०४ पूर्वोक्तशङ्काद्वयनिरासः

मिथ्याशब्दोऽनिर्वचनीयं वदतीत्यत्र च ..

पूर्वोक्तशङ्काद्वयनिरासः

श्रीमज्जयतीर्थटीका

अत्रेदं वक्तव्यम् । किं मिथ्याशब्दोऽनिर्वचनीयस्य वाचक इति कृत्वा भ्रान्त्युत्थितस्य तत्प्रयोगदर्शनादनिर्वचनीयविषयः प्रत्ययोऽनुमीयते । उतावाचकेनापि तेन भ्रान्त्युत्थितोऽ-निर्वचनीयं व्यवहरतीति कृत्वा । आद्यं निराकरोति-

मूल

***मिथ्याशब्दोऽनिर्वचनीयं वदतीत्यत्र च । ***

न किञ्चिन्मानमित्यस्यानुकर्षणार्थश्चकारः ।