१५ प्राभाकरमतरीत्या अभावस्वरूपाक्षेपस्तत्खण्डनञ्च

अभाव एव नास्तीति केचित्

प्राभाकरमतरीत्या अभावस्वरूपाक्षेपस्तत्खण्डनञ्च

टीका

अभाव एव नास्तीति केचित् । तदसत्, नास्तीति प्रतीतेर्दुरपह्नवत्वात् । घटो नास्तीति प्रतीतिर्भूतलमात्रविषयेति चेत् । मात्रेति किं भूतलमेवोच्यते उतातिरिक्तं किञ्चित् । आद्ये घटवत्यपि प्रसङ्गः । अतिरिक्तोऽपि घटश्चेदुक्तो दोषः । भावान्तरं चेद्रूपवति घटे गन्धो नास्तीति प्रतीतिप्रसङ्गः ।

प्राभाकरेण विपक्षे बाधकप्रदर्शनपुरःसरं स्वपक्षस्थापनं तन्निरासश्च

ननु घटाभावो घटाभाववति भूतले सम्बध्यते उत घटवति । नाद्यः, आत्माश्रयादिदोषप्रसङ्गात् । न द्वितीयः, विरोधात् । अतो वक्तव्यं भूतलमात्र इति । तदेवास्तु नास्तीति प्रतीतिविषय इति चेन्न । प्रश्न एवायं विविच्यताम् । यद्यभावसम्बन्धात्प्राक् कीदृशं भूतलमिति, यदि वा सम्बन्धसमये कीदृशमिति, यद्वा यद्यभावादिदं विविच्येत तदा कीदृशं नाम स्यादिति । आद्ये सघटमित्येवोत्तरम् । द्वितीये घटाभाववदिति । तृतीये यदि विवेको वस्तुकृतस् तदाऽभावस्य नष्टत्वाद्धटवदिति । यदि बुद्धिकृतस्तदा बुध्यैव घटप्रसक्तिमदिति । अन्यथा एवं भावप्रतिक्षेपोऽपि स्यादित्यास्तां विस्तरः ।

तत्वसङ्ख्यानटीकाभावदीपः

विवादं प्रदर्शयन्निराह ॥ अभाव इति ॥ केचित् प्रभाकराः ॥ भावान्तरमिति ॥ नास्तीतिधीविषय इति योज्यम् ॥ रूपवतीति ॥ रूपस्यैव तत्र भावान्तरत्वादिति भावः । अभाववादिनं प्रति बाधकोपन्यासमुखेन स्वोक्तपक्षं स्थापयति परवादी ॥ नन्वित्यादिना ॥ आत्माश्रयादीति ॥ अभावभेदाधीकारे अन्योन्याश्रयादिरादिपदार्थः ॥ इदमिति ॥ भूतलमित्यर्थः ॥ अभावस्य नष्टत्वादिति ॥ तस्य घटसम्बन्धप्रागभावरूपत्वादिति भावः ॥ भावप्रतिक्षेपोऽपीति ॥ घटोऽपि किं घटवति भूतले सम्बध्यते उत घटरहिते । नाद्यः, आत्माश्रायादिप्रसङ्गात् । नान्त्यः विरोधात् । अतो भूतलमात्र इति वक्तव्यम् । स एव च घटादिप्रतीतिविषयोऽस्तु किं घटादिना इत्यपि वक्तुं शक्यत्वादिति भावः ।

तत्वसङ्ख्यानटीकाटिप्पणी

तामेव विप्रतिपत्तिं दर्शयति– अभाव एव नास्तीति ॥ भावान्तरमिति ॥ प्रतियोगिभिन्नमित्यर्थः । आत्माश्रयादिति ॥ घटाभाववतीत्यत्र तेनैवाभावेन तद्वति वा अभावान्तरेण वा । आद्ये आत्माश्रयः । द्वितीयाद्यङ्गीकारे अन्योन्याश्रयादीत्यर्थः । भूतलमात्र इति ॥ घटतदभावाभ्याम् अविशेषित इत्यर्थः । घटाभावो घटाभाववति भूतले सम्बध्यत उत घटवति? इति प्रश्नवाक्यस्य घटाभावसम्बद्धं भूतलं कीदृगिति लब्धोऽर्थः । यथाश्रुते विशेष्यस्याभावसम्बद्धस्य प्रसिद्धप्रश्नविषयत्वाभावात् तं विकल्प्य पृच्छति । प्रश्न एवायमिति ॥ प्रश्नवाक्यार्थ एव । अ(स)घटमिति घटाभाववदिति ॥ अत्र सर्वत्र घटपदेन घटसंसर्गो विवक्षितः । घटे प्रतियोगित्वाभावस्य वक्ष्यमाणत्वात् । अस्य च नास्तीति प्रतीतिविषयत्वाङ्गीकारे पर्यवसितं विवादेनेति भावः । न चात्माश्रयः । पूर्वमभाववति भूतले पश्चाद्यद्यभावः सम्बध्येत् तदा परम् आत्माश्रयः । न चैवम् । अभावतत्सम्बन्धयोर्भूतलाश्रितत्वस्यैककालीनत्वात् । अत एव तयोरेककालीनत्वेनात्माश्रयपरिजिहीर्षया काल एव विकल्पितः । ननु तथाप्यभावसम्बन्धाधिकरणतावच्छेदकं किमिति प्रश्नाभिप्राय इति चेद् अभाववद्भूतलत्वमेवेति वदामः । न चैवमात्माश्रयः । अभावस्य तटस्थतयैव व्यावर्तकतयाऽऽश्रयकोटावप्रवेशात् । यथा घटप्रागभावत्वादीनां कारणतावच्छेदकत्वेऽपि घटस्य तटस्थतया व्यावर्तकत्वेन न कारणकोटौ प्रवेशस् तद्वत् प्रकृतेऽपीति न काप्यनुपपत्तिरिति ध्येयम् । घटादीत्यत्र घटप्रसक्तिमदित्यत्र च पूर्वोक्त एवाभिप्रायः । तथाचातिरिक्ताभावानङ्गीकारेऽधिकरणस्योक्तरीत्याऽविषयत्वेन नास्तीति प्रतीतिर्निरालम्बना स्यादिति प्रघट्टकतात्पर्यम् । अन्यथेति ॥ अतिरिक्ताभावानङ्गीकार इत्यर्थः । तत्रापि अस्तीतिबुद्धेराश्रयविषयत्वस्य घटवति वा घटोऽस्ति उत तदभाववतीति विकल्पदूषणयोश्च वक्तुं शक्यत्वादिति भावः । किञ्च भूतलस्यैवाभावत्वे भूतले घटाभाव इत्याश्रयाश्रयिभावानुपपत्तिः । अभावस्य प्रतियोगिसापेक्षत्वानुपपत्तिश्चेति दूषणदुष्टोऽयं पक्ष इति ग्रन्थबहुत्वं स्यादित्येवोपरम्यत इत्याशयेनाह– इत्यास्तां विस्तर इति ॥

