३६ अस्वतन्त्रजगतः सृष्ट्यादिविषये विष्ण्वायत्तत्वकथनम्

विष्णुनाऽस्य समस्तस्य समासव्यासयोगतः

अस्वतन्त्रजगतः सृष्ट्यादिविषये विष्ण्वायत्तत्वकथनम्

टीका

यदीदं विष्णुव्यतिरिक्तं भावाभावादिभेदभिन्नं जगदस्वतन्त्रं तर्हि कस्मिन्नायत्तं कस्मिंश्च विषये ? इत्याकाङ्क्षायामाह ॥ सृष्टि इति ॥

तत्वसङ्ख्यानम्

सृष्टिः स्थितिः संहृतिश्च नियमोऽज्ञानबोधने ॥ ११ ॥

बन्धो मोक्षः सुखं दुःखमावृतिर्ज्योतिरेव च ।

विष्णुनाऽस्य समस्तस्य समासव्यासयोगतः ॥ १२ ॥

नियमो व्यापारेषु प्रेरणम् । बन्धः प्रकृतेः । मोक्षो बन्धात् । आवृतिर् ज्योतिषी बाह्यतमप्रकाशौ । एवकारो विष्णुनेत्यनेन सम्बद्ध्यते । अस्य समस्तस्यास्वतन्त्रस्य भवन्तीति शेषः ।

नन्वेतत्पूर्वविरुद्धम् । समस्तस्य सृष्टिसंहारोक्तौ नित्यत्वोक्तिविरोधः । अचेतनस्य बोधविरोध इत्यादि । तत्रोक्तं समासेति । समासः सङ्क्षेपः व्यासो विस्तारस् तावेव योगौ उपायावुक्तार्थघटनायां ततः । इदमुक्तं भवति । उक्तधर्मेषु यत्र तत्वेऽल्पीयांसः सम्भवन्ति तत्र तावन्तो विष्ण्वधीना ज्ञातव्याः । यत्र तु बहवस्तत्र तावन्तः । सर्वथा स्वरूपस्वभावावस्य तदधीनाविति । तत्र स्थितिनियमौ सर्वस्य । सृष्टिसंहृती नित्यानित्यस्यानित्यस्य च । अज्ञानं भावरूपं दुःखस्पृष्टस्य । ज्ञानाभावस्तु सर्वस्य । बोधनं चेतनस्य । सुखं प्राप्ततमसो विना । दुःखं दुःखास्पृष्टं विनेत्यादि द्रष्टव्यम् । पदार्थानां सृष्ट्याद्यन्यतोऽपि प्रतीयते अत एवेत्युक्तम् । सकलसत्तादेस्तदधीनत्वात्तत्तद्वस्तु निमित्तमात्रमेव । स्वातन्त्र्येण विष्णुरेवास्येश्वर इति ।

तत्वसङ्ख्यानटीकाभावदीपः

॥ आयत्तमिति ॥ अधीनतयाऽऽस्त इत्यर्थः ॥ विषय इति ॥ आयत्तमित्यनुषङ्गः । सृष्ट्यादेः प्रसिद्धत्वादन्येषामर्थमाह ॥ नियम इति ॥ अत्र सृष्टिपदेन स्रष्टृनिष्ठव्यापारवाचिना जगन्निष्ठजन्मग्राह्यम् । स्थितिरन्नादिदानेन रक्षणम् । संहृतिर्ध्वंसः । पूर्वविरुद्धतां व्यनक्ति ॥ समस्तस्येति ॥ इत्यादीति ॥ अचेतनस्य बन्धमोक्षसुखदुःखाज्ञानविरोध इत्यादिपदार्थः । मोक्षो बद्धस्य ॥ इत्यादि द्रष्टव्यमिति ॥ आवृतिज्योतिषी सर्वस्येत्यादिपदार्थः ॥ अन्यतोऽपीति ॥ ब्रह्मादितोऽपीत्यर्थः ॥ तत्तद्वस्त्विति ॥ ब्रह्मादिवस्त्वित्यर्थः । यद्वा देशकालादिवस्त्वित्यर्थः । इत्यन्तेन तात्पर्योक्तिः ।

तत्वसङ्ख्यानटीकाटिप्पणी

भवतीति ॥ घटत इत्यर्थः । तथा च समासव्यासलक्षणोपायाद्विष्णुनैवास्य सर्वं घटत इत्युक्तं भवति ।

तत्वसङ्ख्यानविवरणं

क(स्मिन्नाय)स्यायत्तमिति । कस्याधीनमित्यर्थः । ‘‘अधीनो निघ्न आयत्त’’ इत्यभिधानात् । विषये आयत्तमिति वर्तते ॥ आहेति । सृष्ट्यादौ विषये विष्ण्वायत्तमाहेत्यर्थः । प्रकृतेरिति पञ्चमी । बाह्यतमो ऽन्धकाराख्यम् । बाह्यप्रकाश आलोकाख्यः । तथा चावृत्तिशब्देन बाह्यतमो ग्राह्यम् । ज्योतिश्शब्देन बाह्यप्रकाशो ग्राह्य इत्यर्थः ॥ भवन्तीति । तथा चास्य समस्तस्यास्वतन्त्रप्रपञ्चस्य सृष्ट्याद्या धर्मा द्वादशज्योतिरन्ता विष्णुनैव भवन्तीत्यर्थः ॥ नित्यत्वोक्तिविरोध इति । पञ्चाशद्वर्णाव्याकृताकाशयोरपि समस्तान्तर्गतत्वे तयोरपि सृष्टिसंहारापत्त्या नित्या वेदा इति नित्यत्वोक्तिविरोधः स्यादित्यर्थः । पदार्थान्वदन्नेव विग्रहं दर्शयति ॥ समास इति ॥

उक्तार्थघटनायामिति । समस्तप्रपञ्चविषयकसृष्ट्यादिरूपोक्तार्थस्य घटनायामित्यर्थः ॥ तत इति । तस्मात् समासव्यासयोगत इत्यर्थः । समासव्यासयोगत इत्युक्तया कथं शङ्कापरिहार इत्यत आह ॥ इदमुक्तं भवतीति । केचित् तत इदमुक्तं भवतीत्येकमेव वाक्यम् । तथा च समासव्यासलक्षणादुपायाद् इदं समस्तस्योक्तं सृष्ट्यादिकं भवति । घटते । उपपन्नमित्यर्थ इत्याहुः । समासव्यासप्रकारमेव दर्शयति ॥ उक्तधर्मेष्विति ॥ अज्ञानं भावरूपमिति । भावरूपाविद्येत्यर्थः ।

