०५ अनुमाने विमतसम्प्रतिपन्नपदप्रयोगप्रयोजनम्

विमतो भिन्नो मुक्तत्वात् ..

अनुमाने विमतसम्प्रतिपन्नपदप्रयोगप्रयोजनम्

श्रीमज्जयतीर्थटीका

अत्र विमत इति संसारान्मुक्तो विवक्ष्यते । तस्याऽत्मेत्येव ग्रहणे सिद्धार्था प्रतिज्ञा स्यात् । औतवादिनाऽपि संसारिणो भिन्नत्वेनाभ्युपगतत्वात् । भेदस्य च पारमार्थिकत्वानौपाधिक-त्वाभ्यामविशेषितत्वात् । मुक्त इत्येव तर्ह्युच्यताम् । १निगडमुक्तेन सिद्धार्थता स्यादिति चेत् । तर्हि संसारान्मुक्त इति वक्तव्यम् । तथा कृते गौरवं स्यादिति चेत्, न । विमतेरनेकविधत्वेन धर्मिविशेषानिश्चये साध्यविशेषोपादानादिना तन्निश्चयानुसरणेऽपि गौरवसाम्यात् । तथापि विनि-गमनं कुत इति चेत् । अर्थप्रतिपत्तिगौरवाच्छब्दगौरवस्य ज्यायस्त्वात् । सत्यम् । तथाप्य-प्रसिद्धविशेष्यत्वाप्रसिद्धविशेषणत्वप्रसिद्धार्थत्वप्रमाणबाधानां२ प्रतिज्ञादोषाणामुद्धारोऽप्यनेन सङ्क्षेपतः कृतः स्यादित्येवमर्थं विमतग्रहणम् । तथा हि, यदि विशेष्यो मुक्तात्माऽप्रसिद्धः स्यात्तदा किमाश्रया विमतिः स्यात् । यदि च विशेषणं भेदोऽप्रसिद्धो भवेत्तदा किमुल्लेखिनी विमतिर्भवेत् । यदि वा भेदो मुक्तात्मनि सिद्धो बाधितो वा भवेत्तदाऽप्यन्यतरपक्षनिश्चयान्न विमतिः स्यात् । अस्ति चेयम् । ततो नाप्रसिद्धविशेष्यत्वादीति । एतेनोदाहरणेऽपि सम्प्रतिपन्नग्रहणस्य साध्यसाधनवैकल्याद्युद्धारः प्रयोजनं व्याख्यातम् । अन्यथा यथा निगडमुक्त इत्यवक्ष्यत् ।

श्रीविजयीन्द्रभिक्षु

ननु ‘चिच्चेत्ये केनचिन्नियते’ इति साधनमयुक्तम् । अमुक्तचेतनस्य चेत्यमात्रस्य च मया ईश्वरनियतत्वस्वीकारेण मां प्रति तथा साधने सिद्धसाधनप्रसङ्गात् । मुक्तचेतनस्यापि पक्षत्वेन तस्येश्वराभिन्नत्वेन भेदनियतेश्वरनियम्यत्वसाधने तदंशे बाधश्चेति मायावादिनः शङ्कामुत्थापयति- अत्राहुरिति ॥

