न च बाष्पारोपितधूमेन धूमवत्त्वं व्यभिचरति ..
धूमत्वस्य बाष्पारोपितधूमवृत्तित्वाङ्गीकारे दोषकथनम्
श्रीमज्जयतीर्थटीका
ननु बाष्पारोपितधूमेऽपि धूमत्वसामान्याङ्गीकारे को दोष इति चेत् तदा पर्वतस्याग्निमत्त्वे साध्ये प्रयुज्यमानं धूमवत्त्वं बाष्पारोपितधूमेन निरग्निकेऽपि ह्रदादौ वर्तमानेन निमित्तेनाग्नि-व्यभिचारि स्यात् । न च तेन तदग्निं व्यभिचरति । निःशङ्कं लोकव्यवहारहेतुत्वादित्याह ।
मूल
न च बाष्पारोपितधूमेन धूमवत्त्वं व्यभिचरति ।