आत्मनोऽपि दृश्यत्वादनैकान्तिकता च
दृश्यत्वानुमाने अनैकान्तिकतोपपादनम्
श्रीमज्जयतीर्थटीका
एवं सामान्यतोऽनुमानानि निरस्य विशेषतो निराचिकीर्षुर्दृश्यत्वानुमानस्य तावद् दोषान्तरमाह-
मूल
आत्मनोऽपि दृश्यत्वादनैकान्तिकता च ।
शुक्तिरजतादेः सपक्षस्येव विपक्षस्याऽत्मनोऽपि दृश्यत्वादनैकान्तिकता साध्यमिथ्यात्व-सम्बन्धनियमाभावश्च दृश्यत्वस्य भवति । अनैकान्तिकश्चोर्ध्वतादिवत्सन्देहहेतुत्वान्न साध्यं साधयति ।
नन्वात्मनो दृश्यत्वमेव कुत इति चेन्न । ‘आत्मा वा ओ द्रष्टव्यः’१ ‘दृश्यते त्वग््रयया बुद्ध्या सूक्ष्मया’२ इत्यादिश्रुतेः ।
श्रीविजयीन्द्रभिक्षु
ननु दृश्यत्वादिहेतूनां साध्याभावसम्बन्धेऽपि साध्यसम्बन्धस्य सत्त्वात् साध्यसाधनता किन्न स्यादित्यत आह- अनैकान्तिकश्चेति ॥ तथा चोर्ध्वतादिवत् साधारणधर्मतया संशय-जनकत्वमेव । न तु साध्यनिश्चायकत्वमिति भावः । आत्मा वेति ॥ ‘आत्मा वा ओ द्रष्टव्यः’३ इत्यादौ तव्यस्य, दृश्यत इत्यादौ तिङः, ‘तमेव धीरो विज्ञाय’ इत्यादिपदोपात्तश्रुतौ द्वितीयायाः ‘तयोरेव कृत्यक्तखलर्थाः’१ ‘भावकर्मणोः’२ ‘कर्मणि द्वितीया’३ इति कर्मण्यनुशासनादिति भावः।
श्रीवेदेशतीर्थ
नन्वसिद्ध्यव्याप्त्योरेव हेतुदूषणत्वात्कथमनैकान्तिकत्वं हेतुदोष इत्यत आह- साध्य-मिथ्यात्वेति ॥ तथा च तस्याव्याप्तावन्तर्भाव इति भावः । ननु दृश्यत्वादेः साध्यसम्बन्धस्य सत्त्वात् साध्यसाधकता किं न स्यादित्यत आह- अनैकान्तिकश्चेति ॥ साध्यसम्बन्धनियमाभाववानित्यर्थः ।
द्वैतद्युमणि
साध्यमिथ्यात्वेत्यादि ॥ इदमेकमेवान्तिके यस्यासावेकान्तिकः । न एकान्तिकोऽ-नेकान्तिकः । तस्य भावोऽनेकान्तिकतेति व्युत्पत्तिलब्धार्थप्रदर्शनपरमिति ज्ञातव्यम् । मतविशेष-सिद्धदूषकताबीजं दर्शयति- अनैकान्तिकश्चेति ॥
श्रीराघवेन्द्रतीर्थ
अपिपदार्थं वदन्नेव व्याचष्टे-शुक्तिरजतादेरिति ॥ अनैकान्तिकशब्दार्थः साध्येत्यादि । ततश्च को दोष इत्यत आह- अनैकान्तिकश्चेति ॥ ४स्थाणुतोर्ध्वतादिवदित्यर्थः ।
गुरुराजीया
असिद्ध्यव्याप्त्यन्यतरत्वाभावादनैकान्तिकत्वस्य हेतुदोषत्वाभावात् तदुद्भावनमनुप-पन्नमित्यतोऽनैकान्त्यपदेन साध्यसम्बन्धनियमाभावरूपाव्याप्तेरेव विवक्षितत्वान्न तदुद्भावनानु-पपत्तिरित्याशयेनाऽह- साध्यमिथ्यात्वेति ॥ ततोऽपि कुतो न साधकत्वमित्यतः कोटिद्वय-सहचरितत्वेन सन्देहहेतुत्वान्न तदित्यभिप्रेत्य, तदुपपादयति- अनैकान्तिकश्चेति ॥ अन्यथोर्ध्व-त्वादिकमप्यन्यतरकोटिनिर्णायकं स्यादिति भावः । आत्मनो दृश्यत्वानङ्गीकारे बाधकोक्तेरिव साधकोक्तेरपि तत्साधकत्वान्मूलकारीयविपक्षबाधकोक्तिमात्रस्यानुपपन्नतामाशङ्क्य, बाधकोक्तेः साधकोक्त्युपलक्षणत्वान्नानुपपत्तिरित्यभिप्रेत्य स्वयं साधकं वक्तुं स्वयं साधकाभावमाशङ्क्य परिहरति- नन्वात्मन इत्यादि ॥