नन्वत्राज्ञानं ज्ञानाभावरूपमेव किं न स्यादिति चेत् । उच्यते । अनादिमायया सुप्त इत्यादिश्रुत्या अनाद्यविद्याबद्धत्वाज्जीवा जानन्ति नो हरिमित्यादिस्मृत्या चाविद्याया ज्ञानावरकत्वमुच्यते । आवरकत्वं चाभावस्य न युक्तमित्यावरकत्वान्यथानुपपत्त्या तस्य भावरूपत्वसिद्धिरिति ज्ञातव्यम् ।

अत्र प्रसङ्गात्किञ्चित्तत्वरहस्यमुच्यते । इयं च भावरूपाऽविद्या सत्वादिगुणात्मिका प्रकृतिरेव । तस्याश्चाविद्यात्वं स्वरूपज्ञानावरकत्वेन विद्याविरोधित्वात् । यथोक्तं सुधायाम् । अतः कामकर्मातिरिक्तं मायाऽविद्या प्रकृतिरित्यादिशब्दाभिधेयम् अनाद्येव किमपि द्रव्यं स्वरूपचैतन्यावरकमङ्गीकार्यमित्युक्त्वा अतः परमेश्वर एव सत्वादिगुणमय्या विद्याविरोधित्वेना विद्यया स्वाधीनया प्रकृत्याऽचिन्त्याद्भुतया स्वशक्तया च स्वप्रकाशमपि जीवस्वरूपचैतन्यमाच्छादयतीति युक्तमिति । इयं च भावरूपाविद्या लिङ्गशरीरमेवेति बहवस्तात्विकाः ।

तेषां स्पष्टः सुधाविरोधः । यथोक्तं सुधायां फलाध्याये कर्मक्षयपादे भगवदपरोक्षज्ञानभोगाभ्यां निवृत्तसमस्तकर्मणो भिन्नलिङ्गशरीरा विध्वस्तप्रकृतय इति । अत्र सत्वादिगुणात्मकप्रकृतिबन्धध्वंसात्पार्थक्येन लिङ्गशरीरभङ्गस्योक्तत्वात् ।

एवं च जीवस्वरूपस्य षडावरणानि । तथाहि । सत्वादिगुणात्मिका भावरूपाविद्या । बध्नन्ति नित्यदा मुक्तं मायिनं प्रकृतिं गुणा इति भागवतोक्तेः । तथा कामः । ‘‘आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा । कामरूपेण कौन्तेये’’ति गीतावचनात् । तथा कामनिबद्धोऽयमुच्चावचतया भ्रमन्निति भागवतोक्तेश्च । प्रारब्धकर्म ।

अनादिकर्मणा बद्धो जीवः संसारमण्डले ।

वासुदेवेच्छया नित्यं भ्रमतीति हि तद्वचः ॥

इत्यनुव्याख्यानोक्तेः । ‘‘सदा बद्धा इमे जीवा अविद्याकामकर्मभिरि’’ति वचनाच्च । स्वगुणाच्छादिक परमाच्छादिकरूपे द्वे दुष्टे प्रकृती

अथान्ये प्रकृती दुष्टे नृषु प्रातिस्विकं स्थिते ।

स्वगुणाच्छादिका त्वेका परमाच्छादिकाऽपरा ॥

इति प्रमाणोक्तेः । तथा लिङ्गशरीरम् ।

एवं पञ्चविधं लिङ्गं त्रिवृत्षोडशविस्तरम् ।

एष चेतनया युक्तो जीव इत्यभिधीयते ।

अनेन पुरुषो देहानुपादत्ते विमुंचतीत्यादि भागवतोक्तेः । स्पष्टं चैतत्सर्वमुक्तं प्रथमस्कन्धतात्पर्ये पञ्चदशाध्याये ।

प्रकृतिं स्वात्मसंश्लिष्टां गुणान् सत्वादिकानपि ।

कर्माणि सूक्ष्मदेहं च जायमाना हरेर्दृशिः ।

दहेदथापि सन्दग्धेन्धनवत्तत्पुनः पुनः ।

यावदारब्धकर्म स्यादाविर्वापि तिरोव्रजेदिति ।

व्याख्यातमेतदस्मदाचार्यैः । अत्र प्रकृतिशब्देन स्वगुणाच्छादिकादिरूपा दुष्टजडप्रकृतिरेव विवक्षिता । सत्वादिकान् गुणानपीत्युक्तया सत्वादिगुणरूपा जडप्रकृतिरपि भावरूपाविद्याख्या जीवस्वरूपाच्छादिकाऽस्तीति सूचयति । कर्माणि प्रारब्धानि । सूक्ष्मदेहं लिङ्गशरीरमिति । अत्राऽपिशब्देन वा चशब्देन वा कामोऽपि ग्राह्यः ।

इदमावरणषट्कमपरोक्षज्ञानभोगाभ्यां विनाश्यम् । कर्मातिरिक्तमावरणपञ्चकमपरोक्षज्ञानविनाश्यम् । प्रारब्धं कर्म च भोगविनाश्यम् । ज्ञानेन तूपमर्द इति ज्ञातव्यम् । ईश्वरेच्छापि पूर्वोक्त षट्कातिरिक्तं सप्तममावरणम् । परमेश्वरोऽचिन्त्याद्भुतया स्वशक्तया जीवस्वरूपचैतन्यमाच्छादयतीति सुधोक्तेः ।

