१२ श्रुत्या प्रपञ्चसत्यत्वसमर्थनम्

विश्वं सत्यं मघवाना ..

श्रुत्या प्रपञ्चसत्यत्वसमर्थनम्

मूल

‘विश्वं सत्यं मघवाना युवोरिदापश्च न प्रमिनन्ति व्रतं वाम् ।’१

श्रीमज्जयतीर्थटीका

हे मघवानौ धनादिमन्तौ इन्द्राबृहस्पती । युवयोर्विश्वं सत्यमेव । न केवलमहमेवं प्रति-पन्नः । किं तु आपोऽपि वां सत्यजगत्सर्जनादिकं कर्म जानन्तीति द्विरूपं परमेश्वरं प्रत्युच्यते ।

मूल

‘प्र घा न्वस्य महतो महानि सत्या सत्यस्य करणानि वोचम् ।’२

नु इदानीमस्य महतस्सत्यस्य परमेश्वरस्य महान्ति सत्यानि ३कर्माणि प्रावोचमेव । कर्मणां सत्यत्वं विषयसत्यतामन्तरेण नोपपद्यत इति विश्वसत्यतासिद्धिः ।

मूल

***‘सत्यस्सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ।’ ***

सः जगत्सृष्ट्यादिलक्षणः । अस्य परमेश्वरस्य महिमा सत्यः । तं विप्रप्रधानेषु यज्ञेषु शवः सुखमुद्दिश्य स्तौमि ।

मूल

‘कविर्मनीषी परिभूस्स्वयम्भूर्याथातथ्यतोऽर्थान्

व्यदधाच्छाश्वतीभ्यस्समाभ्यः’४ इत्यादिश्रुतिभिश्च ।

कविः सर्वज्ञः । मनसामीष्ट इति मनीषी । परिभवति सर्वानिति परिभूस्सर्वोत्तमः । स्वयमेव भवतीति स्वयम्भूः स्वतन्त्रः परमेश्वरः । शाश्वतीभ्यस्समाभ्यः सर्वदा । अर्थान् महदादीन् । याथातथ्यत एव व्यदधात् । न तु, मिथ्याभूतान् ।

इत्येवं श्रुतिस्मृतिभिः प्रपञ्चस्य सत्यतावगमात् तदनिर्वाच्यतापराणां वाक्यानामर्थान्तर-परत्वस्यैव युक्तत्वान् नागमोऽनिर्वचनीये मानमिति स्थितम् ।

श्रीविजयीन्द्रभिक्षु

व्याचष्टे- हे मघवानावित्यादि ॥ युवयोर् विश्वमिति ॥ ‘यच्चिकेत’ इति श्रुत्यन्तरानु-साराद्युष्मत्सृज्यं विश्वं सत्यमेवेत्यर्थः । आपोऽपीति ॥ अबभिमानिन्यो देवता अपीत्यर्थः । व्रतशब्दार्थः- सत्यजगदिति ॥ न च विश्वं सत्यमिति श्रुतौ विश्वशब्दस्य व्रतशब्दसामानाधिकरण्येन युवयोः सम्बन्धि सर्वं व्रतं सत्यं सफलमित्यर्थः । ‘सत्याः सन्तु यजमानस्य कामाः’ इत्यादौ सत्यशब्दस्य तदर्थपरत्वदर्शनादिति वाच्यम् । तथा सति वाम् इत्यस्य वैयर्थ्यापातेन सामानाधिकरण्येनान्वयासम्भवादिति भावः । इदानीमिति ॥ निपातानामनेकार्थत्वादिति भावः। करणानि कर्माणि । ‘व्यवहिताश्च’१ इति स्मरणात् प्रशब्दस्य क्रियासम्बन्धं दर्शयन् घशब्दं व्याचष्टे- प्रावोचमेवेति ॥ ननु करणानामेवानया श्रुत्या सत्यत्वसिद्धावपि न जगत्सत्यत्वसिद्धिः । न च तथाऽपि सर्वजगन्मिथ्यात्वं विघटितमेवेति वाच्यम् । तथाऽपि त्वदभिमतसर्वजगत्सत्यत्वसिद्धेरित्यत आह- करणानामिति ॥

