१९ वियदादिजगतो ज्ञाननिवर्त्यत्वशङ्का तन्निरासश्च

न च बाध्यं जगदित्यत्र किञ्चिन्मानम् ..

वियदादिजगतो ज्ञाननिवर्त्यत्वशङ्का तन्निरासश्च

श्रीमज्जयतीर्थटीका

न वयमन्यथाविज्ञातस्य सम्यग्विज्ञानगोचरत्वं बाध्यत्वं ब्रूमः । येन सतस्तदस्तीति व्याप्तिभङ्गः स्यात् । किं नाम, ज्ञाननिवर्त्यत्वमित्यत आह-

मूल

***न च बाध्यं जगदित्यत्र किञ्चिन्मानम् । ***

न तावज्ज्ञाननिवर्त्यत्वमम्बरादौ प्रत्यक्षसिद्धम् । अप्रतीतेः । न चानिर्वचनीयत्वहेतुसिद्धम् । परस्पराश्रयप्रसङ्गात् । दृश्यत्वादयस्तु निरसिष्यन्ते । ‘ज्ञाते द्वैतं न विद्यते’ इत्याद्यागमस्यान्य-परत्वमन्यत्रोपपादितम् । ज्ञानान्मोक्षाभिधानञ्चान्यथैवोपपादितम् । अतो ज्ञाननिवर्त्यत्वं चेद्बाध्यत्वं तर्हि तस्य वियदादावभावात्कस्यानुपपत्त्या तत्र सद्विलक्षणत्वप्रतिपत्तिः स्यात् ।

श्रीविजयीन्द्रभिक्षु

ननु ‘सच्चेन्न बाध्येत’ इत्यत्र बाध्यत्वं सत्त्वेऽप्युपपन्नमिति यदुक्तं तन्न । बाध्यत्वमिह ज्ञाननिवर्त्यत्वमेव विवक्षितम् । न तूक्तम् । न च सदसदात्मनोर्ज्ञानेन निवृत्तिरिति कथं सत्त्वेऽपि बाध्यत्वमुपपन्नं स्यादित्यशङ्कानिरासार्थं न च बाध्यं जगदित्यत्र किञ्चिन्मानम् इत्युक्तम् । तदवतारयति- न च वयमिति ॥ अनिर्वचनीयहेतुसिद्धमिति ॥ अनिर्वचनीयत्वरूपहेतुसिद्धमित्यर्थः। परस्पराश्रयेति ॥ अनिर्वचनीयत्वसिद्धेर्ज्ञाननिवर्त्यत्वरूपबाध्यत्वसिद्ध्यधीनत्वादित्यर्थः । ननु दृश्यत्वादिहेतुनैवाम्बरादेर् ज्ञाननिवर्त्यत्वसिद्धेः क्व परस्पराश्रयप्रसङ्ग इत्यत आह- दृश्यत्वादय-स्त्विति ॥ निरसिष्यन्त इति ॥ दृश्यत्वादीनामम्बरादौ ज्ञाननिवर्त्यत्वसाधकतानिरासः करिष्यत इत्यर्थः । ननु ‘विकल्पो विनिवर्तेत’ इति माण्डूक्यश्रुत्यैव वियदादेर् ज्ञाननिवर्त्यत्वं सेत्स्यतीत्यत आह - ज्ञाते द्वैतमिति ॥ विकल्पो भेदप्रपञ्चो यद्यज्ञानादिना केनचित्कल्पितः स्यात्तर्हि निवर्तति । न च निवर्तते । तस्मान्न कल्पितः’ इत्ययमेव सतां वादः । श्रुत्यादिषु उपदेशात् । द्वैतं न विद्यत इति वादस्तु अज्ञाते तत्वाज्ञानदशायाम् अज्ञानिनामेवायं वाद इति अन्यत्र तद्भाष्यादावुक्तमित्यर्थः ।

