१८ विषयाऽश्रिताज्ञाननिवर्तकतया आत्माकर्मकस्यापि ज्ञानस्याऽत्मज्ञानत्वमिति शङ्का

न हि ज्ञानज्ञेययोरेकाऽकारता..

विषयाऽश्रिताज्ञाननिवर्तकतया आत्माकर्मकस्यापि ज्ञानस्याऽत्मज्ञानत्वमिति शङ्का

न हि ज्ञानज्ञेययोरेकाऽकारता

श्रीमज्जयतीर्थटीका

अथ मतं मा भूद्वेदान्तवाक्यजनितं विज्ञानमात्माऽकारतया आत्मज्ञानम् । तथाऽ-प्यात्माज्ञाननिवर्तकतया आत्मसम्बन्धितया तज्ज्ञानं भविष्यति । किमात्मनो दृक्कर्मत्वेन ।

न चाऽत्मनो दृक्कर्मत्वाभावे अज्ञानस्याऽत्माज्ञानत्वमपि दुर्घटमित्युक्तमिति वाच्यम् । आत्माऽश्रिताज्ञानमात्माज्ञानमित्यङ्गीकारात् ।

न च वक्तव्यं ज्ञातव्येनाऽत्मना अज्ञानं व्यावर्तनीयम् । न चाज्ञानं तमाश्रयते । किन्तु ज्ञातार-मेव । वस्तुतो भेदाभावेऽपि ज्ञातृज्ञेयभावसिद्धये यादृशतादृशस्यापि भेदस्याङ्गीकृतत्वात्१ । अतः कथम् आत्माज्ञानं निवर्तयदपि ज्ञानमात्मज्ञानं स्यादिति । अज्ञानस्य ज्ञातव्यपरब्रह्माऽ-श्रयत्वोररीकरणादिति ।

श्रीविजयीन्द्रभिक्षु

आत्माकारतयेति ॥ आत्मकर्मकतयेत्यर्थः । तथाऽपीति ॥ यद्यप्यात्मकर्मकत्वं विना आत्माज्ञाननिवर्तकत्वमेवासम्भवीत्युक्तं तथाऽपि विस्मृतदूषणस्य शङ्केयमिति ध्येयम् । निवर्त-कत्वेन निवर्तकत्वरूपसम्बन्धेन । उक्तमिति ॥ आत्मकर्मकज्ञानप्रतिबन्धकत्वादन्यस्य सम्बन्धस्य दुर्निरूपत्वादित्युक्तमित्यर्थः । नन्वाश्रयाश्रयिभावसम्बन्धेनाऽत्मव्यावर्तिताज्ञानमात्माऽज्ञानमिति वक्तव्यम् । न चाज्ञानं परमात्माऽश्रितम् । मानाभावात् । प्रत्युत ‘अहमज्ञः’ इति ज्ञात्राश्रितत्वेनैव तदनुभवात् । तथा च वेदान्तवाक्यजनितविज्ञानस्य परमात्माज्ञाननिवर्तकत्वेनापि तज्ज्ञानत्वं कथमुपपद्यत इत्याशङ्क्य निराचष्टे- न च वक्तव्यमिति ॥ एतच्च इतीत्यनेन सम्बद्ध्यते । अज्ञानस्येति ॥ ‘तम आसीत्’ ‘तमसा गू•मग्रे’ ‘मायिनं तु महेश्वरम्’ इत्यादिश्रुतेः । ‘न जानामि’ इति ज्ञात्राश्रितत्वेनानुभवस्याभेदमादायोपपन्नत्वाच्चेति भावः ।

श्रीवेदेशतीर्थ

तथाऽपीति ॥ यद्यप्यात्मकर्मत्वं विना आत्माज्ञाननिवर्तकत्वमेव न सम्भवतीत्युक्तम् । तथाऽपि विस्मृतदूषणस्य शङ्केयमिति ध्येयम् । निवर्तकतयेति ॥ निवर्तकत्वरूपसम्बन्धेनेत्यर्थः । उक्तमिति ॥ ‘सति पुष्कलकारणे तत्कर्मकज्ञानप्रतिबन्धकं हि तदज्ञानम्’ इत्यनेनाऽत्म-कर्मकज्ञानप्रतिबन्धकत्वादन्यस्य सम्बन्धस्य दुर्निरूपत्वादित्युक्तमित्यर्थः । नन्वाश्रयाऽश्रयिभाव-सम्बन्धेनाऽत्मव्यावर्तितमज्ञानमात्माज्ञानमिति वक्तव्यम् । न चाज्ञानं परमात्माऽश्रितम् । माना-भावात् । प्रत्युत ‘अहमज्ञः’ इति ज्ञात्राश्रितत्वेनैव तदनुभवात् । तथा चोक्तानुपपत्तिरित्या-शङ्क्याऽह- न च वक्तव्यमिति ॥ एतच्च स्यादितीत्यनेन सम्बध्यते । ननु ज्ञात्राश्रितत्वेऽप्य-ज्ञानस्य ज्ञेयाश्रितत्वं सिद्ध्यति । तयोरभेदादित्यत आह- वस्तुत इति ॥ अज्ञानस्येति ॥

