१२ भेदे पारमार्थिकत्वादिकोटिकसंशयायोगसमर्थनम्

न च भेदे विकल्पो युज्यते ..

भेदे पारमार्थिकत्वादिकोटिकसंशयायोगसमर्थनम्

***न च भेदे विकल्पो युज्यते ***

श्रीमज्जयतीर्थटीका

अस्तु सन्देहमूलत्वं प्रश्नस्य । तथापि कुतो न युज्यत इत्यत्रापि न च भेदे विकल्पो युज्यते इत्येवोत्तरम् । प्रश्नो हि सन्देहहेतुक इत्युक्तम् । न च भेदे भेदविषये ‘किमयमनिर्वचनीयोऽथ वा पारमार्थिकः’ १इत्येवंरूपो विकल्पः सन्देहो युज्यते । न च कारणाभावे कार्यमुत्पत्तुमर्हति । अतिप्रसङ्गात् ।

अथैवंविधो भेदे सन्देहः कुतो न युज्यत इत्यत्रापि न च भेदे विकल्पो युज्यते इत्येवो-त्तरम् । संशयो हि स्थाणुपुरुषाद्यनेकविशेषसम्बन्धितया अनुभूतेनोर्ध्वतादिसाधारणधर्मेणाऽ-लिङ्गितस्य पुरोवृत्तिवस्तुनोऽवभासे संस्कारोद्बोधद्वारेण प्रागनुभूतस्थाण्वादिविशेषविषयस्मृतौ प्रयोजनानुसन्धाने विशेषजिज्ञासायाम् अन्यतरनिश्चायकप्रमाणमनुसरतोऽपि तदलाभे सति ‘किमयं स्थाणुस्स्यात् पुरुषो वा’ इति जायते । न च भेदेऽनिर्वचनीयः पारमार्थिक इति विकल्पः प्रभेदो युज्यते । येन विमतो भिन्न इत्युक्त्या भेदप्रतीतावनिर्वचनीयादिस्मृतिः स्यात् ।

श्रीविजयीन्द्रभिक्षु

ननु ‘न च भेदे विकल्पो युज्यते’ इति प्रतिज्ञातप्रश्नायोगं प्रति ‘अनिर्वचनीयस्य सर्वत्राप्रसिद्धत्वात्’ इत्यग्रेतनवाक्येन साक्षाद्धेतुसमर्पणायोगात् हेतूपन्यासं विना प्रतिज्ञामात्रं कुर्वत आचार्यस्य न्यूनतामाशङ्क्य तन्त्रावृत्त्योरन्यतराश्रयणेनास्यैव प्रतिज्ञावाक्यस्य हेतुपरत्व-माचार्याभिमतमिति व्याचष्टे- अस्तु सन्देहमूलत्वमिति ॥ नन्वस्य कथं तदुत्तरत्वमित्यत आह- प्रश्नो हीति ॥ प्रकृतप्रश्नो हीत्यर्थः । औपश्लेषिकसामीप्याद्यनेकार्थत्वेन सप्तम्यास्तेष्वर्थेष्वभि-प्रेतमर्थमाह- भेदविषय इति ॥ पारमार्थिक इत्यस्यानन्तरम् इतीति शेषः । ननु विकल्पशब्दस्य प्रश्नपरत्वेन व्याख्यानात् तदयोगस्य हेतुत्वे साध्याविशिष्टतेत्याह- विकल्पः सन्देह इति ॥ विमतः प्रश्नो नोत्पत्तुमर्हति स्वकारणभूतसंशयरहितत्वादित्यभिप्रेतानुमाने व्याप्तिमाह- न चेति ॥ नन्विदमपि प्रतिज्ञामात्रमिति कथं तेन प्रश्नायोगसिद्धिरित्याशङ्क्योक्तन्यायेनास्यैव प्रतिज्ञावाक्यस्य तत्साधकहेतुपरत्वमाचार्याभिप्रेतमित्याह- अथैवंविध इत्यादिना ॥ एतच्च ‘न च भेदे विकल्पः’ इति चशब्दस्यैवाऽवृत्त्यादिना यस्मादित्यर्थकत्वमप्याश्रित्येति ध्येयम् । अत एव ‘न चानिर्वचनीये किञ्चिन्मानम्’ इति वाक्यव्याख्यानावसरे वक्ष्यति ‘चशब्दो यस्मादित्यर्थे’ इति । अनिर्वचनीय-त्वादिकोटिस्मृतिविरहात् प्रकृतसंशयायोगं वक्तुं प्रसिद्धसंशये कोटिस्मरणस्य हेतुत्वं क्लृप्तमित्येतद् दर्शयति- संशयो हीति ॥ संशयो हि जायत इति योजना । स्थाणुपुरुषादीति ॥ स्थाणुपुरुषादीनां ये अनेके विशेषाः स्थाणुत्वपुरुषत्वादयस्तत्तत्सम्बन्धितया तत्तत्समानाधिकरणतयेत्यर्थः । एतच्च व्याख्यानं ‘संसर्गारोपः संशयः’ इति पक्षे । ‘तादात्म्यारोपः संशयः’ इति पक्षे तु स्थाणुपुरुषादिरूपा ये विशेषास्तत्संसृष्टतयेति ज्ञेयम् । एवञ्च प्रागनुभूतस्थाण्वादीत्यत्रापि संशयस्य संसर्गारोपरूपत्वे स्थाण्वादिशब्दो भावप्रधानः, तादात्म्यारोपरूपत्वे तु भवितृप्रधान इति ज्ञेयम् । प्रयोजनानुसन्धान इत्यादि क्वाचित्काभिप्रायम् । तदलाभे अन्यतरकोटिनिश्चायकप्रमाणालाभे सति । ननु विकल्पशब्दस्य संशयार्थत्वे साध्याविशिष्टतेत्याशङ्क्य तं तद्धेतुभूतभेदविशेषपरतया व्याचष्टे- इति विकल्पप्रभेद इति ॥ विशेषेण अनिर्वचनीयत्वादिधर्मवत्तया कल्प्यते बुद्ध्यते इति विकल्पो भेदविशेषः । स एव प्रभेद इत्यर्थः । विकल्पः प्रभेद इति पाठे तु विकल्पशब्दस्यैव व्याख्या प्रभेद इति । प्रभेदो भेदविशेषो ऽनिर्वचनीयत्वाद्यालिङ्गित इत्यर्थः । येनेति ॥ भेदत्वस्या-निर्वचनीयत्वाद्यनेककोटिसहचरितत्वेनाननुभूतत्वादिति भावः । विकल्पनभेदायोगरूपहेतुसाधनाय तत्साधकहेतूक्त्यनुगुणां शङ्कां दर्शयति- अथ कथमिति ॥