ननु ‘तमेवं विदित्वाऽतिमृत्युमेति’१ इत्यादौ ज्ञानान्मोक्षः प्रतीयते । मोक्षश्च बन्धनिवृत्तिरेव । बन्धश्च नाज्ञानादतिरिच्यते । तच्च वियदादिसकलजगदुपादानमिति ज्ञानादज्ञाननिवृत्तौ तदुपा-देयस्य सर्वस्य जगतोऽपि निवृत्तिरिति प्रपञ्चमात्रे ज्ञाननिवर्त्यत्वसिद्धिरित्यत आह- ज्ञानादिति ॥ बन्धस्यापि न ज्ञानान्निवृत्तिः । किं तु भगवत्प्रसादादेव । ‘यमेवैष वृणुते तेन लभ्यः’२ ‘यस्य प्रसादात् परमार्तिरूपादस्मात् संसारान्मुच्यते नापरेण’ इत्यादिश्रुतेः । ज्ञाननिवर्त्यत्वेऽपि गरुड-ध्याननिवर्त्यविषस्येव, सेतुदर्शननिवर्त्यब्रह्महत्यादेरिव, सुहृद्दर्शननिवर्त्यदुःखादेरिव च सत्यत्वोप-पत्तेश्चेत्याद्यन्यथैवान्यत्रोपपादितमित्यर्थः । न च तथाऽपि प्रपञ्चस्य ज्ञाननिवर्त्यत्वं दुर्वारम् । ‘तदा विद्वान्नामरूपाद्विमुक्तः’३ इत्यादिश्रुत्यैव नामरूपाऽत्मकप्रपञ्चस्य ज्ञाननिवर्त्यत्वादेरभिधानादिति वाच्यम् । ‘निगडाद्विमुक्तः’ इत्यत्रेव प्रपञ्चस्यानिवृत्तावपि विश्लेषमात्रेण ज्ञानाद्विमुक्तत्वोपपत्तेः। यद्वा यो विद्वांस्तदीयनामरूपनिवृत्तिमात्रप्रतिपादनपरत्वेन सकलप्रपञ्चस्य ज्ञाननिवर्त्यत्व-प्रतिपादनपरत्वासिद्धेश्चेति । उपसंहरति- अत इति ॥ कस्यानुपपत्त्येति ॥ एतच्चोपलक्षणम् । तस्य सत्त्वेऽप्युक्तरीत्या अन्यथोपपत्त्येत्यपि द्रष्टव्यम् ।

