ऋ गताविति धातोस्तु ..
ब्रह्मातिरिक्तप्रपञ्चानृतत्वादिप्रतिपादकश्रुतिवचनानां स्मृत्या अर्थनिरूपणम्
श्रीमज्जयतीर्थटीका
अस्त्वेवं यत्र ब्रह्मणा सहानिर्वाच्यत्वादि प्रपञ्चस्योच्यते । यत्र तु ब्रह्मैवर्तमन्यदनृतमित्याद्युक्तिस् तत्र कथमित्यत आह-
मूल
ऋ गताविति धातोस्तु पूर्वावगतवत्सदा ।
***स्थितेर्ब्रह्मर्तमित्युक्तमनृतं परिणामतः ॥ ***
प्रकृतिप्राकृतं प्रोक्तं………….. ।
धातोरिति ॥ धातुव्याख्यानात् । गत्यर्थानामवगत्यर्थत्वेन निष्ठाप्रत्ययस्य भूतार्थत्वेन तस्य च विशेषानुक्त्या अनादितालाभे सति ऋतमनादितोऽवगतमित्युक्तं भवति । न च परिणामित्वे अस्यैव पूर्वावगतत्वं मुख्यतो युज्यत इति पूर्वावगतवत्सदा स्थितिरुक्ता भवति । प्रकृतिश्च प्राकृतं च प्रकृतिप्राकृतम् । तुशब्दोऽवधारणे । ततश्च परिणामित्वापरिणात्विभ्यामेव ब्रह्मजगती ऋतानृते ‘तदेवर्तम्’ ‘अनृतेन हि प्रत्यूढाः’ इत्यादौ प्रोक्ते । न तु सत्त्वासत्त्वाभ्यामित्युक्तं भवति ।
मूल
***…………. असत्तदशुभत्वतः । ***
श्रीमज्जयतीर्थटीका
संसाररूपत्वेनाशुभत्वत एव । तथा परमानन्दरूपत्वेन शुभत्वाद् ब्रह्म सत्प्रोक्तमित्यपि ज्ञातव्यम् ।
मूल
असतां बुद्धिगम्यत्वादसत्यमिति चोच्यते ।
एवं सतां बुद्धिगम्यत्वाद्ब्रह्म सत्यमित्युच्यत इत्यपि द्रष्टव्यम् ।
प्रकृत्यादि सतामपि बुद्धिगम्यम् । किं विशिष्याभिधीयते असतामिति । नियमाभिप्रायेणेति भावेन सदसद्विवेकमाह-
मूल
***नियमेन बहिश्चित्तास्तेऽसन्तो ब्रह्मणि स्थिताः । ***
तेऽसन्त इत्यत्राकारप्रश्लेषभावाभावाभ्यां यच्छब्दाध्याहारेण च द्वे वाक्ये द्रष्टव्ये । ब्रह्मणि स्थितास्तन्निष्ठबुद्धयः ।
श्रीविजयीन्द्रभिक्षु
उच्यत इत्यस्यानन्तरं तत्र वाक्य इति शेषः । गत्यर्थानामिति ॥ ‘भुजो- अनवने’ इत्यादिज्ञापकाद्धातूनामनेकार्थत्वे सिद्धे ज्ञानरूपविशेषार्थत्वस्यापि ‘ये गत्यर्थास्ते ज्ञानार्थाः’ इत्यभियुक्तव्याख्यानेन सिद्धेरिति भावः । ननु पूर्वावगतवत्स्थितिमात्रस्येतरसाधारणत्वात् कथम् ऋतमित्यनेन ब्रह्ममात्रोक्तिरित्यत आह- तस्य चेति ॥ भूतकालस्य चेत्यर्थः । विशेषानुक्त्या । अवध्यनुक्त्या । ननु ऋतपदस्योक्तरीत्याऽस्त्वनादितोऽवगतमित्यर्थः । तथाऽपि पूर्वावगतवत् सदा स्थितिरपि तस्यार्थ इति कथं स्मृत्योच्यते । कथं च पूर्वावगतवत् सदा स्थितिर्ब्रह्मासाधारणी ? अनादिप्रकृत्यादिसाधारण्यादित्याशङ्क्याऽह- न चेति ॥ न च युज्यत इति सम्बन्धः । इतिशब्दो हेतौ । यस्मात्प्रकृत्यादिवद्ब्रह्मणः परिणामित्वे परिणामपरिणामिनोरभेदाद्ब्रह्मण एव अनादितोऽ-वगतत्वं मुख्यतो न युज्यते, यतश्चानादितोऽवगतत्वं ब्रह्मणीव प्रकृत्यादौ न मुख्यं तस्माद्ब्रह्मण एव सदा स्थितिस्तदर्थत्वेन स्मृत्योक्तेति भावः । ननु प्रकृतिप्राकृतम् इत्यत्र न तावदितरेतराश्रयो द्वन्द्वः । द्विवचनापत्तेः । नापि समाहारः । यत्रैकवद्भावो विशेषविहितस्तत्रैव समाहारात् । नापि तत्पुरुषः । समानाधिकरणस्य प्रकृतिप्राकृतयोर् भेदेनासम्भवात् । समानाधिकरणतत्पुरुष-स्याभेदार्थत्वनियमात् । नाप्यसमानाधिकरणतत्पुरुषस् तदर्थस्य प्रकृतिसम्बन्धरूपस्य बोधने प्रयोजनाभावादित्याशङ्क्याऽह- प्रकृतिश्चेति ॥ समाहारद्वन्द्व एवाभिमतः । न चैकवद्भावानुप-पत्तिः । ‘सर्वो द्वन्द्वो विभाषयैकवद्भवति’ इति स्मरणादिति भावः । तुशब्दस्त्विति ॥ ‘ऋ गताविति धातोस्तु’ इति तुशब्द इत्यर्थः । पदार्थमुक्त्वा वाक्यार्थमाह- ततश्चेति ॥ नन्वनया स्मृत्या किं वाक्यगतऋतानृतशब्दयोर् व्याख्या कृतेत्यत आह- तदेवर्तमिति ॥ व्याख्येयत्वेन क्रमप्राप्तस्य श्रुत्यादिगतासच्छब्दस्य व्याख्यानरूपां स्मृतिं व्याचष्टे- संसाररूपत्वेनेति ॥ इत्यपि ज्ञातव्यमिति ॥
‘सदानन्दस्वरूपत्वाच्छ्रुतत्वाद्ब्रह्म सत्स्मृतम् ॥’
इत्यादेरिति भावः । श्रुत्यादिगतासत्यशब्दव्याख्यानरूपां स्मृतिं व्याख्यातप्रायत्वान्न व्याचख्या-विति ज्ञातव्यम्- एवमिति ॥
‘सताञ्च बुद्धिगम्यत्वाद्ब्रह्म सत्यमुदाहृतम् ।’
इत्यादेरिति भावः । ननु सदसद्बुद्धिगम्यत्वमात्रस्य ब्रह्मणि प्रकृत्यादावविशेषात् सद्बुद्धिगम्यत्वेन ब्रह्मैव सत्यम् असद्बुद्धिविषयत्वेन प्रकृत्यादिकमसत्यमिति विशिष्याभिधाने किं कारणमिति पृच्छति- प्रकृत्यादीति ॥ प्रायेण सद्बुद्धिविषयत्वं सत्यत्वम् । असद्बुद्धिविषयत्वञ्चासत्यत्वमित्यभिप्रेत्य तयोः सदसच्छब्दार्थघटितमूर्तित्वेन तन्निरूपणाधीननिरूपणत्वात् सदसच्छब्दार्थौ विवेचयतीत्याह- नियमेति ॥ नियमेन बहिश्चित्तानां ब्रह्मनिष्ठत्वमेवानुपपन्नम् । तथा चापार्थकमिदं वाक्यमित्यत आह - ते सन्त इत्यत्रेति ॥ द्वे वाक्ये इति ॥ ‘नियमेन ये बहिश्चित्तास्तेऽसन्तः परिकीर्तिताः । नियमेन ये ब्रह्मणि स्थितास्ते तु सन्तः’ इत्यावृत्त्या द्वे वाक्ये द्रष्टव्ये इत्यर्थः ।
