तदज्ञाननिवृत्तिश्च तेन भवति ..
आत्मज्ञानाभावे बाधकोक्तिः
श्रीमज्जयतीर्थटीका
आत्मज्ञानाभावे किं बाधकमित्यत आह-
मूल
तदज्ञाननिवृत्तिश्च तेन भवति ।
नेत्यनुवर्तते । अतिप्रसङ्गसमुच्चये चशब्दः । यदा वेदान्तजनितविज्ञानमात्मज्ञानं न स्यात् । तदा आत्माज्ञाननिवृत्तिस्तेन न स्यात् । तज्ज्ञानेनैव तदज्ञाननिवृत्तिदर्शनात् । तथा च वेदान्तानां वैयर्थ्यं स्यात् ।
श्रीविजयीन्द्रभिक्षु
बाधकोपन्यासात्मकत्वस्फोरणायाऽह- नेतीति ॥ भवतीत्यस्य स्यादित्यर्थकतिङन्त-प्रतिरूपकाव्ययत्वं लटो लिङर्थत्वं वा अभिप्रेत्य व्याचष्टे- यदीति ॥ वेदान्तानामिति ॥ संसाराऽ-पादकाज्ञाननिवर्तकज्ञानाजनकत्वेन निष्प्रयोजनत्वं स्यादित्यर्थः ।
श्रीवेदेशतीर्थ
मूले विपर्ययपर्यवसानोक्तिसूचकतर्कस्वरूपमाह- यदेति ॥
श्रीराघवेन्द्रतीर्थ
अतिप्रसङ्गेति ॥ न केवलमात्मज्ञानत्वाभावः । तदज्ञाननिवृत्त्यभावश्चेत्येवमतिप्रसङ्ग-समुच्चय इत्यर्थः । तमेव व्यनक्ति- यदेति ॥