यद्वा, साङ्ख्यमीमांसकान् प्रति चिच्चेत्यनियामकतया श्रुत्यनुमानाभ्यामीश्वरस्य साधितत्वान् नियम्यनियामकभावस्य भेदनियतस्य तं विना अनुपपत्तेः संसार इव मुक्तावपि चेतनस्येश्वर-भिन्नत्वसिद्धेः ‘विमतो भिन्नो मुक्तत्वात्’ इति तान् प्रत्येव मुक्तचेतनस्य भिन्नत्व-साधनमयुक्तमित्याशङ्क्य तत्परिहारार्थं नेदं तान् प्रति साधनं किं तु मायावादिनः प्रतीत्यभि-प्रेत्योत्तरग्रन्थानुगुणामद्वैतिनः शङ्कामाह- अत्राऽहुरिति ॥ यद्यपि प्रकृतितद्विकारोपाधानविलये पुरुषस्य स्वरूपेणावस्थानमेव मुक्तिरिति साङ्ख्यरीत्या, दुःखप्रागभावपरिपालनमेव मुक्तिरिति मीमांसकरीत्या, आत्यन्तिकी दुःखनिवृत्तिरेव मुक्तिरिति वैशेषिकादिरीत्या, अन्यथैव मुक्तिरिति बौद्धादिरीत्या च मुक्ते नियमनकृत्यस्यैवाभावेन तस्य संसारदशायामिव मुक्तौ वस्तुतो नियामक-भिन्नत्वेऽपि चिच्चेत्ये केनचिन्नियते इत्यनुमाने मुक्तचेतनस्यापि पक्षतावच्छेदकक्रोडीकृतत्वेन तदंशे बाधशङ्काऽस्त्येव । तथाऽपि मायिरीत्योद्भावितबाधनिरासदिशैव मुक्तेऽपि नियमनकृत्यं भविष्यतीत्यभिप्रेत्य तत्साधने १साङ्ख्यरीत्याऽपि बाधोद्भावनपरिहारः सिद्ध्यतीत्याचार्येण पृथक् तद्रीत्या तदुद्भावनपरिहारौ न कृताविति मनसि निधाय मायिरीत्यैव तदुद्भावनमेवं कृतमित्या-शयः । चेतनश्चेति ॥ संसारी चेतनश्च परमेश्वरनियतो भवत्विति सम्बन्धः । न च मुक्त-स्येति ॥ आत्मयाथात्म्यज्ञानं विना मुक्तेरेवायोगात् तत्सत्त्वे च तदज्ञाननिवृत्त्यवश्यम्भावेन तत्कल्पितभेदमात्रनिवृत्त्यवश्यम्भावात् । अन्यथा-

‘विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते ।

आत्मनो ब्रह्मणोऽभेदमसन्तं कः करिष्यति ॥’

इति स्मृतिविरोध इति भावः ।

यद्वा ‘चिच्चेत्ये केनचिन्नियते’ इत्यत्र मुक्तस्यापि पक्षत्वे ‘मुक्तचेतनो न केनापि नियतः कुतोऽपि भेदरहितत्वाद् यन्नैवं तन्नैवं यथा संसारिचेतनः’ इति मायावादी प्रतिपक्षं भिन्नत्वमुपाधिं वा शङ्कते- अत्राऽहुरिति ॥ कुतोऽपि भेदरहितत्वादिति हेतोः स्वरूपासिद्धिं भिन्नत्वोपाधेः पक्षे मुक्त एव साधनव्यापकत्वशङ्कां च वारयितुमाह- न च मुक्तस्येति ॥ इतीति ॥ अत्राऽहुरिति पूर्वेण सम्बन्धः । प्रमाणाभावादिति हेतुरसिद्ध इत्याह- तत्राऽहेति ॥ तथा च १व्यापकानुप-लब्ध्यभावान्नियम्यनियामकभावरूपसाधनस्याभावानिश्चयात् कुतोऽपि भेदरहितत्वादिति हेतोः स्वरूपासिद्धत्वान् नियामकाद्भिन्नत्वरूपोपाधेर् मुक्ते पक्ष एव साधनव्यापकत्वाच्च न बाध-सत्प्रतिपक्षोपाधिशङ्केति भावः ।

ननु वादप्रक्रियया प्रवृत्ते ग्रन्थे आगमस्यैव प्रथममुपन्यसनीयत्वात्तदुपन्यासमकृत्वा कथमनुमानमेवोपन्यस्यत इत्याचार्यस्याचातुरीं शङ्कते- नन्विति ॥ किमतो यद्येवमत आह- वादे चेति ॥ सत्यमित्यर्धाङ्गीकारो विभावितः । वादकथात्मके ग्रन्थे प्रथममागम एवोपन्यसनीय इत्यङ्गीकारांशः । तत्कथमनुमानमुच्यत इत्यनङ्गीकारांशः । अयमाशयः । आगम एव प्रथमं विवक्षितः । अत्र प्रथममनुमानोपन्यासस्तु तदर्थावधारणार्थत्वेन तदङ्गतया । न हि स्वाङ्गं स्वव्यवधायकमित्याचार्यस्य नाचातुरीति । तर्हि आगमेनैवालम् । किमनुमानेनेत्यत आह- अनुमानं त्विति ॥ उपोद्घातप्रक्रिययेति ॥ ‘अणुरपि विशेषोऽध्यवसायकरः’ इति न्यायेनैकस्योपाय-स्योपायान्तरादूषकत्वात् ‘द्विबद्धं सुबद्धं भवति’ इति न्यायाच्च प्रकृतसिद्ध्यर्थचिन्ता-लक्षणोपोद्घातस्य प्रकृष्टोपायत्वबुद्ध्येत्यर्थः ।