श्रीवेदेशतीर्थ
ऋ इत्येतस्यैव धातुत्वेन ऋ गतावित्यस्य धातुत्वाभावाद् ऋ गताविति धातोरिति कथमुक्तमित्यत आह- धातोरिति ॥ धातुव्याख्यानादिति ॥ ननु पूर्वावगतवत्स्थितिमात्रस्येतर-साधारण्यात् कथमृतमित्यनेन ब्रह्मोक्तमित्यत आह-तस्येति ॥ भूतकालस्येत्यर्थः । विशेषानुक्त्या अवध्यनुक्त्या । ननु ऋतशब्दस्योक्तरीत्याऽस्त्वनादितोऽवगतत्वमर्थः । तथापि पूर्वावगतत्वेन सदा स्थितिरपि तस्यार्थः कथं स्मृत्योच्यते । कथं च पूर्वावगतवत्सदा स्थितिर्ब्रह्मासाधारणी । अनादिप्रकृत्यादिसाधारण्यादित्याशङ्क्याऽह- न चेति ॥ परिणामित्वापरिणामित्वाभ्यामिति ॥ ब्रह्मणोऽनादितोऽवगतत्वेऽपरिणामित्वस्य लाभादिति भावः ॥ शुभत्वादिति ॥
‘सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते ।’
इति वचनादिति भावः । सत्यमित्युच्यत इति ॥ सद्भिर्यायते ज्ञायते तत्सत्यमिति निर्वचनादित्यर्थः । ननु सदसद्बुद्धिगम्यत्वमात्रस्य ब्रह्मणि प्रकृत्यादौ चाविशेषात्सद्बुद्धिगम्यत्वेन ब्रह्मैव सत्यमिति असद्बुद्धिगम्यत्वेन प्रकृत्यादिकमेवासदिति विशिष्याभिधाने किं कारणमिति पृच्छति- प्रकृत्या-दीति ॥ नियमेति ॥ अत्र नियमशब्देन नैरन्तर्यं विवक्षितम् । तथा च प्रकृत्यादौ कदाचित्सद्बुद्धि-गम्यत्वसत्त्वेऽपि न नित्यं सद्बुद्धिगम्यत्वलक्षणं सत्यत्वम् । तथा ब्रह्मण्यसद्बुद्धिगम्यत्वस्य कदाचित्सत्त्वेऽपि न नित्यं तद्बुद्धिगम्यत्वलक्षणासत्यत्वम् । सदसद्विवेकमिति ॥ सत्यासत्य-शब्दार्थयोः सदसच्छब्दार्थघटितमूर्तिकत्वेन तन्निरूपणाधीननिरूपणतया सदसच्छब्दार्थौ विवेचयतीत्यर्थः । ननु नियमेन बहिश्चित्तानां ब्रह्मनिष्ठत्वमेवानुपपन्नम् । तथा चापार्थकमिदं वाक्यमित्यत आह - तेऽसन्त इत्यत्रेति ॥ द्वे वाक्ये इति ॥ ‘ये नियमेन बहिश्चित्तास्तेऽसन्तः । ये नियमेन ब्रह्मणि स्थितास्ते सन्तः’ इति द्वे वाक्ये इत्यर्थः । ब्रह्मणः सर्वाश्रयत्वेनासतामपि ब्रह्मणि स्थितत्वमित्यत आह- ब्रह्मणि स्थितास्तन्निष्ठबुद्धय इति ॥
द्वैतद्युमणि
