्ञातृपुरुषाश्रितं तदन्यानाश्रयत्वे सति साश्रितत्वादिति एवकारसूचितपरिशेषादित्यर्थः । यथा खल्विति ॥ अनेन, अज्ञानं ज्ञानसमानाश्रयं ज्ञाननिवर्त्यत्वात् । यद्येन निवर्तते तत्तत्समानाश्रयं यथा तमः प्रकाशेन इति सामान्यव्याप्तिमूलक-मनुमानमुक्तं भवति । नन्वज्ञानस्य ज्ञानसमानाश्रयत्वसिद्धावपि न पुरुषगतत्वसिद्धिः । ज्ञानस्यापि ज्ञातव्यगतत्वेन तद्गतस्याज्ञानस्य तत्समानाश्रयत्वोपपत्त्याऽर्थान्तरत्वादित्यत आह- ज्ञानाश्रय-श्चेति ॥
जनार्दनभट्टीया
‘पुङ्गतमेव’ इत्यत्र पुरुषसामान्यप्रतीतेर् अज्ञानस्य प्रकृतज्ञातृपुरुषगतत्वासिद्धिरित्यतः पुंगतशब्दार्थमाह – ज्ञातृपुरुषेति ॥ अज्ञाने तमःशब्दस्य उपचारेण प्रकृतौ दृष्टान्तपरतया उपयुज्यत इत्यर्थः । व्याश्रयमिति ॥ प्रकाशभिन्नाधिकरणकमित्यर्थः ।