ननु विमत इति पक्षनिर्देशो नोपपद्यते । तदर्थभूतविमतेर् भिन्न इति साध्यविशेषोपादानेन भिन्नत्वतदभावकोटिकत्वलाभेनातथाभूतविमतितो व्यावृत्तिसिद्धावपि अनतिप्रसक्तविषयताव-च्छेदकोपादानं विना किं धर्मिकेयं विमतिः प्रकृते पक्षतावच्छेदिकेति निर्धारणासम्भवाद् यत्र २कुत्रचिद्धर्मिणि भेदसाधने तस्य प्रकृतानुपयुक्तत्वेनार्थान्तरप्रसङ्ग इत्याशङ्क्य विमतग्रहणं धर्मिविशेषपरतया व्याचष्टे- अत्र विमत इति ॥ विमत इत्येव पक्षनिर्देश आवश्यक इति व्यवस्थापयितुं सम्भावितपक्षान्तराण्युद्भाव्य दूषयति- तस्येत्यादिना ॥ वस्तुतः संसारान्मुक्त-स्येत्यर्थः । सिद्धार्थेति ॥ संसार्यात्मनोऽपि आत्मपदप्रवृत्तिनिमित्तभूतात्मत्ववत्त्वेन तदंशे सिद्धसाधनतेत्यर्थः । प्रतिज्ञायाः सिद्धार्थतामेवोपपादयति- औतवादिनाऽपीति ॥ आरोपितो भेद इति वादिना सत्योपाधिकृतसत्यभेद इति वादिनाऽपीत्यर्थः । ननु कथं सिद्धार्था प्रतिज्ञा । पारमार्थिकभेदस्यानौपाधिकभेदस्य चासिद्धेरित्यत आह- भेदस्य चेति ॥ प्रतिपन्नोपाधिस्थ-त्रैकालिकनिषेधाप्रतियोगित्वं पारमार्थिकत्वम् । उपाधिव्यतिरेकप्रयुक्तव्यतिरेकाप्रतियोगित्व-मनौपाधिकत्वमिति विवेकः । तथा च भिन्न इत्येव प्रतिज्ञाकरणात् स्यादेव सिद्धार्था प्रतिज्ञेति भावः । एतच्च ‘पक्षतावच्छेदकैक्येऽप्यंशतः सिद्धसाधनं दोषः’ इति मतेनेति बोध्यम् । यद्यपि पारमार्थिकभेदवानिति साध्यविशेषणादानेऽपि पर्वतोऽग्निमानित्यादाविव धर्मिसमसत्ताकसाध्य-सिद्ध्यवैकल्येन न सिद्धार्था प्रतिज्ञा । अन्यथा प्रसिद्धधूमाद्यनुमानेऽप्यारोपितवह्निमादाय सिद्धार्था प्रतिज्ञा स्यात् । प्रत्युत विशेषणदाने पारमार्थिकभेदस्याप्रसिद्धतया अप्रसिद्धविशेषणतादोषस् तथापि प्रतिवादिहृदयानुसारेण तथोक्तमिति हृदयम्१ । सिद्धार्थतेति ॥ प्रतिज्ञाया इति शेषः । तथा कृत इति ॥ संसारान्मुक्त इति पक्षनिर्देशे कृते विमत इति पक्षनिर्देशापेक्षया शब्दाधिक्यप्रयुक्तगौरवं स्यादित्यर्थः । तन्निश्चयानुसरण इति ॥ धर्मिविशेषनिश्चयानुसरणे आवश्यके प्रतिपत्तिगौरवसत्त्वेन साम्यादित्यर्थः । शब्दगौरवस्येति ॥ झटिति विवक्षितार्थसमर्पकत्वेन प्रतिपत्तिगौरवापेक्षया लघुत्वेन श्रेष्ठत्वादिति भावः । संसारान्मुक्त इति पक्षनिर्देशे विमत इति पक्षनिर्देश इव गौरवं नेत्यङ्गी-क्रियते । संसारान्मुक्त इति तु वक्तव्यमिति तु नाङ्गीक्रियत इत्यभिप्रेत्याऽह- सत्यमिति ॥ विमत इति पक्षनिर्देशस्य शब्दगौरवापेक्षया अधिकप्रतिपत्तिगौरवग्रस्तत्वेऽपि प्रयोजनविशेषवशेनाऽ-दरणीयतामाह- तथाऽपीति ॥ अनेन विमत इति पक्षनिर्देशेन । विमतग्रहणमिति ॥ स्वाभिमत-पक्षस्य विमत इति निर्देश इत्यर्थः । वादिप्रतिवादिनोः स्वस्वपक्षनिश्चयवत्त्वात् प्राश्निकानां चान्यतरपक्षनिर्णयवत्त्वाद् आहार्यसंशयस्य चातिप्रसक्तत्वाज् जल्पे विमतिशब्दितसंशय-विषयत्वस्य पक्षतावच्छेदकत्वेनोपादानासम्भवेऽपि वादकथारूपेऽस्मिन् ग्रन्थे गुरोस्तत्वनिर्णय-वत्त्वेऽपि शिष्यस्य तदभावेन स्वारसिकविमतिविषयत्वस्य पक्षतावच्छेदकत्वेनोपादानं नानुपपन्न-मिति भावः ।

