३२ नित्यत्वादिप्रकारत्रैविध्यपरीक्षा

नन्वेवं सत्यवान्तरभेदैर्विधान्तरमप्युत्प्रेक्षितुं शक्यमित्यत एवेत्युक्तम्

नित्यत्वादिप्रकारत्रैविध्यपरीक्षा

टीका

नन्वेवं सत्यवान्तरभेदैर्विधान्तरमप्युत्प्रेक्षितुं शक्यमित्यत एवेत्युक्तम् । तत्रोपपादकाकाङ्क्षायां प्रोक्तमित्याह । शास्त्रीयविधानामत्रैवान्तर्भावोऽन्यासामनादरणीयत्वं चेति ।

तत्वसङ्ख्यानटीकाभावदीपः

॥ अवान्तरभेदैरिति ॥ वर्णात्मना अविकारित्वेऽपि क्रमरूपेण तथात्वेनाविकारिविकाररूपैका विधा । अंशैराशुविनाशादिमत्त्वेऽप्यंशिनस्तदभाव इत्याशुविनाशादितदभावादि रूपा अंशांशिरूपा वा अपरा विधा । कारणात्मना सत्त्वेऽपि कार्यात्मनाऽसत्त्वेन सदसत्कारणकार्यरूपाऽन्या विधेत्यादिरूपेण नित्यानित्यविधातो विधान्तरमित्यर्थः ।

तत्वसङ्ख्यानटीकाटिप्पणी

अत एवेति ॥ आगमबलादेवेत्यर्थः ।

तत्वसङ्ख्यानविवरणं

तदुपपादनप्रकारमेव दर्शयति ॥ शास्त्रीयेति । या विधा अत्रोत्प्रेक्ष्यन्ते ताः किं शास्त्रीया उत तद्भिन्ना एवेति विकल्प्य आद्यपक्षस्योत्तरमुक्तं शास्त्रीयेति । द्वितीयस्योत्तरमन्यासामिति ।

तत्वसङ्ख्यानटिप्पणं

ननु भावरूपाज्ञाने उत्पत्तिरहितत्वे सति विनाशित्वरूपविधान्तरस्य सत्वाद् वेदावान्तरप्रभेदे उत्पत्तिमत्त्वे सति विनाशाभावरूपसामान्यधर्मे सति क्रमव्यत्यासाभावरूपविधान्तरसद्भावात्तत्कुतो मूलकृन्नोदाजहार । यदि च तयोर्न लक्ष्यता तर्हि तत्रातिव्याप्तिः स्यात् । किं च ‘‘मूलप्रकृतिरविकृति’’रित्यादि साङ्ख्याद्युक्तविधान्तरस्याप्यत्राकथनान्न्यूनता स्यादित्याशङ्क्य परिहरति ॥ नन्विति ॥ अवान्तरभेदैः पूर्वोक्तभेदकधर्मैः । उत्प्रेक्षितुं विना मानं बुद्ध्या कल्पयितुम् । उक्तं प्रकृतिरेवेत्यत्र । उपपादकाकाङ्क्षायां नियामकाकाङ्क्षायाम् । प्रोक्तं प्रकर्षेणोक्तम् । आह भगवानानन्दतीर्थमुनिः । तेनापि किमुक्तमासीदित्यत आह ॥ शास्त्रीयेति ॥ शास्त्रशब्दात् ‘‘वृद्धाच्छ’’ इति छप्रत्यये तस्येयादेशे रूपम् । अविद्याया द्वितीये, वेदावान्तरप्रभेदस्य प्रथमेऽन्तर्भाव इत्यत्रैवान्तर्भाव इत्यर्थः । अत्र कण्ठतोऽनुक्तिस्तु तत्वविवेके पुराणस्येव बोध्या । अन्यासां साङ्ख्याद्युत्प्रेक्षितानाम् ॥ अनादरणीयत्वमिति ॥ अप्रामाणिकत्वादिति भावः ।

भावचन्द्रिका

ननु भावरूपाज्ञाने– विनाशवत्त्वे सति उत्पत्त्यभावलक्षणं वेदरूपावान्तरभेदे च उत्पत्तिमत्त्वे सति विनाशित्वाभावे च सति क्रमव्यत्यासाभावरूपं च नित्यानित्या विधान्तरं ‘मूलप्रकृतिर् अविकृतिर् महदाद्याः प्रकृतिविकृतयः सप्त’ इत्यादि साङ्ख्याद्युक्तं विधान्तरञ्च उत्पे्रक्षितुं शक्यते इति कथं तत्त्रैविध्यपरिनिष्ठा? इत्याशयेन शङ्कते नन्विति ॥

शास्त्रीयविधानामिति । उदाहृतानामित्यर्थः । अत्रैवेति । नित्यानित्यविधासु, एव इत्यर्थः । अन्यासामिति । अशास्त्रीयविधानामित्यर्थः ।

काशी टिप्पणी

ननु नित्यानित्यस्य पुराणाद्युदाहरणवैचित्र्यानुसारेण विभागे बहुविधत्वमेव वक्तुमुचितम् । पुराणादेरुत्पत्तिमत्त्वे सत्यविनाशित्त्वेन भावरूपाज्ञानादेर्विनाशित्वे सत्यनुत्पत्तिमत्त्वेन अतीतकालप्रवाहादेः प्रवाहिरूपेणोत्पत्तिविनाशवत्त्वे सति स्वरूपतोऽनादित्वमात्रेण ध्वंसप्रवाहस्य प्रवाहिरूपेणोत्पत्तिमात्रवत्त्वे सति स्वरूपतस्तदभावेन प्रागभावप्रवाहस्य प्रवाहिरूपेण विनाशमात्रवत्त्वे सति स्वरूपतस्तदभावेन वैचित्र्यात् । एवं प्रवाहिरूपेणोत्पत्त्यादिशून्यत्वे सति प्रवाहरूपेण तद्वत्त्वं स्वरूपेणोत्पत्तिशून्यमात्रत्वे सति परिणामित्वमित्यादिविधान्तरं चोत्प्रेक्षितुं शक्यमतः कथं त्रैविध्योक्तिरित्याशयेन शङ्कते ॥ नन्विति ॥ त्रिधैव प्रोक्तमिति मूलयोजनया समाधत्ते ॥ इत्यत इति ॥ त्रिविधातिरिक्तनित्यानित्यस्यासत्त्वान्न त्रैविध्योक्तिरनुपपन्नेत्याशयः ॥ तत्रेति ॥ त्रिविधातिरिक्तासत्त्व इत्यर्थः ॥ इत्याहेति ॥ तथा चान्यस्यानुक्तत्वादेवासत्त्वमिति भावः । ननु प्रदर्शितवैचित्र्यस्य तन्त्रोक्तत्वात्कथमनुक्तत्वमित्यतोऽभिप्रायं पूरयति ॥ शास्त्रीयेति ॥ पुराणादेरित्युक्तप्रकाराणां शास्त्रीयत्वेऽप्युक्तप्रकारत्रय एवान्तर्भावात् तदवान्तरत्वादिति यावत् । एवमित्याद्युक्तप्रकाराणामशास्त्रीयत्वेनाप्रामाणिकत्वान्नोक्तत्रैविध्यभञ्जकत्वमिति भावः ।