मूर्तं सदिति ..
नासदासीदिति श्रुत्युक्तसदसद्वैलक्षण्यं मूर्तामूर्तवैलक्षण्यमेवेति श्रुत्या समर्थनम्
श्रीमज्जयतीर्थटीका
यदि तर्हि प्रतीतोऽर्थोऽनुपपन्नः कोऽर्थोऽस्य ब्रह्मतमसोस्सदसद्वैलक्ष्यण्यस्येत्यतः श्रुत्यन्तरेण तं दर्शयति-
मूल
***मूर्तं सदिति सम्प्रोक्तममूर्तमसदुच्यते । ***
***मूर्तामूर्तेतरद्ब्रह्म न सत्तन्नासदुच्यते ॥ इति पैङ्गिश्रुतिः । ***
ब्रह्मेत्युपलक्षणम् । प्रकृत्याख्यं तमोऽपीति ज्ञातव्यम् ।
श्रीविजयीन्द्रभिक्षु
सदसद्वैलक्षण्यस्येति ॥ सदसतोर्वैलक्षण्यं येन नासदासीदित्यादिना वाक्येन प्रतिपाद्यते तत्सदसद्वैलक्षण्यं तस्येत्यर्थः । श्रुत्यन्तरेणेति ॥ तथा च श्रुत्यन्तरेणैवैतच्छ्रुत्यर्थवर्णनान्नार्थान्तर-परत्वशङ्का कार्येति भावः । पैङ्गिश्रुतिरित्यङ्गीकारप्रदर्शनं मन्दमतीनां तदज्ञानप्रयुक्ततदसत्त्व-शङ्कानिरासाय । व्याख्येयश्रुतेर् यावान् विवक्षितोऽर्थस्तस्य सर्वस्य सम्मुखमप्रतीतेः कथं सिद्धान्त्यभिमतार्थसिद्धिरित्यत आह- ब्रह्मेत्युपलक्षणमिति ॥ श्रुत्यन्तर्गतब्रह्मपदमित्यर्थः । प्रकृत्याख्यमिति ॥ ‘आदित्यवर्णं तमसः परस्तात्’ ‘आसीदिदं तमोभूतम्’ इति श्रुतिस्मृत्योस्तमःशब्दस्य प्रकृत्यर्थत्वदर्शनादिति भावः । यद्यपि ‘मम योनिर्महद् ब्रह्म’ इत्यादौ प्रकृतावपि ब्रह्मशब्दप्रयोगो दृश्यते तथाऽपि ‘मुख्यामुख्ययोर्मध्ये मुख्ये सम्प्रत्ययः’ इति न्यायेन ब्रह्मण एव ब्रह्मशब्दमुख्यार्थत्वात्तस्यैव ग्रहणं प्राप्तमिति ‘मूर्तं सदिति सम्प्रोक्तम्’ इति श्रुत्या तस्यैव मूर्तामूर्तविलक्षणत्वमुक्तम् । न तु प्रकृतेरपीत्यतस्तस्या अपि तल्लाभायात्र ब्रह्मेत्युपलक्षण-मित्युक्तमिति भावः । वस्तुतस्तु ब्रह्मशब्दस्य ब्रह्मणीव प्रकृतावपि मुख्यत्वात्तेनोभयग्रहणमित्यत्र तात्पर्यम् ।
श्रीवेदेशतीर्थ
सदसद्वैलक्षण्यस्येति ॥ सदसतोर्वैलक्षण्यं येन नासदासीदित्यादिना प्रतिपाद्यते तत्सदसद्वैलक्षण्यं तस्येत्यर्थः ।
गोविन्दीया
यदीति ॥ इदम् आनीदवातमिति वाक्यम् अनुदाहृत्य ब्रह्मणोऽपि अवशिष्टत्वेन सत्त्वादिप्रकाराणां निरासे अनिर्वचनीयः स्यादित्यतिप्रसङ्गो अभिधीयेत । तदेतद्वाक्ये प्रकृतस्यैव तमसः सन्निहितत्वात् । अनेन सत्त्वादिप्रतिषेधस्य क्रियमाणत्वाद् ब्रह्मणोऽप्रकृतत्वेनासन्निहितत्वाद् अत्र सत्त्वादिप्रतिषेधस्य अप्रस्तुतत्वान् नातिप्रसङ्ग इति परः परिहर्तुमुत्सहेतापीत्यर्थः । सदसद्वैलक्षण्यस्येति ॥ सदसतोर्वैलक्षण्यं येन प्रतिपाद्यते तत् सदसद्वैलक्षण्यं तस्य वाक्यस्येत्यर्थः।
जनार्दनभट्टीया
ब्रह्मतमसोः सदसद्वैलक्षण्यस्येति ॥ सदसद्वैलक्षण्यप्रतिपादकवाक्यस्येत्यर्थः ।