तथा चापरोक्षज्ञानानन्तरमावरणषट्कानां दाहेऽपि दग्धपटायमानतयाऽविर्भावतिरोभावाभ्यामनुवृत्तानामेषां विरजास्नानेन निश्शेषनाशः । अनन्तरं प्रलये भगवदुदरे स्थित्वा बहुतरानन्दभोक्तॄणामेषां सृष्ट्यनन्तरं श्वेतद्वीपाविर्भावे सति तत्रत्यश्रीनारायणसन्दर्शनानन्तरमपरोक्षज्ञानोत्तरानुष्ठितं निवृत्तं कर्म निमित्तीकृत्य प्रसन्नो भगवान् स्वेच्छावरकमपसारयति । ततश्च यावत्स्वरूपानन्दाविर्भावो भवति । अत्र च बहुनात्र किमुक्तेनेति वाक्यं मानम् । स्वेच्छावरकान्न मुक्तः स्यादिति व्याख्यानात् । उक्तं च सुधायाम् । ‘‘आनन्ददश्च मुक्ताना’’मित्यत्र ।

ननु आनन्दः स्वरूपमेव स चाविद्यावृतोऽविद्यानिवृत्तौ स्वतस्सिद्ध एव । ततः कथं मोक्षदानात्पृथगानन्ददानम् । उच्यते । परमेश्वरशक्तिरेव जीवस्वरूपानन्दावरणं मुख्यम् ॥ अविद्या तु निमित्तमात्रम् । ततोऽविद्यायां निवृत्तायामपि नाशेषानन्दाभिव्यक्तिर्यावदीश्वर एव स्वीयां बन्धशक्तिं न ततो व्यावर्तयतीति । उक्तं च गीताभाष्यटीकायाम् । ‘‘नाविद्यैव जीवस्वरूपावरणम् । किं त्वीश्वरेच्छापी’’त्यादि । अत्राज्ञानशब्देन ज्ञानाभावोऽपि विवक्षित इत्याह ॥ ज्ञानाभावस्त्विति ॥ सर्वस्येति । परतन्त्रस्येत्यर्थः । रमाया अपि यावद्गुणगणविषयकज्ञानाभावसद्भावादिति भावः । एवकारस्य विष्णुनेत्यनेन सम्बन्धः पूर्वमुक्तः । तदभिप्रायमाह ॥ पदार्थानामिति । अन्यतो ब्रह्मादेः कुलालादेश्च सकाशादित्यर्थः ॥ प्रतीयत इति । आगमेन प्रत्यक्षेण चेत्यर्थः । तथाच विष्णुनैवेत्युक्तमयुक्तमिति भावः । विष्णुनैवेत्युक्तया कथं तत्परिहार इत्यत आह ॥ सकलेति । तत्तद्वस्तु ब्रह्मादि ॥ निमित्तमेवेत्यादि ।

निमित्तमात्रमीशस्य विश्वसर्गनिरोधयोः ।

हिरण्यगर्भः शर्वश्च कालाख्या रूपिणस्तव ।

तत्र तत्र स्थितो विष्णुस् तत्तच्छक्तीः प्रबोधयन् ।

एक एव महाशक्तिः कुरुते सर्वमञ्जसा ।

ब्रह्मणिस्थोऽसृजद्विष्णुः स्थित्वा रुद्रे त्वभक्षयत् ।

पृथक्स्थितो जगत्पाति तद्ब्रह्माद्याह्वयोहरि’’

रित्यादिप्रमाणबलादन्येषां निमित्तमात्रत्वम् ॥ स्वातन्त्र्येणान्यानपेक्षतया विष्णुरेवास्य समस्तस्य प्रपञ्चस्य सृष्ट्यादिविषये ईश्वरः समर्थ इत्यवगन्तव्य इत्यर्थः ।

तत्वसङ्ख्यानटिप्पणम्

एवं स्वतन्त्रास्वतन्त्रतत्वयोर्निरूपितत्वादुत्तरग्रन्थो व्यर्थ इत्यत आह ॥ यदीति ॥ कस्मिन्नायत्तं किमधीनम् । अधीनो निघ्न आयत्त इत्यमरः । कस्मिंश्च विषये आयत्तमिति वर्तते । सृष्टिः सर्जनम् । स्थितिः स्थापनम् । संहृतिः संहरणम् । प्रयोजकव्यापारवाचिनः शब्दास्तत्सम्बन्धाज्जगति प्रयोज्ये लक्षणया प्रवर्तंत इति चन्द्रिकोक्तेः । सृष्टिः स्थितिः संहृतिश्च नियमो ज्ञानेत्यादि श्रीमद्भाष्योदाहृताष्टकबोधकस्कान्दवचनेन च स्कन्नस्त्रिकादिकर्तृकतावाद इति ज्ञेयम् । नियमस्य विषयसापेक्षत्वादाह ॥ नियम इति ॥ नियमोऽयं त्रयाणां चेति विश्वः । बन्धः प्रकृतेः । पञ्चमीयं मोक्षावधिमभिधत्ते ॥ बन्धादिति ॥ प्राकृतात् । आव्रियते जनोऽनयेत्यावृतिर् बाह्यं तमोऽन्धकाराख्यम् । बाह्यं ज्योतिरालोकादिः । एवकारः ज्योतिरेव चेत्यत्रत्यः । अस्येत्यस्य अस्वतन्त्रस्येति विशेष्योक्तिः । अन्वयपूरणार्थमाह ॥ भवन्तीति शेष इति ॥ आहत्यैते भवन्तीत्यन्वयः ।

ननु न समस्तस्याप्यत्रोक्तद्वादशधर्मवत्त्वं सम्भवतीति शङ्कते ॥ नन्विति ॥ नित्यत्वोक्तिविरोधः नित्या वेदा इत्यत्र नित्यत्वस्य योक्तिस्तद्विरोध इत्यर्थः । बोधविरोध एतत्कारिकोक्तबोधविरोध इत्यर्थः । आदिना रमाया बन्धादिविरोधो ग्राह्यः । तत्र तच्छङ्काविषये । समासव्यासशब्दार्थावाह ॥ समास इत्यादिना ॥ समासस्तु सङ्क्षेपे च समर्थने । व्यासो मुनौ स्याद्विस्तार इति विश्वः ॥ योगावुपायाविति ॥ योग उपायः । दृष्टा योगाः प्रयुक्ताश्च पुंसां श्रेयःप्रसिद्धय इति भागवतप्रयोगप्रदर्शनपूर्वं गीताभाष्ये तथा व्याख्यातत्वादिति भावः । तदुपपादयति ॥ इदमुक्तं भवतीति ॥ उक्तधर्मेषु सृष्टिस्थितीत्याद्युक्तद्वादशधर्मेषु । यत्र ये सम्भावितास्तत्र तावन्तो भगवदधीनाः । सर्वथा सर्वप्रकारेण । स्वरूपस्वभावौ अस्य विश्वस्य । तदधीनौ भगवदधीनौ । द्रव्यं कर्म च कालश्च स्वभावो जीव एव चेत्यादेः । क्व क्व कस्य कस्य समावेशः । सार्वत्रिकश्च क इत्यतो दर्शयति ॥ तत्र स्थिति नियमाविति ॥ सर्वस्य अस्वतन्त्रसामान्यस्य । सृष्टिसंहृती नित्यानित्यस्य पुराणादेरनित्यस्यासंसृष्टस्य संसृष्टस्य च ॥