तत्वसङ्ख्यानविवरणम्

अभावपदार्थसमर्थनार्थं तामेव वादिविप्रतिपत्तिं दर्शयति ॥ अभाव एवेति । केचिन् मीमांसकाः ॥ भूतलमात्रेति । तथा चाधिकरणातिरिक्ताभावो नास्तीति भावः ॥ घटवत्त्यपीति । नास्तीति प्रतीतेर्भूतलमात्रविषयत्वे घटवत्यपि भूतले घटो नास्तीति प्रतीतिः स्यात् । नास्तीति प्रतीतिविषयस्य भूतलस्य घटसत्तायामपि सद्भावादित्यर्थः । घटो नास्तीति प्रतीतिर्भूतलातिरिक्तविषया चेत् तर्हि तत्र पृच्छामः । नास्तीति प्रतीतिविषयभूतं भूतलातिरिक्तं वस्तु किं प्रतियोगिभूतो घट एव उत प्रतियोगिभिन्नं भावान्तरमिति । नाद्य इत्याह ॥ उक्तदोष इति । घटवत्यपि भूतले घटो नास्तीति प्रतीतिप्रसङ्ग इत्यर्थः । द्वितीयमाशङ्क्य निषेधति ॥ भावान्तरमिति । प्रतियोगिभिन्नमित्यर्थः ॥ रूपवतीति । गन्धो नास्तीति प्रतीतेः प्रतियोगिभूतगन्धभिन्नघटरूपाधिकरणभिन्नरूपाख्यभावान्तरविषयकत्वं स्यादित्यर्थः ॥ आत्माश्रयादीति । घटाभाववतीत्यत्र प्रष्टव्यम् । किं स्वविशिष्ट एव भूतले स्वयं सम्बध्यते किं वा भावान्तरेण विशिष्टे । नाद्यः । आत्माश्रयप्रसङ्गात् । स्वस्यैवाधाराधेयकोटिप्रविष्टत्वात् । न द्वितीयः। अन्योन्याश्रयादिप्रसङ्गादित्यर्थः ॥ भूतलमात्र इतीति । घटतदभावाभ्यामविशेषितमेव भूतलं घटाभावाधिकरणमिति वक्तव्यमित्यर्थः । तदेवेति । तथा च न तदतिरिक्तोऽभावोऽस्तीति भावः । घटाभावो घटाभाववति भूतले सम्बध्यते उत घटवतीति प्रश्नवाक्यस्य घटाभावसम्बद्धं भूतलं कीदृगिति लब्धोऽर्थः ।

तं विकल्प्य पृच्छति । प्रश्न एवायमिति । प्रश्नवाक्यार्थ एवेत्यर्थः । सम्बन्धसमय एवेति । घटाभावसम्बन्धसमय इत्यर्थः । इदं भूतलम् ॥ सघटमिति । अत्र सर्वत्र घटशब्देन घटसंसर्गो विवक्षितः । घटसंसर्गाभावस्य वक्ष्यमाणत्वात् ॥ घटाभाववदिति । अस्य च नास्तीति प्रतीतिविषयत्वाङ्गीकारे पर्यवसितं विवादेनेति भावः । न चात्माश्रयः । पूर्वमभाववति भूतले पश्चाद्यद्यभावः सम्बध्येत तदा परमात्माश्रयः । न चैवम् । अभावतत्सम्बन्धयोर्भूतलाश्रितत्वस्यैककालीनत्वात् । अत एव तयोरेककालीनत्वेनात्माश्रयपरिजिहीर्षया काल एव विकल्पितः ।

