विमतो भिन्नो मुक्तत्वात् ..
मुक्तचेतने भेदाक्षेपस्तत्साधकानुमानप्रयोगश्च
श्रीमज्जयतीर्थटीका
अत्राऽहुः- भवतु चेत्यं परमेश्वरनियतम् । १चेतनश्च संसारी । मुक्तस्तु न च केनापि नियतः । नियम्यनियामकभावस्य भेदव्याप्तत्वात् । न च मुक्तस्य कुतोऽपि भेदोऽस्ति । प्रमाणाभावात् । व्यापकाभावे च व्याप्यनिवृत्तिरवश्यम्भाविनीति । तत्राऽह-
मूल
***विमतो भिन्नो मुक्तत्वाद् यदित्थं तत्तथा । ***
***यथा सम्प्रतिपन्नः । ***
ननु ग्रन्थो हि वादप्रक्रियया प्रवर्तते । शिष्यानुकम्पया प्रवर्तनात् । वादे च- ‘पृष्टेनाऽगम एवाऽदौ वक्तव्यः साध्यसिद्धये’ इत्यङ्गीकारः । तत्कथमनुमानमुच्यते । सत्यं, आगमोऽप्यत्रार्थे अभिधास्यते । अनुमानं तु तदर्थावधारणार्थमुपोद्घातप्रक्रिययोपन्यस्तमित्यदोषः ।