अज्ञानं भावरूपमिति ॥ ज्ञानाभावरूपमेवाज्ञानमित्यज्ञाः । तदपाकर्तुं भावरूपमिति ॥ दुःखस्पृष्टस्य चतुर्मुखव्यतिरिक्तस्य । दग्धपटायमानत्वेन चतुर्मुखस्यापि भावरूपाज्ञानं कैश्चिदङ्गीकृतमिति सब्रह्मकस्य सर्वस्येति । अत्रार्थे मानानि तु सत्तत्वरत्नमालायामृजुप्रकरणे सङ्गृहीतानि तथा तट्टीकायां विभावनीयानि । भावरूपाविद्येत्यर्थः । न चेयमप्रामाणिकीति नाङ्गीकार्येति वाच्यम् । जीवा जानन्ति नो हरिमिति स्मृत्या चाविद्या विद्यामावृणोतीत्युच्यते । न च ज्ञानाभावस्य तदावरकत्वं युज्यते । अतः स्मार्तावरकत्वान्यथानुपपत्त्या भावरूपभावः सेत्स्यति । सत्वादिगुणमयी ।

अजे द्वे प्रकृती दुष्टे नृषु प्रातिस्विकं स्थिते ।

स्वगुणाच्छादिका त्वेका परमाच्छादिका परा ॥

इत्यादिप्रमाणप्रमितप्रकृतिरेव स्वरूपज्ञानावरकत्वेन विद्याविरोधित्वादविद्येति गीयते । उक्तं च सुधायां ‘‘अतः कामकर्मातिरिक्तं मायाऽविद्या प्रकृतिरित्यादिशब्दाभिधेयमनाद्येव किमपि द्रव्यं स्वरूपचैतन्यावरकमङ्गीकार्य’’मिति । तथा ‘‘अतः परमेश्वर एव सत्वादिगुणमय्या विद्याविरोधित्वेनाविद्यया स्वाधीनया प्रकृत्याऽचिन्त्याद्भुतया स्वशक्तया च स्वप्रकाशमपि जीवचैतन्यमाच्छादयतीति युक्त’’मिति ।

केचिदिमामविद्यां लिङ्गशरीरमाहुः । तैश्चोत्क्रान्तिपादीय ‘‘यदि भगवदपरोक्षज्ञानभोगाभ्यां निवृत्तसमस्तकर्माणः स्वोत्तमप्रवेशेन ब्रह्मनाड्योत्क्रमणेन वा परित्यक्तदेहाः स्वोचितेनार्चिरादिना वा पथा वैकुण्ठलोकवासिनं भगवन्तं हिरण्यगर्भेण सह प्राप्ता भिन्नलिङ्गशरीरा विध्वस्तप्रकृतयोऽत्यन्तनिवृत्तानिष्टाः सम्यगाविर्भूतानन्दादिगुणा भगवत्समीप एव तमुपासीनाः स्वरूपेण वा लीलागृहीतविग्रहैर्वा सङ्कल्पमात्रसाध्यान् दिव्यभोगांस्तारतम्येन भुञ्जाना न कदाचित्पुनरावर्तंत इत्येतन्मोक्षस्वरूप’’मिति सुधयाऽविरोधः सम्पादनीयः ।

प्रसङ्गादावरणान्युच्यन्ते । सत्वादिरूपिणी भावरूपाविद्यैकम् । यथोक्तं भागवते ‘‘बध्नंति नित्यदा मुक्तं मायिनं प्रकृतेर्गुणाः’’ इति । कामो द्वितीयम् । आवृत्तकामरूपेणेति गीतागीतेः । तथा कामनिबद्धोऽयमिति भागवते च । तृतीयं प्रारब्धं कर्म ।

अनादिकर्मणा बद्धो जीवः संसारमण्डले ।

वासुदेवेच्छया नित्यं भ्रमतीति हि तद्वचः ।

इत्यनुव्याख्योक्तेः । प्रकृतिद्वयं च चतुर्थपञ्चमावरणम् । अथान्ये प्रकृती इत्यादेः । लिङ्गशरीरं षष्ठमावरणम् । एवं पञ्चविधं लिङ्गं त्रिवृत्षोडशविस्तृतमित्यादेः । हरीच्छा च सप्तममावरणम् । यथोक्तं सुधायां ‘‘परमेश्वरोऽचिन्त्ययाऽद्भुतया स्वशक्तया जीवस्वरूपचैतन्यमाच्छादयती’’ति । तथा ‘‘आनन्ददश्च मुक्ताना’’मित्यत्र ‘‘नन्वानन्दश्च स्वरूपमेव । स चाविद्यावृतोऽविद्यानिवृत्तौ स्वतःसिद्ध एव । अतः कथं मोक्षदानात्पृथगानन्ददानम् । उच्यते । परमेश्वरशक्तिरेव स्वरूपावरणमुख्या । अविद्या तु निमित्तमात्रम् । ततोऽविद्यायां निवर्तमानायां सत्यामपि नाशे वाऽनन्दाभिव्यक्तिर्यावदीश्वरः स्वकीयां बन्धकशक्तिं न ततो व्यावर्तयती’’ति । नाविद्यैव जीवस्वरूपावरणं किं त्वीश्वरेच्छापीति प्रमेयदीपिकोक्तेः ।