ननु तथाऽप्यभावसम्बन्धाधिकरणतावच्छेदकं किमिति प्रश्नाशय इति चेत् । अभाववद्भूतलत्वमेवेति वदामः । न चैवमात्माश्रयः । अभावस्य तटस्थतयैव व्यावर्तकतयाऽऽश्रयकोटावप्रवेशात् । यथा घटप्रागभावत्वादीनां घटकारणतावच्छेदकत्वेऽपि घटस्य तटस्थतया व्यावर्तकत्वेन न कारणकोटौ प्रवेशस्तथा प्रकृतेऽपीति न काप्यनुपपत्तिः । तथा चातिरिक्ताभावानङ्गीकारे अधिकरणस्योक्तरीत्याऽविषयत्वेन नास्तीति प्रतीतिर्निरालम्बना स्यादिति पूर्वोक्तमुपपन्नमेवेति तात्पर्यम् ॥ यदि विवेक इति । अभावादिदं विविच्येतेत्यत्र विवेको भेदो भूतलघटाभावरूपवस्तुकृत इत्यर्थः । भूतलं यदा भावाद्विविक्तं जातं तदा अभावसम्बन्धो नष्ट इति यावत् । तदा कीदृशं भूतलमिति प्रश्नार्थ इति भावः ॥ घटवदिति । घटसम्बन्धवदित्येवोत्तरमित्यर्थः ॥ बुद्धिकृत इति । विवेक इति वर्तते । यदा भूतले घटाभावो नास्तीति ज्ञायते तदा कीदृशं भूतलमिति प्रश्नस्य बुध्यैव घटप्रसक्तिमदित्युत्तरम् । तत्र प्रतियोग्यधिकरणसंसर्गज्ञानरूपघटप्रसक्त्यभावे घटाभावाभावज्ञानानु-पपत्तेरित्यर्थः ॥

अन्यथेति । अधिकरणातिरिक्ताभावानङ्गीकार इत्यर्थः । तत्रापि घटोऽस्तीति बुद्धेरपि अधिकरणभूतलमात्रविषयत्वस्य वक्तुं शक्यत्वात् । तथा घटो घटवति भूतले सम्बध्यते उत तदभाववतीति । नोक्तः । आत्माश्रयप्रसङ्गात् । न द्वितीयः । विरोधादित्येवं विकल्पदूषणयोश्च समत्वादिति भावः ॥ भावप्रतिक्षेप इति । भावपदार्थापलाप इत्यर्थः । किञ्च भूतलस्यैवाभावत्वे इह भूतले घटाभाव इत्याश्रयाश्रयिभावानुपपत्तिः । अभावस्य प्रतियोगिसापेक्षत्वानुपपत्तिश्चेत्यादिदूषणगणदुष्टोऽयं पक्षः । ग्रन्थबहुत्वं स्यादित्येवोपरम्यत इत्याशयेनाह ॥ इत्यास्तां विस्तर इति ॥

