०३ अनुमानस्येश्वरे प्रामाण्यसमर्थनम्

सर्वत्राखिलसच्छक्तिः..

अनुमानस्येश्वरे प्रामाण्यसमर्थनम्

श्रीमज्जयतीर्थटीका

अनुमानमपि रमापतिं गमयतीत्याशयवानाह- नित्यातादृशचिच्चेत्ययन्तेति ॥ अत्र तदिति सर्वत्राखिलसच्छक्तिः स्वतन्त्रोऽशेषदर्शन इत्युक्तं परामृश्यते । चिच्चेतनं रमाब्रह्मादि । चेत्यं दृश्यं जडं प्रकृत्यादि । ननु चेत्यता चितोऽप्यस्ति । यद्वक्ष्यति आत्मनोऽपि दृश्यत्वा-दिति । तत्कथमुच्यते चेत्यं दृश्यं जडमिति । सत्यम् । चितः पृथगभिधानात् समानोऽपि चेत्यशब्दो जडविषयोऽवगम्यते । चेत्यग्रहणादेवोभयलाभे सति किं चिद्ग्रहणेनेति चेत्सत्यम् । कुरुपाण्डव-न्यायेनासाधारणधर्मेण व्यवहारोपपत्तिः । नित्यमतादृशे अपर्याप्तशक्तिनी अस्वतन्त्रे असर्वज्ञे चिच्चेत्ये यन्तेति विग्रहः ।

श्रीविजयीन्द्रभिक्षु

उदाहृतागमावष्टम्भेनानुमानमपीश्वरे प्रमाणमाचार्याभिप्रेतमिति वक्तुमाह- अनुमान-मपीति ॥ ननु नित्यातादृशचिच्चेत्ययन्तेत्यनेनानुमानमपि रमापतिं गमयतीत्याशयवानाहेत्युक्तम् । अतादृशेति तच्छब्दस्य बुद्धिस्थचिच्चेत्यपरामर्शकत्वे तयोरतादृशत्वस्य विरुद्धत्वात् । परस्परम् अतादृशे परस्परविलक्षणे ये चिच्चेत्ये तयोर्यन्तेति वाक्यार्थकरणे च तस्य विवक्षितानुमाना-सूचकत्वाच्चेत्यतो व्याख्यातुमाह- अत्रेति ॥ अतादृशेति पदे प्रकृतिभूतेन तच्छब्देनेत्यर्थः । चिच्चेत्यशब्दौ विवक्षितार्थपरतया व्याचष्टे- चिच्चेतनमिति ॥ समानोऽपि उभयप्रतिपादन-समर्थोऽपि । किमिति ॥ पृथगित्यनुषङ्गः । कुरुपाण्डवन्यायेनेति ॥ यथा कुरुत्वपाण्डवत्व-रूपतत्तत्प्रातिस्विकरूपेण प्रतिपिपादयिषया कुरवः समागताः पाण्डवाश्चेति व्यवहारो न व्यर्थस्तथा चेतनत्वजडत्वरूपप्रातिस्विकरूपेण चेतनजडप्रतिपिपादयिषया चेतनं चेत्यञ्चेति व्यवहारो न व्यर्थ इति भावः ।

ननु नित्यातादृशेत्यत्र नित्येति व्यर्थम् । चिच्चेत्ययन्तेत्येतावतैव स्वव्यतिरिक्तसकलचेतनाचेतन-नियामकत्वस्य विवक्षितार्थस्य सिद्धेः । किञ्च नित्यविशेषणे च रमापतेर्नित्यचेतनाचेतन-नियामकत्वमेव सिद्ध्यति । न तु विवक्षितसर्वनियामकत्वम् । अपि च चेतनांशे नित्येति विशेषणं व्यर्थम् । अनित्यचेतनस्यैवासिद्धत्वात् । अपि चात्र चिच्चेत्ययन्तेति किं षष्ठीतत्पुरुषः किं वा द्वितीयातत्पुरुषः । तत्र न प्रथमः । यन्तेत्यस्य तृजन्तत्वे ‘तृजकाभ्यां कर्तरि’१ इति षष्ठीसमास-निषेधात् । तृन्नन्तत्वेऽपि तद्योगे ‘न लोकाव्ययनिष्ठाखलर्थतृनाम्’२ इति षष्ठीनिषेधेन षष्ठी-तत्पुरुषस्यैवासम्भवात् । न द्वितीयः । ‘द्वितीयाश्रित’३ इति सूत्रेण श्रितादिभिरेव समासविधानेन यन्तेति तृन्नन्तेन समासानुपपत्तेश्चेत्याशङ्क्य द्वितीयातत्पुरुष एवाभिप्रेत इति प्रदर्शनाय विग्रहवाक्यं तावदाह- नित्यमिति ॥ सर्वदेत्यर्थः । एतच्च सामर्थ्यादतादृशत्वस्य नियन्तृतायाश्च वस्तु स४ विशेषणमिति वक्ष्यते । न च द्वितीयातत्पुरुषानुपपत्तिः । ‘द्वितीयाश्रित’ इत्यत्र द्वितीयेति योगविभागाद्वा गम्यादेराकृतिगणत्वेन ‘गम्यादीनामुपसंख्यानम्’५ इत्युपसङ्ख्यानाद्वा तदुपपत्तेरिति भावः ।

श्रीवेदेशतीर्थ

तदितीति ॥ अतादृशेत्यत्र तच्छब्देनेत्यर्थः । नन्वीश्वरस्यापि चेतनत्वेन पक्षनिक्षिप्तत्वे बाध इत्यत आह- चेतनं रमाब्रह्मादीति ॥ ‘न लोकाव्ययनिष्ठाखलर्थतृनाम्’ इति षष्ठीप्रतिषेधाद् द्वितीयासमासोऽयमित्यभिप्रेत्य तथैव विग्रहमाह- नित्यमतादृशे इत्यादिना ॥ श्रितादिषु गम्यादीनामुपसङ्ख्यानादिति भावः । ननु ‘कर्तरि च’६ इति प्रतिषिद्धस्य ‘याजकादिभिश्च’७ इति प्रतिप्रसवात् तृजन्तेन षष्ठ्यास्समासः किं न स्यादिति चेन्न । यन्तृशब्दस्य तृन्नन्तत्वेन वक्ष्यमाणतर्कपराहतिपरिहारस्य सूचनात्तृजन्तत्वे तदभावात् । अत एव ताच्छीलिकतृन्नन्तप्रयोग इति वक्ष्यति ।

द्वैतद्युमणि

कुरुपाण्डवन्यायेनेति ॥ अत्र कुरुपाण्डवशब्देन तच्छब्दघटितवाक्यविशेषः परामृश्यते । न्यायपदं तद्वाक्यस्य पौनरुक्त्यपरिहारकयुक्तिपरम् । असाधारणधर्मेण पदान्तरबोध्यधर्म-न्यूनवृत्तिधर्मेण । व्यवहारपदं ज्ञानजनकशब्दरूपप्रकृतवाक्यपरम् । धर्मेणेति तृतीयार्थः प्रकारकत्वं ज्ञानेऽन्वेति । न्यायेनेति तृतीयार्थो ज्ञाप्यत्वम् उपपत्तिपदार्थभूतपौनरुक्त्यभावेनान्वितम् । तथा च कुरुपाण्डवपदघटितवाक्यनिष्ठपौनरुक्त्यपरिहारकयुक्तिज्ञाप्यो असाधारणधर्मप्रकारकज्ञानजनक- प्रकृतवाक्यरूपस् तन्निष्ठपौनरुक्त्यभावस्तस्मादित्यर्थः । कुरूणामित्युक्तावपि पाण्डवेषु कुरुत्वाग्रह-दशायां पाण्डवसन्तानबीजत्वाभावभ्रमं क्षिप्रमपनेतुं यथा पाण्डवशब्दप्रयोगस्तथा प्रकृतेऽपि ‘जडस्य स्वतः शक्तिशून्यत्वात् तस्येश्वरनियम्यताऽस्तु । चेतनस्य जडनियामकतयोपलभ्यमानस्य ईश्वरवच्चेत्यपदेन ग्रहणाभावात् तदन्यपरमेव चेत्यपदम्’ इति भ्रमेण चिन्नियामाकत्वाभावभ्रमः स्यात् । तत्परिहाराय विशेषरूपेणैव तद्ग्रहणमतो न पौनरूक्त्यादीति भावः ।

नित्यपदस्य ध्वंसाप्रतियोग्यर्थत्वे केषुचिज्जडेषु बाधादसङ्ग्रहापत्तिरित्याशङ्क्य सार्वदिकार्थक-क्रियाविशेषणेन समास इत्याह- नित्यमिति ॥ अत्र नित्यमित्यस्य नातादृशत्वपदार्थेनैवान्वयः । किं तु नियन्तृत्वेऽपि । ‘नित्येत्यतादृशत्वस्य नियन्तृतायाश्च स्वरूपसङ्कीर्तनम्’ इति वक्ष्यमाण-त्वात् ।