यद्यपि ‘न तस्य कार्यं करणञ्च विद्यते’ इति श्रुत्या परमेश्वरस्य करणं निषिद्ध्यते तथाऽप्युदाहृत-श्रुत्यनुसारेणासत्यकरणमेव तथा निषिद्ध्यते । अन्यथा ‘सत्यः सो अस्य महिमा’ ‘एष नित्यो महिमा ब्राह्मणस्य’ इति श्रुतिविरोधादिति भावः । एतच्छङ्कानिरासार्थमेव ‘सत्यः सो अस्य’ इति श्रुतिप्रगृहीतिरिति तां व्याचष्टे- सत्यजगदिति ॥ मनसामीष्ट इति ॥ ‘अधीगर्थदयेशाम्’२ इति कर्मणि षष्ठीति भावः ।

‘सत्यं तथ्यं मतं सम्यक्’ इति कोशकारस्मरणात्सत्यवाचिनस्तथ्यशब्दस्य भावप्रधानस्य पदार्थानतिक्रमार्थकयथाशब्देन ‘अव्ययं विभक्ति’३ इत्यादिनाऽव्ययीभावसमासे स्वार्थे ष्यञि याथातथ्यशब्दो निष्पद्यते । ततः सार्वविभक्तिकस्तसिः । एवञ्च तथ्यभावानतिक्रमेणार्थान् सर्वपदार्थान् व्यदधादित्यर्थलाभात्तेषां पदार्थानां मिथ्यात्वव्यवच्छेदो लभ्यत इति भावः ।

ननु सादृश्यार्थकयथाशब्दस्य ‘यथाऽसादृश्ये’४ इत्यव्ययीभावनिषेधेऽपि सुप्सुपेति समास-सम्भवाद् यथातथाशब्दाद् ५गुणवचनाद् ब्राह्मणादिभ्यश्चेति कर्मणि ष्यञ्प्रत्यये ‘यस्येति च’६ इत्यकारलोपे आदिवृद्धौ सार्वविभक्तिकतसिप्रत्यये च सति याथातथ्यत इति निष्पद्यते । तस्य च ‘धाता यथापूर्वमकल्पयत्’ इति श्रुत्यानुगुण्यात्पूर्वकल्पीयार्थसादृश्येनैवार्थान् व्यदधादित्यर्थलाभात् कथं त्वदुक्तार्थलाभः । कथं वा अव्ययीभावसमासेऽपि त्वदुक्तार्थलाभः । यथाशब्दस्य पदार्थानतिक्रमार्थत्वं तथाशब्दस्य सादृश्यार्थकत्वं चाङ्गीकृत्य समासेऽपि सादृश्यमनतिक्रम्यार्थान् व्यदधादित्यर्थस्यैव लाभादिति चेन्न । विनिगमनाविरहेणास्मदुक्तार्थपरत्वस्यापि त्यागानर्हत्वात् । न च ‘अन्यायश्चानेकार्थत्वं’ इति न्यायविरोधेनानेकार्थपरत्वमयुक्तमिति वाच्यम् । यत्रैकार्थत्वे विशिष्य प्रमाणमस्ति तत्रैव तन्न्यायावतारात् ।

‘त्रयोऽर्थाः सर्ववेदेषु दशार्थाः सर्वभारते ।’

इति स्मृत्यैव वेदस्यानेकार्थपरत्वस्योपगमाच्चेति ।

इयता प्रबन्धेन प्रतिपादितं पराभिमतानिर्वचनीये आगमप्रमाणाभावमुपसंहरति- एवं स्मृतिभिरिति ॥ तदनिर्वाच्यतापराणामिति ॥ तदनिर्वाच्यतापरत्वेन पराभ्युपगतानामित्यर्थः ।