तत्वसङ्ख्यानटिप्पणम्

भावाभावविभागकथनानुपपत्तिं प्राभाकररीत्या शङ्कते ॥ अभाव एव नास्तीति ॥ अभाव एव यद्यनिष्पन्नस्वरूपस्तदा दूरे तद्धटितविभागकथनमिति विभागो न सम्भवतीत्यनेन सूचयति । परिहरति ॥ तदसदिति ॥ न हि वाङ्मात्रेणार्थसिद्धिरित्यतो हेतुमाह ॥ नास्तीति प्रतीतेरिति ॥ प्रतीतिर्या या सा सर्वापि सविषया । तथा च घटो नास्तीति प्रत्ययस्यापि विषयेण भाव्यम् । न च स नास्तीत्यपलापो युक्तः । अनुभवविरोधादिति भावः । प्रतीतिपदेन तद्विषयस्याभावस्योपलक्षणम् । तेनात्र घटो नास्तीति प्रतीतिविषयस्य तस्य दुरपलापत्वादित्यर्थ इत्यप्याहुः । न प्रतीत्यन्यथोपपत्त्या भावकल्पना युक्ता । सा चाधिकरणादिगोचराऽङ्गीकर्तुमुचितेत्याशङ्कते ॥ घटो नास्तीति प्रतीतिरिति ॥ अभावादेर्विषयत्वमनङ्गीकुर्वाणो भूतलस्यैव विषयत्वं वर्णयाम्बभूवेति मात्रपदव्यावर्त्याभावात्तद्वैयर्थ्यं विकल्पमुखेनाह ॥ मात्रेतीति ॥ मात्रान्तपदेनेत्यर्थः। भूतलमेव भूतलपदशक्यमेव । अतिरिक्तं भूतलपदवाच्यात् । सामग्रीसद्भावे प्रतीत्यभावानुपपत्तेर्घटवत्यपि भूतले भूतलस्य सत्त्वान्नास्ति घट इति प्रतीतिः स्यादित्यनिष्टं प्रथमपक्षे प्रसञ्जयति ॥ आद्य इति ॥ अतिरिक्तो भूतलाद्धट एव चेत् सत्यपि घटे नास्तीति प्रतीतिविषयस्य भूतलस्य सत्त्वान्नास्तीति प्रतीतिरवर्जनीयेत्यतिरिक्तो घट इति वक्तुं न युक्त इति वक्ति ॥ अतिरिक्त इति । उक्तो दोषो ऽतिप्रसङ्गरूपः । द्वितीयं कल्पं विकल्पयति ॥ भावान्तरं चेदिति ॥ प्रतियोगिभूताद्धटादन्यो भावश्चेदित्यर्थः । दोषमाविष्करोति ॥ रूपवतीति ॥ गन्धघटाभ्यां प्रतियोग्यधिकरणभूताभ्यां भिन्नस्य रूपरूपभावान्तरस्य विषयस्य सद्भावाद्गन्धो नास्तीति प्रतीतिः स्यादित्यर्थः । दोषप्रमोषाय यतते ॥ नन्विति ॥ घटप्रतियोगिकोऽभावो घटाभावः । सोऽस्यास्तीति घटाभाववद् भूतलम् । तस्मिन्सम्बध्यते वर्तते । अभावपदं ध्वंसपरम् । अथवा भावः सत्त्वम् । तदभावोऽसत्त्वं सम्बन्धाभाव इत्यर्थः । ततश्च घटैतद्भूतलसंसर्गाभाव उच्यते । यद्वा घटात्यन्ताभावो ऽभिनवगदाद्युक्तप्रकारेण प्रामाणिकप्रतियोगिको वर्तत इति परोक्तानुवादतया वा ग्राह्यः । अप्रामाणिकप्रतियोग्येव, नापि परोक्तानुवाद इति पक्षे पूर्वोक्तः संसर्गाभाव इति विवेको द्रष्टव्यः । उत घटवति सम्बध्यत इति वर्तते । सम्बध्यत इति न लडर्थविवक्षा । ततश्च विकल्पः सम्भवति । विशेषस्तु पाण्डुरङ्गीयैतद्व्याख्यानतोऽवगन्तव्यः । स्वसम्बद्धे भूतले वर्तत इति मनुषे चेत्स्वस्याश्रयकोटौ निविष्टतयाऽऽत्माश्रयः। स्वातिरिक्तैकाभावसम्बद्ध इति जानासि चेत् स्वातिरिक्ताभावः स्वसम्बद्धश्चेदात्माश्रयः । अथ स्वान्यैतदभावसम्बद्धश्चेत्परस्पराश्रयः । अभावत्रितयस्वीकारे चक्रकम् । अनवधिकाभावोररीकारेऽनवस्था च भवेयुरित्याह ॥ नाद्यः । आत्माश्रयादिप्रसङ्गादिति ॥ उत घटवतीति द्वितीयपक्षमधिक्षिपति ॥ न द्वितीय इति ॥ कुत इत्यत आह ॥ विरोधादिति ॥ तद्वति तदभावसम्बन्धो व्याघातान्नाङ्गीकारार्हः । परिशेषे सिद्धमाह ॥ अत इति ॥ अतः घटाभाववद्धटवदिति पक्षद्वयस्याप्यात्माश्रयादिविरोधाद्दुष्टत्वात् । वक्तव्यं त्वयेति शेषः । भूतलमात्र इति मात्रपदेन घटघटाभावाविशेषितं भूतलं ग्राह्यमिति सूचयति ॥ तदेवेति ॥ निषेधप्रक्रियां विकल्पमुखेनारभते ॥ नेति ॥ अयं प्रश्नः घटाभावः कुत्र सम्बध्यत इति प्रश्नः । तद्वाक्यम् । यद्वा प्रश्नः प्रश्नार्थः । विविच्यतां विव्रियताम् । विवरणप्रकारमेव विवृणोति ॥ यदीति ॥ अभावसम्बन्धाद् घटाभावसम्बन्धात् । क्वचिद्यदि घटाभाव सम्बन्धादिति पाठेऽर्थस्तु स्पष्टः ॥

यदि वेति ॥ सम्बन्धसमये अभावेन साकं सम्बन्धसमये । अभावाद् घटाभावात् । इदं भूतलम् । विविच्येत वियुज्येत । तदा तर्हि ॥ कीदृशं नाम स्यादितीति ॥ कीदृशं स्यान्नामेत्यन्वयः । विकल्पक्रमानुगुणमुत्तरक्रममाह ॥ आद्य इत्यादिना ॥ आद्ये घटाभावसम्बन्धात्प्राक्कीदृशमिति पक्षे । सघटं घटसम्बद्धम् । उत्तरं वाच्यमिति शेषः । उत्तरत्र उत्तरं वाच्यमित्यपि शेषः । द्वितीये सम्बन्धसमये कीदृशमिति पक्षे ॥ तृतीय इति ॥ यद्यभावादिदमित्यादितृतीये । विवेकः वियोगः । अभावनाशकृतस् तदाऽभावस्य नष्टत्वाद्धटसम्बद्धमिति । घटसंसर्गप्रागभावनाशस्य घटसंसर्गरूपत्वात् । बुद्धिकृतः विवेक इत्यनुवर्तते । बुध्यैवाङ्गीकृतः । तदा तर्हि । तयैव घटसंसर्गप्रतीतिमदित्युत्तरम् । नन्वभावः कुत्र सम्बध्यत इति प्रश्नार्थस्य लोकोक्तमुत्तरमस्तु । तथापि न घटाभावो घटाभाववति देशे तथाविधकाले वाऽस्ति । आत्माश्रयादिप्राप्तेः । नापि घटवति देशे काले वा । विरोधादिति पक्षद्वयेऽपि दोषसद्भावादित्यतिरिक्ताभाववादो न युज्यत इत्याशङ्कमानं प्रति विपक्षे बाधकमाह ॥ अन्यथेति ॥ अधिकरणभिन्नाभावानङ्गीकारे । भावप्रतिक्षेपः घटो भूतलदेशे घटवति तथाविधे काले वा वर्तत इति चेदात्माश्रयादिकम् । घटाभाववति चेद्विरोध इत्येवं घटादिभावप्रतिक्षेपोऽपि स्यादित्यतिप्रसङ्गो द्रष्टव्यः । यथैतत्परिहाराय यतसे तथाहमपि यते । यश्चोभयोः समो दोषः परिहारोऽपि वा सम इति दोषसाम्यमनेन दर्शयति । न हि पराङ्गन्यायेन दोषसाम्योपपादनमेव दोष इत्यतो यथा प्रामाणिकत्वाद्गुणानामपलापोऽयुक्तस्तथा मानसिद्धत्वादभावादीनामपलापो न युक्त इति ग्रन्थगौरवभीरव उपसंहरन्ति ॥ इतीति ॥ वक्तव्यं सर्वमर्थादुक्तमतो न शब्दतो विवरणं क्रियत इति विस्तरशब्दं प्रयुञ्जानः सूचयामासेति ज्ञेयम् ।