श्रीराघवेन्द्रतीर्थ

तादृशेत्यस्य तच्छब्दरूपत्वादाह- अत्र तदितीति ॥ अतादृशेत्युक्त्याऽल्प-शक्तिकास्वतन्त्राल्पज्ञे चिच्चेत्ये इत्यर्थः । ‘चिती- सञ्ज्ञाने’ इत्यतः कर्मणि ‘ऋहलोर्ण्यत्’१ इति ण्यत्प्रत्यये ‘पुगन्त’ इति गुणे चेत्यं ज्ञेयमित्यर्थमुपेत्योक्तम् । चेत्यं दृश्यमिति ॥ अपर्याप्तेति ॥ अपरिपूर्णेत्यर्थः । ‘आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु’२ इति पूर्वसूत्रोक्तताच्छील्यार्थे ‘तृन्’ इति उत्तरसूत्रेण विहिततृन्नन्तोऽयं यन्तेतिशब्दः । तद्योगे च ‘न लोकाव्यय’ इति षष्ठीनिषेधाच् चिच्चेत्ये इति द्वितीयाद्विवचनान्तस्य श्रितादिषु ‘गमिगम्यादीनामुपसङ्ख्यानम्’३ इत्युक्तेर् द्वितीयातत्पुरुष इत्युपेत्योक्तम्- चिच्चेत्ये यन्तेतीति ॥

गुरुराजीया

कुरुपाण्डवन्यायेनेति ॥ यथा पाण्डवानां कुरुत्वेऽपि सामान्यविशेषापेक्षया ‘सन्तानबीजं कुरुपाण्डवानाम्’१ इत्यादौ कुरुभ्यः पृथग्वचनं तथा चितश्चेत्यत्वेऽपि चेत्यात् पृथग्वचनमुपपद्यत इत्यर्थः । चिच्चेत्ये यन्तेति विग्रह इति ॥ द्वितीयान्तस्य चिच्चेत्यशब्दस्य तृन्नन्तेन यन्तृशब्देन द्वितीयासमास इत्यर्थः ।

यद्यपि यन्तृशब्दो न श्रितादिषु पठितस्तथापि श्रितादिषु २गमिगम्यादीनामुपसंख्यानात् तदुपपत्तिरिति बोध्यम् ।

एतच्च द्वितीयासमासाश्रयणं कर्मत्वविवक्षां षष्ठीतत्समासयोर्नित्यत्वाविवक्षां चाऽश्रित्य द्रष्टव्यम् । न तु यन्तृशब्दस्य तृजन्तत्वतृन्नन्तत्वयोः षष्ठीसमासानुपपत्तिभिया । तथा हि । अस्तु तावद्यन्तृ-शब्दस्तृजन्तः । न चैवं सति ‘कर्तरि च’३ इति वा ‘तृजकाभ्याम्’४ इति वा षष्ठीसमासनिषेध-प्रसङ्गः । ताभ्यां कृल्लक्षणषष्ठीसमासस्यैव प्रतिषेधात् । न हि यावद्वस्तुनि वर्तते तावदवश्यं प्रयोगे विवक्षितव्यमिति नियमः । तथा सति वृक्षस्य शाखेत्यादावधिकरणत्वादेर्विद्यमानत्वेन विवक्षापत्त्या षष्ठ्यभावप्रसङ्गात् । ततश्च तद्योगे ‘कर्तृकर्मणोः कृति’५ इति प्राप्तषष्ठ्याः समासासम्भवेऽपि शेषषष्ठ्याः समासे न काऽप्यनुपपत्तिः । अत एवाऽह कैयटः ‘कथं तर्हि घटानां निर्मातुस्त्रिभुवन-विधातुश्च कलह इति । शेषषष्ठ्या समासः’ इति ।

कर्मत्वविवक्षायामपि न ‘कर्तृकर्मणोः कृति’ इति प्राप्तकृल्लक्षणषष्ठीसमासानुपपत्तिः । ‘जनिकर्तुः प्रकृतिः’६, ‘तत्प्रयोजको हेतुश्च’७, ‘जातिवाचकः’ ‘गुणो गुणिविशेषकः’ इत्यादित्रिमुनिनिर्देशेन ‘कर्तरि च’ इति ‘तृजकाभ्यां कर्तरि’ इति वा निषेधस्यानित्यत्वज्ञापनेन क्वचिदप्रवृत्तिप्रसङ्गात् । अत एव ‘भीष्मः कुरूणां भयशोकहन्ता, हितकारकः’ इत्यादिप्रयोग उपपद्यते ।

एवं यन्तृशब्दस्य तृन्नन्तत्वेऽपि न दोषः । न च तृन्योगे ‘न लोक’१ इति षष्ठ्या निषेधात् षष्ठ्येव न, समासस्तु दूरनिरस्त इति वाच्यम् । कारकषष्ठीनिषेधेन तृन्योगे तस्याः समासासम्भवेऽपि शेषषष्ठ्यनिषेधेन तस्याः समासे दोषाभावात् । अवश्यञ्चैतदेवं यत् ‘न लोक’ इति न षष्ठीमात्रनिषेधः किं तु कारकषष्ठ्या एवेति । अन्यथा ब्राह्मणस्य कुर्वन्नित्यादौ षष्ठ्यनुपपत्तिप्रसङ्गात् । एवं कारकषष्ठ्यास्तृन्नन्तेन समासाश्रयणेऽपि न दोषः । ‘तृजकाभ्यां कर्तरि’ इत्यत्र तृचस्सानुबन्धकस्य निर्देशेन तृन्व्यावृत्त्यर्थेन ‘न लोक’ इति निषेधस्यानित्यत्वज्ञापनेन प्रकृते अप्रवृत्तिसम्भवात् । न ह्यसत्यां षष्ठ्यां समासप्रसङ्गोऽस्ति । अत एवोक्तं न्यासकारेण ‘तृन्नन्तमेतत् । न लोकेति निषेधस्त्वनित्यः । त्रकाभ्यामिति वक्तव्ये तृचस्सानुबन्धकस्य ग्रहणाज्ज्ञापकात्’ इति ।

नन्वेवमपि ‘कर्मणि च’२ इति कर्मणि षष्ठ्याः समासप्रतिषेधात् कथं समास इति चेन्न । तस्योभयप्राप्तौ कर्मणीति प्राप्तषष्ठीसमासनिषेधकत्वेऽपि कृल्लक्षणषष्ठीसमासनिषेधकत्वाभावादिति दिक् ।

यत्तु ‘न लोकाव्ययनिष्ठाखलर्थतृनाम्’३ इति षष्ठीनिषेधाद् द्वितीयासमासोऽयमित्येतदभि-प्रायवर्णनं तदसत् । कारकषष्ठीनिषेधकत्वेन शेषषष्ठ्यनिषेधकत्वस्यानित्यत्वस्य चाऽकर एव स्थितत्वेन षष्ठीतत्समासयोरुपपन्नत्वात् ।

यदपि ‘कर्तरि च’४ इति प्रतिषिद्धस्य ‘याजकादिभिश्च’५ इति प्रतिप्रसवात् तृजन्तेन षष्ठ्याः समासमाशङ्क्य तृन्नन्तत्वे वक्ष्यमाणरीत्या तर्कपराहतिपरिहारसिद्धेस्तृजन्तत्वे तदभावान्न षष्ठीसमास इति समाधानमुक्तं तदप्यसत् । १कर्तरि चेत्यस्य कृल्लक्षणषष्ठीसमासप्रतिषेधकत्वस्य शेषषष्ठी-समासाप्रतिषेधकत्वस्य समर्थितत्वेन प्रतिषेधशास्त्रप्रवृत्तेरेवासम्भवात् । कथञ्चित्सम्भवेऽपि कर्तृ-शब्दस्य-

स्युर्याजकोद्वर्तककर्तृकारकाः प्रयोजकोत्साहकभर्तृवक्तृकाः ।

अध्यापकस्तापकगोप्तृपूजकाः ………॥

इत्यादिना याजकादिगणपाठे पठितत्वेन याजकादितया वेदकतया वेदकर्तुरित्यादौ प्रतिप्रसवेऽपि यन्तृशब्दस्य तत्रापठितत्वेन याजकादित्वाभावेन चिच्चेत्ययन्तेत्यत्र प्रतिप्रसवाप्रसङ्गेन तृजन्तेन षष्ठीसमासशङ्काया अनवसरात् । तृन्नन्तत्वेन वक्ष्यमाणतर्कपराहतिपरिहारसूचनस्य षष्ठीसमास-द्वितीयासमासयोरविशेषेण तृन्नन्तत्वमात्रेण द्वितीयासमासानिर्वाहाच्चेत्यास्तां तावत् ।