अत एव टीकायां प्राक् ‘ननु ग्रन्थो वादप्रक्रियया प्रवर्तते । शिष्यानुकम्पया प्रवर्तनात्’ इत्युक्तिरिति बोध्यम् । न चोक्तरीत्या विमत इति पक्षनिर्देशस्य प्रतिज्ञादोषोद्घारार्थत्वे विशिष्य प्रतिज्ञादोषशङ्कापरिहारौ क्वापि न कर्तव्याविति वाच्यम् । विमतग्रहणेन सङ्क्षेपतस्तन्निरासेऽपि विशिष्य तदुद्भावनपरिहारयोस्तत्प्रपञ्चार्थत्वोपपत्तेः । अत एव ‘प्रतिज्ञादोषाणामुद्धारोऽप्यनेन सङ्क्षेपतः कृतः स्यादित्येवमर्थं विमतग्रहणम्’ इति टीकायामुक्तिः । विमत इति पक्षनिर्देशस्य प्रतिज्ञादोषोद्धारार्थत्वं मन्दान् प्रति व्युत्पादयति- तथा हीति ॥ अप्रसिद्ध इति ॥ प्रमाणतः प्रसिद्धिरहित इत्यर्थः । किमाश्रयेति ॥ किं धर्मिकेत्यर्थः । अन्यथा आश्रयासिद्धिरनुमानदोषो न स्यादिति भावः । किमुल्लेखिनीति ॥ किं कोट्युल्लेखिनीत्यर्थः । प्रमाणजन्यकोटिप्रसिद्धेरेव संशयहेतुत्वात् । आरोपस्य च प्रमापूर्वकत्वनियमादिति भावः । मुक्ताऽत्मनीत्यस्यानन्तरं प्रमाणेनेति शेषः । इष्टापत्तिमाशङ्क्याऽह- अस्ति चेति ॥ तथाविधविमतेरनुभवसिद्धत्वेन दुरपह्नवत्वादिति भावः । उक्तन्यायमुदाहरणवाक्येऽप्यतिदिशति- एतेनेति ॥ विमतग्रहणस्य १सप्रयोजनत्वसाधकन्यायेनेत्यर्थः । एतच्च व्याख्यातमित्यनेन सम्बद्ध्यते । साध्यसाधन-वैकल्यादीत्यादिशब्देन दृष्टान्तरूपधर्म्यप्रसिद्धेर्ग्रहणम् । अन्यथेति ॥ उदाहरणे सम्प्रतिपन्नग्रहणस्य साध्यवैकल्यादिदोषोद्धारार्थत्वाभाव इत्यर्थः ।

श्रीवेदेशतीर्थ

चेतनश्च संसारीति ॥ परमेश्वरनियत इति पूर्वेणान्वयः । मुक्तस्त्विति ॥ न च सोऽपि संसारदशायां नियम्य एवेति वाच्यम् । तथापि नित्येति नियन्तृतायाः स्वरूपसङ्कीर्तन-मित्युक्तेर्भवदभिमतनित्यनियन्तृत्वस्यासिद्धिरिति भावः । न च मुक्तस्येति ॥ निवृत्ता-विद्यकस्याऽविद्यकभेदस्याप्यसम्भवादिति भावः । तदर्थावधारणार्थमिति ॥