भावचन्द्रिका

तामेव विप्रतिपत्तिं दर्शयति अभाव एवेति । अभाववादिनाऽपि अधिकरणसापेक्षत्वमभ्युपगतमेव तथा च आवश्यकाधिकरणस्वरूपादेव अभावप्रतीतिव्यवहारयोर् अन्यथासिद्धेर् न अतिरिक्ताभावकल्पकमस्ति इत्यर्थः । न चैवम् ‘अधिकरणज्ञानस्यैव अभावगोचरत्वापत्त्या कथं घटाभावादिसंशयावकाशः ? इति वाच्यम् । अधिकरणज्ञानस्य वस्तुतो घटाभावगोचरत्वेऽपि तदप्रकारकत्वान् न तदभावसंशयविरोधित्वम् । समानप्रकारकनिश्चयस्यैव संशयविरोधित्वस्य सर्वसम्मतत्वादिति भावः ॥

नास्ति इति प्रतीतिरेव अभावं विना अनुपपद्यमानत्वात् तत्कल्पिका इति तत्कल्पकसद्भावाद् अभावोऽपि अङ्गीकार्य इत्याशयेन अनुपपत्तिं दर्शयति तदिति । एतेन अभावानङ्गीकारे प्रतीतिविरोधः स्याद् इत्युक्तं भवति ।

ननु न प्रतीतिविरोधः प्रतीतेर् अधिकरणमात्रविषयत्वेन उपपत्तेर् इति शङ्कते घटो नास्तीति । भूतलमात्रम्’ इत्यस्य हि ‘घटवद्भूतलं वा अर्थः’ इति न परेण वक्तुं शक्यम्, घटरहितत्वघटवदन्यत्वयोर् अभावगर्भतया तत्स्वीकारप्रसङ्गात् । किन्तु अन्य एव इति भावेन विकल्पं पृच्छति किमित्यादिना ॥ तथा च अत्र पक्षे भूतलमात्रशब्दो भूतलशब्दसमानार्थ एव इति भावः ॥ उतेति । मात्रशब्दस्य निरर्थकत्वभीत्या ‘भूतलमात्रम्’ इत्यस्य स्वातिरिक्तवस्तुविशिष्टभूतलम् इत्यर्थ इति भावः । आद्य इति । घटवद्भूतलस्यापि भूतलमात्रत्वात्, घटवत्यपि भूतले घटाभावधीः स्यादित्यर्थः ॥ उक्तो दोष इति । घटवति भूतले ‘घटो नास्ति’ इति प्रतीतिप्रसङ्गरूप इत्यर्थः । भावान्तरं चेदिति । भावविशिष्टे वस्तुनि अभावप्रतीतिर् इति न परेण अङ्गीकर्तुं शक्यम् । अभावस्वीकारप्रसङ्गात् । अतः मात्रशब्देन भावान्तरवैशिष्ट्यमेव वक्तव्यमित्यभिप्रायेण भावान्तरं चेदित्युक्तम् ।

ननु मात्र इति किं भूतलमेव उच्यते ? इत्यादिदूषणमयुक्तम् । स्वव्याहतत्वात् । अतिरिक्ताभाववादिनाऽपि त्वया अभावाधिकरणत्वेन भूतलमात्रस्य अवश्यं वाच्यत्वेन, तत्रापि उक्तदूषणप्रसरात् । ततश्च परमते अभावस्य अधिकरणं न सिध्येत् । तस्मात् परेणापि ‘भूतलमात्रम् अभावाधिकरणं’ वदता मात्रशब्दार्थः कश्चिदङ्गीकर्तव्य एव इति तस्यैव मयापि अङ्गीकारेण नास्ति इति प्रतीतेर् भूतलमात्रविषयत्वसम्भवान् न दोष इत्याशयेन स्वाभिमतमर्थं परेण अङ्गीकारयितुमाशङ्कते नन्विति ॥ आत्माश्रयादीति । ‘घटाभाववति’ इत्यत्र तेनैव अभावेन तद्वत्त्वं विवक्षितम् ? अभावान्तरेण वा ? आद्ये आत्माश्रयः । द्वितीये अभावान्तरमपि स्वेनैव तद्वति ? अभावान्तरेण वा ? इति । आद्ये तु आत्माश्रय एव । द्वितीयेऽपि किं प्रथमेन ? उत अपरेण ? आद्ये अन्योन्याश्रयः । द्वितीये अपरोऽपि प्रथमेन तद्वति चेत् तदा चक्रकम् । चतुर्थादिना चेत् तदा अनवस्था इत्यर्थः । ननु कथं घटाभाववद्भूतलस्य घटाभावाधिकरणत्वे आत्माश्रयादिप्रसङ्गः ? न च ‘यद्विशिष्टे यद्वर्तते तद्विशेषणेऽपि तदस्ति’ इति न्यायेन घटाभावेऽपि घटाभावसत्त्वापातेन आत्माश्रय इति वाच्यम् । दण्डविशिष्टे कुण्डलसत्तायामपि दण्डे कुण्डलस्य असत्त्वेन नियमासिद्धेः । अन्यथा तदपि स्याद् इति चेत् । न । भावानवबोधात् । यद्विशेषणाभावावच्छिन्नस्य यस्य यद्विशेषणाधारत्वमुपपद्यते तद्विशेषणे तद्विशेषणसत्तानियमाभावेऽपि यद्विशेषणाभावावच्छिन्नस्य यद्विशेषणाधारत्वं न सम्भवति तत्र तद्विशेषणे तद्विशेषणस्य सत्त्वं नियतमेव । व्यभिचाराभावात् । अस्ति च एतत् प्रकृते । घटाभावरूपविशेषणाभावावच्छिन्नघटवत्तया घटाभावरूपविशेषणवत्त्वासम्भवात् । ततश्च घटाभावरूपविशेषणे घटाभावरूपविशेषणसत्त्वे, अस्मिन् स्ववृत्त्या आत्माश्रयत्वं स्यादेव इति द्रष्टव्यम् । केचित्तु न वृत्तित्वमात्रमात्माश्रयः, प्रमेयत्वस्यापि तथात्वेन केवलान्वयित्वाभावापत्तेः । किन्तु स्वमात्रवृत्तित्वमेव । घटाभावस्य स्ववृत्तित्वे सति भूतलवृत्तित्वाङ्गीकारान् न स्वमात्रवृत्तित्वमिति आत्माश्रयोऽत्र दुर्निरूप एव । अतद्गुणसंविज्ञानबहुव्रीहिणा आदिपदोपात्तअन्योन्याश्रये एव च अस्य तात्पर्यमित्याहुः ।