अनादितोऽवगतमित्युक्तं भवतीति ॥ अयं भावः । ऋधातोर्ज्ञानमर्थः । क्तप्रत्ययस्य प्रकृतशब्दप्रयोगाधिकरणकालवृत्तिध्वंसप्रतियोगिकालवृत्तित्वं विषयत्वावच्छिन्नं चार्थः । तादृशकाल-वृत्तित्वं ज्ञानेऽन्वेति । तस्य च विषयतायामेकदेशभूतायामपि व्युत्पत्तिवैचित्र्येणान्वयः । तथा च यदा यदा ऋतशब्दप्रयोज्यो बोधस्तदा तदा तत्तत्कालपूर्ववृत्तिज्ञानविषयीभूतमित्यर्थो लभ्यते । तत्तत्पदव्यक्तीनां पुरुषबुद्धिक्रमोपहितवर्णात्मकानां भिन्नत्वेऽपि वेदानामिव तद्घटकपदानामपि सजातीयानुपूर्व्याः स्वतन्त्रकर्तृकत्वाभावेनापौरुषेयतया ऋतशब्दप्रयोगमहिम्नाऽनादिकालतोऽ-वगतमिति पर्यवस्यतीति ।
उक्ता भवतिति ॥ ऋतपदेन स्वप्रवृत्तिनिमित्तनिर्वाहकतया आक्षिप्ता भवतीत्यर्थः । अत्र यद्यपि ब्रह्मणि ऋतपदवाच्यत्वमुपपाद्य प्रकृत्यादौ तदन्यत्त्वादिना अनृतपदव्यवहार एव उपपादनीयः । पूर्वावगतवत् सदा स्थितिस्तु ऋतशब्दार्थयोग्यतानिर्वाहाय प्रमाणकृतोपात्ता । अत एव तस्य हेतुविभक्त्यन्तेन निर्देशः । तथा च तत्सिद्धेरेव प्रकृते मुख्यफलत्वख्यापक उक्ता भवति इति निर्देशो न घटते । तथाऽपि तस्य प्रकृतप्रमाणप्रवृत्तिफलत्वाभावेऽपि जगत्यनृतादिपदव्यवहारोपपादनाय रीत्यन्तरं विहाय यदुक्तरीत्यैव ब्रह्मणि ऋतशब्दप्रवृत्तिप्रदर्शनं कृतम्, तत्फलाभिधानपूर्वकं तादृशस्थितेर्योग्यत्वरूपत्वप्रदर्शनार्थमिदं वाक्यं प्रसक्तमिति नासङ्गतिः ।
श्रीराघवेन्द्रतीर्थ
ऋवर्णमात्रस्य धातुत्वादाह - धातोरितीति ॥ अस्यैवेति । १ब्रह्मण इत्यर्थः । पूर्वावगत-वत्सदा स्थितेरिति फलितार्थोक्तिरिति भावेनाऽह - इति पूर्वावगतवदित्यादि ॥ द्वन्द्वैकवद्भाव इत्याह- प्रकृतिश्चेति ॥ सर्वो द्वन्द्वो विभाषयैकवद्भवतीत्युक्तेरिति भावः । तुशब्दः स्थितेरित्यनेन परिणामत इत्यनेन वा अन्वीयत इति भावेनावधारणार्थं व्यनक्ति- ततश्चेत्यादिना ॥ अवधारणार्थ-स्यैवमन्वये सतीत्यर्थः । शङ्कते- प्रकृत्यादि सतामपीत्यादि । नियमेनेत्यादि तु उत्तरम्- द्वे वाक्ये इति ॥ नियमेन ब्रह्मणि स्थितास्ते सन्तः। ये नियमेन बहिश्चित्तास्ते त्वसन्त इति द्वे वाक्ये इत्यर्थः।
गुरुराजीया
ननु ‘ऋ गतौ’ इत्यस्य धातुव्याख्यानत्वेन धातुत्वाभावाद् ‘ऋ गतौ’ इत्यस्य धातुत्वोक्तिरयुक्तेत्यत आह- धातोरिति धातुव्याख्यानादिति ॥ गत्यर्थानामवगत्यर्थत्वेनेति ॥ धातूनामनेकार्थत्वादिति भावः । निष्ठाप्रत्ययस्येति ॥ क्तप्रत्ययस्येत्यर्थः। कित्त्वान्न गुण इति भावः। ननु पूर्वावगतवत्स्थितेरितरसाधारण्यात् कथमनेन ब्रह्मोक्तिरित्यत आह- अस्यैवेति ॥ शुभत्वादिति ॥