गोविन्दीया

समानोऽपीति । चेतने जडे च समानोऽपीत्यर्थः ।

जनार्दनभट्टीया

‘तादृश’ इति समासान्तर्गततच्छब्दस्य ‘अशेषदर्शनः’ इत्यव्यवहितदर्शनमात्रपरामर्शित्वं वारयति – अत्र तदितीति ॥ नित्यानित्यं भिन्नाभिन्नमितिवच् चिच्चेत्यं पदार्थान्तरमित्यन्यथा प्रतीतेराह– चिच् चेतनमिति ॥ नन्वेवं वक्ष्यमाणे चिच्चेत्यपक्षकानुमाने रमापतेरपि चेतनत्वेन पक्षत्वापत्त्या तत्र केनचिन्नियतत्वरूपसाध्यस्य बाधः स्यादित्याशङ्क्य, प्रकृते विवक्षितं चिच्छब्दार्थं शृङ्गिग्राहकतया दर्शयति – रमेति ॥ चेत्यशब्दार्थमाह – दृश्यमिति ॥ नन्वेवं वक्ष्यमाणानुमाने रमापतेरिति पक्षत्वापत्त्या पूर्वोक्तबाधतादवस्थ्यं स्यादित्यतः प्रकृतविवक्षितं चेत्यशब्दार्थमाह – जडमिति ॥ जडं शृङ्गिग्राहकतया दर्शयति – प्रकृत्यादीति ॥ समानोऽपीति ॥ उभयसाधारणोऽपीत्यर्थः । ‘चिच्चेत्ये यन्ता’ इति विग्रह इति ॥ ‘न लोकाव्ययनिष्ठाखलर्थतृनाम्’२ इति षष्ठीसमासप्रतिषेधादिति भावः । यद्यप्यत्र यन्तृशब्दस्य तृन्नन्तत्वेन तृजन्तत्वे वा ‘न लोकाव्ययखलर्थतृनाम्’ ‘तृजकाभ्यां कर्तरि’३ इति सूत्राभ्यां ‘कर्तृकर्मणोः कृति’४ इति सूत्रप्राप्तषष्ठ्याः षष्ठीसमासस्य च यथाक्रमं प्रतिषेधेऽपि ‘षष्ठी शेषे’५ इति सूत्रेण षष्ठीसमासो भविष्यत्येव । तथापि श्रितादिषु ‘गम्यादीनामुपसङ्ख्यानम्’१ इति २वृत्तिमाश्रित्य समाधानान्तरमेतदुक्तमिति ज्ञातव्यम् ।

श्रीमज्जयतीर्थटीका

इदमुक्तं भवति । चिच्चेत्ये ३खल्वपर्याप्तशक्त्यादिमत्तया प्रत्यक्षादिसिद्धे । अन्यथा नित्यसुखादिप्रसङ्गात् । यच्चैवंविधं तत्केनापि नियतमेव प्रवर्तमानमुपलब्धम् । यथा रथादि । तदेताभ्यामपि येन केनचिन्नियताभ्यां भवितव्यम् । यश्चैतन्नियन्ता स भगवान् रमापतिरिति । नित्येत्यतादृशत्वस्य नियन्तृतायाश्च स्वरूपसङ्कीर्तनम् । चित एव पक्षीकारे प्रकृतिनियततया साङ्ख्यानां, कर्माधीनतया च मीमांसकानां सिद्धसाधनं स्यात् । तत्परिहाराय चेत्यस्यापि परायत्ततया चिन्नियततासम्भवप्रदर्शनाय पक्षीकरणम् । चेत्यमात्रपक्षीकारे च लोकदृष्ट्या, पाशुपतादिस्मृतिरीत्या च चिन्नियततया सिद्धसाधनं स्यात् । तन्निरासाय चितोऽपि पक्षीकारः । न च चिच्चेत्ये एवान्धपङ्गुन्यायेनान्योन्यनियते भविष्यतः किमीश्वरेणेति वाच्यम् । स्वतः शक्तिमात्रशून्ययोरितरेतराश्रयेण इतरेतरप्रत्यासत्तेरेवायोगात् ।

प्रयोजनमननुसन्धदयं न नियच्छेत् । तदनुसन्धाने चापूर्णः स्यादिति तर्कपराहतिपरिहाराय नियमनशीलत्वात् प्रयोजनानुसन्धानाभावेऽपि तदुपपन्नमिति ज्ञापयितुं यन्तेति ताच्छीलिक-तृन्नन्तप्रयोगः । तथा च श्रुतिः ‘देवस्यैष स्वभावोऽयम्’ इति ।

न च रुद्रादीनामिव रमापतेरपि कथं चिच्चेत्ययन्तृतोपपत्तिरिति वाच्यम् । यतोऽसावपर्याप्त-शक्तित्त्वादीनां हेतूनां पक्षधर्मताबलेन सिद्ध्यन् पूर्णशक्त्यादिरूपेणैव सिद्ध इत्याशयवानाह- सर्वत्राखिलसच्छक्तिः स्वतन्त्रोऽशेषदर्शन इति ॥ सर्वत्र सकलचिच्चेत्यनियमनविषये, अखिला= पर्याप्ता, सती= प्रतिबन्धादिदोषरहिता, शक्तिर्यस्यासौ तथोक्तः । स्वतन्त्रः= स्वेच्छाधीनप्रवृत्तिः । अशेषविषयत्वादशेषं दर्शनं यस्यासावशेषदर्शन इति ।

श्रीविजयीन्द्रभिक्षु

नन्वनुमानमपि रमापतिं गमयतीत्याशयवानाहेत्युक्तमयुक्तम् । नित्यातादृशेति विशेषणेनेश्वरसाधकानुमानाप्रतीतेरित्यतस्तत्प्रदर्शयितुमाह- इदमुक्तं भवतीति ॥ वक्ष्यमाणहेतूनां पक्षधर्मतां दर्शयति- चिच्चेत्ये खल्विति ॥ अपर्याप्तशक्त्यादीति ॥ अपर्याप्तशक्तित्वादीत्यर्थः । प्रत्यक्षसिद्धे इति ॥ यद्यपि रमाब्रह्मादिचेतनानां प्रकृत्याद्यचेतनानाञ्च परात्मत्वेनाव्यक्तत्वेन च प्रत्यक्षत्वमेव दुर्लभम् । सर्वस्य च शक्त्यादीनामयोग्यतया तद्वत्त्वेन प्रत्यक्षं तु सुतरां दुर्लभम् । तथापि अत्रापर्याप्तशक्त्यादितयेत्यनेन पर्याप्तशक्त्यादिप्रयोज्यकार्यरहिततया प्रत्यक्षसिद्धे इत्यर्थ-विवक्षणान्नोक्तदोष इति । यद्वा प्रत्यक्षसिद्धे इत्यनेन प्रत्यक्षाभ्यामागमलिङ्गाभ्यां सिद्धे इत्यर्थ-विवक्षणान्न कोऽपि दोषः । ननु चिच्चेत्ययोरपर्याप्तशक्त्यादितया प्रत्यक्षागमादिसिद्धत्वेऽपि तस्य प्रामाण्यनिश्चयं विना कथं ततोऽपर्याप्तशक्तित्वादिसिद्धिः । एवञ्चासिद्धितादवस्थ्यमित्यत आह- अन्यथेति ॥ चिच्चेत्ययोः पर्याप्तिशब्दितपूर्णशक्तित्वस्वातन्त्र्यसर्वज्ञत्वादिसत्त्वे नित्यं सर्वदा सुखमेव स्यात् । न तु कदाऽपि दुःखम् । न हि सत्यामिष्टसम्पादनशक्तौ तत्त्यागो दृष्टचरः । न च तत्तदनुकूलशक्त्यादिमान् दुःखाद्यनिष्टसाधनपरिहारस्य नेष्ट इति सम्भवति । तथा च प्रत्यक्षादिसिद्धं चिच्चेत्ययोरपर्याप्तशक्तित्वादिकं वास्तवमेवाङ्गीकार्यमिति भावः ।

१चिच्चेत्येति ॥ नन्वत्र किं चित्त्वं चिद्विषयत्वञ्च यथाश्रुतं पक्षतावच्छेदकं विवक्षितं किं वा ‘चिच्चेतनं रमाब्रह्मादि, चेत्यं दृश्यं जडं प्रकृत्यादि’ इति व्याख्यानानुसारेण रमाब्रह्मादित्व-प्रकृत्यादित्वे । २अथापर्याप्तशक्तित्वादि । नाऽद्यः । तयोः साध्येश्वरसाधारणत्वेन बाधानवतार-दशायां तदंशे अनुमितेर्भ्रान्तित्वापत्तेः । तत्वनिर्णिनीषुकथारूपे ग्रन्थे भ्रमोपायोपन्यासायोगात् । तदवतारदशायामंशतो बाधस्यैव दोषत्वात् । न द्वितीयः । ईश्वरव्यावृत्तधर्मं विना आदिशब्द-स्यानतिप्रसक्तार्थत्वायोगात् । तादृशधर्मान्तरस्याभावात् । न तृतीयः । हेतोरेव पक्षतावच्छेदकत्वापत्तेरिति चेन्न । धूमवत्पर्वतत्वादेरिव परिमितशक्तिकचित्त्वस्य तादृशजडत्वस्य च पक्षतावच्छेदकत्वोपपत्तेरिति । अपर्याप्तशक्तित्वादीति ॥ अल्पशक्तित्वादीत्यर्थः ।