श्रीवेदेशतीर्थ

अनिर्वचनीयहेतुसिद्धमिति ॥ अनिर्वचनीयत्वहेतुसिद्धमित्यर्थः । परस्पराश्रय-प्रसङ्गादिति ॥ सिद्धेऽनिर्वचनीयत्वे तेन बाध्यत्वसिद्धिः । तत्सिद्धौ तदन्यथानुपपत्त्याऽनिर्वच-नीयत्वसिद्धिरिति परस्पराश्रयप्रसङ्गादित्यर्थः । ननु दृश्यत्वादिहेतुभिरेवाम्बरादेर्ज्ञाननिवर्त्यत्वसिद्धेः क्व परस्पराश्रयप्रसङ्ग इत्यत आह- दृश्यत्वादयस्त्विति ॥ ननु ‘विकल्पो विनिवर्तेत’ इत्यादिश्रुतिरेव ज्ञाननिवर्त्यत्वे मानमित्यत आह- ज्ञाते द्वैतमिति ॥ ‘विकल्पो भेदप्रपञ्चः यद्यज्ञानादिना केनचित् कल्पितः स्यात्तर्हि निवर्तेत । न च निवर्तते । तस्मान्न कल्पितः’ इत्ययमेव सतां वादः । श्रुत्यादिषूपदेशात् । ‘द्वैतं न विद्यत’ इति वादस्त्वज्ञाते तत्त्वाज्ञानदशायाम् । अज्ञानिनामेवायं वाद इत्यन्यपरत्वं माण्डूकोपनिषद्भाष्यादावुपपादितमित्यर्थः । ननु ‘तरति शोकमात्मवित्’ इत्यादिना ज्ञानान्मोक्षोऽभिधीयते । दुःखादिबन्धनिवृत्तिर्हि मोक्षः । न चाज्ञानोपादानकस्य साक्षाज्ज्ञान-निवर्त्यत्वम् । ‘ज्ञानमज्ञानस्यैव निवर्तकम्’ इति व्याप्तेः । तथा चाऽत्मज्ञानेनाऽज्ञाने निवृत्ते तदुपादानको बन्धः स्वयमेव निवर्तत इत्यात्मज्ञानान्मोक्षाभिधानान्यथानुपपत्त्या वियदादि-प्रपञ्चस्याज्ञानोपादानकस्य ज्ञाननिवर्त्यत्वसिद्धिरित्यत आह- ज्ञानादिति ॥ बन्धस्यापि ज्ञानान्निवृत्तिर्नास्त्येव । किन्तु भगवत्प्रसादात् । ‘यस्य प्रसादात्’ इति श्रुतेः । ज्ञाननिवर्त्यत्वेऽपि गरुडध्यानरूपज्ञाननिवर्त्यविषस्येव, सेतुदर्शननिवर्त्यपापस्येव, सुहृद्दर्शननिवर्त्यदुःखस्येव सत्यत्वोपपत्तेश्चेत्यन्यत्रान्यथैवोपपादितमिति भावः । कस्यानुपपत्त्येति ॥ एतच्चोपलक्षणम् । तस्य सत्त्वेऽप्युक्तरीत्याऽन्यथोपपत्त्या चेत्यपि द्रष्टव्यम् । ननु ‘ब्रह्म वेद ब्रह्मैव भवति’१ इति ब्रह्मभावरूपमोक्षो ब्रह्मज्ञानादभिधीयते । न चासौ बन्धस्य ज्ञाननिवर्त्यत्वं विनोपपद्यते । अनिवृत्तबन्धस्य ब्रह्मभावासम्भवात् । अतो ज्ञानिनो मोक्षाभिधानानुपपत्तिप्रसूतार्थापत्त्यैव जगति ज्ञाननिवर्त्यत्वसिद्धिरित्यत आह- ज्ञानादिति ॥ सत्यं मोक्षो बन्धनिवृत्तिमपेक्षत इति । सा च भगवत्प्रसादेनैव । न ज्ञानेनेत्यन्यत्रोप-पादितमिति भावः ।

श्रीराघवेन्द्रतीर्थ

शङ्कते - न वयमिति ॥ परस्परेति ॥ अनिर्वचनीयत्व-सिद्धावुक्तरूपबाध्यत्वसिद्धिः । तत्सिद्धौ च तत्सिद्धिरित्येवमित्यर्थः । निरसिष्यन्त इति । ‘दृश्यत्वाद्यनुमानेष्वप्येत एव दोषाः’ इत्यत्रेति भावः। अन्यत्रेति ।

‘द्वैतं न विद्यत इति तस्मादज्ञानिनां मतम् ।’२

इत्याद्याध्यायान्त-अनुव्याख्यानतत्त्वनिर्णयादावित्यर्थः । ननु ‘तमेवं विद्वानमृत इह भवति’३ ‘दृष्ट्वैव तं मुच्यते’१ इत्यादौ ज्ञानान्मोक्षोक्तिस्सर्वस्याऽविद्यकत्वं विना न युक्ता । ज्ञानस्य साक्षादज्ञानस्यैव निवर्तकत्वेन तन्निवृत्तिद्वारैव बन्धनिवृत्तेर् वाच्यत्वादित्यत आह - ज्ञानादिति ॥