तन्त्रन्यायेनाज्ञानपदं ज्ञानाभावपरं चेत्याह ॥ ज्ञानाभाव इति ॥ नवनवसुविशेष, न रमापि पदाङ्गुलीलसन्नखधूराजदनन्तसद्गुणान् । श्रियोऽपि च । ज्ञानस्फूर्तिः सदेत्यादे रमाया अपि ज्ञानाभावसम्भवात्सर्वस्येत्युपपन्नम् । बोधनं परोक्षमपरोक्षं च । दुःखास्पृष्टं रमातत्वम् ।

ननु विनाशब्दयोगे कथं ‘‘प्राप्ततमसः दुःखास्पृष्ट’’मित्युभयत्र द्वितीया । पृथग्विनानानाभिस्तृतीयान्यतरस्यामित्यत्र तृतीयया सह पञ्चम्या एव विकल्पनादिति चेन्न । एनपा द्वितीयेति पूर्वसूत्राद्द्वितीयेत्यनुवर्तते । तथा च पृथग्विनानानाभिस्तृतीया । तदभावे पञ्चमी । तदभावे द्वितीयेति विकल्पकरणादिष्टसिद्धेः । यथोक्तं सिद्धान्तकौमुद्यां पृथगित्यादि सूत्रमुदाहृत्य ‘‘एभिर्योगे तृतीया स्यात्पञ्चमीद्वितीये च । अन्यतरस्याङ्ग्रहणं समुच्चयार्थम् । पञ्चमीद्वितीये अनुवर्तेते’’ इत्यादि । विवृतं च तत्वसुबोधिन्याम् । तथा हि ‘‘ननु तृतीयाभावपक्षे एनपा द्वितीयेति प्रकृता द्वितीयैव स्यात् । यदि तु द्वितीया विकल्पेन भवेत्तदा पञ्चम्यपि स्यात् । सा तु नित्यैव । तस्माद्विभक्तित्रयसमावेशो दुरुपपाद इत्यत आह ॥ अन्यतरस्यां ग्रहणं समुच्चयार्थमिति । निपातानामनेकार्थत्वादिति भावः ॥

पञ्चमीति ॥ तत्र मण्डूकप्लुत्या पञ्चमी । द्वितीया तु संनिहितैव । इह पृथगर्थैरिति सूत्रयितव्ये पर्यायत्रयोपादानं तत्पर्यायान्तरनिवृत्त्यर्थम् । तेन हिरुग्देवदत्तस्येत्यत्र नेत्याहु’’रिति ।

ननु तर्ह्युपासनापादीय ‘‘ज्ञानसूर्यमृते’’ इति मूलव्याख्यापरविनावातमित्यादिप्रयोगदर्शनाद्विनायोग इव ऋतेयोगेऽपि द्वितीया भवत्येवेति सुधायां प्रयोगोऽपरिहारः । तथैव तद्व्याख्यास्वनेकासु व्याख्यानम् । तथा हि वाक्यार्थचन्द्रिका । नन्वन्यारादितरर्ते दिक्छब्दां चूत्तरपदाजाहियुक्त इति ऋतेशब्दयोगे पञ्चमीविधानादृते देवदत्तादिति प्रभृतिवज्ज्ञानसूर्यादृत इति पञ्चम्या भवितव्यम् । ज्ञानसूर्यमृत इति द्वितीया तु कथमित्यतो

विना वातं विना वर्षं विद्युत्प्रपतनं विना ।

विना हस्तिकृतं दोषं केनेमौ पतितौ द्रुमौ ॥

इति विनाशब्दयोगे द्वितीयाविधिस्तावत्परस्यापि संमतः । अत एवोक्तं वृत्तौ पृथग्विनानानाभिरिति योगविभागः कार्यो द्वितीयार्थ इति । उक्तं च हरदत्तेनापि ‘‘अत्रासत्यपि मुनित्रयवचने प्रयोगबाहुल्यादेवं व्याख्यात’’मिति । तथा ‘‘ऋतेशब्दयोगेऽपि द्वितीयाविधिरवश्यमभ्युपगन्तव्यः । तन्निमित्तस्य ऋतेऽपि त्वां न भविष्यन्ति सर्व इति ऋतेयोगे द्वितीयाप्रयोगस्य सद्भावादित्याशयेनाह । विना वातमित्यादीति ।

आचार्या अपि ‘‘ननु सूर्यमिति कथं द्वितीया । विना वातमित्यादिप्रयोगात् । पृथग्विनानानाभिरिति योगविभागः कर्तव्यो द्वितीयार्थ इति काशिकायामुक्तत्वेनविनायोगे तावद्द्वितीया विधिरवगम्यते । एवं तात्पर्ये ऋतेशब्दयोगेऽपि द्वितीया वक्तव्या । ऋतेऽपि त्वां न भविष्यन्ति सर्व इत्याद्यभियुक्तप्रयोगे ऋतेयोगेऽपि द्वितीयाया दृष्टत्वेन न्यायसाम्यादिति भाव’’ इति विभावितवन्तः ।

परिमलेऽपि ‘‘ज्ञानसूर्यम् इति कथम् । द्वितीयस्य तृतीयपादे अन्यारादितरर्ते दिक्छब्दां चूत्तरपदाजाहियुक्त इति सूत्रे ऋतेशब्दयोगे पञ्चमीविधानेन ज्ञानसूर्यादृत इति भाव्यम् । एवं बादरायणादपीतीत्यत आह ॥ विना वातमित्यादीति । वृत्त्यादौ अन्यारादिति सूत्रादुपरितने पृथग्विनानानाभिरिति योगविभागः कर्तव्यः । पृथगादिशब्दयोगे द्वितीया च विभक्तिर्भवतीत्येतदुक्त्वा विना वातमित्याद्युदाहृत्य, तथा च तत्र प्रयोगानुरोधेन योगविभागेन द्वितीयाया निर्वाह इव महाकविप्रयोगादृतेशब्दयोगेऽपि द्वितीया ध्येया । ऋतेशब्दस्यापि पृथग्विनांतरेण वर्तत इति विनाशब्दपर्यायत्वादिति भाव’’ इति ।