श्रीवेदेशतीर्थ

‘मघवन् यशस्विन् मखपते धनवन्निति वा’ इति कर्मनिर्णयानुसारेण मघवच्छब्द-स्यार्थमाह- धनादिमन्ताविति ॥ आपोऽपीति ॥ अबभिमानिदेवता अपीत्यर्थः । चन इत्यस्या-पीत्यर्थः । प्र इत्युपसर्गस्य वोचम् इत्यनेन सम्बन्धः । ‘छन्दसि परेऽपि’१ ‘व्यवहिताश्च’२ इति स्मरणात् । घेत्यस्य एवेत्यर्थः । अडभावश्छान्दस इति भावेनोक्तम्- प्रावोचमेवेति ॥ जगत्सृष्ट्यादीति ॥ तथा चास्या अपि श्रुतेः प्राचीनश्रुतिवदेव जगत्सत्यत्वपरत्वमपीति भावः । श्रुतौ गृण इत्यस्य कर्मानुक्तेराह- तमिति ॥ महिमानमित्यर्थः । विप्रराज्ये इत्यस्य यज्ञेषु इत्यनेन सामानाधिकरण्यसिद्ध्यर्थं वचनव्यत्यासेनाऽह- विप्रप्रधानेष्विति ॥

द्वैतद्युमणि

धनादिमन्ताविति ॥ तस्य मघस्य धननामत्वादिति भावः । आदिपदेन कर्मनिर्णयोक्तरीत्या यश आद्युपग्रहः । इन्द्राबृहस्पती इति ॥ तयोरुत्तरार्धे ‘अच्छेन्द्रा ब्रह्मणस्पती’ इति प्रस्तुतत्वादिति भावः ।

बृहस्पतिः पुरोधाश्च ब्रह्मा च ब्रह्मणस्पतिः ।

इति वचनाद् ब्रह्मणस्पतिरित्यस्य बृहस्पतिरिति व्याख्या । इदित्यस्यार्थ एवेति । आपोऽपीति कर्माभिमानिन इत्यर्थः । अप्शब्दस्य कर्मपरतया ईशावास्यभाष्ये व्याख्यातत्वात् । सत्यानीति ॥ श्रुतौ सत्या इति शसोऽडादेशः पूर्वसवर्णो वेति भावः । प्रावोचमेवेति ॥ घशब्दोऽवधारणे । श्रुतौ प्रेत्येतद् वोचमित्यनेन सम्बध्यते । ‘छन्दसि परे’१ ‘व्यवहिताश्च’ इति स्मरणात् । अडभावश् छान्दस इति वोचमित्यनेन सम्बध्यते ।

ननु कर्मणां सत्यत्वेऽपि जगत्सत्यत्वस्य किमायातमित्यत आह- कर्मणामिति ॥ विषयेति ॥ विषयस्य मिथ्यात्वे तस्य कृतिकर्मत्वानुपपत्त्या तत्कर्मकत्ववद् व्यापाररूपकृतिरप्यसत्या स्यादिति भावः । तथा चाऽविद्यकस्य कृतिविषयत्वायोगात् कृतिविषयत्वेन जगत्सत्यतासिद्धिरिति श्रुतावुप-पत्तिरुक्ता भवति । पूर्वश्रुतौ ये कर्मसाक्षिणो देवास्तैरपि प्रमितस्वसर्जकत्वरूपोपपत्तिरभिहितेति ध्येयम् ।

वचनव्ययमादृत्य विप्रराज्ये विप्रप्राधानकेष्वित्युक्तम् । शव इति धृत्वा सुखमिति व्याख्या । प्रतियोगे द्वितीया । सुखोद्देश्यकत्वेन स्तोत्रस्यैतद्व्यावर्तकरूपलक्षणं भवतीत्याशयेन फलितमाह- उद्दिश्येति ॥ अनेन स्वोक्तार्थसाक्षितया ब्राह्मणप्रमितत्वरूपलिङ्गोक्त्या फलोक्त्या च सत्यत्वे तात्पर्यमवसीयते ।