गोविन्दीया
एवमिति ॥ जडत्वानुमानेऽपि बाध्यत्वं सत्यं चेत्, तत्रैव जडत्वहेतोः सत्त्वाद् व्यभि-चारः । तथा हि । बाध्यत्वे जडत्वधर्मानङ्गीकारे तस्य बाध्यत्वस्य पक्षधर्मत्वेन धर्मधर्मिणोरभेदव्यप-देशात् पक्षे धर्मिणि जडत्वं न स्यादिति बाधकवशात् तत्रापि जडत्वमङ्गीकर्तव्यम् । तथा च हेतोः सत्त्वाद् अनैकान्तिकत्वमिति । किञ्च जडत्वस्य सत्यत्वे तत्रैव जडत्वहेतोः सत्त्वान् मिथ्यात्वाभावाद् व्यभिचारः । तथा हि । जडत्वे जडत्वानङ्गीकारे चेतनत्वापत्त्या जडत्वमङ्गीकर्तव्यम् । तथा च हेतोः सत्त्वात् साध्याभावाद् व्यभिचार इति दोषो ज्ञातव्यः । अनया रीत्या परिच्छिन्नत्वानुमानेऽपि दोषो ज्ञातव्यः । एवं पूर्वोक्तरीत्या सामान्यतोऽनुमानानि त्रीणि निरस्य विशेषतो निराचिकिर्षुर् दृश्यत्वानुमानस्य तावद् दोषान्तरमाह- जडत्वपरिच्छिन्नत्वरूपानुमानद्वये दोषं वक्ष्याम इत्यर्थः । अनैकान्तिकता चेति ॥ दृश्यत्वानुमाने न केवलं बाध्यत्वानुमानदोषः, किन्तु अनैकान्तिकता चेति चशब्दार्थ इत्यर्थः । अनैकान्तिकश्चेति ॥ अनैकान्त्यदोषयुक्तो दृश्यत्वधर्म इत्यर्थः ।
नारोपन्तीया
आत्मनोऽपि दृश्यत्वादित्यत्र अपिशब्दार्थं दर्शयन्नेव वाक्यं योजयति । शुक्तिरजतादे-रिति ॥ अनैकान्तिकतापदं व्याचक्षाण एव वाक्यार्थमाह । साध्यसम्बन्धेति१ ॥ एकान्तो नियमः सोऽस्यास्तीत्यैकान्तिकः । ‘अत इनिठनौ’२ इत्यस्त्यर्थे ठन् । ‘ठस्येकः’३ इति इकादेशः । ‘ञ्नित्यादिर्नित्यम्’४ इत्याद्युदात्तस्वरार्थो नकार इत्संज्ञकः । योग्यतया नियमस्य साध्यसम्बन्ध-प्रतियोगित्वं लभ्यते । तथा च साध्यनिरूपितसम्बन्धनिरूपितसम्बन्धनियमवानैकान्तिकः । अतथाभूतोऽनैकान्तिकः । तस्य भावस्तत्ता । साध्याभावसामानाधिकरण्यमिति यावत् । सन्देह-हेतुत्वादिति । यद्यपि पक्षीयः साध्यसन्देहः स्वारसिको नानुमितिप्रतिबन्धकः । प्रत्युत ‘सन्दिग्धे न्यायः प्रवर्तते’ इति न्यायात् प्रमाणवृत्तेरनुकूल एव । तथाऽप्यन्वयव्यतिरेकाभ्याम् आहितः प्रतिबन्धक एवेति भावः ।
जनार्दनभट्टीया
‘अनैकान्तिकता च’ इति चशब्दोक्तदूषणं विवृणोति – साध्यमिथ्यात्वेति ॥