नन्वस्तु चिच्चेत्ययोरेवमपर्याप्तशक्तित्वादिकम् । तावता हेतोः पक्षधर्मत्वमेव सिद्ध्यति । न तु व्याप्तिः । तथा च व्याप्तिशून्यं कथं तद्रमापतिं गमयेदित्यतः सदृष्टान्तं व्याप्तिं दर्शयति- यच्चैवंविधमिति ॥ यद्यपि रथादिकमपि पक्षान्तर्गतमेव तथाऽपि दृष्टान्तत्वे निश्चितसाध्यवत्त्वमेव तन्त्रम् । लाघवात् । न तु पक्षान्यत्वविशेषितं तत् । गौरवात् । तच्च रथादेः पक्षान्तर्गतत्वेऽप्यक्षतमिति न तस्य दृष्टान्तत्वेनोपादानमनुपपन्नम् । अत एवासाधारणहेतुस्थले विशेषदर्शनदशायां पक्षस्यैव सपक्षत्वं वदन्तीति भावः । निगमयति- तदेताभ्यामिति । ननूक्तानुमानेन चेतनाचेतननियन्ता कश्चित् सिद्ध्यति । न तु रमापतिरित्यत आह- यश्चैतन्नियन्तेति । न हि नाममात्रे विवादो युज्यत इति भावः । ननु रमापत्यतिरिक्त एव चिदचिन्नियन्ता कश्चित्स्यादिति शङ्कानिरासाय भगवानिति रमापतिर् विशेषितः । भगवच्छब्दप्रवृत्तिनिमित्तं च सर्वैश्वर्यं यत्रास्ति स एव चिदचिन्नियन्ता । भगवच्छब्दमुख्यार्थश्च रमापतिरेव ।

अथापि यत्पादनखावसृष्टं जगद्विरिञ्चोपहृतार्हणाम्भः ।

सेशं पुनात्यन्यतमो मुकुन्दात्को नाम लोके भगवत्पदार्थः ॥१

इति स्मृतेरिति भावः । ननूक्तरीत्या अतादृशत्वस्यैव व्यभिचाराद्यभावेन प्रकृतसाध्यसाधनसमर्थत्वेन नित्येति व्यर्थम् । यन्तेति साध्यविशेषणत्वे च दृष्टान्तस्य साध्यविकलता । न हि रथादि सर्वदा केनचिन्नियतं दृश्यत इत्यत आह- नित्येतीति ॥ तथा च पक्षधर्मताबललभ्योऽर्थस्तथा पर्यवस्यतीति सूचयितुम्२ नित्यविशेषणोपादानमिति भावः । साङ्ख्यानामिति ॥ शेषे षष्ठीयम् । साङ्ख्यान् प्रति चित् केनचिन्नियतेति साधने तैश्चेतनस्य प्रकृतिनियतत्वाङ्गीकारान् मीमांसकान् प्रति तथा साधने च तैरपि तस्य कर्मनियतत्वाङ्गीकाराच्च तेषां सिद्धं यत् तस्यैवास्माभिः साधनं कृतं स्यादि-त्यर्थः । तत्परिहारायेति ॥ चेत्यस्यपि पक्षीकरणमिति योजना । चेत्यस्यापि पक्षीकरणे प्रकृति-कर्मनियन्तृकत्वमादाय साङ्ख्यमीमांसकोद्भावनीयसिद्धसाधनताऽनवकाश इत्याह- पराऽयत्त-तयेति ॥ लोके चेत्यस्य जडस्य स्वान्यचेतनायत्तताया३ दृष्टत्वात् प्रकृतिकर्मनियतत्वासम्भवाच् चेतननियन्तृकत्वस्योत्कटसन्देहविषयतया तद्व्यतिरेकानिर्णयेन तद्विशेषनियन्तृकत्वमादाय साध्य-सिद्धिसम्भवप्रदर्शनाय चेत्यस्यापि पक्षीकरणमित्यर्थः ।

लोकदृष्ट्येति ॥ लोकानुभवानुसारेणेत्यर्थः । पाशुपतादीति ॥ पाशुपतशाक्ताद्यागमोक्त-न्यायेनेत्यर्थः । चिन्नियततयेति ॥ अदृष्टद्वारा अस्मदादिचेतननियततया पशुपतिशक्त्यादि-चिन्नियततया चेत्यर्थः । नन्वेवमपि न स्वाभिमतेश्वरसिद्धिः । अन्धपङ्गुन्यायेनान्योन्यनियतत्वेनापि साध्यपर्यवसानोपपत्तेः । न ह्यन्धपङ्ग्वोः कुतश्चिद्देशान्तरप्राप्त्यादिरूपं कार्यं स्वात्मलाभाय ताभ्यामन्यनियामकं कल्पयति । तथा च चिच्चेत्ययोः परस्परनियम्यनियामकभावसिद्ध्याऽपि उक्तहेतूनामुपपन्नत्वेनाप्रयोजकतेत्याशङ्क्य निराकरोति- न चेति ॥ अन्धपङ्गुन्यायवैषम्य-प्रदर्शनायाऽह- स्वतः शक्तिमात्रशून्ययोरिति ॥ अनन्यसाधारणपरमस्वतन्त्रनियामकं विनैव स्वेच्छानुसारेणेष्टानिष्टप्राप्तिपरिहारानुकूलसामर्थ्यशून्ययोरित्यर्थः । अन्यथा चिच्चेत्ययोः परस्पर-नियतत्वाभ्युपगमविरोध इति भावः । न चैवम्-

शक्तयः सर्वभावानामचिन्त्या ज्ञानगोचराः ।

यतोऽतो ब्रह्मणस्तास्तु सर्गाद्या भावशक्तयः ॥

इत्याद्यागमविरोधः । तस्यान्याधीनशक्तिकत्वेऽप्युपपत्तेरिति । इतरेतराश्रयेणेति ॥ जडचेतनयोरपि स्वतः शक्तिशून्यत्वेन परस्परप्रत्यासत्तिहेतुव्यापारार्थं परम्परनियमनापेक्षायां तस्यापि व्यापारत्वेन तत्सम्पादनायापि चितश्चेत्यापेक्षायां तस्यापि तन्निर्वाहे चिदपेक्षानियमेनेतरेतराश्रयत्वापत्त्या प्रत्यासत्तेरेवायोगात् तदयोगे चान्योन्यनियमनासम्भवाद् अन्यस्वतन्त्रनियामकं विना हेतूच्छित्तेरेव बाधकत्वेन नोक्तहेतूनामप्रयोजकतेति भावः । उक्तानुमाने प्रतिकूलतर्कपराहतिमाशङ्क्य परिहरति- प्रयोजनमित्यादिना ताच्छील्यार्थकतृन्नन्तप्रयोग इत्यन्तेन ॥ तदनुसन्धानेऽपीति ॥ प्रयोजनानु-सन्धानेऽपीत्यर्थः । तदिति ॥ नियमनमित्यर्थः । यन्तेति तृन्प्रत्ययः ‘आ क्वेस्तच्छीलतद्धर्म-तत्साधुकारिषु’१ इत्यधिकारात् ‘तृन्’२ इति सूत्रेणेति द्रष्टव्यः३ । ननु यन्तेति ताच्छीलिक-तृन्नन्तशब्दसामर्थ्यात् प्रयोजनानुसन्धानं विनाऽपि नियन्तृत्वज्ञापनसम्भवेऽपि स्वतन्त्रप्रमाणं विना अनुमानमात्रेण न प्रयोजनानुसन्धानरहितस्य चिच्चेत्यनियमनानुकूलप्रवृत्तिसिद्धिरित्यत आह- तथा च श्रुतिरिति ॥ यद्यपि-

देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा ।४

इति श्रुत्युपन्यासं विनैवोक्तप्रतिकूलतर्कखण्डनं सुशकम् । तथा हि, ‘प्रयोजनमननुसन्धन्न५ नियच्छेत्’ इति तर्कप्रतिपादकवाक्ये प्रयोजनशब्दः किमिच्छामात्रविषयवचनः किं वा स्वसमवेत-सुखदुःखाभावतत्साधनरूपेच्छाविशेषविषयवचनः । नाऽद्यः । अपर्याप्तशक्तित्वाद्यनुमानेन चिच्चेत्यनियन्तृतया सिद्ध्यतो रमापतेर् ज्ञानेच्छादिमत्त्वावश्यम्भावेन तदिच्छायाः सङ्कोचकाभावेन सर्वविषयतया तज्ज्ञानस्यापि तद्विषयत्वेन तदनुसन्धानवत्त्वाविरोधात् । न हि तादृशप्रयोजन-शब्दार्थगोचरज्ञानरूपानुसन्धानमीश्वरस्य पूर्णत्वविघातकम् । न द्वितीयः । परमकारुणिकस्य स्वसमवेतसुखादिकमनिच्छतोऽपि परदुःखप्रहाणोपाये नियन्तृत्वदर्शनेन व्यभिचारात् । न हि कस्यचित्कारुणिकस्य परदुःखानुसन्धानप्रयुक्तस्वदुःखनिवारणार्थं तदुपाये प्रवृत्तिरस्तीत्येतावता सर्वस्यापि तथा प्रवृत्तिः । अनुभवविरोधादिति ॥ तथापि तत्वनिर्णिनीषुकथारूपे ग्रन्थे स्वतःप्रमाणभूतश्रुत्युपन्यास आवश्यक इति प्रदर्शनाय तदुदाहरणमिहेति द्रष्टव्यम् ।

सर्वत्राखिलसच्छक्तिर् इति श्लोकस्योत्तरार्धेनैव स्तुतिरूपमङ्गलतन्निबन्धनयोः स्तुत्ये रमापतौ प्रमाणज्ञापनस्य च सिद्धत्वात्तत्र पूर्वार्धस्य वैयर्थ्यमित्याशङ्क्यातादृशेति पदोपस्थाप्याभावरूप-हेतुप्रतियोग्युपस्थापकत्वेन उपस्थितहेतूनां पक्षधर्मताबलादीदृशोऽर्थो लब्ध इत्यर्थविशेषोप-स्थापकत्वेन च सार्थक्यं वक्तुमाह- न चेति ॥ चिच्चेत्यनियन्तृतायां रमापतौ रमापतित्वादि-रूपासाधारणधर्मवत्त्वमात्रस्य प्रयोजकत्वे रुद्रादिष्वपि तर्हि रुद्रत्वाद्यसाधारणधर्मवत्त्व-स्याविशिष्टतया तत्र प्रयोजकत्वं किं न स्यादिति शङ्कार्थः । न तत्रासाधारणधर्मवत्त्वमात्रं प्रयोजकमस्माभिरुच्यते येनातिप्रसङ्गः स्यात् । अपि तु सर्वकार्यानुकूलाप्रतिबद्धशक्तित्वादि-रूपविशेषवत्त्वमिति परिहारार्थः । शक्तेः शक्यरूपविषयाकाङ्क्षायां सर्वत्रेत्यनेनैव तद्विषय-समर्पणादखिलेति व्यर्थम् । अखिले चिच्चेत्यरूपसर्वविषये सती प्रतिबन्धादिदोषरहिता शक्तिर्यस्येति विगृह्य समासे च व्यधिकरणबहुव्रीहिप्रसङ्गः । न चेष्टापत्तिः । ‘समानाधिकरणानां बहुव्रीहिरिष्यते’ इति वचनविरोधादित्यत आह- अखिला पर्याप्तेति ॥ न चैवमपि लक्षणादोषप्रसङ्गः । अखिलशब्दस्य सर्वशब्दपर्यायत्वेन सामस्त्यार्थकतया शक्तेश्च सामस्त्यं सकलकार्यानुकूलत्वमेव पर्यवस्यतीति तदेव पर्याप्तत्वमिति न लक्षणादोषप्रसङ्ग इति भावः । स्वेच्छाधीनप्रवृत्तिरिति ॥ स्वेच्छामात्राधीनप्रवृत्तिरित्यर्थः । प्रवृत्तेश्च तदधीनत्वं तन्नियतत्वमेवेति न काऽप्यनुपपत्तिरिति ध्येयम् । अत एव न्यायनये द्रव्यत्वादिजातेर् गुणवत्त्वाद्यधीनत्वोक्तिः । मायावादमते अनादि-जीवब्रह्मविभागस्याविद्याधीनत्वोक्तिश्चेति । तदधीनत्वं स्वरूपसम्बन्धविशेष इत्यपि केचित् । अत एव लोके १भूतधराद्यात्मकराष्ट्रस्य राजाद्यधीनत्वोक्तिः । नन्वशेषदर्शन इत्यत्र अशेषे तद्विषये दर्शनं यस्येति व्यधिकरणबहुव्रीह्याश्रयणायोगाद् अशेषं दर्शनं यस्येति समानाधिकरणबहुव्रीह्याश्रयणे च रमापतिज्ञानस्यैकत्वेनाशेषशब्दानर्थक्यात् समासानुपपत्तिमाशङ्क्याशेषशब्दस्य लक्षणया अशेष-विषयपरत्वमभिप्रेत्य लक्षणाबीजं मुख्यार्थसम्बन्धं वदन्नेव समानाधिकरणबहुव्रीहिमभिप्रेत्याऽह- अशेषविषयत्वादशेषमिति ॥

ननु सर्वत्राखिलसच्छक्तिरित्यादिविशेषणत्रयं ‘चिच्चेत्ये केनचिन्नियते’ इति साध्यसाधनोप-योगिहेतुभूताभावप्रतियोग्युपस्थापकत्वेन सार्थकमित्ययुक्तम् । तादृशभिन्नत्वरूपस्य तादृशत्वा-भावरूपस्य वा हेतुत्वेनाभिमतस्य साध्यरहिते अत्यन्तासत्यपि सत्त्वात् । न चातादृशशब्देन सर्वनियमनानुकूलाप्रतिबद्धशक्तिमद्भिन्नत्वे सति शक्तिमत्त्वस्य स्वेच्छामात्राधीनप्रवृत्तिमद्भिन्नत्वे सति प्रवृत्तिमत्त्वस्य अशेषदर्शनभिन्नत्वे सति ज्ञानवत्त्वस्य च विवक्षितत्वान्न दोष इति वाच्यम् । अनुमानप्रवृत्तेः पूर्वं तादृशेश्वरासिद्ध्या प्रतियोग्यप्रसिद्धेस्तदन्यत्वरूपहेतुविशेषणासिद्धेः । द्वितीयतृतीयहेत्वोश्चेत्यंशे विशेष्यासिद्धेश्चेति चेद् अत्राऽहुः । न तावत् प्रतियोग्यप्रसिद्धि-प्रयुक्तविशेषणासिद्धिर्दोषः । विशेषणसूचितागमैरेव तत्सिद्धेस्तदनवकाशात् । न चैवमनुमान-वैफल्यम् । प्रमाणसम्प्लवस्य दार्ढ्यहेतुत्वेनानुमानोपन्यासावैयर्थ्यात् । अनुमानेनापीश्वरबुभुत्सुं प्रति तदुपन्याससार्थक्योपपत्तेश्च । नापि द्वितीयतृतीयहेत्वोर्भागे विशेष्यासिद्धिर्दोषः । प्रवृत्तिशब्देन व्यापारमात्रस्य ज्ञानवत्त्वशब्देनानिषेध्यत्वेन २मितिविषयत्वस्य च विवक्षितत्वादिति ।