‘उपपत्त्यवकाशोऽत्र ह्यागमार्थविनिर्णये ।’२

इति तत्रैवोक्तत्वादिति भावः । नन्वेवं प्रथममागममभिधायानन्तरं तस्यान्यार्थे परेणाभिहिते स्वोक्तार्थनिर्धारणायोपपत्तिर्वक्तव्या । तत्कथं प्रथमं तद्वचनमित्यत आह- उपोद्घातप्रक्रिययेति ॥ ननु विमतिविषयतावच्छेदकं किञ्चिदस्ति न वा । आद्ये तदेव पक्षतावच्छेदकमस्तु । द्वितीये पक्षतावच्छेदकग्रहणानुपपत्तिरित्यत आह- अत्र विमत इतीति ॥ तथा च संसारान्मुक्तत्वमेव विमतिविषयतावच्छेदकमिति भावः । विमतिग्रहणकृत्यं तूत्तरत्र स्वयमेव वक्ष्यति । विमत इत्येव पक्षनिर्देश आवश्यक इति व्यवस्थापयितुं सम्भावितपक्षान्तराण्युद्भाव्य दूषयति- तस्येत्यादिना ॥ संसारान्मुक्तस्येत्यर्थः । औतवादिनाऽपीति ॥ मायावादिना भास्करेण चेत्यर्थः ।

नन्वस्माभिः पारमार्थिकोऽनौपाधिको वा भेदः साध्यते । तथा च भेदमिथ्यात्ववादिनः, तत्सत्यत्वेऽपि तस्य सोपाधिकत्ववादिनो वा न सिद्धसाधनतेत्यत आह- भेदस्येति ॥ प्रतिपन्नोपाधौ त्रैकालिकनिषेधाप्रतियोगित्वं पारमार्थिकत्वम्, उपाधिव्यतिरेकप्रयुक्तव्यतिरेकाप्रतियोगित्वमनौ-पाधिकत्वमिति विवेको द्रष्टव्यः । गौरवं स्यादिति ॥ शब्दगौरवं स्यादित्यर्थः ॥ एतेनेति ॥ विमतग्रहणस्य सप्रयोजनत्वसाधनन्यायेनेत्यर्थः । यदि दृष्टान्तः साध्यविकलः साधनविकलो वा स्यात्, तदा साध्यवत्तया साधनवत्तया च सम्प्रतिपत्तिर्न स्यात् । अस्ति चेयम् । ततो न साध्यवैकल्यादीति भावः । अन्यथेति ॥ यदि सम्प्रतिपन्नग्रहणस्य साध्यवैकल्याद्युद्धारो न प्रयोजनमित्यर्थः ।

द्वैतद्युमणि

अविशेषितत्वादिति ॥ विशेषेण मायावादिभास्करयोः साध्याप्रसिद्धिः स्यादिति भावः ।

एवमर्थं विमतग्रहणमिति ॥ अप्रसिद्धविशेषणत्वाद्यभावोऽत्रानुमाने वर्तते । अतो न तच्छङ्कयाऽ-त्रानुमानेऽप्रमाणत्वबुद्धिः कर्तव्येति शिष्यान् प्रति बोधनार्थमित्यर्थः ।

श्रीराघवेन्द्रतीर्थ

चेतनस्त्विति ॥ मुक्तव्यावृत्त्यर्थस्तुशब्दः । भवतु परमेश्वरनियत इत्यनुषङ्गः । कुत इति ॥ कस्मादपि वस्तुन इत्यर्थः । व्यापकेति ॥ भेदाभावे तद्व्याप्तनियन्तृत्वस्याप्यभाव इत्यर्थः । तत्राऽ-हेति ॥ एवं चोद्ये परिहारमाहेति तत्र मुक्तेश्वरभेदे प्रमाणमाहेति वाऽर्थः । इत्यङ्गीकार इति ॥ कथालक्षणे १तथोक्तेरिति भावः । अभिधास्यत इति ।

‘इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।’

इत्यादिरभिधास्यत इत्यर्थः । तदर्थेति ।

‘उपपत्त्यवकाशोऽत्र ह्यागमार्थविनिर्णये ।’