विरोधादिति । घटवद्भूतलस्य घटाभावाधिकरणत्वं न सम्भवति, विरुद्धत्वादित्यर्थः । यद्यपि प्रागभावध्वंसाभावयोर् अस्ति प्रतियोगि सामानाधिकरण्यम्, तथापि न एककालिकं तद् इति एककालिकं सामानाधिकरण्यं विरुद्धमेव इति भावः ॥ अत्यन्ताभावमभिप्रेत्य इदमुक्तमित्याहुः ॥ प्रश्न एवायमिति । ननु ‘अभावः किं घटाभाववति सम्बध्यते ? घटवति वा? इति परेण प्रश्ने कृते कथं वक्ष्यमाणो विकल्पावकाशः ? ‘सम्बध्यते’ इति वर्तमानप्रयोगात् ‘घटाभावसम्बन्धकालीनं भूतलं कीदृशम् ?’ इत्यर्थस्यैव पर्यवसन्नत्वाद् इति चेत् । न । भावानाकलनात् । अत्र हि यत्र भूतले अभावः सम्बध्यते तद्भूतलं कीदृशम् ? इति प्रश्नाभिप्रायः । तत्र सम्बध्यते इति वर्तमानत्वविवक्षणात् सम्बध्यते इत्यस्य सम्बन्धवद् इत्येव अर्थः पर्यवसितो भवति । अभावसम्बन्धश्च तत्सत्तादशायामिव अभावसत्त्वदशायामपि प्रागभावादिरूपः सम्भवति इति युक्त एव विकल्पावसर इति ध्येयम् । वस्तुकृत इति । वस्तुना कृत इत्यर्थः । घटाभाववति भूतले घटानयनानन्तरमानीतेन घटाभावेन भूतलस्य अभावसम्बन्धसम्पादनाद् इति भावः ॥ बुद्धिकृत इति । बुध्या तर्कित इत्यर्थः । अन्यथेति । अतिरिक्ताभावानङ्गीकारे इत्यर्थः ॥ भावेति । तत्र ‘घटोऽस्ति’ इति बुद्धेः ‘घटो नास्ति’ इति बुद्धेरिव भूतलमात्रविषयत्वस्य, ‘घटवति घटः सम्बध्यते ? तदभाववति वा ?’ इतिप्रश्नस्य आत्माश्रयापत्त्यादिरूपतद्दूषणस्य च साम्यादिति भावः ।

उपसंहरति इतीति । ‘घटो नास्ति’ इति प्रतीतिविषयनिरूपणात्, अभावप्रतिक्षेपो न इत्यर्थः ॥ ‘नातिविस्तरम्’ इति प्रतिज्ञाविरोधपरिहाराय आह आस्तां विस्तर इति ॥

काशी टिप्पणी

तामेव विप्रतिपत्तिं प्रदर्श्य निरस्यति ॥ अभाव एवेति ॥ निषेधत्वेन प्रथमप्रतीतिविषयपदार्थ एव नास्ति, दूरे तस्य परतन्त्रप्रभेदत्वमित्यर्थः । अत्र किमभावः साधकाभावान्नोपेयते उत बाधकभावात् । नाद्य इत्याह ॥ नास्तीति ॥ भूतले घटो नास्तीत्यादिप्रतीतेरित्यर्थः । प्रतीतेर्भावविषयत्वान्नाभावसाधकत्वमित्याशङ्कते ॥ घटो नास्तीति ॥ भूतलमात्रविषयेत्यस्याधाराधेयभावेनेत्यादिः । तेन प्रतियोगितया घटविषयत्वेऽपि न क्षतिः । तथा च भूतलादेः प्रथममस्तीत्युपलभ्यमानत्वान्नोक्ताभावत्वमिति भावः ॥ भूतलमेवेति ॥ उक्तप्रतीतिविषयत्वेनेति शेषः । मात्रपदेन भूतलातिरिक्तसामान्यव्यवच्छेदादिति भावः ॥ उतातिरिक्तमिति ॥ मात्रशब्दस्याभावमात्रव्यवच्छेदकत्वेन तदतिरिक्तभावान्तरलाभादिति भावः ।