शब्देन्दुशेखरे लघौ, गुरौ च ‘‘समुच्चयार्थमिति । स्पष्टं चैतद्भाष्ये । एतेन अन्यतरस्य आम् इत्यङ्गीकारार्थकं पदद्वयमेतदित्यपास्त’’मिति । ‘‘समुच्चयार्थमिति । निपातानामनेकार्थत्वादिति भावः । स्पष्टं चेदं भाष्ये । एतेन अन्यतरस्य आम् अङ्गीकारार्थकं पदद्वयमेतत् । यद्वा सप्तम्येकवचनमित्यपास्तम् । पञ्चमीद्वितीये इति । तत्र मण्डूकप्लुत्या पञ्चमी । द्वितीया तु संनिहितैव । न चानन्तरा द्वितीयैव समुच्चीयेतेति वाच्यम् । पृथग्विनानानाभिः । तृतीयेति योगद्वयेनैव सिद्धेऽन्यतरस्यांग्रहणस्य वैयर्थ्यापत्तेः । एतेन पञ्चम्या एव समुच्चयः स्यादित्यपास्तम् । षष्ठ्यतसर्थेत्यस्य, एनपेत्यस्य च स्थलान्तरे कर्तुं शक्यत्वेन योगविभागेनैव सिद्धेः । विभक्तिद्वयोच्चारणेनैव सिद्धेऽन्यतरस्यामिति वैयर्थ्यस्य स्पष्टत्वाच्च ।

यद्यपि द्वितीयासमुच्चयो भाष्यादौ नोक्तस् तथापि विना वातं विना वर्षं केनेमौ …… पतितौ द्रुमावित्यादिप्रयोगबाहुल्यादेवं व्याख्यातमित्याहुः । न चान्यतरस्यांग्रहणस्य समुच्चयार्थत्वे मानाभावः । विकल्पार्थत्वपक्षेऽपि षष्ठीसाधने तस्य चरितार्थत्वादिति वाच्यम् । अन्यतरस्यांग्रहणसामर्थ्यात्पञ्चमी भविष्यतीति भाष्यादिप्रामाण्येन समुच्चयार्थत्वाङ्गीकारा’’दिति समुच्चययोगविभागोभयपक्षस्यापि सङ्ग्रहाद्वृत्त्यादौ योगविभाग इत्युक्तत्वात्सर्वत्राप्यन्ततो गत्वा प्रयोगादित्युक्तेष्टीकाकृद्भिः प्रयोग एवोपात्त इति न विरोधः । समुच्चयपक्षे सत्यप्यभ्युच्चयपक्षोऽयमिति न कश्चिद्विरोधः ।

न च टिप्पण्यां पर्यायत्वकथनं पूर्वोक्ततत्वसुबोधिनीविसंवादीति वाच्यम् । शब्देन्दुशेखरे ‘‘दृशिग्रहणादृतेशब्दयोगे द्वितीये’’त्युक्त्वा ‘‘पुरुषाराधनमृत इत्यादिसिद्धि’’रित्युक्तेः प्रयोगे सति दृशिग्रहणाद्द्वितीया भवतीत्यभिप्रायात् । योगे सति–

उभसर्वतसोः कार्याधिगुपर्यादिषु त्रिषु ।

द्वितीयाऽऽम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते ॥

इत्युपर्यादिशब्दैर्योगे द्वितीयेति सम्भवान्न हि रुग्देवदत्तस्येत्यत्रातिप्रसक्तिरिति न टिप्पणीनां तद्विरोध इत्यलम् ।

पूर्वमेवकारस्य विष्णुशब्देनान्वयः कृतः । तत्प्रयोजनमिदानीमुद्बोधयति । पदार्थानामिति ॥ अन्यतः ब्रह्मादितः । प्रतीयते आपाततः । तदुपपादयति ॥ सकलेति ॥ जडाजडप्रपञ्चसत्तादेः । तदधीनत्वाद् विष्ण्वधीनत्वात् । तद्वस्तु ब्रह्मादिरूपम् । निमित्तमात्रं न तु स्वतन्त्रम् । तर्हि ब्रह्मादीनां स्रष्टृत्वप्रतिपादकागमानां का गतिरिति चेन्न ।

ब्रह्मणिस्थोऽसृजद्विष्णुः स्थित्वा रुद्रे त्वभक्षयत् ।

पृथक्स्थित्वा जगत्पाति तद्ब्रह्माद्याह्वयो हरिः ।

ब्रह्मणि ब्रह्मरूपोऽसौ शिवरूपी शिवे स्थितः ।

स ब्रह्मणा विसृजति स रुद्रेण विलापयति ।

निमित्तमात्रमीशस्य विश्वसर्गनिरोधयोः ।

हिरण्यगर्भः शर्वश्च कालाख्या रूपिणस्तव ॥

इत्यादिप्रमाणादिति भावः ।

भावचन्द्रिका

निगडबन्धव्यवच्छेदाय आह प्रकृतेरिति ॥ निगडादिमोक्षव्यावृत्त्यर्थमाह मोक्ष इति ॥ ‘‘आवृतिज्योतिषी’ इत्यस्य ‘अज्ञानबोधने’ इत्यनेन पौनरुक्तिं परिहरति आवृतिज्योतिषीति । ‘ज्योतिरेव च’ इत्यत्र एवशब्दः व्यर्थः, विरुद्धार्थश्च । तेन हि तन्मात्रस्य भगवदधीनत्वं प्राप्यते, तच्च पूर्वविरुद्धमित्यतः ‘भिन्नक्रमत्वान् न दोषद्वयम् अपि’ इत्याह एवकार इति ॥ ‘समस्तस्य’ इत्यनेन ‘स्वतन्त्रस्य सृष्ट्यादि विष्णुना क्रियते इति उच्यते’’ इति भ्रान्तिनिरासाय आह अस्वतन्त्रस्येति ॥