इत्याद्युक्तिबलेन च । ‘ज्ञानस्वभावतोऽपि स्यान्मुक्तिः’ । इति ।

‘इत्युक्तेर्बन्धमिथ्यात्वं नैवमुक्तिरपेक्षते ।’२ इति ।

‘अतो यथार्थबन्धस्य विना विष्णुप्रसादतः । अनिवृत्तेस्तदर्थं हि जिज्ञासा’३ इत्यादौ सत्यस्यापि बन्धस्य विष्णुप्रसादद्वारा निवृत्तिरित्युपपादितमित्यर्थः । नन्वद्वैतज्ञानाद्बन्धनिवृत्तिरूपो मोक्षस्तावच्छ्रूयते । तत्र बन्धस्य सत्यत्वे ज्ञानान्निवृत्तिर्न सम्भवति । सत्यस्याऽत्मनो निवृत्त्यभावात् । तथा च यतो ज्ञानमज्ञानस्य तत्कार्यस्य वा निवर्तकमित्यज्ञानकार्यत्वप्राप्त्या बाध्यत्वापरपर्यायं मिथ्यात्वमेव प्राप्तम् । अज्ञानतत्कार्ययोरन्य-तरत्वस्यैव मिथ्यात्वादित्यत आह- ज्ञानान्मोक्षेति ॥ अन्यथेति ॥ न वयं मोक्षस्य ज्ञानसाध्यत्वं ब्रूमः । किन्नाम ज्ञानजन्यप्रसादसाध्यत्वमेव ब्रूमः । प्रसादनिवर्त्यत्वं च सत्यस्यापि सम्भवति । सत्यस्यापि निगडबन्धस्य प्रभुप्रसादान्निवृत्तिदर्शनात् । अस्तु वा बन्धस्य ज्ञाननिवर्त्यत्वं, तथाऽपि तदन्यथानुपपत्त्या न मिथ्यात्वसिद्धिः । सत्यस्यापि विषस्य गरुडध्याननिवर्त्यत्वस्य सत्यस्यापि ब्रह्महत्यादिपातकस्य सेतुदर्शनान्निवृत्तिदर्शनादिति भावः ।

गुरुराजीया

यत्तु अनिर्वचनीयहेतुसिद्धमिति प्रतीकमुपादायानिर्वचनीयत्वहेतुसिद्धमिति व्याख्यानं तत्तु स्वकीयपुस्तकपाठदर्शनेनायुक्तत्वादुपेक्ष्यम् । सार्वजनीनचिरन्तनाचिरन्तनपुस्तकेषु अनिर्वचनीयत्वहेतुसिद्धमित्येव पाठदर्शनेन स्वपुस्तकेऽन्यथापाठस्य लेखकदोषमात्रमूलकत्वाव-धारणात् ।

परस्पराश्रयप्रसङ्गादिति ॥ सिद्धेऽनिर्वचनीयत्वे तेन बाध्यत्वसिद्धिः । तत्सिद्धौ च तदन्यथानुपपत्त्या अनिर्वचनीयत्वसिद्धिरिति परस्पराश्रयप्रसङ्गादित्यर्थः । ननु दृश्यत्वादिहेतुभि-रेवाम्बरादेर्ज्ञाननिवर्त्यत्वसिद्धेः क्व परस्पराश्रयत्वप्रसङ्ग इत्यत आह- दृश्यत्वादयस्त्विति ॥ ‘दृश्यत्वाद्यनुमानेष्वप्येत एव दोषाः’ इत्यादिनेति शेषः । ननु-

‘विकल्पो विनिवर्तेत कल्पितो यदि केनचित् ।

उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते ॥’१

इति २श्रुतिः । ‘विकल्पः प्रपञ्चः यदि केनचित्कल्पितः स्यात्तदा निवर्तेत’ इति यद्युपनिबन्धान् निवर्तेतेति लिङ्श्रवणाच्चात्र तर्क एवोपनिबद्धः । ३तर्कस्य च न वस्तुस्थितिः । तर्कस्य च न च निवर्तते तस्मान्न कल्पित इति विपर्ययपर्यवसानमावश्यकम् । अन्यथा तर्काभासत्वप्रसङ्गात् । अतोऽज्ञानिनां मते द्वैतं न विद्यत इत्येवमर्थपरत्वं तु तत्वनिर्णयादावुपपादितमित्यर्थः ।