श्रीवेदेशतीर्थ

कथमनेनानुमानमुक्तमित्यत आह- इदमुक्तं भवतीति ॥ चिच्चेत्ये इति ॥ ननु किमत्र पक्षतावच्छेदकम् । न तावच्चित्त्वं चेत्यत्वं वा । ईश्वरस्यापि पक्षत्वापत्त्या बाधापत्तेर् एकसङ्ग्राहकाभावाच्च । नापीश्वरातिरिक्तपदार्थत्वेन पक्षता । ईश्वरस्यैवासिद्धौ तदतिरिक्तत्वस्यैव ज्ञातुमशक्यत्वादिति चेन्न । अस्वतन्त्रचित्त्वजडत्वयोरेव पक्षतावच्छेदकत्वात् । तन्नानात्वस्या-दोषत्वात् । यद्वाऽपर्याप्तशक्तिमत्त्वादिष्वेकस्य पक्षतावच्छेदकत्वमपरस्य हेतुत्वमित्युपपत्तिः । अपर्याप्तशक्तिमत्त्वादिपक्षतावच्छेदकावच्छिन्नं वस्तु चिच्चेत्यमिति तद्ग्रहणोपपत्तिरिति भावः । पक्षधर्मतामुपपाद्य व्याप्तिमप्याह- यच्चैवंविधमिति ॥ यथा रथादीति ॥ ननु रथादेरपि चेत्यत्वेन पक्षत्वात् कथं दृष्टान्तत्वमिति चेन्न । चेत्यत्वेन पक्षत्वेऽपि रथादित्वादिना दृष्टान्तत्वोपपत्तेः । लाघवेन निश्चितसाध्यवत्त्वमेव तन्त्रं सपक्षत्वे । न तु पक्षभिन्नत्वेनापि विशेषणीयम् । अत एव पृथिवी इतरभिन्नेत्यत्र घटस्यैव सपक्षत्वम् । ननु सन्देहसिषाधयिषादिघटिता पक्षता कथं निश्चितसाध्यवति रथादौ स्यादिति चेन्न । लिङ्गज्ञानजन्यप्रतीतिविषयसाध्यधर्मविशेषविशिष्टत्वस्य पक्षशब्दार्थत्वात् । साध्यधर्मविशिष्टः पक्ष इत्यत्र ‘यत्प्रतीतिर्लिङ्गेन जनयितव्या स साध्यधर्मः’ इति टीकायां व्याख्यातत्वात् । तथा च निरुक्तपक्षतायाः साध्यसमानधर्मविशिष्टत्वरूपसपक्षताया-श्चैकत्र सम्भवान्न दोष इति भावः । निगमयति- तदेताभ्यामिति ॥ अनेन चिच्चेत्ये केनचिन्नियते अपर्याप्तशक्तिमत्त्वाद् अस्वतन्त्रत्वाद् असर्वज्ञत्वाच्चेति प्रयोगो दर्शितः । ननु नित्यत्वमतादृशत्व-रूपहेतुविशेषणं नियन्तृत्वरूपसाध्यविशेषणं वा । नाऽद्यः । नीलधूमादिवद्व्यर्थविशेषणत्वात् । नान्त्यः । दृष्टान्ते साध्यवैकल्यात् । न हि रथादि सर्वदा केनचिन्नियम्यमित्यत आह- नित्येत्यतादृशत्वस्येति ॥ तथा च पक्षधर्मताबललभ्योऽर्थस्तथा पर्यवस्यतीति सूचयितुं नित्येत्युक्तमिति भावः । प्रकृतिनियततया साङ्ख्यानामिति ॥

वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य ।

१पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥२

इति तदुक्तेरिति भावः । कर्माधीनतया च मीमांसकानामिति ॥

ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डभाण्डोदरे

विष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कटे ।

रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः

सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ॥३

इति तेषां वचनादिति भावः । लोकदृष्ट्येति ॥ घटादेर्देवदत्ताद्यधीनत्वदर्शनादिति भावः । अन्योन्य-नियते भविष्यत इति ॥ तथा च परस्परनियततया सिद्धसाधनमिति भावः । प्रत्यासत्तेरेवेति ॥ तथा च प्रत्यासत्तिघटकत्वेनापि ईश्वरोऽङ्गीकार्य इति भावः । अपूर्ण इति ॥ यत्प्रयोजनार्थं नियमनं तदूनत्वादिति भावः । रुद्रादीनामिवेति ॥ तथा च रमापतिर्न चिच्चेत्ययन्ता चेतनत्वाद्रुद्रादिवदिति सत्प्रतिपक्ष इति भावः । न च भिन्नपक्षत्वात्कथं सत्प्रतिपक्ष इति वाच्यम् । विरोधिविषयकत्व-मात्रस्यैव प्रयोजकत्वेन पक्षाभेदस्याप्रयोजकत्वादिति भावः । पक्षधर्मताबलेनेति ॥ अपर्याप्तशक्ति-मत्त्वादीनां हेतूनां पक्षधर्मत्वे अपर्याप्तशक्तिमच्चिच्चेत्यनियामको हि नापर्याप्तशक्त्यादिमान् सिद्ध्यति । तथात्वे तस्यापि केनचिन्नियतत्वप्रसङ्गात् । अन्यथा तत्रैव व्यभिचारात् । किन्तु पर्याप्तशक्त्यादिमानेवेति भावः । पूर्णशक्त्यादिरूपेणैवेति ॥ तथा च प्रतिपक्षानुमाने अपूर्णशक्त्यादिमत्त्वमुपाधिरिति भावः । यदि स्वतन्त्रत्वं स्वसत्तादौ परानपेक्षत्वं तर्हि परसापेक्षत्वं केनचिन्नियतत्वे हेतूकर्तव्यम् । तथा च साध्याविशिष्टो हेतुरित्यत आह- स्वतन्त्रः स्वेच्छाधीनप्रवृत्तिरिति ॥ स्वेच्छामात्राधीनप्रवृत्तिरित्यर्थः । नित्याया अपि भगवत्प्रवृत्तेरिच्छाधीनत्वं न्यायमते द्रव्यत्वादिजातेर्गुणवत्त्वाद्यधीनत्ववन् मायिमतेऽनादिजीवब्रह्मविभागस्याविद्याधीनत्व-वच्चोपपन्नम् । नन्विदं स्वातन्त्र्यमसाम्प्रदायिकमिति चेन्न ।

‘स्वेच्छानुसारितामेव स्वातन्त्र्यं हि विदो विदुः ।’१

इति अनुव्याख्यानेऽभिधानादिति भावः ।

द्वैतद्युमणि

अत्रास्वतन्त्रापर्याप्तशक्तित्वादीनामेकस्य पक्षतावच्छेदकत्वे परस्य हेतुत्वमिति बोध्यम् । हेतूनां पक्षधर्मताबलेनेति ॥ व्याप्तिविशिष्टहेतोः पक्षसत्त्वस्य यद् बलं नियामकं पूर्णशक्त्यादिकं विना स्वसत्त्वायोगरूपानुपपत्तिप्रतिसन्धानविषयत्वं तस्मादित्यर्थः । अयं भावः । व्याप्तिविशिष्टस्य हेतोः पक्षवृत्तित्वं यादृशसाध्यं विनाऽनुपपन्नत्वेन गृह्यते व्यापकतावच्छेदककोट्यप्रविष्टमपि तद्रूपमनुमितौ साध्ये भासते । यथा वह्निव्याप्यधूमस्य पर्वते सत्त्वं महानसीयत्वादिशून्यवह्निं विनाऽनुपपद्यमानत्वेन गृह्यमाणं महानसीयादिवह्निभिन्नवह्निमानिति अनुमितिं सम्पादयति । एतदेव इतरबाधसहकारेण परामर्शो व्यापकतावच्छेदकत्वेनागृहीतधर्मं साध्ये अवगाहमानामनुमितिं जनयतीति नवीना निष्कर्षयन्ति । तथाऽल्पशक्तित्वादिविशिष्टनियम्यत्वमनवस्थान्योन्याश्रयादिबाधकेनास्वतन्त्र-त्वादिरूपपक्षतावच्छेदकावच्छेदेन न घटत इति बाधसहकृतपरामर्शेन पूर्णशक्तित्वादिविशिष्ट-किञ्चिन्नियम्यमित्येवानुमितिर्जायते । अतो न पूर्वोक्तरीत्याऽर्थान्तराद्यवकाश इति भावः ।

‘कृष्णं द्रक्ष्यन् याति’ इत्यादौ दर्शनेच्छागमनयोः समानकालिकत्ववदत्रापि ‘पक्षधर्मताबलेन सिध्यन् पूर्णशक्त्यादिमानेव सिद्धः’ इत्यत्र सिद्धिद्वयस्य समानकालिकत्वं लब्धम् । ज्ञानद्वयस्य यौगपद्यायोगादेकस्यैव स्वसमानकालिकत्वस्य वक्तव्यतयाऽनुमितेरेव पूर्णशक्त्यादिविषयकत्वलाभ इति ज्ञेयम् ।

श्रीराघवेन्द्रतीर्थ

चिच्चेत्ये केनचिन्नियते १अपरिपूर्णशक्तित्वाद् बलवन्नियतदुर्बलवत् । अस्वतन्त्रत्वात् २भृत्यभार्यावत् । अल्पज्ञत्वात् पुत्रशिष्यादिवदिति ३सामान्यपरिशेषाभ्यां रमापतिसिद्धिरित्यभिप्रेत्य हेतूनां कथं पक्षधर्मतादीत्यतोऽतादृशेत्यनेनोक्तं व्यनक्ति- इदमुक्तं भवतीत्यादिना ॥ आदिना हिता-करणाहितकरणकृत्स्नप्रसक्त्याद्यनुमानम् ‘अल्पशक्तिरसार्वज्ञ्यम्’ इत्याद्यागमश्च ग्राह्यः । प्रत्यक्षा-देरन्यथोपपत्तिशङ्काव्युदासायानुकूलतर्कमाह-अन्यथेति ॥ पर्याप्तशक्त्यादिमत्त्व इत्यर्थः । दुःख-निवृत्त्यारब्धकार्यसिद्ध्यादिरादिपदार्थः । हेतूनां साध्येन व्याप्तिं दर्शयति- यच्चैवंविधमिति ॥ अपर्याप्तशक्त्यादिमदित्यर्थः । नियतं व्यापारेषु प्रेरितमित्यर्थः । पक्षे निगमयति- तदिति ॥ व्याप्ति-मद्धेतुमत्त्वात् । एताभ्यां चिच्चेत्याभ्यामित्यर्थः । एवं सामान्यानुमानैः ‘जनयन् देव एकः’ इत्यागमलाघवतर्काभ्यामनुगृहीतैर् नियन्तुरेकस्य सिद्धौ स क इत्याकांक्षायां ब्रह्मादेश्चित्पदेन पक्षनिक्षेपाद् ब्रह्मरुद्राद्यन्यो रमापतिरेव परिशेषात्सिद्ध इति भावेनोक्तम्- यश्चैतन्नियन्ता स भगवान् रमापतिरिति । ‘को नाम लोके भगवत्पदार्थः’ इत्यादिवचनसूचनाय भगवानित्युक्तिः। रमेति विशेषणमतन्त्रम् । हरिरित्यत्रैव तात्पर्यम् । विशेषणेऽनुमानासामर्थ्यात् । इतिपदस्येदमुक्त-मित्यनेनान्वयः । स्वरूपसङ्कीर्तनमिति । हेतौ व्यावर्त्याभावात् साध्ये च तद्रूपेणानुमित्यर्थतया ज्ञानचिकीर्षाकृतिमज्जन्यमित्यत्रैवोपरञ्जकविशेषणमित्यर्थः । लोकदृष्ट्येति । घटादिजडस्य जीव-चेतनाधीनत्वेन दर्शनादिति भावः ।