श्रीवेदेशतीर्थ

एवं प्रकृतेऽपि पारमार्थिकानिर्वचनीयभेदरूपविशेषसम्बन्धितयाऽनुभूतेन भेदत्वरूप-साधारणधर्मेणालिङ्गितस्य भेदस्य विमतो भिन्न इत्युक्त्या अवभासेऽनिर्वचनीयादिकोटिस्मरणे सति संशयो वाच्यः । स चायुक्त इत्याह- न च भेद इति ॥

द्वैतद्युमणि

संशयो हीति ॥ पूर्वं वक्ष्यमाणरीत्या संशयसामग्रीत्वेन क्लृप्तस्य सङ्ख्याविशेषस्मृत्यादेः कारणकलापस्य सत्त्वात् संशयो ‘देवदत्त कियन्तः’ इति प्रश्नपूर्वं युक्तिसिद्ध इति प्रतिपादितम् । अधुना प्रकृते संशयसामग््रया भ्रमाघटिताया अयोगकथनाय सार्वत्रिकसंशयसामग्री निरूप्यतेऽतो न पौनरुक्त्यम् । प्रभेदः भेदत्वन्यूनवृत्तिधर्मः ।

श्रीराघवेन्द्रतीर्थ

सप्तम्यर्थमाह-भेदविषय इति ॥ कारणेति । सन्देहरूपकारणाभावे प्रश्नरूपकार्यमित्यर्थः । संशयो हीत्यस्य जायत १इत्यग्रेतनेनान्वयः । मूलवाक्यार्थमाह- न च भेद इत्यादि ॥

गोविन्दीया

अतिप्रसङ्गादिति ॥ सर्वत्राप्यकारणकार्योत्पत्तिः स्यादित्यर्थः । प्रभेद इति ॥ कोटिद्वयस्य प्रसिद्धत्वे भेद इत्यर्थः । कोटिद्वयसिद्धौ संशयः । तत्सत्त्वे प्रश्न इति भावः ।

जनार्दनभट्टीया

कुतो न युज्यत इति ॥ सन्देह इति शेषः । सन्देहखण्डनपरतया द्वितीययोजनायाः प्रकृतासङ्गतत्वं परिहरति- प्रश्नो हीति ॥ शिष्यकृत इत्यर्थः । अधिकरणे सप्तमीत्वप्रतीतिं निरस्यति– भेदविषय इति ॥ एवंविध इति ॥ अनिर्वचनीयत्वादिप्रकारक इत्यर्थः । अनुसरत इति ॥ गवेषयत इत्यर्थः ।