दृश्यत्वाद्यनुमानेष्वप्येत एव दोषाः ..
पूर्वोक्तशङ्कानिरासार्थं मिथ्यात्वादिसाधकानुमाने पूर्वोक्तदोषातिदेशः
श्रीमज्जयतीर्थटीका
तत्र तावदनुमाननिरासायोक्तदोषानतिदिशति-
मूल
दृश्यत्वाद्यनुमानेष्वप्येत एव दोषाः ।
‘विवादपदमनिर्वचनीयं बाध्यत्वात्’ इत्यादेर्येऽप्रसिद्धविशेषणत्वादयो दोषा उक्ता एत एव दृश्यत्वाद्यनुमानेष्वपि द्रष्टव्याः ।
तथा हि, मिथ्याशब्देनानिर्वचनीयत्वमुच्यते असत्त्वं वा । नाऽद्यः । अप्रसिद्धविशेषणत्वा-पातात् । न द्वितीयः । अपसिद्धान्तप्रसङ्गात् । अथानिर्वचनीयासतोः समानं मिथ्यात्वम् । तस्मिन्ननेन अनुमानेन सिद्धेऽसत्त्वे च बाधितेऽनिर्वाच्यतासिद्धिरिति चेन्न । मिथ्यात्वसामान्य-स्योभयसम्प्रतिपन्नस्याभावात् । सद्विवेकस्य मिथ्याभावस्य साध्यत्वान्नाप्रसिद्धविशेषणता नाप-सिद्धान्तोऽपीति चेत् । किमिदं सत् । जातिर्वा जातिमद्वा स्वरूपसद्वा । प्रथमद्वितीययोः सद्बहुत्वा-पत्तिः । तृतीये ब्रह्मविवेकस्य मयाऽप्यङ्गीकृतत्वात्सिद्धसाधनता भेदनिराकरणानुपपत्तिश्च । बाध्यत्वं मिथ्यात्वमिति चेन्न । बाध्यत्वमपि हि तेषां मिथ्या । सत्यत्वे दृश्यत्वादीनां तेनैवानैकान्त्यापा-तात् । दृश्यत्वाद्यभावे चासाध्यत्वाद्यापत्तेः । बाध्यत्वस्य च मिथ्यात्वे अबाध्यत्वमेव सत्यं स्याद् आत्मवत् । किं च दृश्यत्वादयः सत्याश्चेन्मायावादिनोऽसिद्धाः । तैरेवानैकान्त्यं च । यद्यसन्तोऽनिर्वाच्या वा तदा तत्ववादिनोऽसिद्धाः । न च सत्यासत्ययोर्दृश्यत्वादिसामान्य-मुभयसम्प्रतिपन्नमस्तीत्येषा दिक् ।
श्रीविजयीन्द्रभिक्षु
तत्रेति ॥ उक्तेषु प्रमाणत्वाभिमतेष्वित्यर्थः । तावच्छब्दः क्रमार्थः । १किं मिथ्यादोषा दृश्यत्वाद्यनुमानेषु द्रष्टव्या इत्याकाङ्क्षायां व्याचष्टे- विवादपदमिति ॥ ‘मिथ्याशब्दो द्व्यर्थः । अपह्नववचनोऽनिर्वचनीयतावचनश्च’ इति पञ्चपादिकोक्तेर् दूषणसौकर्याय विकल्पयति- मिथ्या-शब्देनेति ॥ गूढाभिसन्धिः शङ्कते- अथेति ॥ असच्छब्दस्याल्पाच्त्वेऽपि अनिर्वचनीयशब्दस्या-भ्यर्हितत्वेन अनिर्वचनीयासतोरिति निर्देशः । असत्त्वे चेति ॥ प्रतीतत्वहेतुना असत्त्वे निरस्त इत्यर्थः । गूढाभिसन्धिरेव दूषयति-मिथ्यात्वेति ॥ शङ्ककः स्वाशयमुद्घाटयति- सद्विवेकस्येति ॥ सद्भिन्नत्वस्येत्यर्थः । मिथ्याभावस्य मिथ्यात्वस्य । अत्रापि पूर्वन्यायेनासत्त्वे प्रतिक्षिप्तेऽ-निर्वचनीयत्वसिद्धिरिति भावः । तृतीय इति ॥ स्वरूपतो जात्यादिसम्बन्धं विना ब्रह्मैव सदिति पराभ्युपगमादिति भावः । बाध्यत्वमिति ॥ मिथ्यात्वं बाध्यत्वमिति चेदिति सम्बन्धः । बाध्यत्वम् अबाध्यं बाध्यं वा । आद्येऽपि किं तद्ब्रह्ममात्रमतिरिक्तं वा । नाऽद्यः । सोपाधिकस्य तस्य निरुपाधिकब्रह्ममात्रत्वायोगादित्याद्यं बहिरेव निरस्य द्वितीयं निराचष्टे- बाध्यत्वमपीति ॥ तथा च सत्यभूतस्य तस्य ब्रह्मातिरिक्तत्वाङ्गीकारेऽपसिद्धान्त इति भावः । किञ्च सत्यमपि बाध्यत्वं दृश्यमदृश्यं वा । आद्य आह- सत्यत्व इति ॥ दृश्यत्वाद्यभावे चेति ॥ अनुमितिरूपसिद्धि-विषयत्वस्यैव साध्यत्वादिति भावः । अनुमानस्य साध्यप्रतीत्यर्थत्वेन बाध्यत्वस्यादृश्यत्वे अनुमान-वैयर्थ्यमादिशब्दार्थः । नान्त्य इत्याह- बाध्यत्वस्येति ॥ आत्मवदिति ॥ आत्माबाध्यत्ववदि-त्यर्थः । अनैकान्त्यं चेति ॥ दृश्यत्वादीनामदृश्यत्वे हेतोरज्ञानासिद्धिरिति ध्येयम् ।
ननु यथा महानसीयपर्वतीयधूमसाधारणधूमत्वावच्छिन्नत्वेन धूमस्य हेतुत्वं तथा सत्यासत्य-दृश्यत्वादिसाधारणदृश्यत्वताजडत्वत्वाद्यवच्छिन्नत्वेनैव हेतुत्वसम्भवान्नोक्तविकल्पावकाशः । अन्यथा धूमादावपि किमेतद्देशकालसंलग्नो धूमो हेतुर्नैतद्देशकालसंलग्नो वा । नाऽद्यः । दृष्टान्तस्य साधनवैकल्पापत्तेः । न द्वितीयः । स्वरूपासिद्ध्यापत्तेर् इत्यादिदूषणसम्भवेनानुमानमात्रोच्छेद-प्रसङ्गादित्याशङ्क्य निराकरोति- न चेति ॥ दृश्यत्वादिसामान्यं दृश्यत्वादीनां सामान्यम् ।
श्रीवेदेशतीर्थ
तत्रेति ॥ उक्तेषु प्रमाणत्वाभिमतेष्वित्यर्थः । ‘मिथ्याशब्दो द्व्यर्थः । अपोह-वचनोऽनिर्वचनीयवचनश्च१’ इति पञ्चपादिकोक्तेर्दूषणसौकर्याय विकल्पयति- मिथ्याशब्देनेति ॥ अपसिद्धान्तप्रसङ्गादिति ॥ यद्यपि नायं पूर्वोक्तदोषस्तथाऽपि न च धूमत्ववन्मिथ्यात्वम् इत्युक्तदूषणकथनाय ‘अनिर्वचनीयासतोः समानं खलु मिथ्यात्वम्’ इति शङ्कोत्थानार्थं स्वयमुक्तमिति द्रष्टव्यम् । असत्त्वे चेति ॥ ‘नेदमसत्प्रतीतत्वात्’ इत्यनेनेत्यर्थः । मिथ्यात्वेति ॥ उपलक्षणमेतत् । असतोऽप्रतीतावसद्वैलक्षण्यज्ञानानुपपत्त्या प्रतीत्यङ्गीकारे तद्बाधानुपपत्तेश्चेति ज्ञेयम् । नाप्रसिद्धविशेषणतेति ॥ असति प्रसिद्धत्वादिति भावः । बाध्यत्वमबाध्यं बाध्यं वा । आद्येऽपि किं तद्ब्रह्ममात्रम् अतिरिक्तं वा । नाऽद्यः । सोपाधिकस्य तस्य निरुपाधिकब्रह्म-मात्रत्वायोगादित्याद्यं बहिरेव निरस्य द्वितीयं निराचष्टे- बाध्यत्वमपि हीति ॥ तथा च सत्यभूतस्य तस्य ब्रह्मातिरिक्तत्वाङ्गीकारे अपसिद्धान्त इति भावः । किञ्च सत्यमपि बाध्यत्वं दृश्यमदृश्यं वा । आद्ये आह- सत्यत्व इति ॥ द्वितीये आह- दृश्यत्वाद्यभावे चेति ॥ अनुमितिरूपसिद्धिविषयस्यैव साध्यत्वादिति भावः । अनुमानस्य साध्यप्रतीत्यर्थत्वेन बाध्यत्वस्य अदृश्यत्वेऽनुमानवैयर्थ्यम् आदिशब्दार्थः । इदमपि तेषाम् इत्यनेन दृश्यत्वेन मिथ्यात्वं साधयतामित्यर्थकेन सूचितमिति ज्ञेयम् ।
इदं च दृश्यत्वहेत्वपेक्षयैव । जडत्वपरिच्छिन्नत्वयोरभावे चेतनत्वापरिच्छिन्नत्वप्राप्त्या प्रत्यक्ष-विरोध इत्यपि आदिशब्दार्थ इत्याहुः ।
नान्त्य इत्याह- बाध्यत्वस्येति ॥ आत्मवद् आत्माबाध्यत्ववत् । किं चेति ॥ नन्विदं दूषणं प्रागनुक्तमिति चेन्न । न च धूमत्ववन्मिथ्यात्वम् इत्युक्तन्यायसिद्धदोषाभिधानार्थमेतस्य स्वय-मेवाभिधानात् । अनैकान्त्यं चेति ॥ दृश्यत्वादीनामदृश्यत्वे हेतोरज्ञानासिद्धिश्चेति ज्ञातव्यम् । ननु न सत्यं मिथ्या वा दृश्यत्वादि हेतुत्वेन विवक्षितम् । किन्तूभयानुगतदृश्यत्वत्वाद्यवच्छिन्न-दृश्यत्वादिमात्रम् । न हि सामान्यतः प्रयुक्तहेतोर् विशेषविकल्पेन निराकरणं युक्तम् । अनुमान-मात्रोच्छेदप्रसङ्गादित्यत आह- न चेति ॥ दृश्यत्वसामान्यमिति ॥ दृश्यत्वस्य सामान्यमित्यर्थः । दृश्यत्वत्वमिति यावत् ।
श्रीराघवेन्द्रतीर्थ
उभयसाधारणमिथ्यात्वसाधने १कथमसिद्धिरित्यत आह - तस्मिन्निति ॥ उभयेति ॥ वादिप्रतिवादीत्यर्थः । तथा च अप्रसिद्धविशेषणतैवेत्यर्थः । मिथ्याभावस्येति ॥ मिथ्यात्वस्येत्यर्थः। किमिदं सदित्यनुवादः२ । भेदनिराकरणेति ॥ भेदः भेदिभ्यां भिन्नोऽभिन्नो वेत्यादिना स्वग्रन्थे यद्भेदनिराकरणं तस्य सद्वैलक्षण्यरूपभेदाङ्गीकारव्याघातेनानुपपत्तेरित्यर्थः । असाध्यत्वाद्या-पत्तेरिति । दृष्ट्यर्थत्वात् साध्यताया इति भावः । अबाध्यत्वमेव सत्यं स्यादिति । अनिर्वच-नीयत्वस्य निरस्तत्वेन मिथ्येत्यस्यासदित्यर्थकत्वादिति भावः । तैरेवानैकान्त्यं चेति ॥ दृश्यत्व-जडत्वपरिच्छिन्नत्वात्मकेषु३ दृश्यत्वादिहेतुषु सत्स्वपि मिथ्यात्वाभावात् । दृश्यत्वाभावे चाज्ञाना-सिद्धिप्रसङ्ग इति भावः। किञ्च दृश्यत्वं दृग्विषयत्वं दृश्यध्यस्तत्वं वा । नाऽद्यः । परस्यासिद्धेः । नान्त्यः। प्रतिवाद्यसिद्धेः । किञ्च दृक् चैतन्यं वृत्तिर्वा । नाऽद्यस् तद्विषयत्वस्य तदध्यस्तत्वस्य वा वियदादिप्रपञ्चे प्रतिवाद्यसिद्धेः। नान्त्यः । परमते तदुभयस्याप्यसिद्धेः । प्रपञ्चस्तु वादावल्यां न्यायामृते च । अत एवाऽह- एषा दिगिति ॥ परोक्तहेतूनामपाकरणे अयं मार्ग इति । भेदनिराकरणानुपपत्तिश्चेति । सत्यविवेको नाम सत्याद्भेदस्तद्रूपमिथ्यात्वमङ्गीकृत्य स्वशास्त्रे पुनर्भेदनिराकरणं क्रियमाणमनुपपन्नं स्यादित्यर्थः ।
गुरुराजीया
१‘मिथ्याशब्दो द्व्यर्थः । असद्वचनोऽनिर्वचनीयवचनश्च’ इति पञ्चपादिकोक्तं दूषणसौकर्याय विकल्पयति- मिथ्याशब्देनेति ॥ अपसिद्धान्तप्रसङ्गादिति ॥ यद्यपि नायमत्र पूर्वदोष उक्तः । तथाऽपि मिथ्यात्वानुमानखण्डने उक्तत्वाभिप्रायेण वा तदनुसारेणात्राप्युक्तत्वाभिप्रायेण वोक्तदोष इत्यभिप्रायकत्वादुक्तदोष इत्युक्तेरविरोध इति द्रष्टव्यम् । बाधित इति ॥ नेदमसत् प्रतीतत्वादित्यनुमानेन प्रतिक्षिप्त इत्यर्थः । मिथ्यात्वेति ॥ आश्रयासिद्धौ तदाश्रित-सामान्यासिद्धेरिति भावः । नाप्रसिद्धविशेषणतेति ॥ असति प्रसिद्धत्वादिति भावः । भेदनिरा-करणेति ॥ तथा सति भेदातिरिक्तस्य विवेकशब्दार्थस्य वक्तुमशक्यतया भेदाङ्गीकारप्रसङ्गात् । अङ्गीकारनिराकरणयोर् व्याहतत्वेन भेदनिराकरणानुपपत्तिश्चेत्यर्थः । कुतो नेत्यतस्तदुत्तरतयाऽऽ-चार्यवाक्यमेव व्यापारयति- बाध्यत्वमपि हि तेषां मिथ्येति ॥ ननु बाध्यत्वस्य सत्यतायाः सम्भवात्कुतो मिथ्यात्वमित्यतस्तत्पक्षे तेषां हीति सूचितं दोषं प्रकटयितुं बाध्यत्वं किं दृश्यत्वादिमत्, उत न इति विकल्पद्वयं मनसि निधायाऽद्यं दूषयति- सत्यत्व इति ॥ दृश्यत्वादिमत्त्वे चेति शेषः । तेनैव बाध्यत्वेनैव ।