अन्धपङ्गुन्यायेनेति । अन्धपङ्गू द्वावपि प्रत्येकमभिमतदेशं प्राप्तुमसमर्थावपि पङ्गुरन्धस्कन्धमारुह्य मार्गं प्रदर्शयति चेत्तदाऽन्धः स्वयं पादचारेण गच्छति । तदोभावप्यभिमतदेशमन्योन्याधीनतया प्राप्नुतः । तथा चिच्चेत्ये अपि अन्योन्याधीनतया स्वस्वव्यापारं कुरुताम् । तथा चाप्रयोजका हेतव इति शङ्कार्थः । अन्धपङ्ग्वोरन्योन्यमेलने ह्येवं भवति । अन्धो हि पङ्गुपार्श्वं गन्तुं मार्गदर्शनार्थं पङ्गुमपेक्षते । पङ्गुरप्यन्धसमीपमाप्तुं तदीयपादचारमपेक्षते । अतस्तयोर् मेलकस्य पटुकरणस्या-न्यस्याभावे मेलनविषयेऽन्योन्याश्रयेण मेलनायोग इव चिच्चेत्ययोः प्रत्यासत्तेरेवायोगः । दूरे तदधीनाऽभिमतगतिसिद्धिरित्येवकारार्थः१ । चिच्चेत्ये केनचिन्नियते इति प्रागुक्तानुमानस्य नियमनायोगरूपतर्कपराहतिमाशङ्क्य निराह- प्रयोजनमिति ॥ अयं नियन्तृत्वेनाभिमतो न नियच्छेद् व्यापारेषु प्रेरणां न कुर्यात् । अपूर्णः स्यादिति । तथा च चैत्रादेरिव नियन्तृत्वायोग इति भावः । एष इति । ‘इषु- गतौ’ भावे घञन्तम् । एषः= नियमनादिरूपोऽयं व्यापारः देवस्य स्वभावः । जीवानां निमेषादिरिवेत्यर्थः । सम्भावितोऽर्थो हेतुभिस्साधनीयः । सामान्यपरिशेषाभ्यां सिद्ध्यतोऽपि हरेर्नियम्यतुल्यतया तन्नियमनमसम्भावितमित्याशङ्क्य २नियम्यविशेषसिद्ध्या नियमनस्य सम्भावितत्वमाह - न चेति ॥ ३तथा च रमापतिर्न चिच्चेत्ययन्ता चेतनत्वाद् रुद्रादिवदिति । सत्प्रतिपक्ष इत्यर्थः । न च भिन्नपक्षकत्वात् कथं सत्प्रतिपक्ष इति वाच्यम् । विरोधिविषयकत्वमात्रस्यैव प्रयोजकत्वेन पक्षाभेदस्याऽप्रयोजकत्वादिति भावः । हेतुगर्भं विशेषण-त्रयमिति भावेनाऽह- यतोऽसाविति ॥ तथा च प्रतिपक्षानुमानेऽपूर्णशक्तिमत्वादिकमुपाधिरिति भावः४ । यथा क्षित्यादिनिष्ठकार्यत्वहेतुबलेन सार्वज्ञ्यादिमान् सिद्ध्यति तथेति भावः । स्वतन्त्र-पदस्य स्वनियम्यत्वं शब्दशक्तिलभ्योऽर्थः । स च चिच्चेत्ययन्तेत्यत्रेव भेदघटितः । वक्ष्यति च नियम्यनियामकभावस्येत्यादि । न चेश्वरे भेदोऽस्तीत्यतः फलितार्थमाह । यदि स्वतन्त्रत्वं स्वसत्तादौ परानपेक्षत्वं तर्हि परसापेक्षत्वं केनचिन्नियतत्वे हेतूकर्तव्यम् । तथा च साध्याविशिष्टो हेतुरित्यत आह५- स्वेच्छेति ॥ तादृशे लोके स्वतन्त्रपदप्रयोगात् ।

‘स्वेच्छानुसारितामेव स्वातन्त्र्यं हि विदो विदुः ।’

इति समयपादीयानुव्याख्यानोक्तेश्चेति भावः । इतिशब्दः श्लोकव्याख्यानसमाप्तौ ।

गुरुराजीया

नन्वभिप्रेतानुमाने चिच्चेत्यरूपे पक्षे अतादृशत्वहेतोरसिद्ध्या पक्षधर्मत्वासिद्धिः । दृष्टान्ताभावेन व्याप्त्यग्रहणाद्व्याप्यत्वासिद्धिः । केनचिन्नियतत्वसिद्धावपीश्वरनियतत्वासिद्ध्येश्वरा-सिद्धेरनुमानेनेश्वरसिद्धिरिति प्रतिज्ञाहानिश्चेत्येताः शङ्काः परिहरन्ननुमानप्रकारं सूचयितुमाह- इदमुक्तं भवतीति ॥ अस्य च रमापतिरिति इति वक्ष्यमाणेनेतिशब्देनान्वयः । तथा च श्रुति-रिति ॥ देवस्य अयं जगत्सृष्ट्यादिविषयः । एष इच्छापूर्विका प्रवृत्तिरिति यावत् । स्वभाव एव, न प्रयोजनाय । कुतः ? आप्तकामस्य प्रयोजनस्पृहाऽसम्भवादित्यर्थः । ‘अयमेष इयमिच्छा’ इति गीताभाष्यटीकाया अप्ययमेवार्थः । परतन्त्रताव्यावृत्तिरेव स्वातन्त्र्यमिति भ्रमनिरासाय-

स्वेच्छानुसारितामेव स्वातन्त्र्यं हि विदो विदुः ।

इत्यनुव्याख्यानानुसारेण स्वतन्त्रशब्दार्थमाह- स्वतन्त्र इति ॥ न च भगवदिच्छाधीनप्रवृत्तित्वस्य रमाब्रह्मादावपि सत्त्वात् तत्रापि प्रसङ्ग इति वाच्यम् । स्वपदस्य समभिव्याहृतपरत्वेन भगवत्परत्वाभावात् । रमाब्रह्मादेश्च स्वतःशक्तिमात्रशून्यत्वेन स्वेच्छाधीनप्रवृत्तित्वानुपपत्तेः । ‘यत्स्वसत्तादौ स्वाधीनं न तु परापेक्षम्’ इत्यादिटीकाकारीयोक्तिस्तु विशेषे विवदमानं प्रति परानधीनत्वमेव लक्षणमस्त्वित्यभिप्रेत्यैव । न तु स्वाधीनत्वस्य रमादिसाधारणत्वेन लक्षणत्वानुप-पत्त्या तद्विवरणमेतदित्यभिप्रेत्य । तथा सति- ‘स्वेच्छानुसारितामेव स्वातन्त्र्यं हि विदो विदुः ।’ इत्यनुव्याख्यानेन, ‘अत एव स्वतन्त्र इत्यस्य परतन्त्रताव्यावृत्तिरर्थ इत्ययुक्तम्’ इति निरवकाशटीकाकारीयतत्वनिर्णयग्रन्थेन च विरोधप्रसङ्गात् । देशस्य सर्वगतत्ववत् कालस्य कालसम्बन्धवच्च ईश्वरस्यापि विशेषबलेन स्वेच्छाधीनप्रवृत्तिरूपस्वाधीनत्वसम्भवाच्चेत्यवधेयम् ।