ननु ‘तरति शोकमात्मवित्’ इत्यादिना ज्ञानान्मोक्षः श्रूयते । बन्धनिवृत्तिर्हि मोक्षः । तस्य च ज्ञानसाध्यत्वमज्ञानोपादानकत्वेनोपपद्यते । ज्ञानेनाज्ञाननिवृत्तेः । उपादाननिवृत्तावुपादेय-निवृत्तेरावश्यकत्वादज्ञानोपादानकबन्धनिवृत्तिध्रौव्यात् । न सत्यत्वे । यतो ‘ज्ञानमज्ञानस्यैव निवर्तकम्’ इति व्याप्त्या ज्ञानस्य साक्षादज्ञाननिवर्तकत्वस्याज्ञाननिवृत्तिद्वारा तत्कार्यनिवर्तकत्वस्य सिद्धत्वेन बन्धस्य सत्यत्वे ज्ञाननिवर्त्यत्वानुपपत्तेरित्यतः सत्यस्यापि पापस्य सेतुदर्शनेन तादृशविषस्य च गरुडध्यानेन निवृत्तिदर्शनेन ज्ञानस्याज्ञानमात्रनिर्तकत्वासिद्ध्या सत्यस्यापि ज्ञाननिवर्त्यताया अनुव्याख्यानादवुपपादितत्वेनान्यथानुपपत्तेरेवाभावान्न तया दुःखादिरूपबन्धस्य मिथ्यात्वसिद्धिरित्याशयेनाऽह- ज्ञानान्मोक्षाभिधानमिति ॥

गोविन्दीया

परस्परेति ॥ अनिर्वचनीयत्वस्यैव साध्यत्वेनाद्यापि असिद्धत्वात् हेतुत्वायोगेनानिर्वच-नीयत्वसिद्धौ बाध्यत्वसिद्धिः, तत्सिद्धौ तत्सिद्धिरिति परस्पराश्रयप्रसङ्गादित्यर्थः । ज्ञाते द्वैतमिति ॥

विकल्पो विनिवर्तेत कल्पितो यदि केनचित् ।

उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते ॥

विकल्पः= भेदप्रपञ्चः यदि अज्ञानादिना केनचित् कल्पितः स्यात्, तर्हि निवर्तेत न च कल्पितः, अतो न निवर्तते । इत्ययं वादः सतामेव श्रुत्यादिषूपदेशाद् द्वैतं= भेदः न विद्यत इति वादो ऽज्ञाते= तत्त्वाज्ञानदशायाम् अज्ञानिनामेवेति अकारप्रश्लेषेण आगमस्य अन्यपरत्वेन अन्यत्र= मण्डूकोपनिषदादौ उपपादित इत्यर्थः । ज्ञानादिति ॥ ‘ब्रह्म वेद ब्रह्मैव भवति’ इति ब्रह्मज्ञानाद् ब्रह्मभावरूपमोक्षोऽभिधीयते । स च बन्धस्य ज्ञाननिवर्त्यत्वं विना नोपपद्यत इति अर्थापत्त्या ज्ञाननिवर्त्यत्वसिद्धिरित्याशङ्क्य, तेन वाक्येन भगवत्प्रसादजाज् ज्ञानाद् बन्धनिवृत्तिरूपमोक्षोऽभिधीयत इति प्रकारान्तरेणोपपादितम् । न तु बाधकज्ञानाद् ब्रह्मभावरूपमोक्षः । अतो ज्ञाननिवर्त्यत्वे न मानमित्यर्थः ।

नारोपन्तीया

ज्ञाते द्वैतं न विद्यत इति ॥

‘विकल्पो विनिवर्तेत कल्पितो यदि केनचित् ।

उपदेशादयं वादोज्ञाते द्वैतं न विद्यते ॥’