ततश्चायमर्थः । बाध्यत्वस्य सत्यत्वे दृश्यत्वादिहेतूनां तत्रैव व्यभिचारः । बाध्यत्वे दृश्यत्वादि-हेतुवृत्तावपि तस्य सत्यत्वेन मिथ्यात्वाभावादिति । नेति पक्षं दूषयति- दृश्यत्वाद्यभावे चेति ॥ बाध्यत्वस्य दृश्यत्वाभावेऽनुमितिरूपसिद्धिविषयत्वाभावेन तस्यासाध्यत्वम् । उक्तहेतूनां साध्यज्ञप्त्यर्थत्वात् तस्यादृश्यत्वेऽनुमानवैयर्थ्यम्२ । जडत्वपरिच्छिन्नत्वयोरभावे तु सुधोक्तरीत्या अपसिद्धान्तः स्यादित्यर्थः । यद्यपि बाध्यत्वस्य जडत्वपरिच्छिन्नत्वाभावे३ अपसिद्धान्तः स्पष्टत्वान्नोक्तः । तथाऽपि जडत्वपरिच्छिन्नत्वयोर् जडत्वपरिच्छिन्नत्वाभावे तस्योक्त्या समानन्यायतया सूचितत्वाद् आदिशब्देन तत्परिग्रहो युक्त इति द्रष्टव्यम् ।
यत्तु ‘बाध्यत्वमबाध्यं बाध्यं वेति । आद्ये किं ब्रह्ममात्रं तदतिरिक्तं वा । नाऽद्यः । सोपाधिकस्य निरुपाधिकब्रह्ममात्रत्वायोगादित्याद्यं बहिरेव निरस्य द्वितीयपक्षनिरासकतया बाध्यत्वमपीति ग्रन्थमवतार्य सत्यभूतस्य बाध्यत्वस्य ब्रह्मातिरिक्तत्वाङ्गीकारेऽपसिद्धान्तः’ इति एतद्ग्रन्थार्थ-निरूपणम् । तन्न । उक्तयोजनायां सोपाधिकस्य निरुपाधिकब्रह्ममात्रत्वायोगादिति दूषणस्य प्रागनुक्ततयाऽनुक्तदूषणातिदेशप्रसङ्गात् । तेषां हि इत्युक्तस्य तत्सत्यत्वपक्षे दोषस्येह टीकायां सत्यत्व इत्यादिना उत्तरत्र प्रतिपादनाप्रसक्तप्रतिपादनप्रयासानर्थक्याच्च । न च सत्यमपि बाध्यत्वं दृश्यमदृश्यं वा । आद्ये सत्यत्व इति द्वितीये दृश्यत्वाद्यभाव इत्येवं दूषणान्तरपरत्वात् सत्यत्व इत्यादिग्रन्थस्य तेषां हीत्यस्योक्तदूषणपरत्वमिति वाच्यम् । चशब्दादिदूषणान्तरपरत्व-ज्ञापकाभावेनोत्तरग्रन्थस्य तत्परत्वायोगात् । ‘तेषां हीत्यपसिद्धान्तादिप्रसङ्गं सूचयति’ इति पूर्वग्रन्थानुसारेण अपसिद्धान्तस्येव व्यभिचारस्यापि तद्ग्रन्थसूचितत्वसिद्ध्या तदसूचितदूषणान्तर-परत्वाश्रयणस्य निर्निबन्धनत्वाच्च ।
कथञ्चिद्दूषणान्तरपरत्वेऽपि दृश्यत्वादीनामित्युत्तरग्रन्थानुरोधेन सत्यमपि बाध्यत्वं दृश्यत्वादि-मन्न वेति विकल्पनीयत्वेन दृश्यमदृश्यं वेति विकल्पस्योत्तरग्रन्थाननुसारित्वेनानुत्थानमेव ।