यत्तु स्वातन्त्र्यस्य स्वसत्तादौ परानपेक्षत्वरूपत्वेन तदभावरूपपरापेक्षत्वस्यैव केनचिन्नियतत्वे हेतूकर्तव्यत्वात् साध्यावैशिष्ट्यशङ्कापरिहारायेदं व्याख्यानमिति तन्न । स्वसत्तादौ परानपेक्षत्वस्य स्वतन्त्रशब्दमुख्यार्थत्वाभावेन तमादाय साध्यावैशिष्ट्यशङ्काया अनुचितत्वात् । अन्यथा अनुमानमात्रविलयापातात् । अमुख्यार्थमादाय साध्यावैशिष्ट्यशङ्कायाः सर्वत्र सम्भवादित्यास्तां तावत् ।

गोविन्दीया

यन्तेति ॥ तृजन्तत्वे प्रयोजनमुद्दिश्य नियमनं करोतीत्यर्थलाभात् ‘चिच्चेत्ये केनचिन्नियते अपर्याप्तशक्तिमत्त्वात्, यथा रथादि’ इत्यनुमानस्य तर्कपराहतिदोषप्रसवात् ताच्छीलिक-तृन्नन्तप्रयोग इत्यर्थः । कथञ्चिदिति ॥ कतिपयचिच्चेत्ययन्तृतोपपत्तिरित्यर्थः । पक्षधर्मताबलेनेति ॥ पक्षे विद्यमानत्वरूपधर्मस्य बलेनेत्यर्थः ।

जनार्दनभट्टीया

मूले ‘यन्तेष्टो नो रमापतिः’ इति निर्देशबलेन रमापतिपक्षकानुमानं प्रतीयते । तच्चासङ्ग-तम् । ‘रमापतिरूपपक्षसिद्ध्यनन्तरमनुमानप्रवृत्तिः, अनुमानप्रवृत्त्यनन्तरं रमापतिसिद्धिः’ इत्यन्योन्याश्रयादित्यत आह – इदमुक्तमिति ॥ उपनयं सूचयति – तदिति ॥ निगमनं दर्शयति – एताभ्यामिति ॥ ननु रथादेश्चैत्यरूपपक्षान्तर्गतस्य कथं सपक्षत्वम्? इति चेन्न । अपर्याप्तशक्त्यादिमत्तया प्रत्यक्षसिद्धत्वे सत्यस्मदाद्यप्रत्यक्षनियन्तृकजीवजडराशेरेव पक्षतया विवक्षितत्वेन रथादेरनेवंविधत्वेन सपक्षत्वे बाधकाभावात् । नन्वेवं चिच्चेत्ये इति टीकायां प्रतिज्ञानिर्देशानुपपत्तिरिति चेन्न, तस्यापि निरुक्तपक्षतावच्छेदके तात्पर्यात् । दृश्यते खलु ‘पर्वतो वह्निमान्’ इति सामान्यप्रतिज्ञायाः पर्वतत्वस्य निर्वह्निपर्वतसाधारणतया धूमवत्पर्वतत्वे वा एतत् पर्वतत्वे वा पक्षतावच्छेदके तात्पर्यम् । पर्वतमात्रस्य पक्षत्वे बाधादिति । सम्मतं चैतत् कर्तव्यहेतुर्यावति तावत एव पक्षत्वमभिमतम् । अतो नांशतो बाधादीति वदतां मणिटीकाकृतामपि । १प्राञ्चस्तु ‘सर्वा पृथिवी इतरभिन्ना पृथिवीत्वात्’ इति व्यतिरेकिणि घटत्वेन रूपेणेतरभेदस्य घटे सिद्धत्वाद् यथा घटस्य घटत्वेन रूपेण दृष्टान्तत्वं तथेहापि रथादेश्च्चेत्यत्वेन रूपेण पक्षत्वेऽपि रथत्वादिना रूपेण सपक्षत्वं न विरुद्धम् । तेन रूपेण केनचिन् नियन्तृत्वरूपसाध्यस्य सिद्धत्वाद् इत्याहुः । नन्वेतावता नियन्तृत्वमात्रसिद्धावपि रमापतिसिद्धौ किमायातम्? इत्यत आह– यश्चेति ॥ रुद्रादेर्नियम्यकोटिप्रविष्टत्वेन तमादाय साध्यापर्यवसानादिति भावः । प्रत्यासत्तेरेवेति ॥ मेलकस्वतन्त्रपुरुषाभावे अस्वतन्त्रयोरेकदेशमेलनरूपप्रत्यासत्तेरेवायोगादिति भावः । किं वक्तव्यं परस्परनियतत्वं सम्भवति? इत्येवकारार्थः । इति तर्कपराहतीति ॥ चिच्चेत्ये केनचिन्नियते इत्यनुमानस्येत्यर्थः । ताच्छीलिकेति ॥ तच् चिच्चेत्यनियमनं शीलमस्येत्यर्थको यस्तृन्प्रत्ययस्तदन्तयन्तृशब्दप्रयोग इत्यर्थः । देवस्येति ॥ एष स्वभाव इच्छा स्वभाव इत्यर्थः । अतो ऽयम् इत्यनेन न पौनरुक्त्यमिति ज्ञातव्यम् । कथञ्चिदिति ॥ रुद्रादीनां महदाद्यतिरिक्त-यत्किञ्चिदहङ्कारतत्वादिमात्रनियन्तृत्ववद् रमापतेरपि यत्किञ्चज्जडनियन्तृत्वोपपत्तौ प्रतिज्ञाया अर्थान्तरत्वं दूषणम् । पूर्णशक्त्यादिविशिष्टरमापतिसाधनस्यैव प्रकृतसङ्गतत्वात् । पक्षस्य च कृत्स्नत्वादिना अविशेषितत्वादिति भावः । पक्षधर्मताबलेनेति ॥ समुचितदेशसिद्धिबलेनेत्यर्थः । पूर्णशक्त्यादिरूपेणैवेति ॥ न ह्यपर्याप्तशक्तिजडनियन्तृत्वं पर्याप्तशक्तेरेव भवति । नियम्यनियामकयोरविशिष्टत्वादिति भावः । यद्यपि ‘स्वस्य तन्त्रः स्वतन्त्रः’ इति व्युत्पत्त्या स्वाधीनत्वं वा लोकरूढ्या अनन्याधीनत्वं वा स्वतन्त्र-शब्दार्थः । तस्य च रमापतेश्चिच्चेत्यनियमनविषये उदासीनत्वेऽप्युपपत्त्या नियामकत्वानुपपादकतया तदुपपादनार्थं विवक्षितं स्वतन्त्रशब्दार्थमाह – स्वेच्छाधीनेति ॥ जगन्नियन्तुमिच्छति । प्रयतते च । अतश्चिच्चेत्यनियामकत्वं रमापतेरुपपद्यत इति भावः । ‘स्वेच्छाधीना’ इत्यत्र स्वशब्देनास्मदादीनां विष्टिगृहीतानां च निरासः । अशेषं दर्शनं यस्यासौ इति विग्रहवाक्यगतस्य अशेषपदस्याशेषजडाद्यात्मकमित्यर्थप्रतीतिं निरस्यति – अशेषविषयत्वा-दिति ॥ विषयविषयिणोरभेदोपचार इति भावः ।

नारोपन्तीया

देवस्यैष स्वभावोऽयमिति । देवस्य क्रीडादिगुणविशिष्टस्य अयं जगत्सर्जनादिः, स्वभावः, एष इच्छारूपः । ‘इषु- इच्छायाम्’ इत्यस्माद्भावे घञ् । अथवा देवस्यायमेष इयं जगत्सर्जनादिविषयेच्छा स्वभाव एवेति । यद्वा- आसमन्तादिच्छतीत्यसावेट् । तस्यैषः सर्व-विषयेच्छावतो देवस्यायं जगत्सर्जनादिः स्वभाव एवेत्यर्थः । अथवा देवस्यायं जगत्सर्जनादिस्वभाव एष एव देव एव स्वरूपात्मक एवेत्यर्थः । यद्वा अयमिति द्वितीयान्तमयशब्दस्य रूपम् । देवस्यैष उक्तस्वभावः जगतामयं कल्याणम्, उद्दिश्येति शेषः । ‘अयः शुभावहो विधिः’ इत्यभिधानात् । ननु स्वेष्टमुद्दिश्य कुतो न भवतीत्यत आह– आप्तकामस्येति ॥ आप्तेष्टस्य का स्पृहेत्यर्थः । यद्वा- अयमाप्तकामस्येकं पदम् । ततश्चायमर्थः - एषः जगत्सर्जनादिकर्तृत्वगुणः स्वभाव एव देवस्य न तु स्वप्रयोजननिबन्धनो व्यापारः । कुत इत्यत उक्तम् अयमाप्तकामस्येति । अयमा असदृशा आप्ताः कामा येनासौ अयमाप्तकामः । तस्य का स्पृहा ? न काऽपि । इतरसाधारणवैभवलाभो हि तदुत्कृष्टं कामयेत नाम, यस्तु सर्र्वोत्कृष्टाद्वितीयवैभवसम्पन्नः स किं कामयेतेति भावः ।