इति श्रुतिः । विकल्पः प्रपञ्चः यदि केनचित् कल्पितः स्यात् । तदा विनिवर्तेत इति यद्युपबन्धाल्लिङन्वयाच्च तर्क एवात्र श्रुतावुपनिबद्धो न तु वास्तवार्थकथनम् । तर्कस्य विपर्ययपर्यवसानमावश्यकमिति, न च निवर्तते तस्मान्न कल्पितः, किं तु पारमार्थिक एवेति वाक्यशेेषोऽवगम्यते । एतादृशवादश्च गुर्वाद्युपदेशाद्भवति । तस्माद्द्वैतं न विद्यत इति चेत् तत्तु अज्ञाने अज्ञानिनां मत इत्यर्थोऽस्याः श्रुतेर्ग्रन्थान्तरे दर्शित इत्यर्थः ।

ज्ञानेन मोक्षाभिधानमिति१ ॥ ‘ज्ञानेनाऽमृती भवति’ इत्यादिना ज्ञानेन मोक्षो भवतीत्युच्यते । मोक्षश्च संसारनिवृत्तिः । न च संसारस्य सत्यत्वे अज्ञानकल्पितत्वाभावे ज्ञाने न तन्निवृत्तिर्भवतीति अर्थात्तस्य मिथ्यात्वं सिध्यति । यतो ज्ञानमज्ञानस्यैव निवर्तकमिति नियम इति पराभिप्रायः । सत्यस्यैव ब्रह्मवधजन्यस्य पापस्य सेतुदर्शनेन, विषस्य गरुडध्यानेन, पूर्वज्ञानस्य चोत्तरज्ञानेन निवृत्तेर्लोकवेदयोः सिद्धत्वात् संसारस्य सत्यत्वेऽपि तदुपपत्तेः क्षीणार्थापत्तिर्नार्थमिथ्यात्वे मानम् । तत्रैव व्यभिचाराच्च उक्तनियमोऽपि भग्न एवेति भावः ।

जनार्दनभट्टीया

पूर्ववाक्यसङ्गतिरूपेण उत्तरवाक्यमवतारयति – न वयमित्यादिना ॥ सतस्तदस्तीति ॥ अत्र सतो ब्रह्मण इत्यर्थः । न चेति ॥ ‘अम्बरादिकं ज्ञाननिवर्त्यम् अनिर्वचनीयत्वात्’ इति हेत्वसिद्धिर्नेत्यर्थः । ‘अनिर्वचनीयत्वे सिद्धे ज्ञाननिवर्त्यत्वसिद्धिः, ज्ञाननिवर्त्यत्वसिद्धे अर्थापत्तिप्रवृत्तिद्वारा अनिर्वचनीयत्वसिद्धिरिति परस्पराश्रयः’ इति भावः ।

ननु ‘विमतं ज्ञाननिवर्त्यं दृश्यत्वाज् जडत्वात्’ इत्यादिना तत्सिद्धिरित्यत आह – दृश्यत्वादय इति ॥ ‘आत्मनोऽपि दृश्यत्वाद् अनैकान्तिकता च’ इत्यादिना निरसिष्यन्त इत्यर्थः । ज्ञाते द्वैत-मिति ॥ परमात्मस्वरूपे यथावद् ज्ञाते द्वैतं मिथ्याज्ञानं निवर्तत इति अन्यपरत्वम् अन्यत्र= माण्डूकोपनिषद्भाष्ये उपपादितमित्यर्थः । ननु ‘तमेवं विदित्वा अतिमृत्युमेति’१ इति ब्रह्मज्ञानेन मृत्युशब्दितसंसारबन्धान्मोक्षः प्रतीयते । नहि संसारबन्धस्य सत्यत्वे ज्ञाननिवर्त्यत्वं घटत इत्यत आह – ज्ञानादिति ॥ अन्यथैवेति ॥ सत्यस्यैव संसारस्य गरुडध्यानेन सत्यविषस्येव निवृत्तिरुपपादितेति भावः । एवशब्देन मिथ्यात्वस्य असत्वपर्यवसितत्वेन संसारस्य मिथ्यात्वे ज्ञानेन निवृत्तिर् न सम्भवति ।