इति कथालक्षणोक्तेरिति भावः । तर्ह्यागमोक्त्यनन्तरं वाच्यमित्यत आह-उपोद्घातेति ॥ ननु विमतिविषयतावच्छेदकं किञ्चिदस्ति न वा । आद्ये तदेव विषयतावच्छेदकमस्तु । द्वितीये पक्षतावच्छेदकग्रहणानुपपत्तिरित्यत आह-२ विमत इति ॥ भिन्नोऽभिन्नो वेति विरुद्धमतिविषयः । संशयविषय इत्यर्थः । तत्र विशेष्याकाङ्क्षायां हेतूक्तिलब्धमाह- अत्रेति ॥ नन्वत्राऽत्मेति वा मुक्त इति वा संसारान्मुक्त इति वा कुतो नोक्तं शब्दलाघवात् प्रतिपत्तिलाघवाच्चेत्यतः क्रमान्निराह- तस्ये-त्यादिना ॥ पारमार्थिकादिभेदस्य तेनानङ्गीकारान्नोक्तदोष इत्यत आह- भेदस्येति ॥ तथा विशेषणस्य व्यावर्त्याभावेन व्यर्थत्वादिति भावः । गौरवमिति ॥ शब्दगौरवमित्यर्थः । अनेकेति । सत्यत्वमिथ्यात्वाणुत्वमहत्त्वाद्यनेकप्रकारत्वेन । साध्यविशेषनिर्देशेन भिन्नत्वादिकोटिका विमति-रिति हेतुविशेषनिर्देशेन धर्मिविशेषनिर्णय इति गौरवं सममेवेत्यर्थः । तथाऽपीति । एवं गौरवसाम्येऽपि संसारान्मुक्त इत्येव निर्देष्टव्यं न विमत इति इत्यत्र किं विनिगमकमिति सिद्धान्तिना चोदिते पूर्ववादी उत्तरमाह- अर्थप्रतिपत्तीति ॥ विमत इत्युक्तावुक्तदिशाऽर्थप्रतिपत्तेर् धर्म्याद्यर्थ-ज्ञानस्य गौरवम् । संसारान्मुक्त इत्युक्तावर्थज्ञानस्य सुकरत्वान्न प्रतिपत्तिगौरवम् । किं तु विमत इत्युक्त्यपेक्षया शब्दगौरवमस्ति । तत्तु अर्थगौरवादुपादाने श्रेष्ठमेव । अतस्तथैव वाच्यमिति शङ्काऽभिप्रायः । बाधादीनामिति ॥ आदिपदेन व्याहतत्वादिवचनविरोधग्रहः सङ्क्षेपत इति । सामस्त्येन विना कृतत्वं संक्षेपः । तथा हीत्यादिग्रन्थे मूकोऽहम् इत्यादिवत्१ प्रतिज्ञा व्याहता चेन्न, विमतिर् इत्यादिना तदुद्धारप्रकारोपपादनमुपलक्ष्यते । एतेन प्रतिज्ञादोषोद्धारव्याख्यानेन । दृष्टान्तो यदि साध्यहीनोऽप्रसिद्धो वा स्यात् कथं सम्प्रतिपन्नः स्यादिति व्याख्यातप्रायमित्यर्थः ।

अथ तत्त्वोद्योतटिप्पणी श्रीनिवासतीर्थीया प्रारभ्यते

ननु पारमार्थिकभेदसाधनान्न मायावादिना सिद्धसाधनतोद्भावयितुं शक्या । अनौपाधिक-भेदसाधनान्न २सोपाधिकतत्सत्यभेदवादिना भास्करेण अपीति चेत्तत्राऽह- भेदस्य चेति ॥ गौरवं स्यादिति ॥ संसारान्मुक्त इत्यस्य पञ्चाक्षरत्वाद् विमत इत्यस्य त्र्यक्षरत्वाच्छब्दगौरवं स्यादित्यर्थः। धर्मिविशेषानुक्तेरिति ॥ विमतेरनेकविधत्वेन धर्मिणि विमते नित्यत्वानित्यत्वरूपप्रकारविशेषस्य कोटिविशेषस्यानुक्तेरित्यर्थः । गौरवेति ॥ प्रतिपत्तिगौरवेत्यर्थः । विनिगमनमिति ॥ उभयत्रापि गौरवसाम्ये संसारान्मुक्त इत्येव कस्माद्वक्तव्यमित्यर्थः । ज्यायस्त्वादिति ॥ प्रतिपत्तिगौरवस्य बुद्धिक्षोभकरत्वेन नीचतयाऽस्वीकार्यत्वात् शब्दगौरवस्य तदभावेन ज्यायस्त्वाद् वरत्वेन तस्यैव स्वीकार्यत्वेन संसारान्मुक्त इत्येवोच्यतामित्यर्थः ।