यच्च ‘जडत्वपरिच्छिन्नत्वयोरभावे चेतनत्वापरिच्छिन्नत्वप्राप्त्या प्रत्यक्षविरोधस्याऽदिशब्देन परिग्रहः’ इति तन्न । दृश्यमदृश्यं वेत्येव विकल्पस्योपदर्शितत्वेन जडत्वादिमत्त्वतदभाव-विकल्पानुपदर्शनेन तदभावे प्रत्यक्षादिविरोधस्याऽदिशब्देन परिग्रहवर्णनस्य त्वदीयपूर्वग्रन्थाननु-गुणत्वात् । सुधानुसारेण दोषान्तरस्यैवाऽदिशब्देन ग्रहणसम्भवे तत्परित्यागेन दोषान्तर-स्याऽदिशब्दार्थत्वकल्पनस्य निर्निबन्धनत्वाच्च ।
दृश्यत्वादिकं दृश्यत्वादिमन्न वा । दृश्यत्वे दृश्यत्वाभावेऽज्ञानासिद्धिः । जडत्वे जडत्वस्य परिच्छिन्नत्वे परिच्छिन्नत्वस्यावृत्तौ अपसिद्धान्त इत्यभिप्रेत्याऽद्यं दूषयति- तैरेवेति ॥ दृश्यत्वादिभिरेवेत्यर्थः । तत्र दृश्यत्वादिरूपहेतुवृत्तावपि मिथ्यात्वाभावादिति भावः ।
यत्तु दृश्यत्वादीनामदृश्यत्वेऽज्ञानासिद्धिरिति भाववर्णनं तदसत् । दृश्यत्वे १दृश्यत्वावृत्ता-वज्ञानासिद्धिप्राप्तावपि जडत्वपरिच्छिन्नत्वयोस्तदवृत्तावपसिद्धान्तप्राप्तावप्यज्ञानासिद्धेरप्रसङ्गात् । दृश्यत्वादीनां दृश्यत्वाभाववत्त्वस्यैव तत्रानैकान्त्याभावोपपादकत्वात् ‘दृश्यत्वाद्यभावे च’ इत्येव वक्तव्यतया अदृश्यत्व इत्युक्तेरज्ञानमात्रमूलत्वाच्च ।
ननु न सत्यं मिथ्या वा दृश्यत्वादि । किन्तु उभयानुगतसामान्यमेव । न च सामान्येन प्रयुक्त-हेतोर्विशेषविकल्पनेन निराकरणं सम्भवति । तथा सति धूमाद्धूमध्वजानुमानेऽप्युक्तरीत्या विशेष-विकल्पेन निराकरणसम्भवात्तदुच्छेदप्रसङ्गादित्यत आह- न चेति ॥ बाष्पारोपितसत्यधूमानुगत-धूमत्वसामान्यस्येव सत्यानिर्वचनीयसाधारणदृश्यत्वसामान्यस्याप्याश्रयासिद्ध्याऽसिद्धत्वेन तदसम्भवादिति भावः ।
ननु बाष्पारोपितधूमे सत्यधूमे च धूमत्वसामान्यस्य मयाऽङ्गीकृतत्वाद् दृष्टान्तो विप्रतिपन्न इत्यत आह- दिगिति ॥ तदर्थस्तु पूर्वोक्तरीत्या आकर एव स्पष्टः ।
गोविन्दीया
अथेति ॥ अनिर्वचनीयासतोः समानं मिथ्यात्वं मिथ्यात्वसामान्यं तस्मिन् मिथ्यात्व-सामान्येऽत्र प्रपञ्चेऽनुमानेन सिद्धे सति तदाश्रयः प्रपञ्चोऽसन् वाऽनिर्वचनीयो वेति सन्देहेऽसच्चेन्न प्रतीयेत इति असत्त्वे बाधितेऽनिर्वाच्यतासिद्धिरिति चेदित्यर्थः । उभयेति ॥ उभयसम्प्रतिपन्न-स्यानिर्वचनीययोः सम्प्रतिपन्नस्य मिथ्यात्वसामान्यस्याभावादित्यर्थः । सद्विवेकस्येति ॥ सद्विविक्तत्वस्य मिथ्याभूतधर्मस्य साध्यत्वादनिर्वचनीयताभावेन नाप्रसिद्धविशेषणताऽसत्त्वाभावेन नापसिद्धान्तोऽपीति चेदित्यर्थः । भेदेति ॥ सद्विविक्तत्वं हि सद्भिन्नत्वं भेद इति यावत् । तस्य साधने स्वशास्त्रे भेदनिराकरणानुपपत्तिश्चेत्यर्थः । सत्यत्व इति ॥ बाध्यत्वस्य सत्यत्वे दृश्यत्वादीनां हेतूनां तेन बाध्यत्वेन सहानैकान्त्यात् । तत्र बाध्यत्वे सत्यत्वाङ्गीकारेण मिथ्यात्वरूपसाध्याभावाद् दृश्यत्वादीनां हेतूनां सत्त्वाद् अनैकान्त्यमित्यर्थः । बाध्यत्वे दृश्यत्वादिरूपहेतोरेव आगमनान्न व्यभिचार इत्याशङ्क्य दृश्यत्वानङ्गीकारे बाधकमाह- दृश्यत्वाद्यभाव इति ॥ बाध्यत्वस्य दृग्विषयत्वाभावे ज्ञानाविषयत्वाभावेऽसाध्यत्वोपपत्तेः । दृश्यत्वानुमानं प्रति यत्साध्यत्वमङ्गीकृतम्, तच्च न स्यात् । तथा हि बाध्यत्वं हि सिद्धिविषयत्वात् साध्यम् । सिद्धिर्हि अनुमितिरूप-ज्ञानम् । तथा च तस्य ज्ञानविषयत्वेऽसाध्यत्वं स्यादित्यर्थः । अनुमानवैयर्थ्यापत्तिरादिशब्दार्थ इति भावः । लोकेऽनुमानानां साध्यप्रतीतिजनकत्वाद् दृश्यत्वानुमानस्यापि साध्यप्रतीतिजनकत्वं वक्तव्यम् । बाध्यत्वरूपसाध्यस्यैव दृग्विषयत्वाभावेनानुमानस्यापि साध्यप्रतीत्यजनकत्वम्, तथा चानुमानवैयर्थ्यमित्यर्थः । तेनैवेति ॥ तत्र दृश्यत्वादिष्वनैकान्त्यं च । तथा हि । अज्ञानसिद्ध्यापत्त्या दृश्यत्वेऽपि दृश्यत्वमङ्गीकर्तव्यम् । तथा च दृश्यत्वहेतोर्भावात् सत्यत्वेन मिथ्यात्वरूप-साध्यस्याभावाद् अनैकान्त्यमित्यर्थः । न चेति ॥ यदि सत्यासत्ययोर् दृश्यत्वसामान्य-मुभयवादिसम्प्रतिपन्नं स्यात् तदा विकल्पानवकाशः । न च तदस्ति । अतो विकल्प्य दूषणाभिधानं युक्तमित्यर्थः । एषा दिगिति ॥ एषः दोषप्रदर्शनमार्गः । अन्येऽपि बहवो दोषाः सन्ति । तेऽपि बुद्धिमतो हि इत्यर्थः ।
नारोपन्तीया
बाध्यत्वस्य च मिथ्यात्व इति । ननु वन्ध्यासुतः किं जीवति मृतो वेत्यादिप्रश्ने यदेव भवतामुत्तरं तदेवास्माकमत्रापि । तत्र हि भवद्भिः कोटिद्वयस्य प्रतिषेध एव कार्यः । नापि जीवति, नापि मृत इति । न हि तत्र जीवनप्रतिषेधे मरणं सत्यमिति वा, मरणप्रतिषेधे जीवनं सत्यमिति वाऽभ्युपगतं स्यात् । पुनस्तन्निषेधे व्याघात इति वा दूषणं सम्भवति । एवमेव प्रपञ्चे बाध्यत्वम-बाध्यत्वं चोभयं मिथ्याऽस्तु । बाधकाभावात् । एतेन सत्त्वासत्त्वे एकधर्मिनिष्ठात्यन्ताभावप्रतियोगि-नीत्यनुमाने अविरुद्धत्वोपाधिः प्रागुक्तः परास्तः । अत्रैव साध्यव्यापकताभङ्गादिति चेदुच्यते । भ्रान्तोऽसि । दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यात् । तथा हि - जीवनं हि प्राणसंयोगविशेषः । ‘जीव= प्राणधारणे’ इति धातोः । तथा मरणमपि प्राणविभागविशेषः । ‘मृञ्-प्राणत्यागे’ इति धातोः । तदुभयमपि शरीरगुणविशेषरूपं पृथक्पदार्थान्तरं, भावरूपं वा, प्राणसंयोगतद्ध्वंसरूपं वा । न तु परस्परात्यन्ताभावरूपम् । तथा चान्यतरप्रतिषेधे कथम् अन्यतरसत्त्वापत्तिः ? न हि गजे गोत्वं मिथ्येत्येतावताऽश्वत्वं सम्भवति । नापि घटे मरणं मिथ्येत्येतावता जीवनं सत्यं भवति । तथा च वन्ध्यासुतपर्यन्तं धावनं व्यर्थम् । ननु घटे कथं जीवनं मिथ्या स्यात् ? ध्वंसात्प्राक् घटजीवनस्य प्रमितत्वादिति चेत् । मूर्खोऽसि । स्थितिमात्रमेव तत् । घटस्तु न जीवनपदार्थः । तस्य जीवच्छरीरमात्रवृत्तित्वात् । अन्यथा जीवच्छरीरं सात्मकं प्राणादिमत्त्वादिति हेतोः सर्वतान्त्रिकाभिमतव्याप्तिकस्याप्यनैकान्त्यं प्रसज्येत । न च तथा प्रकृते । बाध्यत्वाबाध्यत्वयोर् अनिर्वचनीयसिद्धेः, प्राक् परस्परविरहरूपत्वस्यैव सम्मतत्वात् । अत एव वन्ध्यासुते वक्तृत्वस्य मिथ्यात्वात् तदभावस्य सत्यत्वम् । असदाश्रयत्वं च- ध्वस्ते उत्पत्स्यमाने वा घटे पटत्वं नास्तीत्यबाधितप्रतीतेः सर्वैरपि स्वीकृतमेव । अत एवाविरुद्धत्वोपाधिरपि उद्धृतो वेदितव्य इत्यलमतिप्रपञ्चनेनेति दिक् ॥
जनार्दनभट्टीया
‘दृश्यत्वाद्यनुमानेष्वपि एत एव’ इत्युक्ते एत एवेत्यस्य असङ्कुचितवृत्तित्वेन अभेदवादिनं प्रति भेदवादिभिरभिहितो ‘न च भेदे विकल्पो युज्यते’ इत्यादिदोषोऽप्यतिदिश्यत इत्याभाति । तां भ्रान्तिं निवारयितुमाह – विवादपदमित्यादिना ॥ तथा च अनिर्वचनीयानुमानोक्तदोषाणामेव अत्रातिदेश इत्युक्तं भवति । असत्वे चेति ॥ प्रतीतत्वादिति भावः । किञ्च सत्यासत्ययोरनुगत-सामान्याङ्गीकारे आरोपितधूमत्वाश्रयस्य धूमस्य ह्रदादावपि सत्वाद् अनैकान्तिकप्रसङ्ग इत्यादिकं ‘न च बाष्पारोपितधूमेन धूमत्वं व्यभिचरति’ इत्यादिनोक्तं सर्वत्र आवर्तनीयमित्याह– एषा दिगिति ॥