‘आश्रयत्वविषयत्वभागिनी निर्विशेषचितिरेव केवला ।

पूर्वसिद्धतमसो हि पश्चिमो नाऽश्रयो भवति नापि गोचरः ॥’

इति तदुक्तेरिति भावः ।

श्रीराघवेन्द्रतीर्थ

आत्मज्ञानप्रतिबन्धकत्वेनाऽत्माज्ञानत्वाभावेऽपि आत्माऽश्रितत्वेनाऽत्माज्ञानत्वं स्यादित्याह- आत्माऽश्रितेति ॥ आत्माऽश्रिताज्ञाननिवर्तकत्वेन ज्ञानस्याऽत्मज्ञानत्वमयुक्त-मित्याशङ्कते- न च वक्तव्यमिति ॥ व्यावर्तनीयमिति ॥ इदमात्माज्ञानं न त्वनात्माज्ञानमिति व्यावृत्तिमत्त्वेन बोधनीयमित्यर्थः । अस्य वाक्यस्य कथमात्मज्ञानं स्यादितीत्यन्त्यवाक्येनान्वयः । किं चाज्ञानस्याऽत्मानाश्रितत्वेनाऽत्मीयत्वमपि नास्ति येन तन्निवर्तकतया आत्मज्ञानत्वं स्यादि-त्याह- न चेति ॥ किञ्चेति चार्थः । ननु नास्ति ज्ञात्रादिभेद इत्यत आह- वस्तुत इति ॥ अत इति ज्ञातृनिष्ठत्वेनाज्ञानस्य ज्ञेयाऽत्मानाश्रितत्वेनाऽत्माज्ञानत्वाभावाज् ज्ञातव्यात्मनैव आत्मज्ञानत्वस्य वाच्यत्वादित्यर्थः । इति न वक्तव्यमित्यन्वयः । अत्र हेतुमाह- ज्ञातव्येति ॥

सिद्धान्ती शङ्कते- न चात्मन इति ॥ आत्माकारतया आत्मविषयकत्वेन । पूर्वपक्षी उत्तरमाह- आत्माश्रितमिति ॥ परमात्माश्रितमित्यर्थः । पुनः सिद्धान्ती शङ्कते- न च वक्तव्य-मिति ॥ ज्ञातव्येनेति ॥ घटाद्यज्ञानप्रसक्तिवारणाय ज्ञातव्येनात्मनाऽज्ञानं व्यावर्तनीयम् । ज्ञानविषयो य आत्मा१ तेन आश्रयाश्रयिभावसम्बन्धेन व्यावर्तनीयम् । वेदान्तजन्यज्ञानं यद्विषयकं तदाश्रितमज्ञानमिति वक्तव्यमिति यावत् । ओमिति चेत् । ‘अहमज्ञः’ इति ज्ञातृजीवाश्रयत्व-स्यैवानुभवादित्यर्थः । ननु जीवाश्रितत्वेऽप्यज्ञानस्य परमात्माश्रयत्वं प्राप्तमेव वस्तुतो भेदा-भावादित्यत आह- वस्तुत इति ॥ यादृशेति ॥ व्यावहारिकेत्यर्थः । आत्माज्ञाननिवर्तकत्वेनाऽ-त्मसम्बन्धितया वेदान्तजनितं विज्ञानं तज्ज्ञानम् भविष्यतीत्युक्तमाक्षिपति- अतः कथमिति ॥ न केवलम् आत्माकारसमर्पकं ज्ञानमात्मज्ञानम् उक्तरीत्या न भवति । किन्तु आत्माज्ञानं निवर्तयदपि ज्ञानं वेदान्तजनितं विज्ञानम् आत्मज्ञानं कथं स्यात् । आत्माश्रितमज्ञानं ह्यात्माज्ञानम् । न चेदं युक्तम् । ‘अहमज्ञः’ इति अज्ञानस्य जीवाश्रितत्वेनानुभवेन ज्ञेयब्रह्माश्रितत्वाभावादित्यर्थः । इति न च वक्तव्यमिति सम्बन्धः । कुतो न वक्तव्यमित्यतो ज्ञेयभूतपरमात्माश्रितत्वमेव मयाऽङ्गीक्रियते अत आत्माश्रिताज्ञाननिवर्तकत्वेनात्मसम्बन्धितया वेदान्तजनितविज्ञानस्याऽत्मज्ञानत्वं युक्त-मित्याह पूर्वपक्षी- अज्ञानस्येति ॥ अत एवोत्तरत्रोपसंहारे वक्ष्यति तदेवं न ज्ञातव्यं परब्रह्माश्रयं युक्तमिति नात्माश्रयाज्ञाननिवर्तकत्वेन वेदान्तवाक्यजनितविज्ञानस्याऽत्मज्ञानत्वसिद्धिरिति ।