अव्ययीभावादेः समासशब्दार्थस्य प्रकृते ग्रहणे असङ्गतेर् विवक्षितमर्थमाह सङ्क्षेपेति ॥ ‘समासव्यासयोगतः’ इति षष्ठीसमासपक्षे विवक्षितार्थासिद्धेर् आह तावेवेति । साध्यानुक्तेर् आह उक्तार्थेति । ‘न एतावताऽपि उक्तदोषपरिहारः’ इत्यत आह इदमुक्तं भवतीति । अज्ञानमिति । ब्रह्मादीनां प्रकृतिबद्धत्वादिति भावः । दुःखास्पृष्टस्यापि तद्वत्त्वे प्रकृतिबद्धत्वेन नित्यमुक्तत्वश्रुतिविरोध इति भावः । भावरूपम् इति विशेषणप्रयोजनमाह ज्ञानाभावस्त्विति । ज्ञानात्यन्ताभाव इत्यर्थः । रमायाः प्रकृतिबन्धाभावेऽपि ईश्चरेऽयोग्यगुणविषयकज्ञानाभाववत्त्वादिति भावः । द्वितीयक्षणे ज्ञायमानविशेषस्यापि पूर्वक्षणे ज्ञानसद्भावेन, तत्प्रागभावासम्भवात्; ‘नवनवसुविशेष’ इत्यादेश्च व्यक्त्यभिप्रायेण वा अत्यपूर्वत्वाभिप्रायेण वा उपपत्तेर् न तद्विरोधः ॥

मूलग्रन्थान् समालोच्य गुरुशिक्षितमार्गतः ।

तत्वसङ्ख्यानटीकायाश्चन्द्रिकेयं विनिर्मिता ॥

इति श्रीमत्सकलविद्वच्चक्रचूडामणीनां विद्याधीशपूज्यपादानां शिष्येण केशवभट्टारकेण विरचिता तत्वसङ्ख्यानभावचन्द्रिका समाप्ता ॥

टीका

पद्मापद्मासनानन्तप्रभृतीदं यदिच्छया ।

सत्तादि लभते देवः प्रीयतां श्रीपतिः स मे ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिततत्वसङ्ख्यानविवरणं श्रीजयतीर्थभिक्षुविरचितं सम्पूर्णम्

तत्वसङ्ख्यानटीकाभावदीपः

अस्य समस्तस्येति मूलस्थेदंशब्दार्थं विवृण्वन् जगदुपादानतया सर्वस्य जन्मादिकर्तृत्वभ्रमं वारयंस्तत्प्रीतिं प्रार्थयते ॥ पद्मेति ॥ पद्मासनो ब्रह्मा । यदिच्छयेत्यनेनोपादानत्वनिरासो ऽनायाससाध्यत्वं च सूच्यते । इच्छामात्रं प्रभोस्सृष्टिरित्युक्तेः । तेन फलाभावेऽपि सृष्ट्यादिर्युक्तः । आयाससाध्यकर्मण एव फलापेक्षणादित्युक्तं भवति । मूलोक्तसृष्टिशब्दार्थस्सत्तेति । तेन सापि सर्वविषयेति सूचितम् । देव्या अपि प्रीतिप्रार्थनालाभायोक्तम् ॥ श्रीपतिरिति ॥

तत्वाभिमानिनो देवा ब्रह्मरुद्रपुरस्सराः ।

यत्परीवारतामाप्तास्तं वन्दे कमलापतिम् ॥

इति श्रीमत्तत्वसङ्ख्यानटीकाभावदीपः श्रीसुधीन्द्रतीर्थश्रीपादशिष्य श्रीराघवेन्द्रतीर्थयतिविरचितः सम्पूर्णः ॥

तत्वसङ्ख्यानटीकाटिप्पणी

समापितग्रन्थोऽन्तेऽपि मङ्गलमाचरति– पद्मापद्मासनेति ॥ सत्तादीत्यत्रादिपदेन प्रमितिप्रवृत्त्योर्ग्रहणम् । यादृशस्य भगवतः प्रतिपादनमत्र तादृशस्यैव प्रीतिराशासनीयेति सूचनायैवमुक्तमित्यशेषमतिमङ्गलम् ॥

वासवीवियति व्यक्तं वासुदेवावभासकम् ।

व्यासाभिधमहं वन्दे तत्तामोहतमोऽपहम् ॥

॥ इति श्रीयदुपतिविरचिता तत्त्वसङ्ख्यानटिप्पणी समाप्ता ॥

तत्वसङ्ख्यानविवरणं

समापितग्रन्थो भगवांष्टीकाकारोऽन्तेऽपि मङ्गलमाचरति ॥ पद्मेति । लक्ष्मीः पद्मालया पद्मेत्यभिधानात् । पद्मा महालक्ष्मीः । पद्मासनो ब्रह्मा । अनन्तः शेषः । एतदाद्यम् इदं विश्वं यदिच्छया सत्तादिकं लभते । सत्तादीत्यादिपदेन प्रमितिप्रवृत्त्योर्ग्रहणम् । यादृशस्य भगवतः प्रतिपादनमस्मिन् प्रकरणे कृतं तादृशस्यैव प्रीतिराशासनीयेत्याशयेनैवमुक्तम् । स देवः श्रीपतिः श्रीहरिः । कमला श्रीहरिप्रियेत्यभिधानात् । श्रीर्महालक्ष्मीस्तत्पतिर्भगवान् विष्णुर्मे प्रीयतामित्यर्थ इत्यशेषमतिमङ्गलम् ॥

यादवाचार्यहृत्पद्मगतश्रीमध्वहृद्गतः ।

प्रीयतामनया ग्रन्थकृत्या श्रीबादरायणः ॥ १ ॥

लौकिकालौकिकफलं दातारं भजतां सदा ।

गुर्वनुग्रहरूपं तं मन्दारमहमाश्रये ॥ २ ॥

इति श्रीमद्यदुपत्याचार्यपूज्यपादाराधकेन श्रीनिवासेनविरचितं तत्वसङ्ख्यानविवरणं सम्पूर्णम् ॥