मनसामीष्ट इति ॥ मनश्शब्दस् तत्स्थितेच्छाविषयपरः । तथा च स्वाभिमतानामिति यावत् । ईष्टे समर्थः । ‘अधीगर्थदयेशां कर्मणि’ इति मनसामिति षष्ठीति ध्येयम् । समाभ्य इति ल्यब्लोपे पञ्चमी । समा अनुसृत्येत्यर्थः । याथातथ्यत इति ॥ ‘यथार्थं तु यथातथम्’ इत्यमरोक्तेर् यथातथपदं यथार्थवाचि । भावे ष्यञ् । तृतीयार्थे तसिः । तृतीया वैशिष्ट्ये । तथा च याथार्थ्ययुक्तानकरोदि-त्यर्थः । ‘द्रव्यं कर्म च कालश्च स्वभावो जीव एव च’ ‘सत्यस्य सत्यम्’ इत्यादिवचनैः स्वभावस्यापि ईशाधीनत्वावगमाज् जगत्स्वभावत्वेऽपि याथार्थ्यस्य तद्विशिष्टत्वेन जगत्करणं युक्तमिति भावः । एवेत्यस्य व्यवच्छेद्यमाह- न मिथ्याभूतानामिति ॥

श्रीराघवेन्द्रतीर्थ

धनादिमन्ताविति ॥ आदिपदेन यशसो मखस्य च ग्रहः । तथैव कर्मनिर्णयोक्तेः । युवोर् इत्यस्यार्थः- युवयोरिति ॥ चनशब्दार्थः- अपीति ॥ अब्देवा अपीत्यर्थः । व्रतपदार्थः- कर्मेति ॥ नु इत्यस्यार्थः- इदानीमिति ॥ ‘व्यवहिताश्च’ इति पाणिन्युक्तेराह- प्रावोचमेवेति ॥ घशब्दार्थः- एवेति ॥ मूलेऽडभावश्छान्दस इति भावेन प्रावोचमित्युक्तम् । एकवचनं बहुवचनार्थे, राज्यपदं च प्राधान्यपरमिति भावेनोक्तम् - विप्रप्रधानेष्विति ॥ भाष्योक्तार्थमाह - कविरित्यादिना ॥ मनसामीष्ट इति ॥ ‘अधीगर्थदयेशां कर्मणि’१ इति षष्ठी । मनसां नियामक इत्यर्थः । श्रुतिभिश्चेत्युपलक्षणमित्युपेत्य तृतीयान्तस्य शेषोक्त्याऽन्वयमाह- इत्येवं श्रुतिस्मृतिभिरित्यादिना ॥ स्मृतयश्च वक्ष्यमाणाः । यद्वा, गीतास्वित्यादिसप्तम्याः फलितार्थोक्तिः स्मृतिभिरित्यादि ।