गुरुराजीया

नियम्यनियामकभावस्येति ॥ ननु अदुपधत्वात् ‘पोरदुपधात्’१ इति पूर्वसूत्रेणैव यमेरपि यत्प्रत्ययसिद्धेः ‘गदमदचरयमश्चानुपसर्गे’२ इति पुनर्यमग्रहणम् अनुपसर्गादेव यमेर्यथा स्यात् सोपसर्गान्मा भूदिति नियमार्थमित्याकरे स्थितम् । ततश्च सोपसर्गाद् यमेर्यतोऽसम्भवेन ‘ऋहलोर्ण्यत्’३ इति ण्यत्प्रत्यये प्रयाम्यमितिवन्नियाम्यमित्येव भवितव्यम् । तथा च नियाम्य-नियामकभावस्येति वक्तव्यम् । नियम्यनियामकभावस्येति तु कथमिति चेदत्र केचिद् उपसर्ग-प्रतिरूपकनिशब्दत्वादस्यानुपसर्गत्वेनात्र यत्प्रत्ययसम्भवादिति । केवलयमेर्यतं कृत्वा अनन्तरं निशब्देन समासाददोष इत्यपरे । अन्ये तु ‘ऋदोरप्’४ इत्यतोऽप् इत्यनुवृत्तौ ‘यमः समुपनिविषु च’५ इति यमेर्धातोर्भावे यतोऽपवादेन वैकल्पिकस्य अप्प्रत्ययस्य विधानात् सप्तमीसमर्थात् ‘तत्र साधुः’६ इति तद्धिते यत्प्रत्यये सति नियम्यशब्दस्य निष्पत्तिरिति आहुः ।

वस्तुतस्तु न ‘अनुपसर्गे’ इत्युपसर्गमात्रपूर्वकाद् यमेर्यत्प्रत्ययनिषेधः शक्यतेऽङ्गीकर्तुम् । ‘तेन तत्र न भवेद्विनियम्यम्’ इति वार्तिकप्रयोगदर्शनेन निपूर्वाद्यमेर्यत्प्रत्ययस्य सिद्धत्वात् । त्रिमुनि-व्याकरणमते चोत्तरोत्तरप्राबल्याश्रयणेन सूत्रकारापेक्षया वार्तिककारस्य प्रबलत्वात् । ततश्च प्राद्युपसर्गपूर्वकाद्यमेर्यत्प्रत्ययनिषेधेऽपि निपूर्वाद्यमेस्तदनिषेधेन यत्प्रत्ययसम्भवान्नानुपपत्तिरिति द्रष्टव्यम् ।

यद्वा, निपूर्वाद्यमेर्ण्यति च सति सञ्ज्ञापूर्वकत्वाद् वृद्ध्यभावे नियम्यशब्दनिष्पत्तिः । अत एव वार्तिकप्रयोगस्यापि ण्यदन्ततया अन्यथासिद्धत्वान्न तस्यापि निपूर्वाद्यमेर्यत्प्रत्ययज्ञापकत्व-मित्यवधेयम् ।

अविशेषितत्वादिति ॥ अविशेषणीयत्वादित्यर्थः । विशेषणे तादृशभेदस्य दृष्टान्ते परं प्रत्यसिद्धत्वेन साध्यवैकल्यप्रसङ्गादिति भावः ।

गोविन्दीया

उपोद्घातप्रक्रिययेति ॥ ‘चिन्तां प्रकृतसिद्ध्यर्थाम् उपोद्घातं प्रचक्षते’ इत्यागमेन भेदार्थसिद्ध्यर्थम् अनुमानमुपन्यस्तमित्यर्थः । तथेति ॥ शब्दगौरवं स्यादित्यर्थः । गौरवेति ॥ अर्थप्रतिपत्तिगौरवेण गौरवसाम्यादित्यर्थः । तथापीति ॥ गौरवसाम्येऽपीदमेव गौरवं वक्तव्यमिति विनिगमनं= निर्धारणं कुत इत्यर्थः । अन्यतरपक्षनिश्चयादिति ॥ मुक्तात्मनि भेदस्य सिद्धत्वेन सपक्षनिश्चयात्, बाधितत्वे च विपक्षनिश्चयात् सन्दिग्धत्वाभावेन विमतिर्न स्यादित्यर्थः । एतेनेति ॥ विमतपदव्याख्यानेन, साध्यसाधनवैकल्ये सम्प्रतिपत्तिर्न स्यात् । अस्ति च सम्प्रतिपत्तिः । अतो दोषद्वयपरिहार इति सम्प्रतिपन्नपदस्य प्रयोजनं व्याख्यातमित्यर्थः ।