‘सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते ।’२
इति वचनादिति भावः । सतामिवासतामपि सर्वाधारे ब्रह्मणि स्थितत्वात् सल्लक्षणस्यासत्स्वति-व्याप्तिरित्यतो व्याख्याति- तन्निष्ठबुद्धय इति ॥
गोविन्दीया
तस्य चेति ॥ तस्य भूतकालस्य । विशेषानुक्त्या अवध्यनुक्त्या अनादितालाभे सति ऋतम् अनादितोऽवगतम् अनादिज्ञानवद् इत्युक्तं भवतीत्यर्थः । न चेति ॥ अपरिणामित्वलाभात् तेन च ऋतशब्दस्य अवयवव्युत्पत्त्या पूर्वावगतत्वरूपार्थवद् सदा स्थितिरूपार्थोऽप्युक्तो भवती-त्यर्थः । तथा च ऋतम् इति शब्दस्य अनादितोऽवगतं सदा स्थितम् इत्यर्थद्वयमुक्तं भवतीति भावः । संसारेति ॥ संसाररूपत्वेन दुःखरूपत्वेन अशुभम्, अशुभत्वादेव असदित्यर्थः । निय-मेति ॥ नियमाभिप्रायेण नैरन्तर्याभिप्रायेणेत्यर्थः । तथा च क्वचित् सतां बुद्धिगम्यत्वेऽपि नित्यमसतां बुद्धिगम्यत्वात् प्रकृत्यादि असत्यम्, क्वचिद् असतां बुद्धिगम्यत्वेऽपि नित्यं सतां बुद्धिगम्यत्वाद् ब्रह्म सत्यमिति भावः । द्वे वाक्ये इति ॥ नियमेन नैरन्तर्येण बहिश्चित्ता ये ते असन्तः । नियमेन ब्रह्मणि निष्ठबुद्धयो ये ते सन्त इत्यर्थः ।
नारोपन्तीया
अकारप्रश्लेषभावाभावाभ्यामिति । तथा च ये ‘नियमेन बहिश्चित्तास्तेऽसन्तः परिकीर्तिताः’ इति नञ्प्रश्लेषेणैकं वाक्यं, ये ब्रह्मणि स्थितत्वात्सल्लक्षणमसत्स्वतिव्याप्तमित्यतो व्याचष्टे । तन्निष्ठबुद्धय इति ।
जनार्दनभट्टीया
ननु ‘ऋ’इत्येव धातुस् तत्कथम् ऋ- गताविति धातोरित्युक्तमित्यत आह – धातोरिति ॥ निष्टाप्रत्ययस्येति ॥ ‘क्तक्तवतू निष्ठा’१ इति सूत्रेण निष्ठासञ्ज्ञितक्तप्रत्ययस्येत्यर्थः । तस्य च विशेषानुक्त्या इति ॥ एतत्कालमारभ्य अवगतमिति विशेषानुक्त्या इत्यर्थः । नित्यानित्यं भिन्नाभिन्नमितिवत् प्रकृतिप्राकृतस्य पदार्थान्तरत्वप्रतीतेराह – प्रकृतिश्चेति ॥ तुशब्दस्य अवधारणार्थत्व-मेव स्पष्टयति– ततश्चेति ॥ संसाररूपत्वेनेति ॥ प्रकृत्युपादानकसत्वादिगुणबन्धस्य संसाररूपत्वादिति भावः । सर्वाश्रये ब्रह्मणि स्थितत्वमसतामपि साधारणमित्यत आह– तन्निष्ठबुद्धय इति ॥