न च कयाऽपि युक्त्या ..
वियदादिजगतोऽनिर्वचनीयत्वे भेदनिराकरणायोगरूपबाधकसमर्थनम्
श्रीमज्जयतीर्थटीका
एवं साधकप्रमाणाभावेनानिर्वचनीयं निरस्य बाधकेनापि निराचष्टे
मूल
***न च कयाऽपि युक्त्या मानेन वा भेदनिराकरणं भवति । ***
यदि वियदादिकमनिर्वचनीयमङ्गीक्रियते तदा ‘भेदस्य भेदिनो भिन्नत्वेऽनवस्थाप्रसङ्गः । अभिन्नत्वे भेदभेदिनोरन्यतराभावप्रसङ्गः’ इत्यादिकया युक्त्या ‘मायामात्रमिदं द्वैतम्’ इत्यादिना मानेन वा यत्परेण स्वशास्त्रे भेदनिराकरणं क्रियते तदनुपपन्नं स्यात् ।
ननु युक्तेर्मानत्वे कथं पृथग्ग्रहणम् । अमानत्वे कथं निराकरणाङ्गत्वमिति चेद् इत्थम् । युक्तिरागमेतिकर्तव्यतात्वेन स्वयममानमपि निराकरणाद्यङ्गं भवतीति परेणाङ्गीकृतम् । तदनुवादश्चायमिति ।
कुतोऽनिर्वचनीयवादिनो भेदनिराकरणं न सम्भवतीत्यत आह-
मूल
अङ्गीक्रियमाणत्वात् ।
अर्निवचनीयत्वं हि सदसद्विलक्षणत्वम् । वैलक्षण्यं च भेदो वा भेदव्याप्तं वा । एवं चानिर्वचनीयमङ्गीकुर्वता भेदस्याङ्गीक्रियमाणत्वाद् १अङ्गीकारनिराकरणयोर्व्याहतत्वान्न भेदनिराकरणं सम्भवति । इष्यते च तत् । अतो नानिर्वचनीयाङ्गीकारो युक्तः । सदसद्विलक्षणत्वं नाम सत्त्वासत्त्वानाधारत्वम्, न भेद इति चेन्न । सत्त्वविकल्पनिराकरणेन निरस्त्वात् । निराकरिष्यमाणत्वाच्च ।
श्रीविजयीन्द्रभिक्षु
‘न च कयाऽपि युक्त्या’ इति वाक्ये अनिर्वचनीयनिराकरणाप्रतीतेरसङ्गतं तदित्याशङ्क्य सङ्गमयति- एवमिति ॥ अनिर्वचनीयनिराकरणपरत्वस्फोरणाय शेषं पूरयन् भवतीत्यस्य भवेदिति विपरिणामं सूचयन् व्याचष्टे- यदि वियदादिकमिति ॥ भेदानिराकरणे प्रस्तुतानिर्वचनीय-सिद्धिरविकलैवेत्यत आह- इष्यते चेति ॥ तद् भेदनिराकरणम् । सत्त्वासत्त्वानाधारत्वमिति ॥ सत्त्वासत्त्वात्यन्ताभावाधारत्वमित्यर्थः । निरस्तत्वादिति ॥ सत्ताजात्यनाश्रयत्वसाधने सिद्ध-साधनत्वात् प्रतिन्नोपाधौ निषेधानर्हत्वाभावाधारत्वविवक्षायां चासिद्धेरिति निरस्तत्वादित्यर्थः । निरसिष्यमाणत्वाच्चेति ॥ ‘सदसदात्मकत्ववत्सत्त्वासत्त्वोभयानाधारत्वस्यापि विरुद्धत्वात्’ इति निराकरिष्यमाणत्वाच्चेत्यर्थः ।
श्रीवेदेशतीर्थ
युक्त्येति ॥ तर्केणेत्यर्थः । ननु स्वमते तर्कस्य दूषणानुमानत्वेन कथं पृथग्ग्रहणमित्यत आह- तदनुवादश्चेति ॥ भेदव्याप्तं वेति ॥ तदङ्गीकारे व्यापकीभूतभेदाङ्गीकारोऽप्यावश्यक इति भावः । इष्यते च तदिति ॥ तद् भेदनिराकरणम् । अन्यथा औतवादित्वानुपपत्तेः । सत्त्वविक-ल्पेति ॥ यदि सत्ताजात्यनाधारत्वं तदा सद्बहुत्वापत्तिः। यदि ब्रह्मत्वानाधारत्वं तदा सिद्धसाधन-मित्यर्थः । निराकरिष्यमाणत्वाच्चेति ॥ ‘सत्त्वासत्त्वरूपविधिसमुच्चयस्य एकत्र विरुद्धत्ववत्तन्निषेध-समुच्चयस्यापि जगति विरुद्धत्वात्’ इति निराकरिष्यमाणत्वाच्चेत्यर्थः ।
श्रीराघवेन्द्रतीर्थ