गुरुराजीया

आत्माज्ञाननिवर्तकतयेति ॥ १आत्माज्ञाननिवर्तकतालक्षणयाऽऽत्मसम्बन्धितयेति सामानाधिकरण्यम् । दुर्घटमिति ॥ आत्मकर्मकज्ञानप्रतिबन्धकस्यैवाऽत्माज्ञानत्वादिति भावः । भवेदेतदेवम्, यदि तत्कर्मकज्ञानप्रतिबन्धकमेवाज्ञानं स्यात्२ । न चैतदस्तीत्याह-आत्माश्रितमिति ॥ ननु आश्रयाश्रयिभावसम्बन्धेनाऽत्मव्यावर्तितमज्ञानमात्माज्ञानमिति वक्तव्यम् । न चाज्ञानं ज्ञातव्यपरमात्माश्रितम् । मानाभावात् । किन्तु ज्ञात्राश्रितमेव । ‘अहमज्ञः’ ‘घटमहं न जानामि’ इत्याद्यनुभवात् । तथा चोक्तानुपपत्तिरेवेति शङ्कते- न च वक्तव्यमिति ॥ न च ज्ञातृज्ञातव्यात्म-नोरभेदाज्ज्ञात्राश्रितत्वे ज्ञातव्यपरमात्माश्रितत्वस्यैव सिद्धत्वान्नानुपपत्तिरित्यत आह- भेदाभावेऽ-पीति ॥ भेदाङ्गीकारे हेतुमाह- ज्ञातृज्ञेयभावसिद्धय इति ॥ यादृशतादृशभेदस्यापि तयोरभावे तद्व्याप्तज्ञातृज्ञेयभावस्यैवानुपपत्तेरिति भावः । इतीत्यस्य न च वक्तव्यमिति पूर्वेण सम्बन्धः । अज्ञानस्येति ॥

‘आश्रयत्वविषयत्वभागिनी निर्विशेषचितिरेव केवला ।

पूर्वसिद्धतमसो हि पश्चिमो नाऽश्रयो भवति नापि गोचरः ॥’

इति तदुक्तेरिति भावः ।

गोविन्दीया

अन्यो वादी शङ्कते-अथ मतमिति ॥ तथाऽपीति ॥ आत्माकारत्वाभावेऽपीत्यर्थः । न चेति ॥ आत्माज्ञाननिवर्तकत्वेन हि आत्मज्ञानमित्युक्तम् । तस्मिन् पक्षे आत्माज्ञानमपि आत्मनो दृक्कर्मत्वाभावे दुर्घटमिति दूषणमुक्तमिति न च वाच्यमित्यर्थः । आत्माश्रितमिति ॥ आत्मविषयकाज्ञानम् आत्माज्ञानमिति नोच्यते, अपि तु आत्माश्रितमेव तदित्यङ्गीकारादित्यर्थः । न च वक्तव्यम् इतिपदम् आत्मज्ञानं स्यादितीति वाक्यस्थ‘इति’शब्देन सम्बध्यते । ज्ञातव्येनेति ॥ ज्ञातव्येनाऽत्मनाऽज्ञानम् आश्रयाश्रयिभावेन व्यावर्तनीयम् पृथक्करणीयमित्यर्थः । ज्ञातृ-ज्ञेयात्मनोरेकतया ज्ञात्रज्ञानमपि ज्ञेयात्मज्ञानं भविष्यति, को दोषः ? इति परिहारं मनसि निधाय निराकरोति- वस्तुत इति ॥ यादृशतादृशभेदस्य व्यावहारिकभेदस्याङ्गीकार्यत्वाज् ज्ञात्रज्ञानं ज्ञेयात्मज्ञानं न भवतीत्यर्थः । अत इति ॥ ज्ञात्राश्रिताज्ञानस्य ज्ञेयात्मज्ञानत्वाभावाद् आत्माज्ञानं निवर्तयद् विज्ञानम् आत्मज्ञानं कथं स्यादिति न च वक्तव्यमित्यर्थः । उररीकरणादिति ॥ अङ्गीकरणादित्यर्थः ।

