१५ पूर्वोक्तप्रश्नसंशयायोगे अनुमानप्रमाणकथनम्

शशविषाणं गोविषाणं वोच्यत इतिवत् ..

पूर्वोक्तप्रश्नसंशयायोगे अनुमानप्रमाणकथनम्

***शशविषाणं गोविषाणं वोच्यत इतिवत् । ***

श्रीमज्जयतीर्थटीका

इदमुक्तं भवति । विमतः प्रश्नो न युज्यते । असन्दिग्धविषयत्वात् । शशविषाणं गोविषाणं वोच्यत इति प्रश्नवत् । विमतः संशयो न युज्यते । अनुपलब्धारोप्यमाणकोटित्वात् । उक्त-संशयवदिति ।