केचित्तु भूतलमात्रपदस्य भूतलपदपर्यायत्वं वा किञ्चिद्विशिष्टभूतलपरत्वं वेति विकल्पार्थं वर्णयन्ति ॥ घटवत्यपीति ॥ घटाविशिष्टभूतलेऽपि घटो नास्तीति प्रसङ्ग इत्यर्थः । अत्र घटसत्तादशायामपि भूतलस्वरूपाभावसत्वादिति भावः । ननु घटवति घटप्रतीतिरूपविरोधिसत्वान्न घटभावप्रतीतिप्रसङ्गः । न च घटभूतलयोर्वस्तुनोर्विरोधाभावान्न तत्प्रतीत्योरपि विरोध इति वाच्यम् । अस्ति नास्तीति प्रतीत्योर्विरोधस्यापह्नोतुमशक्यत्वादिति चेत्सत्यम् । तथापि विरोधिप्रतीत्यसत्त्वदशायामुक्तप्रसङ्गो दुर्वारः । न च तदानीं घटसन्निकर्ष एव विरोधीति वाच्यम् । घटाभावस्यापि सन्निकृष्टत्वेन घटप्रतीतेरप्यनुपपत्तेः । घटवति दोषाधीनघटाभावप्रतीतेः प्रमात्वापत्तेश्च । द्वितीयपक्षे किं प्रतियोग्येवाभावत्वेन प्रतीयते उत तदतिरिक्तभावान्तरम् । नाद्य इत्याह ॥ अतिरिक्तोऽपीति ॥ उक्तो दोषः घटवति घटाभावप्रतीतिप्रसङ्गरूपः । द्वितीयं निराचष्टे ॥ भावान्तरमिति ॥ धर्मिप्रतियोग्यतिरिक्तभाव इत्यर्थः ॥

रूपवतीति ॥ रूपस्य धर्मिप्रतियोग्यतिरिक्तत्वेन गन्धाभावत्वादिति भावः । घटे गन्धस्यावश्यम्भावान्नेष्टापत्तिरिति ध्येयम् । अत्र यद्यपि घटवति घटातिरिक्तरूपादिसत्वेन घटो नास्तीति प्रतीतिप्रसङ्ग एव सम्भवति । न च प्रतियोगिजातीयभावान्तरस्याभावधीविषयत्वोपगमान्नायं प्रसङ्गः । रूपादेरद्रव्यस्य घटविजातीयत्वादिति वाच्यम् । घटवति तदवयवकपालादेरेव सत्त्वात् । द्रव्यान्तरशून्ये घटाभावप्रतीत्यनुपपत्तेश्च । तथापि भावान्तरस्याभावरूपत्वे गन्धाभावस्य रूपादिस्वरूपत्वाच्चक्षुर्ग्राह्यत्वरूपदोषान्तरसूचनाय गन्धाभावानुधावनम् । न च गन्धवति भूतले घटाभावप्रतीत्यापादनेऽपि घटाभावस्य घ्राणग्राह्यत्वप्रसङ्गसूचनं सम्भवतीति वाच्यम् । तत्र चक्षुर्ग्राह्यरूपादेरेव घटाभावत्वोपगमेन निर्वाहादित्यवधेयम् । बाधकसद्भावान्नाभावसिद्धिरिति द्वितीयपक्षमाशङ्कते ॥ नन्विति ॥ आत्माश्रयादीति ॥ स्वस्यैव स्वधर्मिघटकत्व आत्माश्रयः । यदि धर्मभूताभावाद्धर्मिघटकाभावो भिन्नस्तदा तस्य धर्मभूताभाववत्येव सम्बन्धो वाच्य इत्यन्योन्याश्रयः । तद्धर्मिघटकाभावस्य ततोऽप्यतिरिक्तत्वे तत्सम्बन्धस्यैव प्रथमाभाववति वाच्यत्वाच्चक्रकम् । तत्तद्धर्मिघटकाभावपरम्परास्वीकारे चानवस्थेत्यर्थः । ननु कथमात्माश्रयः स्वोत्पत्तेः स्वोत्पत्त्यनपेक्षत्वात् । न च यत्र यद्विशिष्टवृत्तित्वं तत्र तद्विशेषणवृत्तित्वमिति व्याप्तेः स्वस्य स्ववृत्तित्वापत्तिरूपोऽयमात्त्माश्रय इति वाच्यम् । दण्डविशिष्टवृत्तिकुण्डले दण्डवृत्तित्वाभावेन व्यभिचारात् । न च यत्र यद्विशिष्टमात्रवृत्तित्वं तत्र तद्विशेषणवृत्तित्वमिति व्याप्तिः । वह्निविशिष्टमात्रवृत्तिधूमादौ पृथिवीत्वविशिष्टमात्रवृत्तिगन्धादौ च वह्निपृथिवीत्वादिवृत्तित्वाभावेन व्यभिचारात् । प्रमेयत्वादेरिव घटात्यन्ताभावादेरपि स्ववृत्तित्वस्य प्रामाणिकत्वेनादोषाच्च । यत्तु ‘‘अभावज्ञानस्य धर्मिज्ञानाधीनत्वेन ज्ञप्तावात्माश्रयः’’ इति । तन्न । घटाभाववति घटो नास्तीति ज्ञानस्य घटाभावज्ञानाधीनतायाः प्रामाणिकत्वात् । भूतले घटो नास्तीत्यादिज्ञानस्य च घटाभावज्ञानानपेक्षत्वात् । यत्तु ‘‘अतद्गुणसंविज्ञानबहुव्रीहिणा आत्माश्रयादिशब्देन अन्योन्याश्रयादिरेव विवक्षितः’’ इति । इति तदसत् । द्वयोः परस्परापेक्षाभावेन तदभावात् ।