तत्वसङ्ख्यानटिप्पणम्

एवं समापितग्रन्थो भगवांष्टीकाकार एतत्प्रकरणप्रतिपादितगुणवत्त्वेन भगवन्तं स्तुवन् एतत्प्रकरणविवरणफलत्वेन स्वस्यैकान्तभक्तत्वमविदुषो जनाञ्जननी तनयमिव बोधयंस्तत्प्रीतिमाशास्ते पद्मेति ॥ पद्मा लक्ष्मीः । पद्मासनो ब्रह्मा । लक्ष्मीः पद्मालया पद्मा, विरिञ्चः कमलासन इत्युभयतश्चामरः । अनन्तः शेषः । शेषोऽनन्त इत्यमरः । त एव प्रभृतयो यस्य तत्तथा । इदं विश्वम् । सत्ता असतः कार्यरूपेण भवनस्यैव जनित्वाज्जनिः सत्ताशब्देन गृह्यते । तथा च सा आदिर्यस्य सृष्ट्याद्यष्टकस्य तत्तथा । लभते प्राप्नोति । स देवः क्रीडादिगुणकः श्रीपतिर् मे प्रीयतां प्रसीदतु । श्री हरिप्रिया । श्रीपतिः पुरुषोत्तम इति सोपयुक्तामरामरः । ननु पद्माप्रभृतीत्येवोक्तौ सर्वलाभे किमर्थं पद्मासनानन्तग्रहणम् । यदि दुःखस्पृष्टतदस्पृष्टभेदाख्यावान्तरविशेषसूचनाय तद्ग्रहस् तर्हि पद्मापद्मासनप्रभृतीत्येव मुखतो वाच्यं स्यात् । न वाच्यं चानन्तेति । अथ तत्तद्व्यक्तिग्रहोऽपेक्षित इत्युपादानम् । हन्त तर्हि पुरुषायुषादपर्यवसानं स्यात् । तस्मात्कथमेतदिति चेन्न । केचिदनन्तविष्वक्सेनादीन्नित्यादुःखानाचक्षते । तन्मतमतन्द्रितः पराकर्तुमनन्तमानन्तेति समाधिसम्भवात् । तर्हि पूर्वानुपूर्व्यां ‘‘गरुडानन्तविष्वक्सेनादी’’निति गरुडस्यैव प्रथमं ग्रहणादत्र यदि तन्मततो भेद आवश्यकस्तर्हि गरुड एवादौ निर्देश्य इति चेन्न । कश्चिदविपश्चिदपश्चिमो बलमलपद्दशावतार्यां हलं कलयत इति । तन्निराकर्तुमपारमतिर्जग्राह तदात्मकमनन्तं यतोऽत इति । न चाष्टपद्यां हलमित्यादिनोक्तः कृष्ण एव । न च तस्य हलधरत्वं कथमिति वाच्यम् । सहस्रनामि्न ‘‘वनमाली हलायुध’’ इत्युक्तहलधररूपाभिन्नत्वेन तस्योपपन्नत्वादिति वाच्यम् । दशाकृतिकृते कृष्णाय तुभ्यं नम इति कृष्णस्य पृथग्ग्रहणविरोधापत्तेः ।

अथवा पद्मापद्मासनादयो भवन्तु तदधीना अमुक्ताः । मुक्तस्तु ‘‘निरञ्जन’’ इत्यादिश्रुतेर्न तदधीन इत्यतः प्रायोज्यनन्तेति । ततश्च पद्मापद्मासनौ अनन्तौ अबद्धौ मुक्ताविति यावत् । अनन्तौ पद्मापद्मासनौ । कडाराः कर्मधारय इति विशेषणस्य परनिपातः । तौ प्रभृती यस्य तत्तथा । रमाया नित्यमुक्ताया ब्रह्मादीनामपि मुक्तानां तदधीनत्वे ‘‘उतामृतत्वस्येशानः, सर्वं तत्प्रज्ञानेत्रं द्वावेतौ नित्यमुक्तौ । अव्यक्तात्पुरुषः परः । श्रीर्यत्र रूपिण्युरुगायपादयोश् चरणरज उपास्ते यस्य भूतिर्वयं काः ।’’ इत्याद्यागमा द्रष्टव्याः । अति बन्धन इति धातोरनन्तेति रूपम् । श्रीपतिः श्रीर्मङ्गलदेवतेत्यशेषमतिमङ्गलम् ॥

न शाब्दी नाम्नायी न हि मम च मैमांस्यपि मतिर्

न वा तार्की कार्ष्णी किमपि च लपन्वा चपलधीः ।

यदात्तर्ते श्रेयोऽभिधविधिकलत्रोरुकरुणो

गुरूणां कारुण्यादभवमिति मान्योऽधिधरणि ॥ १ ॥

यथा स्थाली स्वस्थं सरसमरसं वेत्ति न सदा

भ्रमन्ती सौदीदर्व्यपि न फललाभास्तदपरे ।

तदीयो दाहादिः स्खलनकलितो मन्तुरपि मेऽ

प्यनेनाप्तं नैनः फलमलघु यायादृतवरः ॥ २ ॥

साहंतोऽहं नातनवं न च भूविबुधा बुधः ।

तन्न मन्तुः किंतु वित्तचित्तशुद्ध्या इति स्थितिम् ॥ ३ ॥

व्यासरामनृसिंहार्ववदना गुरुहृद्गताः ।

संस्थानकुलदेवेष्टदेवाः प्रीणंत्विदङ्कृतेः ॥ ४ ॥

यादवार्याराधकश्रीमुद्गलार्यहृदब्जगः ।

श्रीनिवासो दाशरथिर्धिनोत्वेतत्सपर्यया ॥ ५ ॥

क्व टीकाकारसद्वाणी वाणीड्वाचानुसारिणी ।

क्व जाल्मो वाग्दरिद्रोऽहमिति मे साहसं महत् ॥ ६ ॥

इयं मान्याऽवन्यां सजयजयवाचं यमवचोऽ

नुसारा निःसारा भणतिरपि मे यद्विदभिधैः ।

यथा लाक्षा रूक्षा मणिगणसमासत्तिसहिता

महीयोभिर्मूर्ध्ना ध्रियत इति सत्संगमहिमा ॥ ७ ॥

इति श्रीमत्सत्यवरचरणौपसदसत्यधर्मयतिकृतं

तत्वसङ्ख्यानटिप्पणं समाप्तम् ॥

काशीटिप्पणी

दुरन्तदुर्मतध्वान्तध्वंसकृन्मध्वभास्करः ।

बत्थिेत्यादिवेदोक्तगुणः प्रीतोऽस्तु मे सदा ॥

इति श्रीमदुपाध्यायकृता भगवतः सदा ।

तत्वसङ्ख्यानतात्पर्यचन्द्रिका सुप्रसत्तये ॥

इति महामहोपाध्यायकाशीतिम्मण्णाचार्यविरचिता तत्वसङ्ख्यानटीकाविवरणटिप्पणी समाप्ता