नारोपन्तीया

आत्माज्ञाननिवर्तकतयेति ॥ आत्माज्ञाननिवर्तकतालक्षणयाऽत्मसम्बन्धितयेति सामा-नाधिकरण्यम् । ज्ञातव्येनात्मनेति । पराक्चैतन्यरूपशुद्धब्रह्मणो वेदान्तवाक्येन ज्ञातव्यत्वादिति भावः । अत इति ॥ निवर्तकत्वोपयोगिसामानाधिकरण्यस्य तमःप्रकाशयोरिवाभावेन ज्ञानस्या-ज्ञाननिवर्तकत्वानुपपत्तेरित्यर्थः ।

जनार्दनभट्टीया

आत्माश्रिताज्ञानमिति ॥ न तु आत्मकर्मकज्ञानप्रतिबन्धकमित्यर्थः । आत्मज्ञान-मित्यात्मकर्मकं ज्ञानमित्येव अर्थो वाच्यः ।

ननु ‘आत्माज्ञाननिवर्तकं ज्ञानम् आत्मज्ञानम्’ इत्याशयेन शङ्कते – न च वक्तव्यमिति ॥ ‘न च वक्तव्यम्’ इत्यस्य निवर्तकमपि ज्ञानम् आत्मज्ञानं स्यादिति अव्यवहितोत्तरवाक्येन अन्वयः । यदुक्तं मायावादिना ‘आत्माज्ञाननिवर्तकत्वेन आत्मसम्बन्धितया तदज्ञानं भविष्यति’ इति । तन्निराकरोति– ज्ञातव्येनेति ॥ गत्यादिसविषयपदार्थभेदस्य गम्यादिविषयभेदप्रयुक्तत्वाद् इहापि ज्ञानरूपसविषयपदार्थभेद आत्मरूपविषयभेदप्रयुक्त इत्येव वक्तव्यम् । ‘अर्थेनैव विशेषो हि निराकारतया धियाम्’ इति अभियुक्तोक्तेः । एवञ्च ‘आत्मनो ज्ञानम् आत्मज्ञानम्’ इत्यत्र षष्ट्यर्थः कर्मत्वमेवेति आत्मनो दृक्कर्मत्वं सिद्धमिति भावः । एतदभिप्रायसूचनायैव ‘ज्ञातव्येन’ इति विशेषणम् । केचित्तु ‘ज्ञातव्येन आत्मना ज्ञानम्’ इत्यत्र ‘अज्ञानम्’ इति पदं विभज्य व्याचक्षते । तदसत् । ‘ज्ञातव्येन’ इति पदवैय्यर्थ्यापत्तेः ।

‘आत्माज्ञाननिवर्तकत्वेन आत्मसम्बन्धितया आत्मज्ञानं भविष्यति’ इत्येतद्दूषयित्वा, ‘आत्माश्रितमज्ञानम् आत्माज्ञानम्’ इत्येतद्दूषयति – न चाज्ञानमिति ॥ ‘अहमज्ञः’ ‘मामन्यञ्च न जानामि’ ‘शास्त्रार्थं न जानामि’ इत्यज्ञानस्य ज्ञातृपुरुषनिष्ठत्वावगाहिप्रतीतिविरोधादिति भावः । ननु अज्ञानं ज्ञातव्यं नाश्रयते किन्तु ज्ञातारमिति विभागानुपपत्तिः । मन्मते तयोरभेदादित्यत आह– वस्तुत इति ॥ यादृशतादृशस्यापीति ॥ व्यावहारिकस्येत्यर्थः । अङ्गीकृतत्वादिति ॥ ‘मिथ्या(त्व)वादिना त्वयाऽपि’ इति शेषः । परब्रह्मेति ॥ अतदाश्रयत्वे तदाच्छादकत्वानुपपत्तिरिति भावः ।