जनार्दनभट्टीया

भवत्विति ॥ तथा च – चिच्चेत्योभयपक्षकानुमाने अंशतः सिद्धसाधनम् । मायावादिभिरपि व्यावहारिकपरमेश्वरनियम्यत्वस्य संसारदशायां जडेऽङ्गीकारादिति भावः ।

ननु चेतनमात्रपक्षोऽस्तु । अतो नोक्तदोषः, इत्यत आह – चेतनश्च संसारीति ॥ ‘परमेश्वरनियतो भवतु’ इति पूर्वेण सम्बन्धः । एवं च चेतनमात्रस्यापि पक्षत्वेऽपि संसारदशामादाय सिद्धसाधनं तादवस्थ्यमेवेति भावः । ननु मुक्तस्य पक्षत्वाङ्गीकारान्नोक्तदोष इत्यत आह – मुक्तस्त्विति ॥ न च मुक्तस्य कुतोऽपीति ॥ कुतोऽपि कारणादित्यर्थः । मोक्षदशायाम् अज्ञानरूपकारणाभावादिति भावः । यथोदाहरन्ति-

विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते ।

आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति ॥ इति ।

यावन्मोक्षं तु भेदः स्याज् जीवस्य परमस्य च ।

अतः परं न भेदोऽस्ति भेदहेतोरभावतः ॥

इति । व्यापकाभावे चेति ॥ ‘मुक्तो न केनचिन्नियतो भेदशून्यत्वात्’ इत्यनुमानबाधितमुक्तमात्र-पक्षकानुमानमिति भावः । अनुमानं त्विति ॥ तदर्थावधारणार्थम् भेदागमार्थावधारणार्थमित्यर्थः । उपोद्घातप्रक्रिययेति ॥ ‘प्रतिपाद्यमर्थं बुद्धौ सङ्गृह्य तदर्थं प्रागेवार्थान्तरवर्णनमुपोद्घातः’ इति उपोद्घातशब्दार्थः । अदोष इति ॥ असङ्गतिलक्षणदोषो नास्तीत्यर्थः । ननु ‘संसारी नित्यो न वा’ इत्यादि विमतिविषयस्य संसारिणोऽपि पक्षत्वापत्त्या विमतेर् नियतविषयत्वाय विमतिविषयतावच्छेदकं वाच्यम्, तत् किम्? इत्यत आह – विमत इति ॥ संसारान्मुक्त इति ॥ स च वचनव्यत्यासेनोच्यते । येन ‘अत एव विमतिविषयो यावानिति’ उत्तरग्रन्थविरोधः स्यात् । किन्तु अभिप्रेत्य इत्यत आह – विवक्ष्यत इति ॥ तथा च संसारान्मुक्तत्वं विमतिविषयतावच्छेदकमिति भावः । तथा कृते गौरवमिति ॥ शब्दगौरवमित्यर्थः । विमतमिति पक्षीकारेऽपि गौरवं समानम् इति पूर्वपक्षी सप्रपञ्चम् उपपादयति – विमतेरिति ॥ अनेकविधत्वेनेति ॥ संसारी नित्योऽनित्यो वेत्याद्यनेकप्रकारेण अनेकविधत्वेनेत्यर्थः । धर्मिविशेषानिश्चय इति ॥ संसारान्मुक्तरूपधर्मिविशेष इत्यर्थः । साध्यविशेषोपादानेति ॥ ‘आदि’पदेन पक्षविशेषोपादानं गृह्यते । तन्निश्चयानुसरणेऽपीति ॥ धर्मिनिश्चयानुसरणेऽपीत्यर्थः । अयमाशयः– ‘विमतो भिन्नः’ इत्युक्ते यत्किञ्चिद् विमतिविषयत्वस्य केवलान्वयितया सर्वस्यापि पक्षत्वापत्तौ संसारान्मुक्तो भिन्नोऽभिन्नो वेति विमतिविषयो विवक्षित इति नेतरेषां पक्षत्वमिति वक्तव्यम् । तथा सति प्रतिपत्तिगौरवं स्यादिति । विनिगमनमिति ॥ संसारान्मुक्तः मुक्त इत्येव वक्तव्यमिति निष्टङ्कनमित्यर्थः । तथापीति ॥ गौरवे समानेऽपीत्यर्थः । कृतः स्यादिति ॥ सूचितः स्यादित्यर्थः ।