एवं साधकेति ॥ ‘मिथ्याशब्दोऽनिर्वचनीयं वदति’ इत्यादिनेति भावः । बाधकेना-पीति । भेदापाकरणवादिनो व्याहतत्वरूपबाधकेनापीत्यर्थः । निराकरणादीति । उपन्यास आदिपदार्थः । इष्यते च तदिति । भेदनिराकरणमित्यर्थः । निरस्तत्वादिति ॥ ‘जात्यङ्गीकारे सद्बहुत्वम्’ इत्यादिनोक्तेन सद्बहुत्वार्थान्तरत्वनिरधिष्ठानब्रह्माधारत्वाभावादिदोषेण निरस्तत्वादि-त्यर्थः । निराकरिष्यमाणत्वाच्चेति ॥ ‘अथ वा’ इति वक्ष्यमाणयोजनयेति भावः ।
गुरुराजीया
युक्त्येति ॥ तर्केणेत्यर्थः । भेदव्याप्तं वेति ॥ तथा च व्याप्याङ्गीकारे तद्व्यापक-भेदस्याप्यङ्गीकारसिद्धिरिति भावः । इष्यत इति ॥ अन्यथा औतवादित्वानुपपत्तेरिति भावः । निरस्तत्वादिति ॥ यदि सत्ताजात्यनाधारत्वं तर्हि सद्बहुत्वम् । यदि ब्रह्मत्वानाधारत्वं तदा सिद्धसाधनमिति निरस्तत्वादित्यर्थः । निराकरिष्यमाणत्वादिति ॥ ‘सत्त्वासत्त्वरूपविधि-समुच्चयस्यैकत्र विरुद्धत्ववत् तन्निषेधसमुच्चयस्याप्येकत्र विरुद्धत्वेनासम्भवित्वात्’ इति निराकरिष्य-माणत्वादित्यर्थः ।
गोविन्दीया
न चेति ॥ अनिर्वचनीयं हि सदसद्विलक्षणम् । विलक्षणं च भिन्नम् । तथा च वियदादिजगतः सदसद्भिन्नत्वेऽङ्गीक्रियमाणे कयाऽपि युक्त्या मानेन वा स्वशास्त्रे क्रियमाणं भेदनिराकरणमुपपन्नं न च भवति । अङ्गीकारानङ्गीकारयोर्व्याहतत्वादित्यर्थः । भेदस्येति ॥ भेदिनो सदसतोः सकाशाद् भेदस्य भिन्नत्वे भेदो भेदान्तरवान् स्यात् । सोऽपि भेदः धर्मिभूतभेदाद् भिन्नश्चेत् पुनर्भेदान्तरवान् स्यादित्येवं भेदपरम्परयाऽनवस्थाप्रसङ्गः । अभिन्नत्वे भेदाभेदिनोर्मध्येऽन्यतरस्य भेदस्य वा भेदिनो वा एकस्याभावप्रसङ्ग इत्यादिकया युक्त्येत्यर्थः । मायामात्रमिति ॥ इदं द्वैतं भेदः मायामात्रं मायाकल्पितमित्यर्थः । इत्थमित्युत्तरमाहेत्यर्थः । युक्तिमिति ॥ आगमेतिकर्तव्यतात्वेनागमानुकूलत्वेन स्वयममानमपि युक्तिनिराकरणाङ्गं भवतीति परेणाङ्गीकृतं कयाऽपि युक्त्या मानेन चेत्ययं ग्रन्थः परोक्तवाक्यस्यार्थतोऽनुवाद इत्यर्थः । इष्यते चेति ॥ तद्भेदनिराकरणमिष्यते क्रियते चेत्यर्थः । सत्त्वेति ॥ सत्ताजातितद्विशिष्टव्यक्तिस्वरूपसद्भिः सत्त्वविकल्पैः सदसद्विलक्षणत्वस्य निराकरणेनास्यापि सत्त्वासत्त्वानाधारत्वे सिद्धे सिद्धसाधनता स्यादित्यर्थः । निराकरिष्यमाणत्वाच्चेति ॥ सत्त्वासत्त्वरूपविधिसमुच्चयस्येत्यादिवाक्येन निराकरिष्यमाणत्वादित्यर्थः ।
नारोपन्तीया
युक्तिरागमेतिकर्तव्यतात्वेनेति ॥ तथा चाऽगमरूपप्रमाणसहकारित्वाद्युक्तेरन्यथा-सिद्धत्वम् । सहकारित्वं च विपरीतशङ्कानिवर्तकत्वम् । तेन युक्त्या विपरीतशङ्कायां निवर्तितायाम् आगम एव स्वप्रतिपाद्यमर्थं साधयतीति परो मन्यते ।
जनार्दनभट्टीया
‘न च कयापि’ इति मूले १भेदनिराकरणानुपपत्तिकथनस्य असङ्गतिमाशङ्क्य प्रघट्टिकाविच्छेदं दर्शयन् एतदपि वाक्यं प्रकृतानिर्वचनीयनिराकरणपरतया योजयति – एवमिति ॥ आगमार्थ-निर्णयानुकूलत्वेनेत्यर्थः । ‘अङ्गीक्रियमाणत्वात्’ इत्यस्य षष्ट्यन्तसापेक्षत्वात् तदध्याहृत्य पूर्ववाक्येन सह पञ्चम्यन्तं योजयति – अनिर्वचनीयत्वं हीति ॥ सत्वासत्वानाधारत्वमिति ॥ सत्वासत्वाधारत्वा-त्यन्ताभावाधिकरणत्वमित्यर्थः । निराकरिष्यमाणत्वाच्चेति ॥ ‘अनिर्वचनीयासिद्धेश्च’ इति उत्तरवाक्य इति शेषः ।