‘एवम्भूतोऽपि सार्वज्ञ्यात्कविरित्येव शब्द्यते ।

ब्रह्मादिसर्वमनसां प्रकृत्या मनसोऽपि च ।

ईशितृत्वान्मनीषी स परिभूस्सर्वतो वरः ।

सदाऽनन्याश्रयत्वाच्च स्वयम्भूः परिकीर्तितः ।

स सत्यं जगदेतादृङ्नित्यमेव प्रवाहतः ।

अनाद्यनन्तकालेषु प्रवाहैकप्रकारकम् ।

नियमेनैव ससृजे भगवान्पुरुषोत्तमः ।’२

इति ईशावास्यभाष्यानुसारेण श्रुतिं व्याचष्टे - कविः सर्वज्ञ इत्यादिना ॥

गुरुराजीया

‘मघवन् यशस्विन् धनवन् मखपते’ इति कर्मनिर्णयं मनसि निधाय मघवानावित्येतद् व्याख्याति- धनादिमन्ताविति ॥ ‘द्विवचनश्रुतेरपि न निरवकाशत्वम् । विष्णोरेव द्विरूपत्वात्’ इति भगवत्पादोक्तं मनसि निधायाऽह- द्विरूपं प्रतीति ॥ अस्यां श्रुतौ सत्यत्वानुक्तेरस्याः सत्यत्वे प्रमाणत्वेनोदाहरणानुपपत्तिमाशङ्क्य आगमतया तत्साधकत्वाभावेऽपि अर्थतस्तदवगमकत्वाद् युक्तमुदाहरणमित्यभिप्रेत्य तदुपपादयति- कर्मणामिति ॥ जगत्सृष्ट्यादिलक्षण इति ॥ अत्रापि पूर्ववत्सत्यत्वावगमकत्वादुपयोग इति द्रष्टव्यम् । कर्मानुक्तेरुक्तम्- तमिति ॥ महिमानमित्यर्थः ।

‘एवम्भूतोऽपि सार्वज्ञ्यात्कविरित्येव शब्द्यते ।’२

इत्यादीशावास्यभाष्योदाहृतप्रमाणानुसारेण ‘कविर्मनीषी’ इति श्रुतिं व्याख्याति- कविः सर्वज्ञ इत्यादिना ॥

गोविन्दीया

विश्वमिति ॥ हे मघवाना मघवानौ युवोर् युवयोः सम्बन्धि विश्वं सत्यमिति तत्सत्य-मेव । वां युवयोर् व्रतं जगत्सर्जनादिकं कर्म आपश्चन आपोऽपि प्रमिनन्ति जानन्तीत्यर्थः । प्रघेति ॥ नु इदानीम् अस्य महतः सत्यस्य परमेश्वरस्य महानि महान्ति सत्या सत्यानि करणानि कर्माणि प्र वोचं घा प्रावोचमेवेत्यर्थः ।

नारोपन्तीया

द्विरूपं परमेश्वरं प्रति उच्यत इति । ‘गुहां प्रविष्टावात्मानौ हि तद्दर्शनात्’१ इत्यधिकरणन्यायेन द्विवचनान्तशब्दानां ब्रह्मणि समन्वयस्य सिद्धत्वादिति भावः ।

जनार्दनभट्टीया

धनादिमन्ताविति आदिपदेन कर्मनिर्णयरीत्या यशस्विनावित्यर्थोऽभिधीयते । इन्द्राबृहस्पती इति ॥ ‘अच्छेन्द्राब्रह्मणस्पती हविर्नोन्नं युञ्जेव वाजिना जिगागम्’ इत्युत्तरार्धस्थितस्य इन्द्रब्रह्मणस्पती इत्यस्य प्रतिपदम् इन्द्राबृहस्पतीति । युवोरित्यस्य अर्थमाह– युवयोरिति ॥ इद् इत्यस्यार्थः– एवेति ॥ आपोऽपीति ॥ ‘आप्लृ व्याप्तौ’ इति धातुव्याख्यानाद् व्यापनशीला देवाश्चेत्यर्थः । इदानीमिति ॥ मघवानिति द्विवचनार्थमाह – द्विरूपमिति ॥ ‘आत्माऽन्तरात्मेति हरिरेक एव द्विधा स्थितः’ इति प्रमाणोक्तद्विरूपमित्यर्थः । नु इत्यस्यार्थः – इदानीमिति ॥ सत्या इत्यस्यार्थः – सत्यानीति ॥ महान् इत्यस्यार्थः – महान्तीति ॥ ‘व्यवहिताश्छन्दसि’ इति सूत्रानुसारेण व्यवहितानामपि प्रवोचं घा इति त्रयाणां योजनां मनसि निधाय एकप्रकारेणार्थमाह – प्रावोचमेवेति ॥ ‘वोचम्’ इत्यत्र अडभावश् छान्दसः । घ इत्यस्यार्थः- एवेति ॥

ननु एतच्छ्रुत्या कर्मसत्यत्वसिद्धावपि विश्वसत्यत्वे किमायातम्? इत्यत आह – कर्मणामिति ॥ गृण इत्यस्यार्थमाह – स्तौमीति ॥ ‘गृण स्तुतौ’ इति धातुव्याख्यानादिति भावः ।