उच्यते । विशिष्टसम्बन्धस्य विशेष्यविशेषणसम्बन्धाधीनत्वाद् घटाभावस्य घटाभावविशिष्टभूतलसम्बन्धो घटाभावभूतलसम्बन्धाधीनः । तथा च स्वनिष्ठतत्कालसम्बन्धस्य स्वनिष्ठतत्कालसम्बन्धाधीनत्व इव स्वनिष्ठतद्देशसम्बन्धस्य स्वनिष्ठतद्देशसम्बन्धाधीनत्वेऽप्यात्माश्रयो दुर्वार एव । घटाभावस्य भूतलसम्बन्धात्पूर्वं भूतलसम्बन्धासत्वेनेष्टापत्त्ययोगात् । न च विशिष्टसम्बन्धस्य विशेषणविशेष्यसम्बन्धात्पूर्वमसम्भवेऽपि केवलविशेष्यसम्बन्धसम्भवः । केवलभूतलादौ घटाभावस्य सम्बन्धानभ्युपगमेन विशिष्टसम्बन्धस्यैव वाच्यत्वादिति पूर्वपक्षाभिप्रायः ।

तदित्यस्य तर्हीत्यादिः । भूतलमात्रमित्यर्थः । घटवति घटाभावधीप्रसङ्गस्य, नियामकान्तराभावेन तद्वारणस्य च पक्षद्वयेऽपि साम्यादतिरिक्ताभावकल्पने गौरवमेव बाधकमित्याशयः । नन्वित्यादिप्रश्नवाक्यस्य षोढा व्याख्यानं सम्भवति । घटाभावः स्वसम्बन्धात्पूर्वं स्वसम्बन्धसमये स्वसम्बन्धानन्तरं वा यद्घटाभाववत्तत्र सम्बध्यते । किं वा स्वसम्बन्धात्पूर्वं स्वसम्बन्धसमये स्वसम्बन्धानन्तरं वा यद्घटवत्तत्र सम्बध्यते इति । एतेषां च फलतस्त्रिधैव प्रश्नपर्यवसानमित्याशयेन यथाश्रुतप्रश्नार्थं तावद्विकल्प्योत्तरमाह ॥ प्रश्न एवायमिति ॥ कीदृशं घटवद्घटाभाववद्वेत्यर्थः ॥ सघटमिति ॥ घटतदभावयोः कालभेदेन विरोधाभावादिति भावः ॥ घटाभाववदित्येवोत्तरमिति ॥ तावता स्वसम्बन्धाधीनत्वासिध्या आत्माश्रयाद्यनवकाशादिति भावः ।

विवेको विभागः । वस्तुकृतो वास्तवः । बुद्धिकृत आरोपितः । सत्यपि घटाभावे तदसत्वभ्रम इति यावत् ॥ बुध्येति ॥ घटाभावासत्वबुध्या घटारोप विषय इत्यर्थः । अत्राभावपदेन घटसंसर्गाभावो यथासम्भवं ग्राह्यः । ननु न वयमुक्तरीत्या वस्तुस्वरूपं पृच्छामः । येनोक्तबाधकपरिहारः स्यात् । अपि तु घटाभाववत्वे किं नियामकमिति । घटाभाव एव चेत्कथमात्माश्रयादिर्न स्यादतस्तत्कालविशिष्टतद्देशस्यैव नियामकत्वं वाच्यम् । तथा च तस्यैवाभावत्वसम्भवादतिरिक्ताभावकल्पने गौरवं दुर्वारमेवेत्यत आह ॥ अन्यथेति ॥ एवमभावप्रतिक्षेपे तथैव भावस्य घटादेः प्रतिक्षेपः स्यादित्यर्थः । तथा हि, घटवत्वे घटवत्वस्यैव प्रयोजकतायामात्माश्रयादिप्रसङ्गाद्देशविशेषादेरेव नियामकता वाच्या । तथा च तस्यैव घटबुद्धिविषयत्वसम्भवादतिरिक्तघटकल्पने गौरवम् । यदि च देशविशेषादेरननुगतत्वादनुगतेश्वरेच्छाविशेषस्यैव नियामकत्वं, तस्य चातीन्द्रियस्य घटादिबुद्धिविषयत्वायोगात् पृथक्प्रतीत्या च घटादिसिद्धिरित्युच्यते तदा तुल्यमभावेऽपि । तस्यापि प्राक्प्रध्वंससदात्वेन पृथक्प्रतीतेः । किं चासति सत्वाभावस्यासद्रूपत्वासम्भवादनन्ताधिकरणानामभावत्वकल्पनापेक्षया लाघवाच्चातिरिक्ताभावसिद्धिरित्याशयेनोक्तम् ॥ इत्यास्तां विस्तर इति ॥